This overlay will guide you through the buttons:

| |
|
स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः । शत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ॥ ७.२२.१ ॥
स तस्य तु महा-नादम् श्रुत्वा वैवस्वतः प्रभुः । शत्रुम् विजयिनम् मेने स्व-बलस्य च सङ्क्षयम् ॥ ७।२२।१ ॥
sa tasya tu mahā-nādam śrutvā vaivasvataḥ prabhuḥ . śatrum vijayinam mene sva-balasya ca saṅkṣayam .. 7.22.1 ..
स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः । अब्रवीत्त्वरितं सूतं रथो ऽयमुपनीयताम् ॥ ७.२२.२ ॥
स हि योधान् हतान् मत्वा क्रोध-संरक्त-लोचनः । अब्रवीत् त्वरितम् सूतम् रथः अयम् उपनीयताम् ॥ ७।२२।२ ॥
sa hi yodhān hatān matvā krodha-saṃrakta-locanaḥ . abravīt tvaritam sūtam rathaḥ ayam upanīyatām .. 7.22.2 ..
तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । स्थितः स च महातेजा ह्यध्यारोहत तं रथम् । प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ॥ ७.२२.३ ॥
तस्य सूतः तदा दिव्यम् उपस्थाप्य महा-रथम् । स्थितः स च महा-तेजाः हि अध्यारोहत तम् रथम् । प्राश-मुद्गर-हस्तः च मृत्युः तस्य अग्रतस् स्थितः ॥ ७।२२।३ ॥
tasya sūtaḥ tadā divyam upasthāpya mahā-ratham . sthitaḥ sa ca mahā-tejāḥ hi adhyārohata tam ratham . prāśa-mudgara-hastaḥ ca mṛtyuḥ tasya agratas sthitaḥ .. 7.22.3 ..
येन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् । कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् । यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ॥ ७.२२.४ ॥
येन सङ्क्षिप्यते सर्वम् त्रैलोक्यम् इदम् अव्ययम् । कालदण्डः तु पार्श्व-स्थः मूर्तिमान् अस्य च भवत् । यम-प्रहरणम् दिव्यम् तेजसा ज्वलत्-अग्निमत् ॥ ७।२२।४ ॥
yena saṅkṣipyate sarvam trailokyam idam avyayam . kāladaṇḍaḥ tu pārśva-sthaḥ mūrtimān asya ca bhavat . yama-praharaṇam divyam tejasā jvalat-agnimat .. 7.22.4 ..
तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ॥ ७.२२.५ ॥
तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ॥ ७।२२।५ ॥
tasya pārśveṣu nicchidrāḥ kālapāśāḥ pratiṣṭhitāḥ .. 7.22.5 ..
पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ॥ ७.२२.६ ॥
पावक-स्पर्श-सङ्काशः स्थितः मूर्तः च मुद्गरः ॥ ७।२२।६ ॥
pāvaka-sparśa-saṅkāśaḥ sthitaḥ mūrtaḥ ca mudgaraḥ .. 7.22.6 ..
ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ॥ ७.२२.७ ॥
ततस् लोकत्रयम् क्षुब्धम् अकम्पन्त दिवौकसः । कालम् दृष्ट्वा तथा क्रुद्धम् सर्व-लोक-भय-आवहम् ॥ ७।२२।७ ॥
tatas lokatrayam kṣubdham akampanta divaukasaḥ . kālam dṛṣṭvā tathā kruddham sarva-loka-bhaya-āvaham .. 7.22.7 ..
ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान् । प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ॥ ७.२२.८ ॥
ततस् प्रचोदयन् सूतः तान् अश्वान् रुचिर-प्रभान् । प्रययौ भीम-सत्-नादः यत्र रक्षःपतिः स्थितः ॥ ७।२२।८ ॥
tatas pracodayan sūtaḥ tān aśvān rucira-prabhān . prayayau bhīma-sat-nādaḥ yatra rakṣaḥpatiḥ sthitaḥ .. 7.22.8 ..
मुहूर्तेन यमं ते तु हया हरिहयोपमाः । प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ ७.२२.९ ॥
मुहूर्तेन यमम् ते तु हयाः हरि-हय-उपमाः । प्रापयत् मनसः तुल्या यत्र तत् प्रस्तुतम् रणम् ॥ ७।२२।९ ॥
muhūrtena yamam te tu hayāḥ hari-haya-upamāḥ . prāpayat manasaḥ tulyā yatra tat prastutam raṇam .. 7.22.9 ..
दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् । सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ॥ ७.२२.१० ॥
दृष्ट्वा तथा एव विकृतम् रथम् मृत्यु-समन्वितम् । सचिवाः राक्षस-इन्द्रस्य सहसा विप्रदुद्रुवुः ॥ ७।२२।१० ॥
dṛṣṭvā tathā eva vikṛtam ratham mṛtyu-samanvitam . sacivāḥ rākṣasa-indrasya sahasā vipradudruvuḥ .. 7.22.10 ..
लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः । नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ॥ ७.२२.११ ॥
लघु-सत्त्व-तया ते हि नष्ट-सञ्ज्ञाः भय-अर्दिताः । न इह योद्धुम् समर्थाः स्मः इति उक्त्वा प्रययुः दिशः ॥ ७।२२।११ ॥
laghu-sattva-tayā te hi naṣṭa-sañjñāḥ bhaya-arditāḥ . na iha yoddhum samarthāḥ smaḥ iti uktvā prayayuḥ diśaḥ .. 7.22.11 ..
स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् । नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ॥ ७.२२.१२ ॥
स तु तम् तादृशम् दृष्ट्वा रथम् लोक-भय-आवहम् । न अक्षुभ्यत दशग्रीवः न च अपि भयम् आविशत् ॥ ७।२२।१२ ॥
sa tu tam tādṛśam dṛṣṭvā ratham loka-bhaya-āvaham . na akṣubhyata daśagrīvaḥ na ca api bhayam āviśat .. 7.22.12 ..
स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ॥ ७.२२.१३ ॥
स तु रावणम् आसाद्य व्यसृजत् शक्ति-तोमरान् । यमः मर्माणि सङ्क्रुद्धः रावणस्य उपकृन्तत ॥ ७।२२।१३ ॥
sa tu rāvaṇam āsādya vyasṛjat śakti-tomarān . yamaḥ marmāṇi saṅkruddhaḥ rāvaṇasya upakṛntata .. 7.22.13 ..
रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह । तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ ७.२२.१४ ॥
रावणः तु ततस् स्वस्थः शर-वर्षम् मुमोच ह । तस्मिन् वैवस्वत-रथे तोय-वर्षम् इव अम्बुदः ॥ ७।२२।१४ ॥
rāvaṇaḥ tu tatas svasthaḥ śara-varṣam mumoca ha . tasmin vaivasvata-rathe toya-varṣam iva ambudaḥ .. 7.22.14 ..
ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो) । नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ॥ ७.२२.१५ ॥
ततस् महा-शक्ति-शरैः पात्यमानैः महा-उरसि (पात्यमानः । न अशक्नोत् प्रतिकर्तुम् स राक्षसः शल्य-पीडितः ॥ ७।२२।१५ ॥
tatas mahā-śakti-śaraiḥ pātyamānaiḥ mahā-urasi (pātyamānaḥ . na aśaknot pratikartum sa rākṣasaḥ śalya-pīḍitaḥ .. 7.22.15 ..
एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा । सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ॥ ७.२२.१६ ॥
एवम् नाना प्रहरणैः यमेन अमित्र-कर्षिणा । सप्त-रात्रम् कृतः सङ्ख्ये विसञ्ज्ञः विमुखः रिपुः ॥ ७।२२।१६ ॥
evam nānā praharaṇaiḥ yamena amitra-karṣiṇā . sapta-rātram kṛtaḥ saṅkhye visañjñaḥ vimukhaḥ ripuḥ .. 7.22.16 ..
तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः । जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ॥ ७.२२.१७ ॥
तत् आसीत् तुमुलम् युद्धम् यम-राक्षसयोः द्वयोः । जयम् आकाङ्क्षतोः वीर समरेषु अनिवर्तिनोः ॥ ७।२२।१७ ॥
tat āsīt tumulam yuddham yama-rākṣasayoḥ dvayoḥ . jayam ākāṅkṣatoḥ vīra samareṣu anivartinoḥ .. 7.22.17 ..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ ७.२२.१८ ॥
ततस् देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः । प्रजापतिम् पुरस्कृत्य समेताः तत् रण-अजिरम् ॥ ७।२२।१८ ॥
tatas devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ . prajāpatim puraskṛtya sametāḥ tat raṇa-ajiram .. 7.22.18 ..
संवर्त इव लोकानां क्रुध्यतोरभवत्तदा । राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ ७.२२.१९ ॥
संवर्तः इव लोकानाम् क्रुध्यतोः अभवत् तदा । राक्षसानाम् च मुख्यस्य प्रेतानाम् ईश्वरस्य च ॥ ७।२२।१९ ॥
saṃvartaḥ iva lokānām krudhyatoḥ abhavat tadā . rākṣasānām ca mukhyasya pretānām īśvarasya ca .. 7.22.19 ..
राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् । निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत् ॥ ७.२२.२० ॥
राक्षस-इन्द्रः अपि विस्फार्य चापम् इन्द्र-अशनि-प्रभम् । निरन्तरम् इव आकाशम् कुर्वन् बाणान् ततस् असृजत् ॥ ७।२२।२० ॥
rākṣasa-indraḥ api visphārya cāpam indra-aśani-prabham . nirantaram iva ākāśam kurvan bāṇān tatas asṛjat .. 7.22.20 ..
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् । यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ ७.२२.२१ ॥
मृत्युम् चतुर्भिः विशिखैः सूतम् सप्तभिः आर्दयत् । यमम् शत-सहस्रेण शीघ्रम् मर्मसु अताडयत् ॥ ७।२२।२१ ॥
mṛtyum caturbhiḥ viśikhaiḥ sūtam saptabhiḥ ārdayat . yamam śata-sahasreṇa śīghram marmasu atāḍayat .. 7.22.21 ..
ततः क्रुद्धस्य वदनाद्यमस्य समजायत । ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ॥ ७.२२.२२ ॥
ततस् क्रुद्धस्य वदनात् यमस्य समजायत । ज्वाला-माली स निःश्वासः स धूमः कोप-पावकः ॥ ७।२२।२२ ॥
tatas kruddhasya vadanāt yamasya samajāyata . jvālā-mālī sa niḥśvāsaḥ sa dhūmaḥ kopa-pāvakaḥ .. 7.22.22 ..
तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ । प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ ७.२२.२३ ॥
तत् आश्चर्यम् अथो दृष्ट्वा देव-दानव-सन्निधौ । प्रहर्षितौ सु संरब्धौ मृत्यु-कालौ बभूवतुः ॥ ७।२२।२३ ॥
tat āścaryam atho dṛṣṭvā deva-dānava-sannidhau . praharṣitau su saṃrabdhau mṛtyu-kālau babhūvatuḥ .. 7.22.23 ..
ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत । मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् । नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ॥ ७.२२.२४ ॥
ततस् मृत्युः क्रुद्धतरः वैवस्वतम् अभाषत । मुञ्च माम् समरे यावत् हन्मि इमम् पाप-राक्षसम् । न एषा रक्षः भवेत् अद्य मर्यादा हि निसर्गतः ॥ ७।२२।२४ ॥
tatas mṛtyuḥ kruddhataraḥ vaivasvatam abhāṣata . muñca mām samare yāvat hanmi imam pāpa-rākṣasam . na eṣā rakṣaḥ bhavet adya maryādā hi nisargataḥ .. 7.22.24 ..
हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा । विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि च ॥ ७.२२.२५ ॥
हिरण्यकशिपुः श्रीमान् नमुचिः शम्बरः तथा । विसन्धिः धूमकेतुः च बलिः वैरोचनः अपि च ॥ ७।२२।२५ ॥
hiraṇyakaśipuḥ śrīmān namuciḥ śambaraḥ tathā . visandhiḥ dhūmaketuḥ ca baliḥ vairocanaḥ api ca .. 7.22.25 ..
दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च । राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ॥ ७.२२.२६ ॥
दम्भुः दैत्य-महा-राजः वृत्रः बाणः तथा एव च । राजर्षयः शास्त्र-विदः गन्धर्वाः स महोरगाः ॥ ७।२२।२६ ॥
dambhuḥ daitya-mahā-rājaḥ vṛtraḥ bāṇaḥ tathā eva ca . rājarṣayaḥ śāstra-vidaḥ gandharvāḥ sa mahoragāḥ .. 7.22.26 ..
ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः । युगान्तपरिवर्ते च पृथिवी समहार्णवा ॥ ७.२२.२७ ॥
ऋषयः पन्नगाः दैत्याः यक्षाः च अपि अप्सरः-गणाः । युगान्त-परिवर्ते च पृथिवी स महार्णवा ॥ ७।२२।२७ ॥
ṛṣayaḥ pannagāḥ daityāḥ yakṣāḥ ca api apsaraḥ-gaṇāḥ . yugānta-parivarte ca pṛthivī sa mahārṇavā .. 7.22.27 ..
क्षयं नीता महाराज सपर्वतसरिद्द्रुमा । एते चान्ये च बहवो बलवन्तो दुरासदाः ॥ ७.२२.२८ ॥
क्षयम् नीता महा-राज स पर्वत-सरित्-द्रुमा । एते च अन्ये च बहवः बलवन्तः दुरासदाः ॥ ७।२२।२८ ॥
kṣayam nītā mahā-rāja sa parvata-sarit-drumā . ete ca anye ca bahavaḥ balavantaḥ durāsadāḥ .. 7.22.28 ..
विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ॥ ७.२२.२९ ॥
विनिपन्नाः मया दृष्टाः किम् उत अयम् निशाचरः ॥ ७।२२।२९ ॥
vinipannāḥ mayā dṛṣṭāḥ kim uta ayam niśācaraḥ .. 7.22.29 ..
मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् । नहि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ ७.२२.३० ॥
मुञ्चम् माम् साधु धर्म-ज्ञ यावत् एनम् निहन्मि अहम् । नहि कश्चिद् मया दृष्टः बलवान् अपि जीवति ॥ ७।२२।३० ॥
muñcam mām sādhu dharma-jña yāvat enam nihanmi aham . nahi kaścid mayā dṛṣṭaḥ balavān api jīvati .. 7.22.30 ..
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः । स दृष्टो न मया कालं मुहुर्तमापि जीवति ॥ ७.२२.३१ ॥
बलम् मम न खलु एतत् मर्यादा एषा निसर्गतः । स दृष्टः न मया कालम् मुहुर्तमा अपि जीवति ॥ ७।२२।३१ ॥
balam mama na khalu etat maryādā eṣā nisargataḥ . sa dṛṣṭaḥ na mayā kālam muhurtamā api jīvati .. 7.22.31 ..
तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् । अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ ७.२२.३२ ॥
तस्य एवम् वचनम् श्रुत्वा धर्मराजः प्रतापवान् । अब्रवीत् तत्र तम् मुत्युम् त्वम् तिष्ठ एनम् निहन्मि अहम् ॥ ७।२२।३२ ॥
tasya evam vacanam śrutvā dharmarājaḥ pratāpavān . abravīt tatra tam mutyum tvam tiṣṭha enam nihanmi aham .. 7.22.32 ..
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । कालदण्डममोघं तु तोलयामास पाणिना ॥ ७.२२.३३ ॥
ततस् संरक्त-नयनः क्रुद्धः वैवस्वतः प्रभुः । कालदण्डम् अमोघम् तु तोलयामास पाणिना ॥ ७।२२।३३ ॥
tatas saṃrakta-nayanaḥ kruddhaḥ vaivasvataḥ prabhuḥ . kāladaṇḍam amogham tu tolayāmāsa pāṇinā .. 7.22.33 ..
यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः । पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ॥ ७.२२.३४ ॥
यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः । पावक-अशनि-सङ्काशः मुद्गरः मूर्तिमान् स्थितः ॥ ७।२२।३४ ॥
yasya pārśveṣu nikhilā kālapāśāḥ pratiṣṭhitāḥ . pāvaka-aśani-saṅkāśaḥ mudgaraḥ mūrtimān sthitaḥ .. 7.22.34 ..
दर्शनादेव यः प्राणान्प्राणिनामपकर्षति । किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ॥ ७.२२.३५ ॥
दर्शनात् एव यः प्राणान् प्राणिनाम् अपकर्षति । किम् पुनर् स्पृश्यमानस्य पात्यमानस्य वा पुनर् ॥ ७।२२।३५ ॥
darśanāt eva yaḥ prāṇān prāṇinām apakarṣati . kim punar spṛśyamānasya pātyamānasya vā punar .. 7.22.35 ..
स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् । तेन स्पृष्टो बलवता महाप्रहरणो ऽस्फुरत् ॥ ७.२२.३६ ॥
स ज्वाला-परिवारः तु निर्दहन् इव राक्षसम् । तेन स्पृष्टः बलवता महा-प्रहरणः अस्फुरत् ॥ ७।२२।३६ ॥
sa jvālā-parivāraḥ tu nirdahan iva rākṣasam . tena spṛṣṭaḥ balavatā mahā-praharaṇaḥ asphurat .. 7.22.36 ..
ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे । सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ ७.२२.३७ ॥
ततस् विदुद्रुवुः सर्वे तस्मात् त्रस्ताः रण-अजिरे । सुराः च क्षुभिताः सर्वे दृष्ट्वा दण्ड-उद्यतम् यमम् ॥ ७।२२।३७ ॥
tatas vidudruvuḥ sarve tasmāt trastāḥ raṇa-ajire . surāḥ ca kṣubhitāḥ sarve dṛṣṭvā daṇḍa-udyatam yamam .. 7.22.37 ..
तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् । यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥ ७.२२.३८ ॥
तस्मिन् प्रहर्तु-कामे तु यमे दण्डेन रावणम् । यमम् पितामहः साक्षात् दर्शयित्वा इदम् अब्रवीत् ॥ ७।२२।३८ ॥
tasmin prahartu-kāme tu yame daṇḍena rāvaṇam . yamam pitāmahaḥ sākṣāt darśayitvā idam abravīt .. 7.22.38 ..
वैवस्वत महाबाहो न खल्वमितविक्रम । न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ॥ ७.२२.३९ ॥
वैवस्वत महा-बाहो न खलु अमित-विक्रम । न हन्तव्यः त्वया तेन दण्डेन एव निशाचरः ॥ ७।२२।३९ ॥
vaivasvata mahā-bāho na khalu amita-vikrama . na hantavyaḥ tvayā tena daṇḍena eva niśācaraḥ .. 7.22.39 ..
वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव । स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ॥ ७.२२.४० ॥
वरः खलु मया एतस्मै दत्तः त्रिदश-पुङ्गव । स त्वया न अनृतः कार्यः यत् मया व्याहृतम् वचः ॥ ७।२२।४० ॥
varaḥ khalu mayā etasmai dattaḥ tridaśa-puṅgava . sa tvayā na anṛtaḥ kāryaḥ yat mayā vyāhṛtam vacaḥ .. 7.22.40 ..
यो हि मामनृतं कुर्याद्देवो वा मानुषो ऽपि वा । त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ॥ ७.२२.४१ ॥
यः हि माम् अनृतम् कुर्यात् देवः वा मानुषः अपि वा । त्रैलोक्यम् अनृतम् तेन कृतम् स्यात् न अत्र संशयः ॥ ७।२२।४१ ॥
yaḥ hi mām anṛtam kuryāt devaḥ vā mānuṣaḥ api vā . trailokyam anṛtam tena kṛtam syāt na atra saṃśayaḥ .. 7.22.41 ..
क्रुद्धेन विप्रमुक्तो ऽयं निर्विशेषं प्रियाप्रिये । प्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ ७.२२.४२ ॥
क्रुद्धेन विप्रमुक्तः अयम् निर्विशेषम् प्रिय-अप्रिये । प्रजाः संहरते रौद्रः लोकत्रय-भय-आवहः ॥ ७।२२।४२ ॥
kruddhena vipramuktaḥ ayam nirviśeṣam priya-apriye . prajāḥ saṃharate raudraḥ lokatraya-bhaya-āvahaḥ .. 7.22.42 ..
अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः । कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ ७.२२.४३ ॥
अमोघः हि एष सर्वेषाम् प्राणिनाम् अमित-प्रभः । कालदण्डः मया सृष्टः पूर्वम् मृत्यु-पुरस्कृतः ॥ ७।२२।४३ ॥
amoghaḥ hi eṣa sarveṣām prāṇinām amita-prabhaḥ . kāladaṇḍaḥ mayā sṛṣṭaḥ pūrvam mṛtyu-puraskṛtaḥ .. 7.22.43 ..
तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि । नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ ७.२२.४४ ॥
तत् न खलु एष ते सौम्य पात्यः रावण-मूर्धनि । न हि अस्मिन् पतिते कश्चिद् मुहूर्तम् अपि जीवति ॥ ७।२२।४४ ॥
tat na khalu eṣa te saumya pātyaḥ rāvaṇa-mūrdhani . na hi asmin patite kaścid muhūrtam api jīvati .. 7.22.44 ..
यदि ह्यन्मिन्निपतिते न म्रियेतैष राक्षसः । म्रियते वा दशग्रीवस्तदाप्युभयतो ऽनृतम् ॥ ७.२२.४५ ॥
यदि हि अन्मिन् निपतिते न म्रियेत एष राक्षसः । म्रियते वा दशग्रीवः तदा अपि उभयतस् अनृतम् ॥ ७।२२।४५ ॥
yadi hi anmin nipatite na mriyeta eṣa rākṣasaḥ . mriyate vā daśagrīvaḥ tadā api ubhayatas anṛtam .. 7.22.45 ..
तन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम् । सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ ७.२२.४६ ॥
तत् निवर्तय लङ्केशम् द्दण्डम् एतम् समुद्यतम् । सत्यम् च माम् कुरुष्व अद्य लोकान् त्वम् यदि अवेक्षसे ॥ ७।२२।४६ ॥
tat nivartaya laṅkeśam ddaṇḍam etam samudyatam . satyam ca mām kuruṣva adya lokān tvam yadi avekṣase .. 7.22.46 ..
एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा । एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ ७.२२.४७ ॥
एवम् उक्तः तु धर्म-आत्मा प्रत्युवाच यमः तदा । एष व्यावर्तितः दण्डः प्रभविष्णुः हि नः भवान् ॥ ७।२२।४७ ॥
evam uktaḥ tu dharma-ātmā pratyuvāca yamaḥ tadā . eṣa vyāvartitaḥ daṇḍaḥ prabhaviṣṇuḥ hi naḥ bhavān .. 7.22.47 ..
किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि । न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ ७.२२.४८ ॥
किम् नु इदानीम् मया शक्यम् कर्तुम् रण-गतेन हि । न मया यदि अयम् शक्यः हन्तुम् वर-पुरस्कृतः ॥ ७।२२।४८ ॥
kim nu idānīm mayā śakyam kartum raṇa-gatena hi . na mayā yadi ayam śakyaḥ hantum vara-puraskṛtaḥ .. 7.22.48 ..
एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः । इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ७.२२.४९ ॥
एष तस्मात् प्रणश्यामि दर्शनात् अस्य रक्षसः । इति उक्त्वा स रथः स अश्वः तत्र एव अन्तरधीयत ॥ ७।२२।४९ ॥
eṣa tasmāt praṇaśyāmi darśanāt asya rakṣasaḥ . iti uktvā sa rathaḥ sa aśvaḥ tatra eva antaradhīyata .. 7.22.49 ..
दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः । आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ॥ ७.२२.५० ॥
दशग्रीवः तु तम् जित्वा नाम विश्राव्य च आत्मनः । आरुह्य पुष्पकम् भूयस् निष्क्रान्तः यम-सादनात् ॥ ७।२२।५० ॥
daśagrīvaḥ tu tam jitvā nāma viśrāvya ca ātmanaḥ . āruhya puṣpakam bhūyas niṣkrāntaḥ yama-sādanāt .. 7.22.50 ..
स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः । जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ ७.२२.५१ ॥
स तु वैवस्वतः देवैः सह ब्रह्म-पुरोगमैः । जगाम त्रिदिवम् हृष्टः नारदः च महा-मुनिः ॥ ७।२२।५१ ॥
sa tu vaivasvataḥ devaiḥ saha brahma-purogamaiḥ . jagāma tridivam hṛṣṭaḥ nāradaḥ ca mahā-muniḥ .. 7.22.51 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वाविंशः सर्गः ॥ २२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे द्वाविंशः सर्गः ॥ २२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe dvāviṃśaḥ sargaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In