This overlay will guide you through the buttons:

| |
|
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः । नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ ७.१९.१ ॥
अथ जित्वा मरुत्तम् स प्रययौ राक्षस-अधिपः । नगराणि नरेन्द्राणाम् युद्ध-काङ्क्षी दशाननः ॥ ७।१९।१ ॥
atha jitvā maruttam sa prayayau rākṣasa-adhipaḥ . nagarāṇi narendrāṇām yuddha-kāṅkṣī daśānanaḥ .. 7.19.1 ..
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् । अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ ७.१९.२ ॥
समासाद्य तु राज-इन्द्रान् महा-इन्द्र-वरुण-उपमान् । अब्रवीत् राक्षस-इन्द्रः तु युद्धम् मे दीयताम् इति ॥ ७।१९।२ ॥
samāsādya tu rāja-indrān mahā-indra-varuṇa-upamān . abravīt rākṣasa-indraḥ tu yuddham me dīyatām iti .. 7.19.2 ..
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः । अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥ ७.१९.३ ॥
निर्जिताः स्म इति वा ब्रूत एष मे हि सु निश्चयः । अन्यथा कुर्वताम् एवम् मोक्षः ना एवा उपपद्यते ॥ ७।१९।३ ॥
nirjitāḥ sma iti vā brūta eṣa me hi su niścayaḥ . anyathā kurvatām evam mokṣaḥ nā evā upapadyate .. 7.19.3 ..
ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः । मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः । निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥ ७.१९.४ ॥
ततस् तु अभीरवः प्राज्ञाः पार्थिवाः धर्म-निश्चयाः । मन्त्रयित्वा ततस् अन्योन्यम् राजानः सु महा-बलाः । निर्जिताः स्म इति अभाषन्त ज्ञात्वा वर-बलम् रिपोः ॥ ७।१९।४ ॥
tatas tu abhīravaḥ prājñāḥ pārthivāḥ dharma-niścayāḥ . mantrayitvā tatas anyonyam rājānaḥ su mahā-balāḥ . nirjitāḥ sma iti abhāṣanta jñātvā vara-balam ripoḥ .. 7.19.4 ..
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः । एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥ ७.१९.५ ॥
दुष्यन्तः सुरथः गाधिः गयः राजा पुरूरवाः । एते सर्वे अब्रुवन् तात निर्जिताः स्म इति पार्थिवाः ॥ ७।१९।५ ॥
duṣyantaḥ surathaḥ gādhiḥ gayaḥ rājā purūravāḥ . ete sarve abruvan tāta nirjitāḥ sma iti pārthivāḥ .. 7.19.5 ..
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ॥ ७.१९.६ ॥
अथ अयोध्याम् समासाद्य रावणः राक्षस-अधिपः ॥ ७।१९।६ ॥
atha ayodhyām samāsādya rāvaṇaḥ rākṣasa-adhipaḥ .. 7.19.6 ..
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् । स तं पुरुषशार्दूलं पुरन्दरसमं बले ॥ ७.१९.७ ॥
सु गुप्ताम् अनरण्येन शक्रेण इव अमरावतीम् । स तम् पुरुष-शार्दूलम् पुरन्दर-समम् बले ॥ ७।१९।७ ॥
su guptām anaraṇyena śakreṇa iva amarāvatīm . sa tam puruṣa-śārdūlam purandara-samam bale .. 7.19.7 ..
प्राह राजानमासाद्य युद्धं देहीति रावणः । निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥ ७.१९.८ ॥
प्राह राजानम् आसाद्य युद्धम् देहि इति रावणः । निर्जितः अस्मि इति वा ब्रूहि त्वम् एवम् मम शासनम् ॥ ७।१९।८ ॥
prāha rājānam āsādya yuddham dehi iti rāvaṇaḥ . nirjitaḥ asmi iti vā brūhi tvam evam mama śāsanam .. 7.19.8 ..
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः । अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥ ७.१९.९ ॥
अयोध्या-अधिपतिः तस्य श्रुत्वा पाप-आत्मनः वचः । अनरण्यः तु सङ्क्रुद्धः राक्षस-इन्द्रम् अथ अब्रवीत् ॥ ७।१९।९ ॥
ayodhyā-adhipatiḥ tasya śrutvā pāpa-ātmanaḥ vacaḥ . anaraṇyaḥ tu saṅkruddhaḥ rākṣasa-indram atha abravīt .. 7.19.9 ..
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया । सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥ ७.१९.१० ॥
दीयते द्वन्द्व-युद्धम् ते राक्षस-अधिपते मया । सन्तिष्ठ क्षिप्रम् आयत्तः भव च एवम् भवामि अहम् ॥ ७।१९।१० ॥
dīyate dvandva-yuddham te rākṣasa-adhipate mayā . santiṣṭha kṣipram āyattaḥ bhava ca evam bhavāmi aham .. 7.19.10 ..
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् । निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥ ७.१९.११ ॥
अथ पूर्वम् श्रुत-अर्थेन निर्जितम् सु महत् बलम् । निष्क्रामत् तत् नरेन्द्रस्य बलम् रक्षः-वध-उद्यतम् ॥ ७।१९।११ ॥
atha pūrvam śruta-arthena nirjitam su mahat balam . niṣkrāmat tat narendrasya balam rakṣaḥ-vadha-udyatam .. 7.19.11 ..
नागानां दशसाहस्रं वाजिनां नियुतं तथा । रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ॥ ७.१९.१२ ॥
नागानाम् दश-साहस्रम् वाजिनाम् नियुतम् तथा । रथानाम् बहु-साहस्रम् पत्तीनाम् च नरोत्तम ॥ ७।१९।१२ ॥
nāgānām daśa-sāhasram vājinām niyutam tathā . rathānām bahu-sāhasram pattīnām ca narottama .. 7.19.12 ..
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे । ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ॥ ७.१९.१३ ॥
महीम् सञ्छाद्य निष्क्रान्तम् स पदाति-रथम् रणे । ततस् प्रवृत्तम् सु महत् युद्धम् युद्ध-विशारद ॥ ७।१९।१३ ॥
mahīm sañchādya niṣkrāntam sa padāti-ratham raṇe . tatas pravṛttam su mahat yuddham yuddha-viśārada .. 7.19.13 ..
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् । तद्रावणबलं प्राप्य बलं तस्य महीपतेः ॥ ७.१९.१४ ॥
अनरण्यस्य नृपते राक्षस-इन्द्रस्य च अद्भुतम् । तत् रावण-बलम् प्राप्य बलम् तस्य महीपतेः ॥ ७।१९।१४ ॥
anaraṇyasya nṛpate rākṣasa-indrasya ca adbhutam . tat rāvaṇa-balam prāpya balam tasya mahīpateḥ .. 7.19.14 ..
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले । युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ॥ ७.१९.१५ ॥
प्राणश्यत तदा सर्वम् हव्यम् हुतम् इव अनले । युद्ध्वा च सु चिरम् कालम् कृत्वा विक्रमम् उत्तमम् ॥ ७।१९।१५ ॥
prāṇaśyata tadā sarvam havyam hutam iva anale . yuddhvā ca su ciram kālam kṛtvā vikramam uttamam .. 7.19.15 ..
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् । प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् । नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥ ७.१९.१६ ॥
प्रज्वलन्तम् तम् आसाद्य क्षिप्रम् एव अवशेषितम् । प्राविशत् सङ्कुलम् तत्र शलभाः इव पावकम् । नश्यति स्म बलम् तत्र हव्यम् हुतम् इव अनले ॥ ७।१९।१६ ॥
prajvalantam tam āsādya kṣipram eva avaśeṣitam . prāviśat saṅkulam tatra śalabhāḥ iva pāvakam . naśyati sma balam tatra havyam hutam iva anale .. 7.19.16 ..
सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् । महार्णवं समासाद्य वनापगशतं यथा ॥ ७.१९.१७ ॥
सः अपश्यत् तत् नरेन्द्रः तु नश्यमानम् महा-बलम् । महा-अर्णवम् समासाद्य वन-आपग-शतम् यथा ॥ ७।१९।१७ ॥
saḥ apaśyat tat narendraḥ tu naśyamānam mahā-balam . mahā-arṇavam samāsādya vana-āpaga-śatam yathā .. 7.19.17 ..
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् । आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥ ७.१९.१८ ॥
ततस् शक्रधनुः-प्रख्यम् धनुः विस्फारयन् स्वयम् । आससाद नरेन्द्रः तम् रावणम् क्रोध-मूर्च्छितः ॥ ७।१९।१८ ॥
tatas śakradhanuḥ-prakhyam dhanuḥ visphārayan svayam . āsasāda narendraḥ tam rāvaṇam krodha-mūrcchitaḥ .. 7.19.18 ..
अनरण्येन ते ऽमात्या मारीचशुकसारणाः । प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥ ७.१९.१९ ॥
अनरण्येन ते अमात्याः मारीच-शुक-सारणाः । प्रहस्त-सहिताः भग्नाः व्यद्रवन्त मृगाः इव ॥ ७।१९।१९ ॥
anaraṇyena te amātyāḥ mārīca-śuka-sāraṇāḥ . prahasta-sahitāḥ bhagnāḥ vyadravanta mṛgāḥ iva .. 7.19.19 ..
ततो बाणशतान्यष्टौ पातयामास मूर्धनि । तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ ७.१९.२० ॥
ततस् बाण-शतानि अष्टौ पातयामास मूर्धनि । तस्य राक्षस-राजस्य इक्ष्वाकु-कुल-नन्दनः ॥ ७।१९।२० ॥
tatas bāṇa-śatāni aṣṭau pātayāmāsa mūrdhani . tasya rākṣasa-rājasya ikṣvāku-kula-nandanaḥ .. 7.19.20 ..
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् । वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥ ७.१९.२१ ॥
तस्य बाणाः पतन्तः ते चक्रिरे न क्षतम् क्वचिद् । वारि-धाराः इव अभ्रेभ्यः पतन्त्यः गिरि-मूर्धनि ॥ ७।१९।२१ ॥
tasya bāṇāḥ patantaḥ te cakrire na kṣatam kvacid . vāri-dhārāḥ iva abhrebhyaḥ patantyaḥ giri-mūrdhani .. 7.19.21 ..
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा । तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ॥ ७.१९.२२ ॥
ततस् राक्षस-राजेन क्रुद्धेन नृपतिः तदा । तलेन अभिहतः मूर्ध्नि स रथात् निपपात ह ॥ ७।१९।२२ ॥
tatas rākṣasa-rājena kruddhena nṛpatiḥ tadā . talena abhihataḥ mūrdhni sa rathāt nipapāta ha .. 7.19.22 ..
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः । वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥ ७.१९.२३ ॥
स राजा पतितः भूमौ विह्वल-अङ्गः प्रवेपितः । वज्र-दग्धः इव अरण्ये सालः निपतितः यथा ॥ ७।१९।२३ ॥
sa rājā patitaḥ bhūmau vihvala-aṅgaḥ pravepitaḥ . vajra-dagdhaḥ iva araṇye sālaḥ nipatitaḥ yathā .. 7.19.23 ..
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् । किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ॥ ७.१९.२४ ॥
तम् प्रहस्य अब्रवीत् द्रक्षः इक्ष्वाकुम् पृथिवीपतिम् । किम् इदानीम् फलम् प्राप्तम् त्वया माम् प्रति युद्ध्यता ॥ ७।१९।२४ ॥
tam prahasya abravīt drakṣaḥ ikṣvākum pṛthivīpatim . kim idānīm phalam prāptam tvayā mām prati yuddhyatā .. 7.19.24 ..
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप । शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ॥ ७.१९.२५ ॥
त्रैलोक्ये ना अस्ति यः द्वन्द्वम् मम दद्यात् नराधिप । शङ्के प्रसक्तः भोगेषु न शृणोषि बलम् मम ॥ ७।१९।२५ ॥
trailokye nā asti yaḥ dvandvam mama dadyāt narādhipa . śaṅke prasaktaḥ bhogeṣu na śṛṇoṣi balam mama .. 7.19.25 ..
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् । किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥ ७.१९.२६ ॥
तस्य एवम् ब्रुवतः राजा मन्दासुः वाक्यम् अब्रवीत् । किम् शक्यम् इह कर्तुम् वै कालः हि दुरतिक्रमः ॥ ७।१९।२६ ॥
tasya evam bruvataḥ rājā mandāsuḥ vākyam abravīt . kim śakyam iha kartum vai kālaḥ hi duratikramaḥ .. 7.19.26 ..
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना । कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ॥ ७.१९.२७ ॥
न हि अहम् निर्जितः रक्षः त्वया च आत्म-प्रशंसिना । कालेन एव विपन्नः अहम् हेतु-भूतः तु मे भवान् ॥ ७।१९।२७ ॥
na hi aham nirjitaḥ rakṣaḥ tvayā ca ātma-praśaṃsinā . kālena eva vipannaḥ aham hetu-bhūtaḥ tu me bhavān .. 7.19.27 ..
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये । नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ॥ ७.१९.२८ ॥
किम् तु इदानीम् मया शक्यम् कर्तुम् प्राण-परिक्षये । न हि अहम् विमुखी रक्षः युध्यमानः त्वया हतः ॥ ७।१९।२८ ॥
kim tu idānīm mayā śakyam kartum prāṇa-parikṣaye . na hi aham vimukhī rakṣaḥ yudhyamānaḥ tvayā hataḥ .. 7.19.28 ..
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस । यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥ यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ॥ ७.१९.२९ ॥
इक्ष्वाकु-परिभावि-त्वात् वचः वक्ष्यामि राक्षस । यदि दत्तम् यदि हुतम् यदि मे सु कृतम् तपः ॥ यदि गुप्ताः प्रजाः सम्यक् तदा सत्यम् वचः अस्तु मे ॥ ७।१९।२९ ॥
ikṣvāku-paribhāvi-tvāt vacaḥ vakṣyāmi rākṣasa . yadi dattam yadi hutam yadi me su kṛtam tapaḥ .. yadi guptāḥ prajāḥ samyak tadā satyam vacaḥ astu me .. 7.19.29 ..
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् । रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥ ७.१९.३० ॥
उत्पत्स्यते कुले हि अस्मिन् इक्ष्वाकूणाम् महात्मनाम् । रामः दाशरथिः नाम यः ते प्राणान् हरिष्यति ॥ ७।१९।३० ॥
utpatsyate kule hi asmin ikṣvākūṇām mahātmanām . rāmaḥ dāśarathiḥ nāma yaḥ te prāṇān hariṣyati .. 7.19.30 ..
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः । तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ॥ ७.१९.३१ ॥
ततस् जलधर-उदग्रः ताडितः देवदुन्दुभिः । तस्मिन् उदाहृते शापे पुष्प-वृष्टिः च खात् च्युता ॥ ७।१९।३१ ॥
tatas jaladhara-udagraḥ tāḍitaḥ devadundubhiḥ . tasmin udāhṛte śāpe puṣpa-vṛṣṭiḥ ca khāt cyutā .. 7.19.31 ..
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् । स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ॥ ७.१९.३२ ॥
ततस् स राजा राज-इन्द्र गतः स्थानम् त्रिविष्टपम् । स्वर्गते च नृपे तस्मिन् राक्षसः सः अपसर्पत ॥ ७।१९।३२ ॥
tatas sa rājā rāja-indra gataḥ sthānam triviṣṭapam . svargate ca nṛpe tasmin rākṣasaḥ saḥ apasarpata .. 7.19.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकोनविंशः सर्गः ॥ १९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekonaviṃśaḥ sargaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In