This overlay will guide you through the buttons:

| |
|
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे प्रथमः सर्गः ॥ १ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe prathamaḥ sargaḥ .. 1 ..
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ॥ ७.२.१ ॥
tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ . kumbhayonirmihātejā rāmametaduvāca ha .. 7.2.1 ..
शृणु राम कथावृत्तं तस्य तेजोबलं महत् । जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ ७.२.२ ॥
śṛṇu rāma kathāvṛttaṃ tasya tejobalaṃ mahat . jaghāna śatrūnyenāsau na ca vadhyaḥ sa śatrubhiḥ .. 7.2.2 ..
तावत्ते रावणस्येदं कुलं जन्म च राघव । वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ७.२.३ ॥
tāvatte rāvaṇasyedaṃ kulaṃ janma ca rāghava . varapradānaṃ ca tathā tasmai dattaṃ bravīmi te .. 7.2.3 ..
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः । पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ ७.२.४ ॥
purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ . pulastyo nāma brahmarṣiḥ sākṣādiva pitāmahaḥ .. 7.2.4 ..
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा । प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ७.२.५ ॥
nānukīrtyā guṇāstasya dharmataḥ śīlatastathā . prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ .. 7.2.5 ..
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः । हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥ ७.२.६ ॥
prajāpatisutatvena devānāṃ vallabho hi saḥ . hṛṣṭaḥ sarvasya lokasya guṇaiḥ śubhrairmahāmatiḥ .. 7.2.6 ..
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः । तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥ ७.२.७ ॥
sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ . tṛṇavindvāśramaṃ gatvā nyavasanmunipuṅgavaḥ .. 7.2.7 ..
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः । गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ ७.२.८ ॥
tapastepe sa dharmātmā svādhyāyaniyatendriyaḥ . gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ .. 7.2.8 ..
देवपन्नगकन्याश्च राजर्षितनयाश्च याः । क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ॥ ७.२.९ ॥
devapannagakanyāśca rājarṣitanayāśca yāḥ . krīḍantyo 'psarasaścaiva taṃ deśamupapedire .. 7.2.9 ..
सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च । नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ ७.२.१० ॥
sarvartuṣṛpabhogyatvādramyatvātkānanasya ca . nityaśastāstu taṃ deśaṃ gatvā krīḍanti kanyakāḥ .. 7.2.10 ..
देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः । गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च । मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥ ७.२.११ ॥
deśasya ramaṇīyatvātpulastyo yatra sa dvijaḥ . gāyantyo vādayantyaśca lāsayantyastathaiva ca . munestapasvinastasya vighnaṃ cakruraninditāḥ .. 7.2.11 ..
अथ क्रुद्धो महातेजा व्याजहार महामुनिः । या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥ ७.२.१२ ॥
atha kruddho mahātejā vyājahāra mahāmuniḥ . yā me darśanamāgacchetsā garbhaṃ dhārayiṣyati .. 7.2.12 ..
तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः । ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ ७.२.१३ ॥
tāstu sarvāḥ pratiśrutya tasya vākyaṃ mahātmanaḥ . brahmaśāpabhayādbhītāstaṃ deśaṃ nopacakramuḥ .. 7.2.13 ..
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ ७.२.१४ ॥
tṛṇabindostu rājarṣestanayā na śṛṇoti tat .. 7.2.14 ..
गत्वाश्रमपदं तत्र विचचार सुनिर्भया । न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ॥ ७.२.१५ ॥
gatvāśramapadaṃ tatra vicacāra sunirbhayā . na sāpaśyatsthitā tatra kāñcidabhyāgatāṃ sakhīm .. 7.2.15 ..
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः । स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥ ७.२.१६ ॥
tasminkāle mahātejāḥ prājāpatyo mahānṛṣiḥ . svādhyāyamakarottatra tapasā bhāvitaḥ svayam .. 7.2.16 ..
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् । अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥ ७.२.१७ ॥
sā tu vedaśrutiṃ śrutvā dṛṣṭvā vai tapaso nidhim . abhavatpāṇḍudehā sā suvyañjitaśarīrajā .. 7.2.17 ..
वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः । इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽ ऽश्रमे स्थिता ॥ ७.२.१८ ॥
vabhūva ca samudvignā dṛṣṭvā taddoṣamātmanaḥ . idaṃ me kintviti jñātvā piturgatvā ' 'śrame sthitā .. 7.2.18 ..
तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् । किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ ७.२.१९ ॥
tāṃ tu dṛṣṭvā tathābhūtāṃ tṛṇavindurathābravīt . kiṃ tvametattvasadṛśaṃ dhārayasyātmano vapuḥ .. 7.2.19 ..
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् । न जाने कारणं तात येन मे रूपमीदृशम् ॥ ७.२.२० ॥
sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam . na jāne kāraṇaṃ tāta yena me rūpamīdṛśam .. 7.2.20 ..
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः । पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ ७.२.२१ ॥
kiṃ tu pūrvaṃ gatāsmyekā maharṣerbhāvitātmanaḥ . pulastyasyāśramaṃ divyamanveṣṭuṃ svasakhījanam .. 7.2.21 ..
न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् । रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ॥ ७.२.२२ ॥
na ca paśyāmyahaṃ tatra kāñcidabhyāgatāṃ sakhīm . rūpasya tu viparyāsaṃ dṛṣṭvā trāsādihāgatā .. 7.2.22 ..
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः । ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥ ७.२.२३ ॥
tṛṇabindustu rājarṣistapasā dyotitaprabhaḥ . dhyānaṃ viveśa taccāpi hyapaśyadṛṣikarmajam .. 7.2.23 ..
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः । गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ ७.२.२४ ॥
sa tu vijñāya taṃ śāpaṃ maharṣerbhāvitātmanaḥ . gṛhītvā tanayāṃ gatvā pulastyamidamabravīt .. 7.2.24 ..
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् । भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ ७.२.२५ ॥
bhagavaṃstanayāṃ me tvaṃ guṇaiḥ svaireva bhūṣitām . bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayamudyatām .. 7.2.25 ..
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते । शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ ७.२.२६ ॥
tapaścaraṇayuktasya śramyamāṇendriyasya te . śuśrūṣaṇaparā nityaṃ bhaviṣyati na saṃśayaḥ .. 7.2.26 ..
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा । जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ ७.२.२७ ॥
taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā . jighṛkṣurabravītkanyāṃ bāḍhamityeva sa dvijaḥ .. 7.2.27 ..
दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः । सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥ ७.२.२८ ॥
dattvā sa tu yathānyāyaṃ svamāśramapadaṃ gataḥ . sāpi tatrāvasatkanyā toṣayantī patiṃ guṇaiḥ .. 7.2.28 ..
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः । प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ ७.२.२९ ॥
tasyāstu śīlavṛttābhyāṃ tutoṣa munipuṅgavaḥ . prītaḥ sa tu mahātejā vākyametaduvāca ha .. 7.2.29 ..
परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् । तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ॥ ७.२.३० ॥
parituṣṭo 'smi suśroṇi guṇānāṃ sampadā bhṛśam . tasmāddevi dadāmyadya putramātmasamaṃ tava .. 7.2.30 ..
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् । यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ॥ ७.२.३१ ॥
ubhayorvaṃśakartāraṃ paulastya iti viśrutam . yasmāttu viśruto vedastvayaiṣo 'dhyayato mama .. 7.2.31 ..
तस्मात्स विश्रवा नाम भविष्यति न संशयः । एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ॥ ७.२.३२ ॥
tasmātsa viśravā nāma bhaviṣyati na saṃśayaḥ . evamuktā tu sā devī prahṛṣṭenāntarātmanā .. 7.2.32 ..
अचिरेणैव कालेनासूत विश्रवसं सुतम् । त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ ७.२.३३ ॥
acireṇaiva kālenāsūta viśravasaṃ sutam . triṣu lokeṣu vikhyātaṃ yaśodharmasamanvitam .. 7.2.33 ..
श्रुतिमान्समदर्शी च व्रताचाररतस्तथा । पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ ७.२.३४ ॥
śrutimānsamadarśī ca vratācāraratastathā . piteva tapasā yukto hyabhavadviśravā muniḥ .. 7.2.34 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वितीयः सर्गः ॥ २ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvitīyaḥ sargaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In