This overlay will guide you through the buttons:

| |
|
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे प्रथमः सर्गः ॥ १ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे प्रथमः सर्गः ॥ १ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe prathamaḥ sargaḥ .. 1 ..
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ॥ ७.२.१ ॥
तस्य तत् वचनम् श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिः मिहा-तेजाः रामम् एतत् उवाच ह ॥ ७।२।१ ॥
tasya tat vacanam śrutvā rāghavasya mahātmanaḥ . kumbhayoniḥ mihā-tejāḥ rāmam etat uvāca ha .. 7.2.1 ..
शृणु राम कथावृत्तं तस्य तेजोबलं महत् । जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ ७.२.२ ॥
शृणु राम कथा-वृत्तम् तस्य तेजः-बलम् महत् । जघान शत्रून् येन असौ न च वध्यः स शत्रुभिः ॥ ७।२।२ ॥
śṛṇu rāma kathā-vṛttam tasya tejaḥ-balam mahat . jaghāna śatrūn yena asau na ca vadhyaḥ sa śatrubhiḥ .. 7.2.2 ..
तावत्ते रावणस्येदं कुलं जन्म च राघव । वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ७.२.३ ॥
तावत् ते रावणस्य इदम् कुलम् जन्म च राघव । वर-प्रदानम् च तथा तस्मै दत्तम् ब्रवीमि ते ॥ ७।२।३ ॥
tāvat te rāvaṇasya idam kulam janma ca rāghava . vara-pradānam ca tathā tasmai dattam bravīmi te .. 7.2.3 ..
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः । पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ ७.२.४ ॥
पुरा कृत-युगे राम प्रजापति-सुतः प्रभुः । पुलस्त्यः नाम ब्रह्मर्षिः साक्षात् इव पितामहः ॥ ७।२।४ ॥
purā kṛta-yuge rāma prajāpati-sutaḥ prabhuḥ . pulastyaḥ nāma brahmarṣiḥ sākṣāt iva pitāmahaḥ .. 7.2.4 ..
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा । प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ७.२.५ ॥
न अनुकीर्त्याः गुणाः तस्य धर्मतः शीलतः तथा । प्रजापतेः पुत्रः इति वक्तुम् शक्यम् हि नामतः ॥ ७।२।५ ॥
na anukīrtyāḥ guṇāḥ tasya dharmataḥ śīlataḥ tathā . prajāpateḥ putraḥ iti vaktum śakyam hi nāmataḥ .. 7.2.5 ..
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः । हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥ ७.२.६ ॥
प्रजापति-सुत-त्वेन देवानाम् वल्लभः हि सः । हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैः महामतिः ॥ ७।२।६ ॥
prajāpati-suta-tvena devānām vallabhaḥ hi saḥ . hṛṣṭaḥ sarvasya lokasya guṇaiḥ śubhraiḥ mahāmatiḥ .. 7.2.6 ..
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः । तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥ ७.२.७ ॥
स तु धर्म-प्रसङ्गेन मेरोः पार्श्वे महा-गिरेः । तृणविन्दु-आश्रमम् गत्वा न्यवसत् मुनि-पुङ्गवः ॥ ७।२।७ ॥
sa tu dharma-prasaṅgena meroḥ pārśve mahā-gireḥ . tṛṇavindu-āśramam gatvā nyavasat muni-puṅgavaḥ .. 7.2.7 ..
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः । गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ ७.२.८ ॥
तपः तेपे स धर्म-आत्मा स्वाध्याय-नियत-इन्द्रियः । गत्वा आश्रम-पदम् तस्य विघ्नम् कुर्वन्ति कन्यकाः ॥ ७।२।८ ॥
tapaḥ tepe sa dharma-ātmā svādhyāya-niyata-indriyaḥ . gatvā āśrama-padam tasya vighnam kurvanti kanyakāḥ .. 7.2.8 ..
देवपन्नगकन्याश्च राजर्षितनयाश्च याः । क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ॥ ७.२.९ ॥
देव-पन्नग-कन्याः च राजर्षि-तनयाः च याः । क्रीडन्त्यः अप्सरसः च एव तम् देशम् उपपेदिरे ॥ ७।२।९ ॥
deva-pannaga-kanyāḥ ca rājarṣi-tanayāḥ ca yāḥ . krīḍantyaḥ apsarasaḥ ca eva tam deśam upapedire .. 7.2.9 ..
सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च । नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ ७.२.१० ॥
सर्व-ऋतुषृप-भोग्य-त्वात् रम्य-त्वात् काननस्य च । नित्यशस् ताः तु तम् देशम् गत्वा क्रीडन्ति कन्यकाः ॥ ७।२।१० ॥
sarva-ṛtuṣṛpa-bhogya-tvāt ramya-tvāt kānanasya ca . nityaśas tāḥ tu tam deśam gatvā krīḍanti kanyakāḥ .. 7.2.10 ..
देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः । गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च । मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥ ७.२.११ ॥
देशस्य रमणीय-त्वात् पुलस्त्यः यत्र स द्विजः । गायन्त्यः वादयन्त्यः च लासयन्त्यः तथा एव च । मुनेः तपस्विनः तस्य विघ्नम् चक्रुः अनिन्दिताः ॥ ७।२।११ ॥
deśasya ramaṇīya-tvāt pulastyaḥ yatra sa dvijaḥ . gāyantyaḥ vādayantyaḥ ca lāsayantyaḥ tathā eva ca . muneḥ tapasvinaḥ tasya vighnam cakruḥ aninditāḥ .. 7.2.11 ..
अथ क्रुद्धो महातेजा व्याजहार महामुनिः । या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥ ७.२.१२ ॥
अथ क्रुद्धः महा-तेजाः व्याजहार महा-मुनिः । या मे दर्शनम् आगच्छेत् सा गर्भम् धारयिष्यति ॥ ७।२।१२ ॥
atha kruddhaḥ mahā-tejāḥ vyājahāra mahā-muniḥ . yā me darśanam āgacchet sā garbham dhārayiṣyati .. 7.2.12 ..
तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः । ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ ७.२.१३ ॥
ताः तु सर्वाः प्रतिश्रुत्य तस्य वाक्यम् महात्मनः । ब्रह्म-शाप-भयात् भीताः तम् देशम् न उपचक्रमुः ॥ ७।२।१३ ॥
tāḥ tu sarvāḥ pratiśrutya tasya vākyam mahātmanaḥ . brahma-śāpa-bhayāt bhītāḥ tam deśam na upacakramuḥ .. 7.2.13 ..
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ ७.२.१४ ॥
तृणबिन्दोः तु राजर्षेः तनया न शृणोति तत् ॥ ७।२।१४ ॥
tṛṇabindoḥ tu rājarṣeḥ tanayā na śṛṇoti tat .. 7.2.14 ..
गत्वाश्रमपदं तत्र विचचार सुनिर्भया । न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ॥ ७.२.१५ ॥
गत्वा आश्रम-पदम् तत्र विचचार सु निर्भया । न सा अपश्यत् स्थिता तत्र काञ्चिद् अभ्यागताम् सखीम् ॥ ७।२।१५ ॥
gatvā āśrama-padam tatra vicacāra su nirbhayā . na sā apaśyat sthitā tatra kāñcid abhyāgatām sakhīm .. 7.2.15 ..
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः । स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥ ७.२.१६ ॥
तस्मिन् काले महा-तेजाः प्राजापत्यः महान् ऋषिः । स्वाध्यायम् अकरोत् तत्र तपसा भावितः स्वयम् ॥ ७।२।१६ ॥
tasmin kāle mahā-tejāḥ prājāpatyaḥ mahān ṛṣiḥ . svādhyāyam akarot tatra tapasā bhāvitaḥ svayam .. 7.2.16 ..
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् । अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥ ७.२.१७ ॥
सा तु वेद-श्रुतिम् श्रुत्वा दृष्ट्वा वै तपसः निधिम् । अभवत् पाण्डु-देहा सा सु व्यञ्जित-शरीर-जा ॥ ७।२।१७ ॥
sā tu veda-śrutim śrutvā dṛṣṭvā vai tapasaḥ nidhim . abhavat pāṇḍu-dehā sā su vyañjita-śarīra-jā .. 7.2.17 ..
वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः । इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽ ऽश्रमे स्थिता ॥ ७.२.१८ ॥
वभूव च समुद्विग्ना दृष्ट्वा तद्-दोषम् आत्मनः । इदम् मे किन्तु इति ज्ञात्वा पितुः गत्वा आश्रमे स्थिता ॥ ७।२।१८ ॥
vabhūva ca samudvignā dṛṣṭvā tad-doṣam ātmanaḥ . idam me kintu iti jñātvā pituḥ gatvā āśrame sthitā .. 7.2.18 ..
तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् । किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ ७.२.१९ ॥
ताम् तु दृष्ट्वा तथाभूताम् तृणविन्दुः अथ अब्रवीत् । किम् त्वम् एतत् त्व-सदृशम् धारयसि आत्मनः वपुः ॥ ७।२।१९ ॥
tām tu dṛṣṭvā tathābhūtām tṛṇavinduḥ atha abravīt . kim tvam etat tva-sadṛśam dhārayasi ātmanaḥ vapuḥ .. 7.2.19 ..
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् । न जाने कारणं तात येन मे रूपमीदृशम् ॥ ७.२.२० ॥
सा तु कृत्वा अञ्जलिम् दीना कन्या उवाच तपोधनम् । न जाने कारणम् तात येन मे रूपम् ईदृशम् ॥ ७।२।२० ॥
sā tu kṛtvā añjalim dīnā kanyā uvāca tapodhanam . na jāne kāraṇam tāta yena me rūpam īdṛśam .. 7.2.20 ..
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः । पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ ७.२.२१ ॥
किम् तु पूर्वम् गता अस्मि एका महा-ऋषेः भावितात्मनः । पुलस्त्यस्य आश्रमम् दिव्यम् अन्वेष्टुम् स्व-सखी-जनम् ॥ ७।२।२१ ॥
kim tu pūrvam gatā asmi ekā mahā-ṛṣeḥ bhāvitātmanaḥ . pulastyasya āśramam divyam anveṣṭum sva-sakhī-janam .. 7.2.21 ..
न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् । रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ॥ ७.२.२२ ॥
न च पश्यामि अहम् तत्र काञ्चिद् अभ्यागताम् सखीम् । रूपस्य तु विपर्यासम् दृष्ट्वा त्रासात् इह आगता ॥ ७।२।२२ ॥
na ca paśyāmi aham tatra kāñcid abhyāgatām sakhīm . rūpasya tu viparyāsam dṛṣṭvā trāsāt iha āgatā .. 7.2.22 ..
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः । ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥ ७.२.२३ ॥
तृणबिन्दुः तु राजर्षिः तपसा द्योतित-प्रभः । ध्यानम् विवेश तत् च अपि हि अपश्यत् ऋषि-कर्म-जम् ॥ ७।२।२३ ॥
tṛṇabinduḥ tu rājarṣiḥ tapasā dyotita-prabhaḥ . dhyānam viveśa tat ca api hi apaśyat ṛṣi-karma-jam .. 7.2.23 ..
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः । गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ ७.२.२४ ॥
स तु विज्ञाय तम् शापम् महा-ऋषेः भावितात्मनः । गृहीत्वा तनयाम् गत्वा पुलस्त्यम् इदम् अब्रवीत् ॥ ७।२।२४ ॥
sa tu vijñāya tam śāpam mahā-ṛṣeḥ bhāvitātmanaḥ . gṛhītvā tanayām gatvā pulastyam idam abravīt .. 7.2.24 ..
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् । भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ ७.२.२५ ॥
भगवन् तनयाम् मे त्वम् गुणैः स्वैः एव भूषिताम् । भिक्षाम् प्रतिगृहाण इमाम् महा-ऋषे स्वयम् उद्यताम् ॥ ७।२।२५ ॥
bhagavan tanayām me tvam guṇaiḥ svaiḥ eva bhūṣitām . bhikṣām pratigṛhāṇa imām mahā-ṛṣe svayam udyatām .. 7.2.25 ..
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते । शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ ७.२.२६ ॥
तपः-चरण-युक्तस्य श्रम्यमाण-इन्द्रियस्य ते । शुश्रूषण-परा नित्यम् भविष्यति न संशयः ॥ ७।२।२६ ॥
tapaḥ-caraṇa-yuktasya śramyamāṇa-indriyasya te . śuśrūṣaṇa-parā nityam bhaviṣyati na saṃśayaḥ .. 7.2.26 ..
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा । जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ ७.२.२७ ॥
तम् ब्रुवाणम् तु तद्-वाक्यम् राजर्षिम् धार्मिकम् तदा । जिघृक्षुः अब्रवीत् कन्याम् बाढम् इति एव स द्विजः ॥ ७।२।२७ ॥
tam bruvāṇam tu tad-vākyam rājarṣim dhārmikam tadā . jighṛkṣuḥ abravīt kanyām bāḍham iti eva sa dvijaḥ .. 7.2.27 ..
दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः । सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥ ७.२.२८ ॥
दत्त्वा स तु यथान्यायम् स्वम् आश्रम-पदम् गतः । सा अपि तत्र अवसत् कन्या तोषयन्ती पतिम् गुणैः ॥ ७।२।२८ ॥
dattvā sa tu yathānyāyam svam āśrama-padam gataḥ . sā api tatra avasat kanyā toṣayantī patim guṇaiḥ .. 7.2.28 ..
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः । प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ ७.२.२९ ॥
तस्याः तु शील-वृत्ताभ्याम् तुतोष मुनि-पुङ्गवः । प्रीतः स तु महा-तेजाः वाक्यम् एतत् उवाच ह ॥ ७।२।२९ ॥
tasyāḥ tu śīla-vṛttābhyām tutoṣa muni-puṅgavaḥ . prītaḥ sa tu mahā-tejāḥ vākyam etat uvāca ha .. 7.2.29 ..
परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् । तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ॥ ७.२.३० ॥
परितुष्टः अस्मि सुश्रोणि गुणानाम् सम्पदा भृशम् । तस्मात् देवि ददामि अद्य पुत्रम् आत्म-समम् तव ॥ ७।२।३० ॥
parituṣṭaḥ asmi suśroṇi guṇānām sampadā bhṛśam . tasmāt devi dadāmi adya putram ātma-samam tava .. 7.2.30 ..
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् । यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ॥ ७.२.३१ ॥
उभयोः वंश-कर्तारम् पौलस्त्यः इति विश्रुतम् । यस्मात् तु विश्रुतः वेदः त्वया एषः अध्ययतः मम ॥ ७।२।३१ ॥
ubhayoḥ vaṃśa-kartāram paulastyaḥ iti viśrutam . yasmāt tu viśrutaḥ vedaḥ tvayā eṣaḥ adhyayataḥ mama .. 7.2.31 ..
तस्मात्स विश्रवा नाम भविष्यति न संशयः । एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ॥ ७.२.३२ ॥
तस्मात् स विश्रवाः नाम भविष्यति न संशयः । एवम् उक्ता तु सा देवी प्रहृष्टेन अन्तरात्मना ॥ ७।२।३२ ॥
tasmāt sa viśravāḥ nāma bhaviṣyati na saṃśayaḥ . evam uktā tu sā devī prahṛṣṭena antarātmanā .. 7.2.32 ..
अचिरेणैव कालेनासूत विश्रवसं सुतम् । त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ ७.२.३३ ॥
अचिरेण एव कालेन असूत विश्रवसम् सुतम् । त्रिषु लोकेषु विख्यातम् यशः-धर्म-समन्वितम् ॥ ७।२।३३ ॥
acireṇa eva kālena asūta viśravasam sutam . triṣu lokeṣu vikhyātam yaśaḥ-dharma-samanvitam .. 7.2.33 ..
श्रुतिमान्समदर्शी च व्रताचाररतस्तथा । पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ ७.२.३४ ॥
श्रुतिमान् सम-दर्शी च व्रत-आचार-रतः तथा । पिता इव तपसा युक्तः हि अभवत् विश्रवाः मुनिः ॥ ७।२।३४ ॥
śrutimān sama-darśī ca vrata-ācāra-rataḥ tathā . pitā iva tapasā yuktaḥ hi abhavat viśravāḥ muniḥ .. 7.2.34 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वितीयः सर्गः ॥ २ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे द्वितीयः सर्गः ॥ २ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe dvitīyaḥ sargaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In