This overlay will guide you through the buttons:

| |
|
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः । पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥ ७.१८.१ ॥
प्रविष्टायाम् हुताशम् तु वेदवत्याम् स रावणः । पुष्पकम् तु समारुह्य परिचक्राम मेदिनीम् ॥ ७।१८।१ ॥
praviṣṭāyām hutāśam tu vedavatyām sa rāvaṇaḥ . puṣpakam tu samāruhya paricakrāma medinīm .. 7.18.1 ..
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श स तु रावणः ॥ ७.१८.२ ॥
ततस् मरुत्तम् नृपतिम् यजन्तम् सह दैवतैः । उशीरबीजम् आसाद्य ददर्श स तु रावणः ॥ ७।१८।२ ॥
tatas maruttam nṛpatim yajantam saha daivataiḥ . uśīrabījam āsādya dadarśa sa tu rāvaṇaḥ .. 7.18.2 ..
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ ७.१८.३ ॥
संवर्तः नाम ब्रह्मर्षिः साक्षात् भ्राता बृहस्पतेः । याजयामास धर्म-ज्ञः सर्वैः देव-गणैः वृतः ॥ ७।१८।३ ॥
saṃvartaḥ nāma brahmarṣiḥ sākṣāt bhrātā bṛhaspateḥ . yājayāmāsa dharma-jñaḥ sarvaiḥ deva-gaṇaiḥ vṛtaḥ .. 7.18.3 ..
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥ ७.१८.४ ॥
दृष्ट्वा देवाः तु तत् रक्षः वर-दानेन दुर्जयम् । तिर्यग्योनिम् समाविष्टाः तस्य दर्शन-भीरवः ॥ ७।१८।४ ॥
dṛṣṭvā devāḥ tu tat rakṣaḥ vara-dānena durjayam . tiryagyonim samāviṣṭāḥ tasya darśana-bhīravaḥ .. 7.18.4 ..
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ॥ ७.१८.५ ॥
इन्द्रः मयूरः संवृत्तः धर्मराजः तु वायसः । कृकलासः धनाध्यक्षः हंसः च वरुणः अभवत् ॥ ७।१८।५ ॥
indraḥ mayūraḥ saṃvṛttaḥ dharmarājaḥ tu vāyasaḥ . kṛkalāsaḥ dhanādhyakṣaḥ haṃsaḥ ca varuṇaḥ abhavat .. 7.18.5 ..
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन । रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥ ७.१८.६ ॥
अन्येषु अपि गतेषु एवम् देवेषु अरि-निषूदन । रावणः प्राविशत् यज्ञम् सारमेयः इव अशुचिः ॥ ७।१८।६ ॥
anyeṣu api gateṣu evam deveṣu ari-niṣūdana . rāvaṇaḥ prāviśat yajñam sārameyaḥ iva aśuciḥ .. 7.18.6 ..
तं च राजानमासाद्य रावणो राक्षसाधिपः । प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ॥ ७.१८.७ ॥
तम् च राजानम् आसाद्य रावणः राक्षस-अधिपः । प्राह युद्धम् प्रयच्छ इति निर्जितः अस्मि इति वा वद ॥ ७।१८।७ ॥
tam ca rājānam āsādya rāvaṇaḥ rākṣasa-adhipaḥ . prāha yuddham prayaccha iti nirjitaḥ asmi iti vā vada .. 7.18.7 ..
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् । अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ ७.१८.८ ॥
ततस् मरुत्तः नृपतिः कः भवान् इति उवाच तम् । अपहासम् ततस् मुक्त्वा रावणः वाक्यम् अब्रवीत् ॥ ७।१८।८ ॥
tatas maruttaḥ nṛpatiḥ kaḥ bhavān iti uvāca tam . apahāsam tatas muktvā rāvaṇaḥ vākyam abravīt .. 7.18.8 ..
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव । धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ ७.१८.९ ॥
अकुतूहल-भावेन प्रीतः अस्मि तव पार्थिव । धनदस्य अनुजम् यः माम् न अवगच्छसि रावणम् ॥ ७।१८।९ ॥
akutūhala-bhāvena prītaḥ asmi tava pārthiva . dhanadasya anujam yaḥ mām na avagacchasi rāvaṇam .. 7.18.9 ..
त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम् । ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ ७.१८.१० ॥
त्रिषु लोकेषु कः अन्यः अस्ति यः न जानाति मे बलम् । भ्रातरम् येन निर्जित्य विमानम् इदम् आहृतम् । ततस् मरुत्तः स नृपः तम् रावणम् अथ अब्रवीत् ॥ ७।१८।१० ॥
triṣu lokeṣu kaḥ anyaḥ asti yaḥ na jānāti me balam . bhrātaram yena nirjitya vimānam idam āhṛtam . tatas maruttaḥ sa nṛpaḥ tam rāvaṇam atha abravīt .. 7.18.10 ..
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः । न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ॥ ७.१८.११ ॥
धन्यः खलु भवान् येन ज्येष्ठः भ्राता रणे जितः । न त्वया सदृशः श्लाध्यः त्रिषु लोकेषु विद्यते ॥ ७।१८।११ ॥
dhanyaḥ khalu bhavān yena jyeṣṭhaḥ bhrātā raṇe jitaḥ . na tvayā sadṛśaḥ ślādhyaḥ triṣu lokeṣu vidyate .. 7.18.11 ..
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् । कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ॥ ७.१८.१२ ॥
न अधर्म-सहितम् श्लाध्यम् तत् लोकम् प्रतिसंहितम् । कर्म दौरात्म्यकम् कृत्वा श्लाघ्यसे भ्रातृ-निर्जयात् ॥ ७।१८।१२ ॥
na adharma-sahitam ślādhyam tat lokam pratisaṃhitam . karma daurātmyakam kṛtvā ślāghyase bhrātṛ-nirjayāt .. 7.18.12 ..
क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् । श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ॥ ७.१८.१३ ॥
क त्वम् प्राक् केवलम् धर्मम् चरित्वा लब्धवान् वरम् । श्रूत-पूर्वम् हि न मया भाषसे यादृशम् स्वयम् ॥ ७।१८।१३ ॥
ka tvam prāk kevalam dharmam caritvā labdhavān varam . śrūta-pūrvam hi na mayā bhāṣase yādṛśam svayam .. 7.18.13 ..
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते । अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ ७.१८.१४ ॥
तिष्ठ इदानीम् न मे जीवन् प्रतियास्यसि दुर्मते । अद्य त्वाम् निशितैः बाणैः प्रेषयामि यम-क्षयम् ॥ ७।१८।१४ ॥
tiṣṭha idānīm na me jīvan pratiyāsyasi durmate . adya tvām niśitaiḥ bāṇaiḥ preṣayāmi yama-kṣayam .. 7.18.14 ..
ततः शरासनं गृह्य सायकांश्च नराधिपः । रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ॥ ७.१८.१५ ॥
ततस् शरासनम् गृह्य सायकान् च नराधिपः । रणाय निर्ययौ क्रुद्धः संवर्तः मार्गम् आवृणोत् ॥ ७।१८।१५ ॥
tatas śarāsanam gṛhya sāyakān ca narādhipaḥ . raṇāya niryayau kruddhaḥ saṃvartaḥ mārgam āvṛṇot .. 7.18.15 ..
सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः । श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ॥ ७.१८.१६ ॥
सः अब्रवीत् स्नेह-संयुक्तम् मरुत्तम् तम् महान् ऋषिः । श्रोतव्यम् यदि मद्-वाक्यम् सम्प्रहारः न ते क्षमः ॥ ७।१८।१६ ॥
saḥ abravīt sneha-saṃyuktam maruttam tam mahān ṛṣiḥ . śrotavyam yadi mad-vākyam samprahāraḥ na te kṣamaḥ .. 7.18.16 ..
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ॥ ७.१८.१७ ॥
माहेश्वरम् इदम् सत्रम् असमाप्तम् कुलम् दहेत् ॥ ७।१८।१७ ॥
māheśvaram idam satram asamāptam kulam dahet .. 7.18.17 ..
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः । संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥ ७.१८.१८ ॥
दीक्षितस्य कुतस् युद्धम् क्रोधि-त्वम् दीक्षिते कुतस् । संशयः च जये नित्यम् राक्षसः च सु दुर्जयः ॥ ७।१८।१८ ॥
dīkṣitasya kutas yuddham krodhi-tvam dīkṣite kutas . saṃśayaḥ ca jaye nityam rākṣasaḥ ca su durjayaḥ .. 7.18.18 ..
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ॥ ७.१८.१९ ॥
स निवृत्तः गुरोः वाक्यात् मरुत्तः पृथिवीपतिः । विसृज्य स शरम् चापम् स्वस्थः मख-मुखः अभवत् ॥ ७।१८।१९ ॥
sa nivṛttaḥ guroḥ vākyāt maruttaḥ pṛthivīpatiḥ . visṛjya sa śaram cāpam svasthaḥ makha-mukhaḥ abhavat .. 7.18.19 ..
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः । रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ॥ ७.१८.२० ॥
ततस् तम् निर्जितम् मत्वा घोषयामास वै शुकः । रावणः जयति इति उच्चैस् हर्षात् नादम् विमुक्तवान् ॥ ७।१८।२० ॥
tatas tam nirjitam matvā ghoṣayāmāsa vai śukaḥ . rāvaṇaḥ jayati iti uccais harṣāt nādam vimuktavān .. 7.18.20 ..
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् । वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ॥ ७.१८.२१ ॥
तान् भक्षयित्वा तत्रस्थान् महा-ऋषीन् यज्ञम् आगतान् । वितृप्तः रुधिरैः तेषाम् पुनर् सम्प्रययौ महीम् ॥ ७।१८।२१ ॥
tān bhakṣayitvā tatrasthān mahā-ṛṣīn yajñam āgatān . vitṛptaḥ rudhiraiḥ teṣām punar samprayayau mahīm .. 7.18.21 ..
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ॥ ७.१८.२२ ॥
रावणे तु गते देवाः स इन्द्राः च एव दिवौकसः । ततस् स्वाम् योनिम् आसाद्य तानि सत्त्वानि च ब्रुवन् ॥ ७।१८।२२ ॥
rāvaṇe tu gate devāḥ sa indrāḥ ca eva divaukasaḥ . tatas svām yonim āsādya tāni sattvāni ca bruvan .. 7.18.22 ..
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ ७.१८.२३ ॥
हर्षात् तदा ब्रवीत् इन्द्रः मयूरम् नील-बर्हिणम् । प्रीतः अस्मि तव धर्म-ज्ञ भुजङ्गात् हि न ते भयम् ॥ ७।१८।२३ ॥
harṣāt tadā bravīt indraḥ mayūram nīla-barhiṇam . prītaḥ asmi tava dharma-jña bhujaṅgāt hi na te bhayam .. 7.18.23 ..
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति । वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् । एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ ७.१८.२४ ॥
इदम् नेत्र-सहस्रम् तु यत् त्वद्-बर्हे भविष्यति । वर्षमाणे मयि मुदम् प्राप्स्यसे प्रीति-लक्षणाम् । एवम् इन्द्रः वरम् प्रादात् मयूरस्य सुरेश्वरः ॥ ७।१८।२४ ॥
idam netra-sahasram tu yat tvad-barhe bhaviṣyati . varṣamāṇe mayi mudam prāpsyase prīti-lakṣaṇām . evam indraḥ varam prādāt mayūrasya sureśvaraḥ .. 7.18.24 ..
नीलाः किल पुरा बर्हा मयूराणां नराधिप । सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ॥ ७.१८.२५ ॥
नीलाः किल पुरा बर्हाः मयूराणाम् नराधिप । सुराधिपात् वरम् प्राप्य गताः सर्वे अपि बर्हिणः ॥ ७।१८।२५ ॥
nīlāḥ kila purā barhāḥ mayūrāṇām narādhipa . surādhipāt varam prāpya gatāḥ sarve api barhiṇaḥ .. 7.18.25 ..
धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् । पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ॥ ७.१८.२६ ॥
धर्मराजः अब्रवीत् राम प्राच्-वंशे वायसम् स्थितम् । पक्षिन् तव अस्मि सु प्रीतः प्रीतस्य वचनम् शृणु ॥ ७।१८।२६ ॥
dharmarājaḥ abravīt rāma prāc-vaṃśe vāyasam sthitam . pakṣin tava asmi su prītaḥ prītasya vacanam śṛṇu .. 7.18.26 ..
यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया । ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥ ७.१८.२७ ॥
यथा अन्ये विविधैः रोगैः; पीड्यन्ते प्राणिनः मया । ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥ ७।१८।२७ ॥
yathā anye vividhaiḥ rogaiḥ; pīḍyante prāṇinaḥ mayā . te na te prabhaviṣyanti mayi prīte na saṃśayaḥ .. 7.18.27 ..
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम । यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥ ७.१८.२८ ॥
मृत्युतः ते भयम् ना अस्ति वरात् मम विहङ्गम । यावत् त्वाम् न वधिष्यन्ति नराः तावत् भविष्यसि ॥ ७।१८।२८ ॥
mṛtyutaḥ te bhayam nā asti varāt mama vihaṅgama . yāvat tvām na vadhiṣyanti narāḥ tāvat bhaviṣyasi .. 7.18.28 ..
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः । त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥ ७.१८.२९ ॥
एते मद्-विषय-स्थाः वै मानवाः क्षुध्-भय-अर्दिताः । त्वयि भुक्ते तु तृप्ताः ते भविष्यन्ति स बान्धवाः ॥ ७।१८।२९ ॥
ete mad-viṣaya-sthāḥ vai mānavāḥ kṣudh-bhaya-arditāḥ . tvayi bhukte tu tṛptāḥ te bhaviṣyanti sa bāndhavāḥ .. 7.18.29 ..
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् । श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ ७.१८.३० ॥
वरुणः तु अब्रवीत् हंसम् गङ्गा-तोय-विहारिणम् । श्रूयताम् प्रीति-संयुक्तम् वचः पत्ररथ-ईश्वर ॥ ७।१८।३० ॥
varuṇaḥ tu abravīt haṃsam gaṅgā-toya-vihāriṇam . śrūyatām prīti-saṃyuktam vacaḥ patraratha-īśvara .. 7.18.30 ..
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः । भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥ ७.१८.३१ ॥
वर्णः मनोहरः सौम्यः चन्द्र-मण्डल-सन्निभः । भविष्यति तव उदग्रः शुद्ध-फेन-सम-प्रभः ॥ ७।१८।३१ ॥
varṇaḥ manoharaḥ saumyaḥ candra-maṇḍala-sannibhaḥ . bhaviṣyati tava udagraḥ śuddha-phena-sama-prabhaḥ .. 7.18.31 ..
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि । प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ॥ ७.१८.३२ ॥
मद्-शरीरम् समासाद्य कान्तः नित्यम् भविष्यसि । प्राप्स्यसे च अतुलाम् प्रीतिम् एतत् मे प्रीति-लक्षणम् ॥ ७।१८।३२ ॥
mad-śarīram samāsādya kāntaḥ nityam bhaviṣyasi . prāpsyase ca atulām prītim etat me prīti-lakṣaṇam .. 7.18.32 ..
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः । पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ ७.१८.३३ ॥
हंसानाम् हि पुरा राम नील-वर्णः स पाण्डुरः । पक्षाः नील-अग्र-संवीताः क्रोडाः शष्प-अग्र-निर्मलाः ॥ ७।१८।३३ ॥
haṃsānām hi purā rāma nīla-varṇaḥ sa pāṇḍuraḥ . pakṣāḥ nīla-agra-saṃvītāḥ kroḍāḥ śaṣpa-agra-nirmalāḥ .. 7.18.33 ..
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् । हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥ ७.१८.३४ ॥
अथ अब्रवीत् वैश्रवणः कृकलासम् गिरौ स्थितम् । हैरण्यम् सम्प्रयच्छामि वर्णम् प्रीतः तव अपि अहम् ॥ ७।१८।३४ ॥
atha abravīt vaiśravaṇaḥ kṛkalāsam girau sthitam . hairaṇyam samprayacchāmi varṇam prītaḥ tava api aham .. 7.18.34 ..
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् । एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥ ७.१८.३५ ॥
स द्रव्यम् च शिरः नित्यम् भविष्यति तव अक्षयम् । एष काञ्चनकः वर्णः मद्-प्रीत्या ते भविष्यति ॥ ७।१८।३५ ॥
sa dravyam ca śiraḥ nityam bhaviṣyati tava akṣayam . eṣa kāñcanakaḥ varṇaḥ mad-prītyā te bhaviṣyati .. 7.18.35 ..
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः । निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ॥ ७.१८.३६ ॥
एवम् दत्त्वा वरान् तेभ्यः तस्मिन् यज्ञ-उत्सवे सुराः । निवृत्ताः सह राज्ञा ते पुनर् स्व-भवनम् गताः ॥ ७।१८।३६ ॥
evam dattvā varān tebhyaḥ tasmin yajña-utsave surāḥ . nivṛttāḥ saha rājñā te punar sva-bhavanam gatāḥ .. 7.18.36 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टादशः सर्गः ॥ १८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टादशः सर्गः ॥ १८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭādaśaḥ sargaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In