This overlay will guide you through the buttons:

| |
|
ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः । आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥ ७.२०.१ ॥
ततस् वित्रासयन् मर्त्यान् पृथिव्याम् राक्षस-अधिपः । आससाद घने तस्मिन् नारदम् मुनि-पुङ्गवम् ॥ ७।२०।१ ॥
tatas vitrāsayan martyān pṛthivyām rākṣasa-adhipaḥ . āsasāda ghane tasmin nāradam muni-puṅgavam .. 7.20.1 ..
तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः । अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ॥ ७.२०.२ ॥
तस्य अभिवादनम् कृत्वा दशग्रीवः निशाचरः । अब्रवीत् कुशलम् पृष्ट्वा हेतुम् आगमनस्य च ॥ ७।२०।२ ॥
tasya abhivādanam kṛtvā daśagrīvaḥ niśācaraḥ . abravīt kuśalam pṛṣṭvā hetum āgamanasya ca .. 7.20.2 ..
नारदस्तु महातेजा देवर्षिरमितप्रभः । अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ ७.२०.३ ॥
नारदः तु महा-तेजाः देवर्षिः अमित-प्रभः । अब्रवीत् मेघ-पृष्ठ-स्थः रावणम् पुष्पके स्थितम् ॥ ७।२०।३ ॥
nāradaḥ tu mahā-tejāḥ devarṣiḥ amita-prabhaḥ . abravīt megha-pṛṣṭha-sthaḥ rāvaṇam puṣpake sthitam .. 7.20.3 ..
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत । प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ॥ ७.२०.४ ॥
राक्षस-अधिपते सौम्य तिष्ठ विश्रवसः सुत । प्रीतः अस्मि अभिजन-उपेत-विक्रमैः ऊर्जितैः तव ॥ ७।२०।४ ॥
rākṣasa-adhipate saumya tiṣṭha viśravasaḥ suta . prītaḥ asmi abhijana-upeta-vikramaiḥ ūrjitaiḥ tava .. 7.20.4 ..
विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः । त्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ ७.२०.५ ॥
विष्णुना दैत्य-घातैः च गन्धर्व-उरग-धर्षणैः । त्वया समम् विमर्दैः च भृशम् हि परितोषितः ॥ ७।२०।५ ॥
viṣṇunā daitya-ghātaiḥ ca gandharva-uraga-dharṣaṇaiḥ . tvayā samam vimardaiḥ ca bhṛśam hi paritoṣitaḥ .. 7.20.5 ..
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि । श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम । तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ ७.२०.६ ॥
किंचिद् वक्ष्यामि तावत् ते श्रोतव्यम् श्रोष्यसे यदि । श्रुत्वा च अनन्तरम् कार्यम् त्वया राक्षस-सत्तम । तत् मे निगदतः तात समाधिम् श्रवणे कुरु ॥ ७।२०।६ ॥
kiṃcid vakṣyāmi tāvat te śrotavyam śroṣyase yadi . śrutvā ca anantaram kāryam tvayā rākṣasa-sattama . tat me nigadataḥ tāta samādhim śravaṇe kuru .. 7.20.6 ..
किमयं वध्यते तात त्वया ऽवध्येन दैवतैः । हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ७.२०.७ ॥ ्तम ।
किम् अयम् वध्यते तात त्वया अवध्येन दैवतैः । हतः एव हि अयम् लोकः यदा मृत्यु-वशम् गतः ॥ ७।२०।७ ॥ तम ।
kim ayam vadhyate tāta tvayā avadhyena daivataiḥ . hataḥ eva hi ayam lokaḥ yadā mṛtyu-vaśam gataḥ .. 7.20.7 .. tama .
देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् । अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥ ७.२०.८ ॥
देव-दानव-दैत्यानाम् यक्ष-गन्धर्व-रक्षसाम् । अवध्येन त्वया लोकः क्लेष्टुम् युक्तः न मानुषः ॥ ७।२०।८ ॥
deva-dānava-daityānām yakṣa-gandharva-rakṣasām . avadhyena tvayā lokaḥ kleṣṭum yuktaḥ na mānuṣaḥ .. 7.20.8 ..
नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् । हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ ७.२०.९ ॥
नित्यम् श्रेयसि सम्मूढम् महद्भिः व्यसनैः वृतम् । हन्यात् कः तादृशम् लोकम् जरा-व्याधि-शतैः युतम् ॥ ७।२०।९ ॥
nityam śreyasi sammūḍham mahadbhiḥ vyasanaiḥ vṛtam . hanyāt kaḥ tādṛśam lokam jarā-vyādhi-śataiḥ yutam .. 7.20.9 ..
तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः । मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ॥ ७.२०.१० ॥
तैः तैः अनिष्ट-उपगमैः अजस्रम् यत्र कुत्र कः । मतिमान् मानुषे लोके युद्धेन प्रणयी भवेत् ॥ ७।२०।१० ॥
taiḥ taiḥ aniṣṭa-upagamaiḥ ajasram yatra kutra kaḥ . matimān mānuṣe loke yuddhena praṇayī bhavet .. 7.20.10 ..
क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः । विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥ ७.२०.११ ॥
क्षीयमाणम् दैव-हतम् श्रुत्-पिपासा-जरा-आदिभिः । विषाद-शोक-सम्मूढम् लोकम् त्वम् क्षपयस्व मा ॥ ७।२०।११ ॥
kṣīyamāṇam daiva-hatam śrut-pipāsā-jarā-ādibhiḥ . viṣāda-śoka-sammūḍham lokam tvam kṣapayasva mā .. 7.20.11 ..
पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् । मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ ७.२०.१२ ॥
पश्य तावत् महा-बाहो राक्षसेश्वर मानुषम् । मूढम् एवम् विचित्र-अर्थम् यस्य न ज्ञायते गतिः ॥ ७।२०।१२ ॥
paśya tāvat mahā-bāho rākṣaseśvara mānuṣam . mūḍham evam vicitra-artham yasya na jñāyate gatiḥ .. 7.20.12 ..
क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः । रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ ७.२०.१३ ॥
क्वचिद् वादित्र-नृत्य-आदि सेव्यते मुदितैः जनैः । रुद्यते च अपरैः आर्तैः धारा-अश्रु-नयन-आननैः ॥ ७।२०।१३ ॥
kvacid vāditra-nṛtya-ādi sevyate muditaiḥ janaiḥ . rudyate ca aparaiḥ ārtaiḥ dhārā-aśru-nayana-ānanaiḥ .. 7.20.13 ..
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः । मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥ ७.२०.१४ ॥
माता-पितृ-सुत-स्नेहैः भार्या-बन्धु-मनोरमैः । मोहितः अयम् जनः ध्वस्तः क्लेशम् स्वम् न अवबुध्यते ॥ ७।२०।१४ ॥
mātā-pitṛ-suta-snehaiḥ bhāryā-bandhu-manoramaiḥ . mohitaḥ ayam janaḥ dhvastaḥ kleśam svam na avabudhyate .. 7.20.14 ..
अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् । जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ ७.२०.१५ ॥
अलम् एनम् परिक्लिश्य लोकम् मोह-निराकृतम् । जितः एव त्वया सौम्य मर्त्य-लोकः न संशयः ॥ ७।२०।१५ ॥
alam enam parikliśya lokam moha-nirākṛtam . jitaḥ eva tvayā saumya martya-lokaḥ na saṃśayaḥ .. 7.20.15 ..
अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् । तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ॥ ७.२०.१६ ॥
अवश्यम् एभिः सर्वैः च गन्तव्यम् यम-सादनम् । तत् निगृह्णीष्व पौलस्त्य यमम् परपुरञ्जय ॥ ७।२०।१६ ॥
avaśyam ebhiḥ sarvaiḥ ca gantavyam yama-sādanam . tat nigṛhṇīṣva paulastya yamam parapurañjaya .. 7.20.16 ..
तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः । एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा । अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ॥ ७.२०.१७ ॥
तस्मिन् जिते जितम् सर्वम् भवति एव न संशयः । एवम् उक्तः तु लङ्केशः दीप्यमानम् स्व-तेजसा । अब्रवीत् नारदम् तत्र सम्प्रहस्य अभिवाद्य च ॥ ७।२०।१७ ॥
tasmin jite jitam sarvam bhavati eva na saṃśayaḥ . evam uktaḥ tu laṅkeśaḥ dīpyamānam sva-tejasā . abravīt nāradam tatra samprahasya abhivādya ca .. 7.20.17 ..
महर्षे देवगन्धर्वविहार समरप्रिय । अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ॥ ७.२०.१८ ॥
महा-ऋषे देव-गन्धर्व-विहार समर-प्रिय । अहम् समुद्यतः गन्तुम् विजय-अर्थम् रसातलम् ॥ ७।२०।१८ ॥
mahā-ṛṣe deva-gandharva-vihāra samara-priya . aham samudyataḥ gantum vijaya-artham rasātalam .. 7.20.18 ..
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे । समुद्रममृतार्थं च मथिष्यामि रसालयम् ॥ ७.२०.१९ ॥
ततस् लोकत्रयम् जित्वा स्थाप्य नागान् सुरान् वशे । समुद्रम् अमृत-अर्थम् च मथिष्यामि रस-आलयम् ॥ ७।२०।१९ ॥
tatas lokatrayam jitvā sthāpya nāgān surān vaśe . samudram amṛta-artham ca mathiṣyāmi rasa-ālayam .. 7.20.19 ..
अथाब्रवीदृशग्रीवं नारदो भगवानृषिः । क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥ ७.२०.२० ॥
अथा अब्रवीत् ऋशग्रीवम् नारदः भगवान् ऋषिः । क्व खलु इदानीम् मार्गेण त्वया हि अन्येन गम्यते ॥ ७।२०।२० ॥
athā abravīt ṛśagrīvam nāradaḥ bhagavān ṛṣiḥ . kva khalu idānīm mārgeṇa tvayā hi anyena gamyate .. 7.20.20 ..
अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति । मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ ७.२०.२१ ॥
अयम् खलु सु दुर्गम्यः प्रेतराज-पुरम् प्रति । मार्गः गच्छति दुर्धर्षः यमस्य अमित्र-कर्शन ॥ ७।२०।२१ ॥
ayam khalu su durgamyaḥ pretarāja-puram prati . mārgaḥ gacchati durdharṣaḥ yamasya amitra-karśana .. 7.20.21 ..
स तु शारदमेघाभं हासं मुक्त्वा दशाननः । उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ ७.२०.२२ ॥
स तु शारद-मेघ-आभम् हासम् मुक्त्वा दशाननः । उवाच कृतम् इति एव वचनम् च इदम् अब्रवीत् ॥ ७।२०।२२ ॥
sa tu śārada-megha-ābham hāsam muktvā daśānanaḥ . uvāca kṛtam iti eva vacanam ca idam abravīt .. 7.20.22 ..
तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः । गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ ७.२०.२३ ॥
तस्मात् एवम् अहम् ब्रह्मन् वैवस्वत-वध-उद्यतः । गच्छामि दक्षिणाम् आशाम् यत्र सूर्य-आत्मजः नृपः ॥ ७।२०।२३ ॥
tasmāt evam aham brahman vaivasvata-vadha-udyataḥ . gacchāmi dakṣiṇām āśām yatra sūrya-ātmajaḥ nṛpaḥ .. 7.20.23 ..
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना । अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ ७.२०.२४ ॥
मया हि भगवन् क्रोधात् प्रतिज्ञातम् रण-अर्थिना । अवजेष्यामि चतुरः लोकपालान् इति प्रभो ॥ ७।२०।२४ ॥
mayā hi bhagavan krodhāt pratijñātam raṇa-arthinā . avajeṣyāmi caturaḥ lokapālān iti prabho .. 7.20.24 ..
तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति । प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ॥ ७.२०.२५ ॥
तत् इह प्रस्थितः अहम् वै प्रेतराज-पुरम् प्रति । प्राणि-सङ्क्लेश-कर्तारम् योजयिष्यामि मृत्युना ॥ ७।२०।२५ ॥
tat iha prasthitaḥ aham vai pretarāja-puram prati . prāṇi-saṅkleśa-kartāram yojayiṣyāmi mṛtyunā .. 7.20.25 ..
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च । प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ॥ ७.२०.२६ ॥
एवम् उक्त्वा दशग्रीवः मुनिम् तम् अभिवाद्य च । प्रययौ दक्षिणाम् आशाम् प्रविष्टः सह मन्त्रिभिः ॥ ७।२०।२६ ॥
evam uktvā daśagrīvaḥ munim tam abhivādya ca . prayayau dakṣiṇām āśām praviṣṭaḥ saha mantribhiḥ .. 7.20.26 ..
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः । चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ ७.२०.२७ ॥
नारदः तु महा-तेजाः मुहूर्तम् ध्यानम् आस्थितः । चिन्तयामास विप्र-इन्द्रः विधूमः इव पावकः ॥ ७।२०।२७ ॥
nāradaḥ tu mahā-tejāḥ muhūrtam dhyānam āsthitaḥ . cintayāmāsa vipra-indraḥ vidhūmaḥ iva pāvakaḥ .. 7.20.27 ..
येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः । क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥ ७.२०.२८ ॥
येन लोकाः त्रयः स इन्द्राः क्लिश्यन्ते स चराचराः । क्षीणे च आयुषि धर्मेण स कालः जेष्यते कथम् ॥ ७।२०।२८ ॥
yena lokāḥ trayaḥ sa indrāḥ kliśyante sa carācarāḥ . kṣīṇe ca āyuṣi dharmeṇa sa kālaḥ jeṣyate katham .. 7.20.28 ..
स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः । लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ ७.२०.२९ ॥
स्व-दत्त-कृत-साक्षी यः द्वितीयः इव पावकः । लब्ध-सञ्ज्ञाः विजेष्यन्ते लोकाः यस्य महात्मनः ॥ ७।२०।२९ ॥
sva-datta-kṛta-sākṣī yaḥ dvitīyaḥ iva pāvakaḥ . labdha-sañjñāḥ vijeṣyante lokāḥ yasya mahātmanaḥ .. 7.20.29 ..
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः । तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ॥ ७.२०.३० ॥
यस्य नित्यम् त्रयः लोकाः विद्रवन्ति भय-अर्दिताः । तम् कथम् राक्षस-इन्द्रः असौ स्वयम् एव गमिष्यति ॥ ७।२०।३० ॥
yasya nityam trayaḥ lokāḥ vidravanti bhaya-arditāḥ . tam katham rākṣasa-indraḥ asau svayam eva gamiṣyati .. 7.20.30 ..
यो विधाता च धाता च सुकृतं दुष्कृतं तथा । त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥ ७.२०.३१ ॥
यः विधाता च धाता च सुकृतम् दुष्कृतम् तथा । त्रैलोक्यम् विजितम् येन तम् कथम् विजयिष्यते ॥ ७।२०।३१ ॥
yaḥ vidhātā ca dhātā ca sukṛtam duṣkṛtam tathā . trailokyam vijitam yena tam katham vijayiṣyate .. 7.20.31 ..
अपरं किन्तु कृत्वायं विधानं संविधास्यति । कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ॥ ७.२०.३२ ॥
अपरम् किन्तु कृत्वा अयम् विधानम् संविधास्यति । कौतूहल-समुत्पन्नः यास्यामि यम-सादनम् ॥ ७।२०।३२ ॥
aparam kintu kṛtvā ayam vidhānam saṃvidhāsyati . kautūhala-samutpannaḥ yāsyāmi yama-sādanam .. 7.20.32 ..
विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ७.२०.३३ ॥
विमर्दम् द्रष्टुम् अनयोः यम-राक्षसयोः स्वयम् ॥ ७।२०।३३ ॥
vimardam draṣṭum anayoḥ yama-rākṣasayoḥ svayam .. 7.20.33 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे विंशः सर्गः ॥ २० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे विंशः सर्गः ॥ २० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe viṃśaḥ sargaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In