This overlay will guide you through the buttons:

| |
|
ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् । रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ॥ ७.२३.१ ॥
ततस् जित्वा दशग्रीवः यमम् त्रिदश-पुङ्गवम् । रावणः तु रण-श्लाघी स्व-सहायान् ददर्श ह ॥ ७।२३।१ ॥
tatas jitvā daśagrīvaḥ yamam tridaśa-puṅgavam . rāvaṇaḥ tu raṇa-ślāghī sva-sahāyān dadarśa ha .. 7.23.1 ..
ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् । रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ॥ ७.२३.२ ॥
ततस् रुधिर-सिक्त-अङ्गम् प्रहारैः जर्जरीकृतम् । रावणम् राक्षसाः दृष्ट्वा हि अष्ट-वत् समुपागमन् ॥ ७।२३।२ ॥
tatas rudhira-sikta-aṅgam prahāraiḥ jarjarīkṛtam . rāvaṇam rākṣasāḥ dṛṣṭvā hi aṣṭa-vat samupāgaman .. 7.23.2 ..
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः । पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ॥ ७.२३.३ ॥
जयेन वर्धयित्वा च मारीच-प्रमुखाः ततस् । पुष्पकम् भेजिरे सर्वे सान्त्विताः रावणेन तु ॥ ७।२३।३ ॥
jayena vardhayitvā ca mārīca-pramukhāḥ tatas . puṣpakam bhejire sarve sāntvitāḥ rāvaṇena tu .. 7.23.3 ..
ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् । दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ॥ ७.२३.४ ॥
ततस् रसातलम् गच्छन् प्रविष्टः पयसाम् निधिम् । दैत्य-उरग-गण-अध्युष्टम् वरुणेन सु रक्षितम् ॥ ७।२३।४ ॥
tatas rasātalam gacchan praviṣṭaḥ payasām nidhim . daitya-uraga-gaṇa-adhyuṣṭam varuṇena su rakṣitam .. 7.23.4 ..
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् । कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ॥ ७.२३.५ ॥
स तु भोगवतीम् गत्वा पुरीम् वासुकि-पालिताम् । कृत्वा नाग-अन्वशे हृष्टः ययौ मणि-मयीम् पुरीम् ॥ ७।२३।५ ॥
sa tu bhogavatīm gatvā purīm vāsuki-pālitām . kṛtvā nāga-anvaśe hṛṣṭaḥ yayau maṇi-mayīm purīm .. 7.23.5 ..
निवातकवचास्तत्र दैत्या लब्धवरा वसन् । राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ॥ ७.२३.६ ॥
निवात-कवचाः तत्र दैत्याः लब्ध-वराः वसन् । राक्षस-अन्तान् समागम्य युद्धाय समुपाह्वयत् ॥ ७।२३।६ ॥
nivāta-kavacāḥ tatra daityāḥ labdha-varāḥ vasan . rākṣasa-antān samāgamya yuddhāya samupāhvayat .. 7.23.6 ..
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः । नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ॥ ७.२३.७ ॥
ते तु सर्वे सु विक्रान्ताः दैतेयाः बल-शालिनः । नाना प्रहरणाः तत्र प्रहृष्टाः युद्ध-दुर्मदाः ॥ ७।२३।७ ॥
te tu sarve su vikrāntāḥ daiteyāḥ bala-śālinaḥ . nānā praharaṇāḥ tatra prahṛṣṭāḥ yuddha-durmadāḥ .. 7.23.7 ..
शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः । अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ॥ ७.२३.८ ॥
शूलैः त्रिशूलैः कुलिशैः पट्टिश-असि-परश्वधैः । अन्योन्यम् बिभिदुः क्रुद्धाः राक्षसाः दानवाः तथा ॥ ७।२३।८ ॥
śūlaiḥ triśūlaiḥ kuliśaiḥ paṭṭiśa-asi-paraśvadhaiḥ . anyonyam bibhiduḥ kruddhāḥ rākṣasāḥ dānavāḥ tathā .. 7.23.8 ..
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः । न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ॥ ७.२३.९ ॥
तेषाम् तु युध्यमानानाम् साग्रः संवत्सरः गतः । न च अन्यतरयोः तत्र विजयः वा क्षयः अपि वा ॥ ७।२३।९ ॥
teṣām tu yudhyamānānām sāgraḥ saṃvatsaraḥ gataḥ . na ca anyatarayoḥ tatra vijayaḥ vā kṣayaḥ api vā .. 7.23.9 ..
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः । आजगाम द्रुतं देवो विमानवरमास्थितः ॥ ७.२३.१० ॥
ततस् पितामहः तत्र त्रैलोक्य-गतिः अव्ययः । आजगाम द्रुतम् देवः विमान-वरम् आस्थितः ॥ ७।२३।१० ॥
tatas pitāmahaḥ tatra trailokya-gatiḥ avyayaḥ . ājagāma drutam devaḥ vimāna-varam āsthitaḥ .. 7.23.10 ..
निवातकवचानां तु निवार्य रणकर्म तत् । वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ॥ ७.२३.११ ॥
निवात-कवचानाम् तु निवार्य रण-कर्म तत् । वृद्धः पितामहः वाक्यम् उवाच विदित-अर्थ-वत् ॥ ७।२३।११ ॥
nivāta-kavacānām tu nivārya raṇa-karma tat . vṛddhaḥ pitāmahaḥ vākyam uvāca vidita-artha-vat .. 7.23.11 ..
नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः । न भवन्तः क्षयं नेतुमपि सामरदानवैः ॥ ७.२३.१२ ॥
न हि अयम् रावणः युद्धे शक्यः जेतुम् सुर-असुरैः । न भवन्तः क्षयम् नेतुम् अपि स अमर-दानवैः ॥ ७।२३।१२ ॥
na hi ayam rāvaṇaḥ yuddhe śakyaḥ jetum sura-asuraiḥ . na bhavantaḥ kṣayam netum api sa amara-dānavaiḥ .. 7.23.12 ..
राक्षसस्य सखित्वं च भवद्भिः सह रोचते । अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ॥ ७.२३.१३ ॥
राक्षसस्य सखित्वम् च भवद्भिः सह रोचते । अविभक्ताः च सर्व-अर्थाः सुहृदाम् न अत्र संशयः ॥ ७।२३।१३ ॥
rākṣasasya sakhitvam ca bhavadbhiḥ saha rocate . avibhaktāḥ ca sarva-arthāḥ suhṛdām na atra saṃśayaḥ .. 7.23.13 ..
ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः । निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥ ७.२३.१४ ॥
ततस् अग्नि-साक्षिकम् सख्यम् कृतवान् तत्र रावणः । निवात-कवचैः सार्धम् प्रीतिमान् अभवत् तदा ॥ ७।२३।१४ ॥
tatas agni-sākṣikam sakhyam kṛtavān tatra rāvaṇaḥ . nivāta-kavacaiḥ sārdham prītimān abhavat tadā .. 7.23.14 ..
अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः । स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ॥ ७.२३.१५ ॥
अर्थतः तैः यथान्यायम् संवत्सरम् अथ उषितः । स्व-पुरात् निर्विशेषम् च प्रियम् प्राप्तः दशाननः ॥ ७।२३।१५ ॥
arthataḥ taiḥ yathānyāyam saṃvatsaram atha uṣitaḥ . sva-purāt nirviśeṣam ca priyam prāptaḥ daśānanaḥ .. 7.23.15 ..
ततोपधार्य मायानां शतमेकं समाप्तवान् । सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ॥ ७.२३.१६ ॥
ततस् उपधार्य मायानाम् शतम् एकम् समाप्तवान् । सलिल-इन्द्र-पुर-अन्वेषी भ्रमति स्म रसातलम् ॥ ७।२३।१६ ॥
tatas upadhārya māyānām śatam ekam samāptavān . salila-indra-pura-anveṣī bhramati sma rasātalam .. 7.23.16 ..
ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् । गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ॥ ७.२३.१७ ॥
ततस् अश्मनगरम् नाम कालकेयैः अधिष्ठितम् । गत्वा तु कालकेयान् च हत्वा तत्र बल-उत्कटान् ॥ ७।२३।१७ ॥
tatas aśmanagaram nāma kālakeyaiḥ adhiṣṭhitam . gatvā tu kālakeyān ca hatvā tatra bala-utkaṭān .. 7.23.17 ..
शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा । श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् । जिह्वया संलिहन्तं च राक्षसं समरे तथा ॥ ७.२३.१८ ॥
शूर्पणख्याः च भर्तारम् असिना प्राच्छिनत् तदा । श्यालम् च बलवन्तम् च विद्युज्जिह्वम् बलोत्कटम् । जिह्वया संलिहन्तम् च राक्षसम् समरे तथा ॥ ७।२३।१८ ॥
śūrpaṇakhyāḥ ca bhartāram asinā prācchinat tadā . śyālam ca balavantam ca vidyujjihvam balotkaṭam . jihvayā saṃlihantam ca rākṣasam samare tathā .. 7.23.18 ..
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ॥ ७.२३.१९ ॥
तम् विजित्य मुहूर्तेन जघ्ने दैत्यान् चतुःशतम् ॥ ७।२३।१९ ॥
tam vijitya muhūrtena jaghne daityān catuḥśatam .. 7.23.19 ..
ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् । वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥ ७.२३.२० ॥
ततस् पाण्डुर-मेघ-आभम् कैलासम् इव भास्वरम् । वरुणस्य आलयम् दिव्यम् अपश्यत् राक्षस-अधिपः ॥ ७।२३।२० ॥
tatas pāṇḍura-megha-ābham kailāsam iva bhāsvaram . varuṇasya ālayam divyam apaśyat rākṣasa-adhipaḥ .. 7.23.20 ..
क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् । यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ॥ ७.२३.२१ ॥
क्षरन्तीम् च पयः तत्र सुरभिम् गाम् अवस्थिताम् । यस्याः पयः-अभिनिष्यन्दात् क्षीरोदः नाम सागरः ॥ ७।२३।२१ ॥
kṣarantīm ca payaḥ tatra surabhim gām avasthitām . yasyāḥ payaḥ-abhiniṣyandāt kṣīrodaḥ nāma sāgaraḥ .. 7.23.21 ..
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् । यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ॥ ७.२३.२२ ॥
ददर्श रावणः तत्र गो-वृष-इन्द्र-वर-अरणिम् । यस्मात् चन्द्रः प्रभवति शीतरश्मिः निशाकरः ॥ ७।२३।२२ ॥
dadarśa rāvaṇaḥ tatra go-vṛṣa-indra-vara-araṇim . yasmāt candraḥ prabhavati śītaraśmiḥ niśākaraḥ .. 7.23.22 ..
यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः । अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ॥ ७.२३.२३ ॥
यम् समाश्रित्य जीवन्ति फेनपाः परम-ऋषयः । अमृतम् यत्र च उत्पन्नम् स्वधा च स्वध-भोजिनाम् ॥ ७।२३।२३ ॥
yam samāśritya jīvanti phenapāḥ parama-ṛṣayaḥ . amṛtam yatra ca utpannam svadhā ca svadha-bhojinām .. 7.23.23 ..
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः । प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ॥ ७.२३.२४ ॥
याम् ब्रुवन्ति नराः लोके सुरभिम् नाम नामतः । प्रदक्षिणम् तु ताम् कृत्वा रावणः परम-अद्भुताम् ॥ ७।२३।२४ ॥
yām bruvanti narāḥ loke surabhim nāma nāmataḥ . pradakṣiṇam tu tām kṛtvā rāvaṇaḥ parama-adbhutām .. 7.23.24 ..
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः । ततो धाराशताकीर्णं शारदाभ्रनिभं तदा । नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ॥ ७.२३.२५ ॥
प्रविवेश महा-घोरम् गुप्तम् बहुविधैः बलैः । ततस् धारा-शत-आकीर्णम् शारद-अभ्र-निभम् तदा । नित्य-प्रहृष्टम् ददृशे वरुणस्य गृह-उत्तमम् ॥ ७।२३।२५ ॥
praviveśa mahā-ghoram guptam bahuvidhaiḥ balaiḥ . tatas dhārā-śata-ākīrṇam śārada-abhra-nibham tadā . nitya-prahṛṣṭam dadṛśe varuṇasya gṛha-uttamam .. 7.23.25 ..
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः । अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ॥ ७.२३.२६ ॥
ततस् हत्वा बलाध्यक्षान् समरे तैः च ताडितः । अब्रवीत् च ततस् योधान् राजा शीघ्रम् निवेद्यताम् ॥ ७।२३।२६ ॥
tatas hatvā balādhyakṣān samare taiḥ ca tāḍitaḥ . abravīt ca tatas yodhān rājā śīghram nivedyatām .. 7.23.26 ..
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् । वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ॥ ७.२३.२७ ॥
युद्ध-अर्थी रावणः प्राप्तः तस्य युद्धम् प्रदीयताम् । वद वा न भयम् ते अस्ति निर्जितः अस्मि इति स अञ्जलिः ॥ ७।२३।२७ ॥
yuddha-arthī rāvaṇaḥ prāptaḥ tasya yuddham pradīyatām . vada vā na bhayam te asti nirjitaḥ asmi iti sa añjaliḥ .. 7.23.27 ..
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः । पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ॥ ७.२३.२८ ॥
एतस्मिन् अन्तरे क्रुद्धाः वरुणस्य महात्मनः । पुत्राः पौत्राः च निष्क्रामन् गौः च पुष्करे एव च ॥ ७।२३।२८ ॥
etasmin antare kruddhāḥ varuṇasya mahātmanaḥ . putrāḥ pautrāḥ ca niṣkrāman gauḥ ca puṣkare eva ca .. 7.23.28 ..
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः । युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ॥ ७.२३.२९ ॥
ते तु वीर्य-गुण-उपेताः बलैः परिवृताः स्वकैः । युङ्क्त्वा रथान् काम-गमान् उद्यत्-भास्वर-वर्चसः ॥ ७।२३।२९ ॥
te tu vīrya-guṇa-upetāḥ balaiḥ parivṛtāḥ svakaiḥ . yuṅktvā rathān kāma-gamān udyat-bhāsvara-varcasaḥ .. 7.23.29 ..
ततो युद्धं समभवद्दारुणं रोमहर्षणम् । सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ॥ ७.२३.३० ॥
ततस् युद्धम् समभवत् दारुणम् रोम-हर्षणम् । सलिलेन्द्रस्य पुत्राणाम् रावणस्य च धीमतः ॥ ७।२३।३० ॥
tatas yuddham samabhavat dāruṇam roma-harṣaṇam . salilendrasya putrāṇām rāvaṇasya ca dhīmataḥ .. 7.23.30 ..
अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः । वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ॥ ७.२३.३१ ॥
अमात्यैः च महा-वीर्यैः दशग्रीवस्य रक्षसः । वारुणम् तत् बलम् कृत्स्नम् क्षणेन विनिपातितम् ॥ ७।२३।३१ ॥
amātyaiḥ ca mahā-vīryaiḥ daśagrīvasya rakṣasaḥ . vāruṇam tat balam kṛtsnam kṣaṇena vinipātitam .. 7.23.31 ..
समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा । अर्दिताः शरजालेन निवृत्ता रणकर्मणः ॥ ७.२३.३२ ॥
समीक्ष्य स्व-बलम् सङ्ख्ये वरुणस्य सुताः तदा । अर्दिताः शर-जालेन निवृत्ताः रण-कर्मणः ॥ ७।२३।३२ ॥
samīkṣya sva-balam saṅkhye varuṇasya sutāḥ tadā . arditāḥ śara-jālena nivṛttāḥ raṇa-karmaṇaḥ .. 7.23.32 ..
महीतलगतास्ते तु रावणं दृश्य पुष्पके । आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ॥ ७.२३.३३ ॥
मही-तल-गताः ते तु रावणम् दृश्य पुष्पके । आकाशम् आशु विविशुः स्यन्दनैः शीघ्र-गामिभिः ॥ ७।२३।३३ ॥
mahī-tala-gatāḥ te tu rāvaṇam dṛśya puṣpake . ākāśam āśu viviśuḥ syandanaiḥ śīghra-gāmibhiḥ .. 7.23.33 ..
महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् । आकाशयुद्धं तुमुलं देवदानवयोरिव ॥ ७.२३.३४ ॥
महा-दासीत् ततस् तेषाम् तुल्यम् स्थानम् अवाप्य तत् । आकाश-युद्धम् तुमुलम् देव-दानवयोः इव ॥ ७।२३।३४ ॥
mahā-dāsīt tatas teṣām tulyam sthānam avāpya tat . ākāśa-yuddham tumulam deva-dānavayoḥ iva .. 7.23.34 ..
ततस्ते रावणं युद्धे शरैः पावकसन्निभैः । विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ॥ ७.२३.३५ ॥
ततस् ते रावणम् युद्धे शरैः पावक-सन्निभैः । विमुखीकृत्य सन्तुष्टाः विनेदुः विविधान् रवान् ॥ ७।२३।३५ ॥
tatas te rāvaṇam yuddhe śaraiḥ pāvaka-sannibhaiḥ . vimukhīkṛtya santuṣṭāḥ vineduḥ vividhān ravān .. 7.23.35 ..
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् । त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ॥ ७.२३.३६ ॥
ततस् महोदरः क्रुद्धः राजानम् दृश्य धर्षितम् । त्यक्त्वा मृत्यु-भयम् वीरः युद्ध-काङ्क्षी व्यलोकयत् ॥ ७।२३।३६ ॥
tatas mahodaraḥ kruddhaḥ rājānam dṛśya dharṣitam . tyaktvā mṛtyu-bhayam vīraḥ yuddha-kāṅkṣī vyalokayat .. 7.23.36 ..
तेन ते दारुणा युद्धे कामगाः पवनोपमाः । महोदरेण गदया हता वै प्रययुः क्षितिम् ॥ ७.२३.३७ ॥
तेन ते दारुणाः युद्धे कामगाः पवन-उपमाः । महोदरेण गदया हताः वै प्रययुः क्षितिम् ॥ ७।२३।३७ ॥
tena te dāruṇāḥ yuddhe kāmagāḥ pavana-upamāḥ . mahodareṇa gadayā hatāḥ vai prayayuḥ kṣitim .. 7.23.37 ..
तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् । मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ॥ ७.२३.३८ ॥
तेषाम् वरुण-पुत्राणाम् हत्वा योधान् हयान् शतान् । मुमोच आशु महा-नादम् विरथान् प्रेक्ष्य तान् स्थितान् ॥ ७।२३।३८ ॥
teṣām varuṇa-putrāṇām hatvā yodhān hayān śatān . mumoca āśu mahā-nādam virathān prekṣya tān sthitān .. 7.23.38 ..
ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः । महोदरेण निहताः पतिताः पृथिवीतले ॥ ७.२३.३९ ॥
ते तु तेषाम् रथाः स अश्वाः सह सारथिभिः हतैः । महोदरेण निहताः पतिताः पृथिवी-तले ॥ ७।२३।३९ ॥
te tu teṣām rathāḥ sa aśvāḥ saha sārathibhiḥ hataiḥ . mahodareṇa nihatāḥ patitāḥ pṛthivī-tale .. 7.23.39 ..
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः । आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ॥ ७.२३.४० ॥
ते तु त्यक्त्वा रथान् पुत्राः वरुणस्य महात्मनः । आकाशे विष्ठिताः शूराः स्व-प्रभावात् न विव्यथुः ॥ ७।२३।४० ॥
te tu tyaktvā rathān putrāḥ varuṇasya mahātmanaḥ . ākāśe viṣṭhitāḥ śūrāḥ sva-prabhāvāt na vivyathuḥ .. 7.23.40 ..
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् । रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ॥ ७.२३.४१ ॥
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् । रावणम् समरे क्रुद्धाः सहिताः समभिद्रवन् ॥ ७।२३।४१ ॥
dhanūṃṣi kṛtvā sajjāni vinirbhidya mahodaram . rāvaṇam samare kruddhāḥ sahitāḥ samabhidravan .. 7.23.41 ..
सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः । दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ॥ ७.२३.४२ ॥
सायकैः चाप-विभ्रष्टैः वज्र-कल्पैः सु दारुणैः । दारयन्ति स्म सङ्क्रुद्धाः मेघाः इव महा-गिरिम् ॥ ७।२३।४२ ॥
sāyakaiḥ cāpa-vibhraṣṭaiḥ vajra-kalpaiḥ su dāruṇaiḥ . dārayanti sma saṅkruddhāḥ meghāḥ iva mahā-girim .. 7.23.42 ..
ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः । शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ॥ ७.२३.४३ ॥
ततस् क्रुद्धः दशग्रीवः कालाग्निः इव निर्गतः । शर-वर्षैः महा-घोरैः तेषाम् मर्मसु अताडयत् ॥ ७।२३।४३ ॥
tatas kruddhaḥ daśagrīvaḥ kālāgniḥ iva nirgataḥ . śara-varṣaiḥ mahā-ghoraiḥ teṣām marmasu atāḍayat .. 7.23.43 ..
ततस्तेनैव सहसा सीदन्ति स्म पदातयः । मुसलानि विचित्राणि ततो भल्लशतानि च ॥ ७.२३.४४ ॥
ततस् तेन एव सहसा सीदन्ति स्म पदातयः । मुसलानि विचित्राणि ततस् भल्ल-शतानि च ॥ ७।२३।४४ ॥
tatas tena eva sahasā sīdanti sma padātayaḥ . musalāni vicitrāṇi tatas bhalla-śatāni ca .. 7.23.44 ..
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा । पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ॥ ७.२३.४५ ॥
पट्टिशान् च एव शक्तीः च शतघ्नीः तोमरान् तथा । पातयामास दुर्धर्षः तेषाम् उपरि विष्ठितः ॥ ७।२३।४५ ॥
paṭṭiśān ca eva śaktīḥ ca śataghnīḥ tomarān tathā . pātayāmāsa durdharṣaḥ teṣām upari viṣṭhitaḥ .. 7.23.45 ..
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः । महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ॥ ७.२३.४६ ॥
अपविद्धाः तु ते वीराः विनिष्पेतुः पदातयः । महा-पङ्कम् इव आसाद्य कुञ्जराः षष्टिहायनाः ॥ ७।२३।४६ ॥
apaviddhāḥ tu te vīrāḥ viniṣpetuḥ padātayaḥ . mahā-paṅkam iva āsādya kuñjarāḥ ṣaṣṭihāyanāḥ .. 7.23.46 ..
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः । ननाद रावणो हर्षान्महानम्बुधरो यथा ॥ ७.२३.४७ ॥
सीदमानान् सुतान् दृष्ट्वा विह्वलान् सु महा-ओजसः । ननाद रावणः हर्षात् महान् अम्बुधरः यथा ॥ ७।२३।४७ ॥
sīdamānān sutān dṛṣṭvā vihvalān su mahā-ojasaḥ . nanāda rāvaṇaḥ harṣāt mahān ambudharaḥ yathā .. 7.23.47 ..
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् । नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ॥ ७.२३.४८ ॥
ततस् रक्षः महा-नादान् मुक्त्वा हन्ति स्म वारुणान् । नाना प्रहरण-उपेतैः धारा-पातैः इव अम्बुदः ॥ ७।२३।४८ ॥
tatas rakṣaḥ mahā-nādān muktvā hanti sma vāruṇān . nānā praharaṇa-upetaiḥ dhārā-pātaiḥ iva ambudaḥ .. 7.23.48 ..
ततस्ते विमुखाः सर्वे पतिता धरणीतले । रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥ ७.२३.४९ ॥
ततस् ते विमुखाः सर्वे पतिताः धरणी-तले । रणात् स्व-पुरुषैः शीघ्रम् गृहाणि एव प्रवेशिताः ॥ ७।२३।४९ ॥
tatas te vimukhāḥ sarve patitāḥ dharaṇī-tale . raṇāt sva-puruṣaiḥ śīghram gṛhāṇi eva praveśitāḥ .. 7.23.49 ..
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ॥ ७.२३.५० ॥
तान् अब्रवीत् ततस् रक्षः वरुणाय निवेद्यताम् ॥ ७।२३।५० ॥
tān abravīt tatas rakṣaḥ varuṇāya nivedyatām .. 7.23.50 ..
रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः । गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ॥ ७.२३.५१ ॥
रावणम् तु अब्रवीत् मन्त्री प्रहस्तो (प्रहसः नाम वारुणः । गतः खलु महा-राजः ब्रह्म-लोकम् जलेश्वरः ॥ ७।२३।५१ ॥
rāvaṇam tu abravīt mantrī prahasto (prahasaḥ nāma vāruṇaḥ . gataḥ khalu mahā-rājaḥ brahma-lokam jaleśvaraḥ .. 7.23.51 ..
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि । तत्किं तव वृथा वीर परिश्रम्य गते नृपे । ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ॥ ७.२३.५२ ॥
गान्धर्वम् वरुणः श्रोतुम् यम् त्वम् आह्वयसे युधि । तत् किम् तव वृथा वीर परिश्रम्य गते नृपे । ये तु सन्निहिताः वीराः कुमाराः ते पराजिताः ॥ ७।२३।५२ ॥
gāndharvam varuṇaḥ śrotum yam tvam āhvayase yudhi . tat kim tava vṛthā vīra pariśramya gate nṛpe . ye tu sannihitāḥ vīrāḥ kumārāḥ te parājitāḥ .. 7.23.52 ..
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः । हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ॥ ७.२३.५३ ॥
राक्षस-इन्द्रः तु तत् श्रुत्वा नाम विश्राव्य च आत्मनः । हर्षात् नादम् विमुञ्चन् वै निष्क्रान्तः वरुण-आलयात् ॥ ७।२३।५३ ॥
rākṣasa-indraḥ tu tat śrutvā nāma viśrāvya ca ātmanaḥ . harṣāt nādam vimuñcan vai niṣkrāntaḥ varuṇa-ālayāt .. 7.23.53 ..
आगतस्तु पथा येन तेनैव विनिवृत्य सः । लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ॥ ७.२३.५४ ॥
आगतः तु पथा येन तेन एव विनिवृत्य सः । लङ्काम् अभिमुखः रक्षः नभः-तल-गतः ययौ ॥ ७।२३।५४ ॥
āgataḥ tu pathā yena tena eva vinivṛtya saḥ . laṅkām abhimukhaḥ rakṣaḥ nabhaḥ-tala-gataḥ yayau .. 7.23.54 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्रयोविंशः सर्गः ॥ २३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe trayoviṃśaḥ sargaḥ .. 23 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In