This overlay will guide you through the buttons:

| |
|
अथ राजन्महाबाहुर्विचरन्स महीतले । हिमवद्वनमासाद्य परिचक्राम रावणः ॥ ७.१७.१ ॥
अथ राजन् महा-बाहुः विचरन् स मही-तले । हिमवत्-वनम् आसाद्य परिचक्राम रावणः ॥ ७।१७।१ ॥
atha rājan mahā-bāhuḥ vicaran sa mahī-tale . himavat-vanam āsādya paricakrāma rāvaṇaḥ .. 7.17.1 ..
तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् । आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव ॥ ७.१७.२ ॥
तत्र अपश्यत् स वै कन्याम् कृष्णाजिन-जटा-धराम् । आर्षेण विधिना युक्ताम् दीप्यन्तीम् देवताम् इव ॥ ७।१७।२ ॥
tatra apaśyat sa vai kanyām kṛṣṇājina-jaṭā-dharām . ārṣeṇa vidhinā yuktām dīpyantīm devatām iva .. 7.17.2 ..
स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् । काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ॥ ७.१७.३ ॥
स दृष्ट्वा रूप-सम्पन्नाम् कन्याम् ताम् सु महा-व्रताम् । काम-मोह-परीत-आत्मा पप्रच्छ प्रहसन् इव ॥ ७।१७।३ ॥
sa dṛṣṭvā rūpa-sampannām kanyām tām su mahā-vratām . kāma-moha-parīta-ātmā papraccha prahasan iva .. 7.17.3 ..
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते । नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया ॥ ७.१७.४ ॥
किम् इदम् वर्तसे भद्रे विरुद्धम् यौवनस्य ते । नहि युक्ता तव एतस्य रूपस्य एव प्रतिक्रिया ॥ ७।१७।४ ॥
kim idam vartase bhadre viruddham yauvanasya te . nahi yuktā tava etasya rūpasya eva pratikriyā .. 7.17.4 ..
रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् । न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ॥ ७.१७.५ ॥
रूपम् ते अनुपमम् भीरु काम-उन्माद-करम् नृणाम् । न युक्तम् तपसि स्थातुम् निर्गतः हि एष निर्णयः ॥ ७।१७।५ ॥
rūpam te anupamam bhīru kāma-unmāda-karam nṛṇām . na yuktam tapasi sthātum nirgataḥ hi eṣa nirṇayaḥ .. 7.17.5 ..
कस्यासि किमिदं भद्रे कश्च भर्ता वरानने । येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि ॥ ७.१७.६ ॥
कस्य असि किम् इदम् भद्रे कः च भर्ता वरानने । येन सम्भुज्यसे भीरु स नरः पुण्य-भाज् भुवि ॥ ७।१७।६ ॥
kasya asi kim idam bhadre kaḥ ca bhartā varānane . yena sambhujyase bhīru sa naraḥ puṇya-bhāj bhuvi .. 7.17.6 ..
पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः । एवमुक्ता तु सा कन्या रावणेन यशस्विनी ॥ ७.१७.७ ॥
पृच्छतः शंस मे सर्वम् कस्य हेतोः परिश्रमः । एवम् उक्ता तु सा कन्या रावणेन यशस्विनी ॥ ७।१७।७ ॥
pṛcchataḥ śaṃsa me sarvam kasya hetoḥ pariśramaḥ . evam uktā tu sā kanyā rāvaṇena yaśasvinī .. 7.17.7 ..
कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः । बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ॥ ७.१७.८ ॥
कुशध्वजः मम पिता ब्रह्मर्षिः अमित-प्रभः । बृहस्पति-सुतः श्रीमान् बुद्ध्या तुल्यः बृहस्पतेः ॥ ७।१७।८ ॥
kuśadhvajaḥ mama pitā brahmarṣiḥ amita-prabhaḥ . bṛhaspati-sutaḥ śrīmān buddhyā tulyaḥ bṛhaspateḥ .. 7.17.8 ..
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः । सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ॥ ७.१७.९ ॥
तस्य अहम् कुर्वतः नित्यम् वेद-अभ्यासम् महात्मनः । सम्भूय वाच्-मयी कन्या नाम्ना वेदवती स्मृता ॥ ७।१७।९ ॥
tasya aham kurvataḥ nityam veda-abhyāsam mahātmanaḥ . sambhūya vāc-mayī kanyā nāmnā vedavatī smṛtā .. 7.17.9 ..
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः । ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ॥ ७.१७.१० ॥
ततस् देवाः स गन्धर्वाः यक्ष-राक्षस-पन्नगाः । ते अपि गत्वा हि पितरम् वरणम् रोचयन्ति मे ॥ ७।१७।१० ॥
tatas devāḥ sa gandharvāḥ yakṣa-rākṣasa-pannagāḥ . te api gatvā hi pitaram varaṇam rocayanti me .. 7.17.10 ..
न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ । कारणं तद्वदिष्यामि निशाचर निशामय ॥ ७.१७.११ ॥
न च माम् स पिता तेभ्यः दत्तवान् राक्षस-ऋषभ । कारणम् तत् वदिष्यामि निशाचर निशामय ॥ ७।१७।११ ॥
na ca mām sa pitā tebhyaḥ dattavān rākṣasa-ṛṣabha . kāraṇam tat vadiṣyāmi niśācara niśāmaya .. 7.17.11 ..
पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः । अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥ ७.१७.१२ ॥
पितुः तु मम जामाता विष्णुः किल सुरेश्वरः । अभिप्रेतः त्रिलोक-ईशः तस्मात् न अन्यस्य मे पिता ॥ ७।१७।१२ ॥
pituḥ tu mama jāmātā viṣṇuḥ kila sureśvaraḥ . abhipretaḥ triloka-īśaḥ tasmāt na anyasya me pitā .. 7.17.12 ..
दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः । दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत् ॥ ७.१७.१३ ॥
दातुम् इच्छति तस्मै तु तत् श्रुत्वा बल-दर्पितः । दम्भुः नाम ततस् राजा दैत्यानाम् कुपितः अभवत् ॥ ७।१७।१३ ॥
dātum icchati tasmai tu tat śrutvā bala-darpitaḥ . dambhuḥ nāma tatas rājā daityānām kupitaḥ abhavat .. 7.17.13 ..
तेन रात्रौ शयानो मे पिता पापेन हिंसितः ॥ ७.१७.१४ ॥
तेन रात्रौ शयानः मे पिता पापेन हिंसितः ॥ ७।१७।१४ ॥
tena rātrau śayānaḥ me pitā pāpena hiṃsitaḥ .. 7.17.14 ..
ततो मे जननी दीना तच्छरीरं पितुर्मम । परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥ ७.१७.१५ ॥
ततस् मे जननी दीना तत् शरीरम् पितुः मम । परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥ ७।१७।१५ ॥
tatas me jananī dīnā tat śarīram pituḥ mama . pariṣvajya mahābhāgā praviṣṭā havyavāhanam .. 7.17.15 ..
ततो मनोरथं सत्यं पितुर्नारायणं प्रति । करोमीति तमेवाहं हृदयेन समुद्वहे ॥ ७.१७.१६ ॥
ततस् मनोरथम् सत्यम् पितुः नारायणम् प्रति । करोमि इति तम् एव अहम् हृदयेन समुद्वहे ॥ ७।१७।१६ ॥
tatas manoratham satyam pituḥ nārāyaṇam prati . karomi iti tam eva aham hṛdayena samudvahe .. 7.17.16 ..
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥ ७.१७.१७ ॥
इति प्रतिज्ञाम् आरुह्य चरामि विपुलम् तपः । एतत् ते सर्वम् आख्यातम् मया राक्षस-पुङ्गव ॥ ७।१७।१७ ॥
iti pratijñām āruhya carāmi vipulam tapaḥ . etat te sarvam ākhyātam mayā rākṣasa-puṅgava .. 7.17.17 ..
नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् । आश्रये नियमं घोरं नारायणपरीप्सया । विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ॥ ७.१७.१८ ॥
नारायणः मम पतिः न तु अन्यः पुरुषोत्तमात् । आश्रये नियमम् घोरम् नारायण-परीप्सया । विज्ञातः त्वम् हि मे राजन् गच्छ पौलस्त्य-नन्दन ॥ ७।१७।१८ ॥
nārāyaṇaḥ mama patiḥ na tu anyaḥ puruṣottamāt . āśraye niyamam ghoram nārāyaṇa-parīpsayā . vijñātaḥ tvam hi me rājan gaccha paulastya-nandana .. 7.17.18 ..
जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ॥ ७.१७.१९ ॥
जानामि तपसा सर्वम् त्रैलोक्ये यत् हि वर्तते ॥ ७।१७।१९ ॥
jānāmi tapasā sarvam trailokye yat hi vartate .. 7.17.19 ..
सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् । अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ ७.१७.२० ॥
सः अब्रवीत् रावणः भूयस् ताम् कन्याम् सु महा-व्रताम् । अवरुह्य विमान-अग्रात् कन्दर्प-शर-पीडितः ॥ ७।१७।२० ॥
saḥ abravīt rāvaṇaḥ bhūyas tām kanyām su mahā-vratām . avaruhya vimāna-agrāt kandarpa-śara-pīḍitaḥ .. 7.17.20 ..
अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी । वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः ॥ ७.१७.२१ ॥
अवलिप्ता असि सुश्रोणि यस्याः ते मतिः ईदृशी । वृद्धानाम् मृगशावाक्षि भ्राजते पुण्य-सञ्चयः ॥ ७।१७।२१ ॥
avaliptā asi suśroṇi yasyāḥ te matiḥ īdṛśī . vṛddhānām mṛgaśāvākṣi bhrājate puṇya-sañcayaḥ .. 7.17.21 ..
त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् । त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ॥ ७.१७.२२ ॥
त्वम् सर्वं गुण-सम्पन्ना न अर्हसे वक्तुम् ईदृशम् । त्रैलोक्य-सुन्दरी भीरु यौवनम् ते निवर्तते ॥ ७।१७।२२ ॥
tvam sarvaṃ guṇa-sampannā na arhase vaktum īdṛśam . trailokya-sundarī bhīru yauvanam te nivartate .. 7.17.22 ..
अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः । तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ॥ ७.१७.२३ ॥
अहम् लङ्का-पतिः भद्रे दशग्रीवः इति श्रुतः । तस्य मे भव भार्या त्वम् भुङ्क्ष्व भोगान् यथासुखम् ॥ ७।१७।२३ ॥
aham laṅkā-patiḥ bhadre daśagrīvaḥ iti śrutaḥ . tasya me bhava bhāryā tvam bhuṅkṣva bhogān yathāsukham .. 7.17.23 ..
कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे । वीर्येण तपसा चैव भोगेन च बलेन च ॥
कः च तावत् असौ यम् त्वम् विष्णुः इति अभिभाषसे । वीर्येण तपसा च एव भोगेन च बलेन च ॥
kaḥ ca tāvat asau yam tvam viṣṇuḥ iti abhibhāṣase . vīryeṇa tapasā ca eva bhogena ca balena ca ..
न मया स समो भद्रे यं त्वं कामयसे ऽङ्गने ॥ ७.१७.२४ ॥
न मया स समः भद्रे यम् त्वम् कामयसे अङ्गने ॥ ७।१७।२४ ॥
na mayā sa samaḥ bhadre yam tvam kāmayase aṅgane .. 7.17.24 ..
इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत् ॥ ७.१७.२५ ॥
इति उक्तवति तस्मिन् तु वेदवति अथ सा अब्रवीत् ॥ ७।१७।२५ ॥
iti uktavati tasmin tu vedavati atha sā abravīt .. 7.17.25 ..
वै भोगेन च बलेन च ॥ मा मैवमिति सा कन्या तमुवाच निशाचरम् । त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् । त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् ॥ ७.१७.२६ ॥
वै भोगेन च बलेन च ॥ मा मा एवम् इति सा कन्या तम् उवाच निशाचरम् । त्रैलोक्य-अधिपति विष्णुम् सर्व-लोक-नमस्कृतम् । त्वत् ऋते राक्षस-इन्द्र अन्यः कः अवमन्येत बुद्धिमान् ॥ ७।१७।२६ ॥
vai bhogena ca balena ca .. mā mā evam iti sā kanyā tam uvāca niśācaram . trailokya-adhipati viṣṇum sarva-loka-namaskṛtam . tvat ṛte rākṣasa-indra anyaḥ kaḥ avamanyeta buddhimān .. 7.17.26 ..
एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ॥ ७.१७.२७ ॥
एवम् उक्तः तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा कन्याम् कर-अग्रेण परामृशत् ॥ ७।१७।२७ ॥
evam uktaḥ tayā tatra vedavatyā niśācaraḥ . mūrdhajeṣu tadā kanyām kara-agreṇa parāmṛśat .. 7.17.27 ..
ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् । असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत् ॥ ७.१७.२८ ॥
ततस् वेदवती क्रुद्धा केशान् हस्तेन सा अच्छिनत् । असिः भूत्वा करः तस्याः केशान् छिन्नान् तदा अकरोत् ॥ ७।१७।२८ ॥
tatas vedavatī kruddhā keśān hastena sā acchinat . asiḥ bhūtvā karaḥ tasyāḥ keśān chinnān tadā akarot .. 7.17.28 ..
सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् । उवाचाग्निं समाधाय मरणाय कृतत्वरा ॥ ७.१७.२९ ॥
सा ज्वलन्ती इव रोषेण दहन्ती इव निशाचरम् । उवाच अग्निम् समाधाय मरणाय कृत-त्वरा ॥ ७।१७।२९ ॥
sā jvalantī iva roṣeṇa dahantī iva niśācaram . uvāca agnim samādhāya maraṇāya kṛta-tvarā .. 7.17.29 ..
धर्षितायास्त्वयानार्य न मे जीवितमिष्यते । रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ॥ ७.१७.३० ॥
धर्षितायाः त्वया अनार्य न मे जीवितम् इष्यते । रक्षः तस्मात् प्रवेक्ष्यामि पश्यतः ते हुताशनम् ॥ ७।१७।३० ॥
dharṣitāyāḥ tvayā anārya na me jīvitam iṣyate . rakṣaḥ tasmāt pravekṣyāmi paśyataḥ te hutāśanam .. 7.17.30 ..
यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने । तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ॥ ७.१७.३१ ॥
यस्मात् तु धर्षिता च अहम् त्वया पाप-आत्मना वने । तस्मात् तव वध-अर्थम् हि समुत्पत्स्ये हि अहम् पुनर् ॥ ७।१७।३१ ॥
yasmāt tu dharṣitā ca aham tvayā pāpa-ātmanā vane . tasmāt tava vadha-artham hi samutpatsye hi aham punar .. 7.17.31 ..
न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः । शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ॥ ७.१७.३२ ॥
न हि शक्यम् स्त्रिया हन्तुम् पुरुषः पाप-निश्चः । शापे त्वयि मया उत्सृष्टे तपसः च व्ययः भवेत् ॥ ७।१७।३२ ॥
na hi śakyam striyā hantum puruṣaḥ pāpa-niścaḥ . śāpe tvayi mayā utsṛṣṭe tapasaḥ ca vyayaḥ bhavet .. 7.17.32 ..
यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा । तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ॥ ७.१७.३३ ॥
यदि तु अस्ति मया किञ्चिद् कृतम् दत्तम् हुतम् तथा । तस्मात् तु अयोनिजा साध्वी भवेयम् धर्मिणः सुता ॥ ७।१७।३३ ॥
yadi tu asti mayā kiñcid kṛtam dattam hutam tathā . tasmāt tu ayonijā sādhvī bhaveyam dharmiṇaḥ sutā .. 7.17.33 ..
एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥ ७.१७.३४ ॥
एवम् उक्त्वा प्रविष्टा सा ज्वलितम् जातवेदसम् । पपात च दिवः दिव्या पुष्प-वृष्टिः समन्ततः ॥ ७।१७।३४ ॥
evam uktvā praviṣṭā sā jvalitam jātavedasam . papāta ca divaḥ divyā puṣpa-vṛṣṭiḥ samantataḥ .. 7.17.34 ..
पुनरेव समुद्भूता पद्मे पद्मसमप्रभा । तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ॥ ७.१७.३५ ॥
पुनर् एव समुद्भूता पद्मे पद्म-सम-प्रभा । तस्मात् अपि पुनर् प्राप्ता पूर्ववत् तेन रक्षसा ॥ ७।१७।३५ ॥
punar eva samudbhūtā padme padma-sama-prabhā . tasmāt api punar prāptā pūrvavat tena rakṣasā .. 7.17.35 ..
कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ । प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ॥ ७.१७.३६ ॥
कन्याम् कमल-गर्भ-आभाम् प्रगृह्य स्व-गृहम् ययौ । प्रगृह्य रावणः तु एताम् दर्शयामास मन्त्रिणे ॥ ७।१७।३६ ॥
kanyām kamala-garbha-ābhām pragṛhya sva-gṛham yayau . pragṛhya rāvaṇaḥ tu etām darśayāmāsa mantriṇe .. 7.17.36 ..
लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् । गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ॥ ७.१७.३७ ॥
लक्षण-ज्ञः निरीक्ष्य एव रावणम् च एवम् अब्रवीत् । गृहस्था एषाम् हि सु श्रोणी त्वद्-वधाय एव दृश्यते ॥ ७।१७।३७ ॥
lakṣaṇa-jñaḥ nirīkṣya eva rāvaṇam ca evam abravīt . gṛhasthā eṣām hi su śroṇī tvad-vadhāya eva dṛśyate .. 7.17.37 ..
एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः । सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ॥ ७.१७.३८ ॥
एतत् श्रुत्वा अर्णवे राम ताम् प्रचिक्षेप रावणः । सा च एव क्षितिम् आसाद्य यज्ञ-आयतन-मध्य-गा ॥ ७।१७।३८ ॥
etat śrutvā arṇave rāma tām pracikṣepa rāvaṇaḥ . sā ca eva kṣitim āsādya yajña-āyatana-madhya-gā .. 7.17.38 ..
राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती । सैषा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ॥ ७.१७.३९ ॥
राज्ञः हलमुखा उत्कृष्टा पुनर् अपि उत्थिता सती । सा एषा जनक-राजस्य प्रसूता तनया प्रभो । तव भार्या महा-बाहो विष्णुः त्वम् हि सनातनः ॥ ७।१७।३९ ॥
rājñaḥ halamukhā utkṛṣṭā punar api utthitā satī . sā eṣā janaka-rājasya prasūtā tanayā prabho . tava bhāryā mahā-bāho viṣṇuḥ tvam hi sanātanaḥ .. 7.17.39 ..
पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा । उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ॥ ७.१७.४० ॥
पूर्वम् क्रोध-आहितः शत्रुः यया असौ निहतः तथा । उपाश्रयित्वा शैलभः तव वीर्यम् अमानुषम् ॥ ७।१७।४० ॥
pūrvam krodha-āhitaḥ śatruḥ yayā asau nihataḥ tathā . upāśrayitvā śailabhaḥ tava vīryam amānuṣam .. 7.17.40 ..
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः । क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ॥ ७.१७.४१ ॥
एवम् एषा महाभागा मर्त्येषु उत्पत्स्यते पुनर् । क्षेत्रे हलमुख-उत्कृष्टे वेद्याम् अग्नि-शिखा-उपमा ॥ ७।१७।४१ ॥
evam eṣā mahābhāgā martyeṣu utpatsyate punar . kṣetre halamukha-utkṛṣṭe vedyām agni-śikhā-upamā .. 7.17.41 ..
एषा वेदवती नाम पूर्वमासीत्कृते युगे । त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ॥ ७.१७.४२ ॥
एषा वेदवती नाम पूर्वम् आसीत् कृते युगे । त्रेता-युगम् अनुप्राप्य वध-अर्थम् तस्य रक्षसः ॥ ७।१७।४२ ॥
eṣā vedavatī nāma pūrvam āsīt kṛte yuge . tretā-yugam anuprāpya vadha-artham tasya rakṣasaḥ .. 7.17.42 ..
उत्पन्ना मैथिलकुले जनकस्य महात्मनः । सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ॥ ७.१७.४३ ॥
उत्पन्नाः मैथिल-कुले जनकस्य महात्मनः । सीता उत्पन्ना तु सीता इति मानुषैः पुनर् उच्यते ॥ ७।१७।४३ ॥
utpannāḥ maithila-kule janakasya mahātmanaḥ . sītā utpannā tu sītā iti mānuṣaiḥ punar ucyate .. 7.17.43 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तदशः सर्गः ॥ १७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्तदशः सर्गः ॥ १७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptadaśaḥ sargaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In