This overlay will guide you through the buttons:

| |
|
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ ७.२१.१ ॥
एवम् सञ्चिन्त्य विप्र-इन्दो जगाम लघु-विक्रमः । आख्यातुम् तत् यथावृत्तम् यमस्य सदनम् प्रति ॥ ७।२१।१ ॥
evam sañcintya vipra-indo jagāma laghu-vikramaḥ . ākhyātum tat yathāvṛttam yamasya sadanam prati .. 7.21.1 ..
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् । विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ ७.२१.२ ॥
अपश्यत् स यमम् तत्र देवम् अग्नि-पुरस्कृतम् । विधानम् उपतिष्ठन्तम् प्राणिनः यस्य यादृशम् ॥ ७।२१।२ ॥
apaśyat sa yamam tatra devam agni-puraskṛtam . vidhānam upatiṣṭhantam prāṇinaḥ yasya yādṛśam .. 7.21.2 ..
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् । अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥ ७.२१.३ ॥
स तु दृष्ट्वा यमः प्राप्तम् महा-ऋषिम् तत्र नारदम् । अब्रवीत् सुखम् आसीनम् अर्घ्यम् आवेद्य धर्मतः ॥ ७।२१।३ ॥
sa tu dṛṣṭvā yamaḥ prāptam mahā-ṛṣim tatra nāradam . abravīt sukham āsīnam arghyam āvedya dharmataḥ .. 7.21.3 ..
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति । किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ७.२१.४ ॥
कच्चित् क्षेमम् तु देव-ऋषे कच्चित् धर्मः न नश्यति । किम् आगमन-कृत्यम् ते देव-गन्धर्व-सेवित ॥ ७।२१।४ ॥
kaccit kṣemam tu deva-ṛṣe kaccit dharmaḥ na naśyati . kim āgamana-kṛtyam te deva-gandharva-sevita .. 7.21.4 ..
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥ ७.२१.५ ॥
अब्रवीत् तु तदा वाक्यम् नारदः भगवान् ऋषिः । श्रूयताम् अभिधास्यामि विधानम् च विधीयताम् ॥ ७।२१।५ ॥
abravīt tu tadā vākyam nāradaḥ bhagavān ṛṣiḥ . śrūyatām abhidhāsyāmi vidhānam ca vidhīyatām .. 7.21.5 ..
एष नाम्नो दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥ ७.२१.६ ॥
एष नाम्नः दशग्रीवः पितृराज निशाचरः । उपयाति वशम् नेतुम् विक्रमैः त्वाम् सु दुर्जयम् ॥ ७।२१।६ ॥
eṣa nāmnaḥ daśagrīvaḥ pitṛrāja niśācaraḥ . upayāti vaśam netum vikramaiḥ tvām su durjayam .. 7.21.6 ..
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो । दण्डप्रहरणस्याद्य तव किं नु भविष्यति ॥ ७.२१.७ ॥
एतेन कारणेन अहम् त्वरितः हि आगतः प्रभो । दण्ड-प्रहरणस्य अद्य तव किम् नु भविष्यति ॥ ७।२१।७ ॥
etena kāraṇena aham tvaritaḥ hi āgataḥ prabho . daṇḍa-praharaṇasya adya tava kim nu bhaviṣyati .. 7.21.7 ..
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् । ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ॥ ७.२१.८ ॥
एतस्मिन् अन्तरे दुरात् अंशुमन्तम् इव उदितम् । ददृशुः दीप्तम् आयान्तम् विमानम् तस्य रक्षसः ॥ ७।२१।८ ॥
etasmin antare durāt aṃśumantam iva uditam . dadṛśuḥ dīptam āyāntam vimānam tasya rakṣasaḥ .. 7.21.8 ..
तं देशं प्रभया तस्य पुष्पकस्य महाबलः । कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ॥ ७.२१.९ ॥
तम् देशम् प्रभया तस्य पुष्पकस्य महा-बलः । कृत्वा वितिमिरम् सर्वम् समीपम् सः अभ्यवर्तत ॥ ७।२१।९ ॥
tam deśam prabhayā tasya puṣpakasya mahā-balaḥ . kṛtvā vitimiram sarvam samīpam saḥ abhyavartata .. 7.21.9 ..
सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥ ७.२१.१० ॥
सः अपश्यत् स महा-बाहुः दशग्रीवः ततस् ततस् । प्राणिनः सु कृतम् कर्म भुञ्जानान् च एव दुष्कृतम् ॥ ७।२१।१० ॥
saḥ apaśyat sa mahā-bāhuḥ daśagrīvaḥ tatas tatas . prāṇinaḥ su kṛtam karma bhuñjānān ca eva duṣkṛtam .. 7.21.10 ..
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह । यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ॥ ७.२१.११ ॥
अपश्यत् सैनिकान् च अस्य यमस्य अनुचरैः सह । यमस्य पुरुषैः उग्रैः घोर-रूपैः भयानकैः ॥ ७।२१।११ ॥
apaśyat sainikān ca asya yamasya anucaraiḥ saha . yamasya puruṣaiḥ ugraiḥ ghora-rūpaiḥ bhayānakaiḥ .. 7.21.11 ..
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः । क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ॥ ७.२१.१२ ॥
ददर्श वध्यमानान् च क्लिश्यमानान् च देहिनः । क्रोशतः च महा-नादम् तीव्र-निष्टन-तत्परान् ॥ ७।२१।१२ ॥
dadarśa vadhyamānān ca kliśyamānān ca dehinaḥ . krośataḥ ca mahā-nādam tīvra-niṣṭana-tatparān .. 7.21.12 ..
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥ ७.२१.१३ ॥
कृमिभिः भक्ष्यमाणान् च सारमेयैः च दारुणैः ॥ ७।२१।१३ ॥
kṛmibhiḥ bhakṣyamāṇān ca sārameyaiḥ ca dāruṇaiḥ .. 7.21.13 ..
क्षोत्रायासकरा वाचो वदतश्च भयावहाः । सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥ ७.२१.१४ ॥
क्षोत्र-आयास-कराः वाचः वदतः च भय-आवहाः । सन्तार्यमाणान् वैतरणीम् बहुशस् शोणित-उदकाम् ॥ ७।२१।१४ ॥
kṣotra-āyāsa-karāḥ vācaḥ vadataḥ ca bhaya-āvahāḥ . santāryamāṇān vaitaraṇīm bahuśas śoṇita-udakām .. 7.21.14 ..
वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः । असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥ ७.२१.१५ ॥
वालुकासु च तप्तासु तप्यमानान् मुहूर् मुहुर् । असिपत्रवने च एव भिद्यमानान् अधार्मिकान् ॥ ७।२१।१५ ॥
vālukāsu ca taptāsu tapyamānān muhūr muhur . asipatravane ca eva bhidyamānān adhārmikān .. 7.21.15 ..
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि । पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥ ७.२१.१६ ॥
रौरवे क्षारनद्याम् च क्षुर-धारासु च एव हि । पानीयम् याचमानान् च तृषितान् क्षुधितान् अपि ॥ ७।२१।१६ ॥
raurave kṣāranadyām ca kṣura-dhārāsu ca eva hi . pānīyam yācamānān ca tṛṣitān kṣudhitān api .. 7.21.16 ..
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् । मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ॥ ७.२१.१७ ॥
शव-भूतान् कृशान् दीनान् विवर्णान् मुक्त-मूर्धजान् । मल-पङ्क-धरान् दीनान् रूक्षान् च परिधावतः ॥ ७।२१।१७ ॥
śava-bhūtān kṛśān dīnān vivarṇān mukta-mūrdhajān . mala-paṅka-dharān dīnān rūkṣān ca paridhāvataḥ .. 7.21.17 ..
ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः । कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ॥ ७.२१.१८ ॥
ददर्श रावणः मार्गे शतशस् अथ सहस्रशस् । कांश्चिद् च गृह-मुख्येषु गीत-वादित्र-निःस्वनैः । प्रमोदमानान् अद्राक्षीत् रावणः सुकृतैः स्वकैः ॥ ७।२१।१८ ॥
dadarśa rāvaṇaḥ mārge śataśas atha sahasraśas . kāṃścid ca gṛha-mukhyeṣu gīta-vāditra-niḥsvanaiḥ . pramodamānān adrākṣīt rāvaṇaḥ sukṛtaiḥ svakaiḥ .. 7.21.18 ..
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ॥ ७.२१.१९ ॥
गौरसम् गो-प्रदातारः हि अन्नम् च एव अन्न-दायिनः । गृहान् च गृह-दातारः स्व-कर्म-फलम् अश्नतः ॥ ७।२१।१९ ॥
gaurasam go-pradātāraḥ hi annam ca eva anna-dāyinaḥ . gṛhān ca gṛha-dātāraḥ sva-karma-phalam aśnataḥ .. 7.21.19 ..
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ॥ ७.२१.२० ॥
सुवर्ण-मणि-मुक्ताभिः प्रमदाभिः अलङ्कृतान् ॥ ७।२१।२० ॥
suvarṇa-maṇi-muktābhiḥ pramadābhiḥ alaṅkṛtān .. 7.21.20 ..
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा । ददर्श सुमहाबाहू रावणो राक्षसाधिपः ॥ ७.२१.२१ ॥
धार्मिकान् अपरान् तत्र दीप्यमानान् स्व-तेजसा । ददर्श सु महा-बाहुः रावणः राक्षस-अधिपः ॥ ७।२१।२१ ॥
dhārmikān aparān tatra dīpyamānān sva-tejasā . dadarśa su mahā-bāhuḥ rāvaṇaḥ rākṣasa-adhipaḥ .. 7.21.21 ..
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः । रावणो मोचयामास विक्रमेण बलाद्बली ॥ ७.२१.२२ ॥
ततस् तान् भिद्यमानान् च कर्मभिः दुष्कृतैः स्वकैः । रावणः मोचयामास विक्रमेण बलात् बली ॥ ७।२१।२२ ॥
tatas tān bhidyamānān ca karmabhiḥ duṣkṛtaiḥ svakaiḥ . rāvaṇaḥ mocayāmāsa vikrameṇa balāt balī .. 7.21.22 ..
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा । सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ॥ ७.२१.२३ ॥
प्राणिनः मोचिताः तेन दशग्रीवेण रक्षसा । सुखम् आपुः मुहूर्तम् ते हि अ तर्कितम् अ चिन्तितम् ॥ ७।२१।२३ ॥
prāṇinaḥ mocitāḥ tena daśagrīveṇa rakṣasā . sukham āpuḥ muhūrtam te hi a tarkitam a cintitam .. 7.21.23 ..
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ॥ ७.२१.२४ ॥
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सु सङ्क्रुद्धाः राक्षस-इन्द्रम् अभिद्रवन् ॥ ७।२१।२४ ॥
preteṣu mucyamāneṣu rākṣasena mahīyasā . pretagopāḥ su saṅkruddhāḥ rākṣasa-indram abhidravan .. 7.21.24 ..
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः । धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ॥ ७.२१.२५ ॥
ततस् हलहला शब्दः सर्व-दिग्भ्यः समुत्थितः । धर्मराजस्य योधानाम् शूराणाम् सम्प्रधावताम् ॥ ७।२१।२५ ॥
tatas halahalā śabdaḥ sarva-digbhyaḥ samutthitaḥ . dharmarājasya yodhānām śūrāṇām sampradhāvatām .. 7.21.25 ..
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः । पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥ ७.२१.२६ ॥
ते प्रासैः परिघैः शूलैः मुसलैः शक्ति-तोमरैः । पुष्पकम् समवर्षन्त शूराः शत-सहस्रशस् ॥ ७।२१।२६ ॥
te prāsaiḥ parighaiḥ śūlaiḥ musalaiḥ śakti-tomaraiḥ . puṣpakam samavarṣanta śūrāḥ śata-sahasraśas .. 7.21.26 ..
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च । पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥ ७.२१.२७ ॥
तस्य आसनानि प्रासादान् वेदिकाः तोरणानि च । पुष्पकस्य बभञ्जुः ते शीघ्रम् मधुकराः इव ॥ ७।२१।२७ ॥
tasya āsanāni prāsādān vedikāḥ toraṇāni ca . puṣpakasya babhañjuḥ te śīghram madhukarāḥ iva .. 7.21.27 ..
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे । भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ ७.२१.२८ ॥
देव-निष्ठान-भूतम् तत् विमानम् पुष्पकम् मृधे । भज्यमानम् तथा एव आसीत् अक्षयम् ब्रह्म-तेजसा ॥ ७।२१।२८ ॥
deva-niṣṭhāna-bhūtam tat vimānam puṣpakam mṛdhe . bhajyamānam tathā eva āsīt akṣayam brahma-tejasā .. 7.21.28 ..
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः । शूराणामग्रयातऽणां सहस्राणि शतानि च ॥ ७.२१.२९ ॥
असङ्ख्या सु महती आसीत् तस्य सेना महात्मनः । शूराणाम् अग्रयात सहस्राणि शतानि च ॥ ७।२१।२९ ॥
asaṅkhyā su mahatī āsīt tasya senā mahātmanaḥ . śūrāṇām agrayāta sahasrāṇi śatāni ca .. 7.21.29 ..
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा । ततस्ते सचिवास्तस्य यथाकामं यथाबलम् । अयुध्यन्त महावीराः स च राजा दशाननः ॥ ७.२१.३० ॥
ततस् वृक्षैः च शैलैः च प्रासादानाम् शतैः तथा । ततस् ते सचिवाः तस्य यथाकामम् यथाबलम् । अयुध्यन्त महा-वीराः स च राजा दशाननः ॥ ७।२१।३० ॥
tatas vṛkṣaiḥ ca śailaiḥ ca prāsādānām śataiḥ tathā . tatas te sacivāḥ tasya yathākāmam yathābalam . ayudhyanta mahā-vīrāḥ sa ca rājā daśānanaḥ .. 7.21.30 ..
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः । अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥ ७.२१.३१ ॥
ते तु शोणित-दिग्ध-अङ्गाः सर्व-शस्त्र-समाहताः । अमात्याः राक्षस-इन्द्रस्य चक्रुः आयोधनम् महत् ॥ ७।२१।३१ ॥
te tu śoṇita-digdha-aṅgāḥ sarva-śastra-samāhatāḥ . amātyāḥ rākṣasa-indrasya cakruḥ āyodhanam mahat .. 7.21.31 ..
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् । यमस्य च महाबाहो रावणस्य च मन्त्रिणः ॥ ७.२१.३२ ॥
अन्योन्यम् ते महाभागाः जघ्नुः प्रहरणैः भृशम् । यमस्य च महा-बाहो रावणस्य च मन्त्रिणः ॥ ७।२१।३२ ॥
anyonyam te mahābhāgāḥ jaghnuḥ praharaṇaiḥ bhṛśam . yamasya ca mahā-bāho rāvaṇasya ca mantriṇaḥ .. 7.21.32 ..
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः । तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ॥ ७.२१.३३ ॥
अमात्यान् तान् तु सन्त्यज्य यम-योधाः महा-बलाः । तम् एव च अभ्यधावन्त शूल-वर्षैः दशाननम् ॥ ७।२१।३३ ॥
amātyān tān tu santyajya yama-yodhāḥ mahā-balāḥ . tam eva ca abhyadhāvanta śūla-varṣaiḥ daśānanam .. 7.21.33 ..
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः । फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ॥ ७.२१.३४ ॥
ततस् शोणित-दिग्ध-अङ्गः प्रहारैः जर्जरीकृतः । फुल्ल-अशोकः इव आभाति पुष्पके राक्षस-अधिपः ॥ ७।२१।३४ ॥
tatas śoṇita-digdha-aṅgaḥ prahāraiḥ jarjarīkṛtaḥ . phulla-aśokaḥ iva ābhāti puṣpake rākṣasa-adhipaḥ .. 7.21.34 ..
स तु शूलगदापासाञ्छक्तितोमरसायकान् । मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ॥ ७.२१.३५ ॥
स तु शूल-गदा-पासान् शक्ति-तोमर-सायकान् । मुसलानि शिला-वृक्षान् मुमोच अस्त्र-बलात् बली ॥ ७।२१।३५ ॥
sa tu śūla-gadā-pāsān śakti-tomara-sāyakān . musalāni śilā-vṛkṣān mumoca astra-balāt balī .. 7.21.35 ..
तरूणां च शिलानां च शस्त्राणां चातिदारुणम् । यमसैन्येषु तद्वर्षं पपात धरणीतले ॥ ७.२१.३६ ॥
तरूणाम् च शिलानाम् च शस्त्राणाम् च अति दारुणम् । यम-सैन्येषु तत् वर्षम् पपात धरणी-तले ॥ ७।२१।३६ ॥
tarūṇām ca śilānām ca śastrāṇām ca ati dāruṇam . yama-sainyeṣu tat varṣam papāta dharaṇī-tale .. 7.21.36 ..
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च । जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥ ७.२१.३७ ॥
तान् तु सर्वान् विनिर्भिद्य तत् अस्त्रम् अपहत्य च । जघ्नुः ते राक्षसम् घोरम् एकम् शत-सहस्रशस् ॥ ७।२१।३७ ॥
tān tu sarvān vinirbhidya tat astram apahatya ca . jaghnuḥ te rākṣasam ghoram ekam śata-sahasraśas .. 7.21.37 ..
परिवार्य च तं सर्वे शैलं मोघोत्करा इव । भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ॥ ७.२१.३८ ॥
परिवार्य च तम् सर्वे शैलम् मोघ-उत्कराः इव । भिन्दिपालैः च शूलैः च निरुच्छ्वासम् अपोथयन् ॥ ७।२१।३८ ॥
parivārya ca tam sarve śailam mogha-utkarāḥ iva . bhindipālaiḥ ca śūlaiḥ ca nirucchvāsam apothayan .. 7.21.38 ..
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः । ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥ ७.२१.३९ ॥
विमुक्त-कवचः क्रुद्धः सिक्तः शोणित-विस्रवैः । ततस् स पुष्पकम् त्यक्त्वा पृथिव्याम् अवतिष्ठत ॥ ७।२१।३९ ॥
vimukta-kavacaḥ kruddhaḥ siktaḥ śoṇita-visravaiḥ . tatas sa puṣpakam tyaktvā pṛthivyām avatiṣṭhata .. 7.21.39 ..
ततः स कार्मुकी वाणी समरे चाभिवर्तत । लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ॥ ७.२१.४० ॥
ततस् स कार्मुकी वाणी समरे च अभिवर्तत । लब्ध-सञ्ज्ञः मुहूर्तेन क्रुद्धः तस्थौ यथा अन्तकः ॥ ७।२१।४० ॥
tatas sa kārmukī vāṇī samare ca abhivartata . labdha-sañjñaḥ muhūrtena kruddhaḥ tasthau yathā antakaḥ .. 7.21.40 ..
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके । तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ॥ ७.२१.४१ ॥
ततस् पाशुपतम् दिव्यम् अस्त्रम् सन्धाय कार्मुके । तिष्ठ तिष्ठ इति तान् उक्त्वा तत् चापम् विचकर्ष स ॥ ७।२१।४१ ॥
tatas pāśupatam divyam astram sandhāya kārmuke . tiṣṭha tiṣṭha iti tān uktvā tat cāpam vicakarṣa sa .. 7.21.41 ..
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे । मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ॥ ७.२१.४२ ॥
आकर्णात् स विकृष्य अथ चापम् इन्द्रारिः आहवे । मुमोच तम् शरम् क्रुद्धः त्रिपुरे शङ्करः यथा ॥ ७।२१।४२ ॥
ākarṇāt sa vikṛṣya atha cāpam indrāriḥ āhave . mumoca tam śaram kruddhaḥ tripure śaṅkaraḥ yathā .. 7.21.42 ..
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् । वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ॥ ७.२१.४३ ॥
तस्य रूपम् शरस्य आसीत् विधूम-ज्वाल-मण्डलम् । वनम् दहिष्यतः घर्मे दाव-अग्नेः इव मूर्च्छतः ॥ ७।२१।४३ ॥
tasya rūpam śarasya āsīt vidhūma-jvāla-maṇḍalam . vanam dahiṣyataḥ gharme dāva-agneḥ iva mūrcchataḥ .. 7.21.43 ..
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे । मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ॥ ७.२१.४४ ॥
ज्वाला-माली स तु शरः क्रव्याद-अनुगतः रणे । मुक्तः गुल्मान् द्रुमान् च अपि भस्म कृत्वा प्रधावति ॥ ७।२१।४४ ॥
jvālā-mālī sa tu śaraḥ kravyāda-anugataḥ raṇe . muktaḥ gulmān drumān ca api bhasma kṛtvā pradhāvati .. 7.21.44 ..
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु । रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥ ७.२१.४५ ॥
ते तस्य तेजसा दग्धाः सैन्याः वैवस्वतस्य तु । रणे तस्मिन् निपतिताः दाव-दग्धाः नगाः इव ॥ ७।२१।४५ ॥
te tasya tejasā dagdhāḥ sainyāḥ vaivasvatasya tu . raṇe tasmin nipatitāḥ dāva-dagdhāḥ nagāḥ iva .. 7.21.45 ..
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥ ७.२१.४६ ॥
ततस् तु सिचवैः सार्धम् राक्षसः भीम-विक्रमः । ननाद सु महा-नादम् कम्पयन् इव मेदिनीम् ॥ ७।२१।४६ ॥
tatas tu sicavaiḥ sārdham rākṣasaḥ bhīma-vikramaḥ . nanāda su mahā-nādam kampayan iva medinīm .. 7.21.46 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकविंशः सर्गः ॥ २१ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकविंशः सर्गः ॥ २१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekaviṃśaḥ sargaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In