This overlay will guide you through the buttons:

| |
|
निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् । जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ ७.२४.१ ॥
निवर्तमानः संहृष्टः रावणः सु दुरात्मवान् । जह्रे पथि नरेन्द्र-ऋषि-देव-गन्धर्व-कन्यकाः ॥ ७।२४।१ ॥
nivartamānaḥ saṃhṛṣṭaḥ rāvaṇaḥ su durātmavān . jahre pathi narendra-ṛṣi-deva-gandharva-kanyakāḥ .. 7.24.1 ..
दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति । हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ॥ ७.२४.२ ॥
दर्शनीयाम् हि रक्षः स कन्याम् स्त्रीम् वा अपि पश्यति । हत्वा बन्धु-जनम् तस्याः विमाने ताम् रुरोध ह ॥ ७।२४।२ ॥
darśanīyām hi rakṣaḥ sa kanyām strīm vā api paśyati . hatvā bandhu-janam tasyāḥ vimāne tām rurodha ha .. 7.24.2 ..
एवं पन्नगकन्याश्च राक्षसासुरमानुषीः । यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ॥ ७.२४.३ ॥
एवम् पन्नग-कन्याः च राक्षस-असुर-मानुषीः । यक्ष-दानव-कन्याः च विमाने सः अध्यरोपयत् ॥ ७।२४।३ ॥
evam pannaga-kanyāḥ ca rākṣasa-asura-mānuṣīḥ . yakṣa-dānava-kanyāḥ ca vimāne saḥ adhyaropayat .. 7.24.3 ..
ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् । तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ॥ ७.२४.४ ॥
ताः च सर्वाः समम् दुःखात् मुमुचुः बाष्प-जम् जलम् । तुल्यम् अग्नि-अर्चिषाम् तत्र शोक-अग्नि-भय-सम्भवम् ॥ ७।२४।४ ॥
tāḥ ca sarvāḥ samam duḥkhāt mumucuḥ bāṣpa-jam jalam . tulyam agni-arciṣām tatra śoka-agni-bhaya-sambhavam .. 7.24.4 ..
ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः । आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ॥ ७.२४.५ ॥
ताभिः सर्व-अनवद्याभिः नदीभिः इव सागरः । आपूरितम् विमानम् तद्-भय-शोक-अशिव-अश्रुभिः ॥ ७।२४।५ ॥
tābhiḥ sarva-anavadyābhiḥ nadībhiḥ iva sāgaraḥ . āpūritam vimānam tad-bhaya-śoka-aśiva-aśrubhiḥ .. 7.24.5 ..
नागगन्धर्वकन्याश्च महर्षितनयाश्च याः । दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ॥ ७.२४.६ ॥
नाग-गन्धर्व-कन्याः च महा-ऋषि-तनयाः च याः । दैत्य-दानव-कन्याः च विमाने शतशस् अरुदन् ॥ ७।२४।६ ॥
nāga-gandharva-kanyāḥ ca mahā-ṛṣi-tanayāḥ ca yāḥ . daitya-dānava-kanyāḥ ca vimāne śataśas arudan .. 7.24.6 ..
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः । पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ॥ ७.२४.७ ॥
दीर्घ-केश्यः सु चारु-अङ्ग्यः पूर्ण-चन्द्र-निभ-आननाः । पीन-स्तन्यः तथा वज्र-वेदि-मध्य-सम-प्रभाः ॥ ७।२४।७ ॥
dīrgha-keśyaḥ su cāru-aṅgyaḥ pūrṇa-candra-nibha-ānanāḥ . pīna-stanyaḥ tathā vajra-vedi-madhya-sama-prabhāḥ .. 7.24.7 ..
रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः । स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ॥ ७.२४.८ ॥
रथ-कूबर-सङ्काशैः श्रोणि-देशैः मनोहराः । स्त्रियः सुर-अङ्गना-प्रख्याः निष्टप्त-कनक-प्रभाः ॥ ७।२४।८ ॥
ratha-kūbara-saṅkāśaiḥ śroṇi-deśaiḥ manoharāḥ . striyaḥ sura-aṅganā-prakhyāḥ niṣṭapta-kanaka-prabhāḥ .. 7.24.8 ..
शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः । तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ॥ ७.२४.९ ॥
शोक-दुःख-भय-त्रस्ताः विह्वलाः च सुमध्यमाः । तासाम् निश्वास-वातेन सर्वतस् सम्प्रदीपितम् ॥ ७।२४।९ ॥
śoka-duḥkha-bhaya-trastāḥ vihvalāḥ ca sumadhyamāḥ . tāsām niśvāsa-vātena sarvatas sampradīpitam .. 7.24.9 ..
अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् । दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ॥ ७.२४.१० ॥
अग्नि-होत्रम् इव आभाति सत् निरुद्ध-अग्नि-पुष्पकम् । दशग्रीव-वशम् प्राप्ताः ताः तु शोक-आकुलाः स्त्रियः ॥ ७।२४।१० ॥
agni-hotram iva ābhāti sat niruddha-agni-puṣpakam . daśagrīva-vaśam prāptāḥ tāḥ tu śoka-ākulāḥ striyaḥ .. 7.24.10 ..
दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव । काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ॥ ७.२४.११ ॥
दीन-वक्र-ईक्षणाः श्यामाः मृग्यः सिंह-वशाः इव । काचिद् चिन्तयती तत्र किम् नु माम् भक्षयिष्यति ॥ ७।२४।११ ॥
dīna-vakra-īkṣaṇāḥ śyāmāḥ mṛgyaḥ siṃha-vaśāḥ iva . kācid cintayatī tatra kim nu mām bhakṣayiṣyati .. 7.24.11 ..
काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् । इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च । दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ॥ ७.२४.१२ ॥
काचिद् दध्यौ सु दुःख-आर्ता अपि माम् मारयेत् अयम् । इति मातृ-पितऽन् स्मृत्वा भर्तऽन् भ्रातऽन् तथा एव च । दुःख-शोक-समाविष्टाः विलेपुः सहिताः स्त्रियः ॥ ७।२४।१२ ॥
kācid dadhyau su duḥkha-ārtā api mām mārayet ayam . iti mātṛ-pita'n smṛtvā bharta'n bhrāta'n tathā eva ca . duḥkha-śoka-samāviṣṭāḥ vilepuḥ sahitāḥ striyaḥ .. 7.24.12 ..
कथं नु खलु मे पुत्रो भविष्यति मया विना । कथं माता कथं भ्राता निमग्नाः शोकसागरे ॥ ७.२४.१३ ॥ ।
कथम् नु खलु मे पुत्रः भविष्यति मया विना । कथम् माता कथम् भ्राता निमग्नाः शोक-सागरे ॥ ७।२४।१३ ॥ ।
katham nu khalu me putraḥ bhaviṣyati mayā vinā . katham mātā katham bhrātā nimagnāḥ śoka-sāgare .. 7.24.13 .. .
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना । मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ॥ ७.२४.१४ ॥
हा कथम् नु करिष्यामि भर्तुः तस्मात् अहम् विना । मृत्यो प्रसादयामि त्वाम् नय माम् दुःख-भागिनीम् ॥ ७।२४।१४ ॥
hā katham nu kariṣyāmi bhartuḥ tasmāt aham vinā . mṛtyo prasādayāmi tvām naya mām duḥkha-bhāginīm .. 7.24.14 ..
किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ॥ ७.२४.१५ ॥
किम् नु तत् दुष्कृतम् कर्म पुरा देह-अन्तरे कृतम् ॥ ७।२४।१५ ॥
kim nu tat duṣkṛtam karma purā deha-antare kṛtam .. 7.24.15 ..
एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे । न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ॥ ७.२४.१६ ॥
एवम् स्म दुःखिताः सर्वाः पतिताः शोक-सागरे । न खलु इदानीम् पश्यामः दुःखस्य अस्य अन्तम् आत्मनः ॥ ७।२४।१६ ॥
evam sma duḥkhitāḥ sarvāḥ patitāḥ śoka-sāgare . na khalu idānīm paśyāmaḥ duḥkhasya asya antam ātmanaḥ .. 7.24.16 ..
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः । यद्दुर्बला बलवता भर्तारो रावणेन नः ॥ ७.२४.१७ ॥
अहो धिक् मानुषम् लोकम् न अस्ति खलु अधमः परः । यत् दुर्बलाः बलवता भर्तारः रावणेन नः ॥ ७।२४।१७ ॥
aho dhik mānuṣam lokam na asti khalu adhamaḥ paraḥ . yat durbalāḥ balavatā bhartāraḥ rāvaṇena naḥ .. 7.24.17 ..
सूर्येणोदयता काले नक्षत्राणीव नाशिताः । अहो सुबलवद्रक्षो वधोपायेषु युज्यते ॥ ७.२४.१८ ॥
सूर्येण उदयता काले नक्षत्राणि इव नाशिताः । अहो सु बलवत् रक्षः वध-उपायेषु युज्यते ॥ ७।२४।१८ ॥
sūryeṇa udayatā kāle nakṣatrāṇi iva nāśitāḥ . aho su balavat rakṣaḥ vadha-upāyeṣu yujyate .. 7.24.18 ..
अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते । सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ॥ ७.२४.१९ ॥
अहो दुर्वृत्तम् आस्थाय न आत्मानम् वा एजुगुप्सते । सर्वथा सदृशः तावत् विक्रमः अस्य दुरात्मनः ॥ ७।२४।१९ ॥
aho durvṛttam āsthāya na ātmānam vā ejugupsate . sarvathā sadṛśaḥ tāvat vikramaḥ asya durātmanaḥ .. 7.24.19 ..
इदं त्वसदृशं कर्म परदाराभिमर्शनम् । यस्मादेष परक्यासु रमते राक्षसाधमः ॥ ७.२४.२० ॥
इदम् तु असदृशम् कर्म पर-दार-अभिमर्शनम् । यस्मात् एष परक्यासु रमते राक्षस-अधमः ॥ ७।२४।२० ॥
idam tu asadṛśam karma para-dāra-abhimarśanam . yasmāt eṣa parakyāsu ramate rākṣasa-adhamaḥ .. 7.24.20 ..
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् । सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ॥ ७.२४.२१ ॥
तस्मात् वै स्त्री-कृतेन एव प्राप्स्यते दुर्मतिः वधम् । सतीभिः वर-नारीभिः एवम् वाक्ये अभ्युदीरिते ॥ ७।२४।२१ ॥
tasmāt vai strī-kṛtena eva prāpsyate durmatiḥ vadham . satībhiḥ vara-nārībhiḥ evam vākye abhyudīrite .. 7.24.21 ..
नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च । शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ॥ ७.२४.२२ ॥
नेदुः दुन्दुभयः ख-स्थाः पुष्प-वृष्टिः पपात च । शप्तः स्त्रीभिः स तु समम् हत-ओजाः इव निष्प्रभः ॥ ७।२४।२२ ॥
neduḥ dundubhayaḥ kha-sthāḥ puṣpa-vṛṣṭiḥ papāta ca . śaptaḥ strībhiḥ sa tu samam hata-ojāḥ iva niṣprabhaḥ .. 7.24.22 ..
पतिव्रताभिः साध्वीभिर्बभूव विमना इव । एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ ७.२४.२३ ॥
पतिव्रताभिः साध्वीभिः बभूव विमनाः इव । एवम् विलपितम् तासाम् शृण्वन् राक्षस-पुङ्गवः । प्रविवेश पुरीम् लङ्काम् पूज्यमानः निशाचरैः ॥ ७।२४।२३ ॥
pativratābhiḥ sādhvībhiḥ babhūva vimanāḥ iva . evam vilapitam tāsām śṛṇvan rākṣasa-puṅgavaḥ . praviveśa purīm laṅkām pūjyamānaḥ niśācaraiḥ .. 7.24.23 ..
एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी । सहसा पतिता भूमौ भगिनी रावणस्य सा ॥ ७.२४.२४ ॥
एतस्मिन् अन्तरे घोरा राक्षसी कामरूपिणी । सहसा पतिता भूमौ भगिनी रावणस्य सा ॥ ७।२४।२४ ॥
etasmin antare ghorā rākṣasī kāmarūpiṇī . sahasā patitā bhūmau bhaginī rāvaṇasya sā .. 7.24.24 ..
तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् । अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ॥ ७.२४.२५ ॥
ताम् स्वसारम् समुत्थाप्य रावणः परिसान्त्वयन् । अब्रवीत् किम् इदम् भद्रे वक्तु-कामा असि मे द्रुतम् ॥ ७।२४।२५ ॥
tām svasāram samutthāpya rāvaṇaḥ parisāntvayan . abravīt kim idam bhadre vaktu-kāmā asi me drutam .. 7.24.25 ..
सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् । कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ॥ ७.२४.२६ ॥
सा बाष्प-परिरुद्ध-अक्षी रक्त-अक्षी वाक्यम् अब्रवीत् । कृता अस्मि विधवा राजन् त्वया बलवता बलात् ॥ ७।२४।२६ ॥
sā bāṣpa-pariruddha-akṣī rakta-akṣī vākyam abravīt . kṛtā asmi vidhavā rājan tvayā balavatā balāt .. 7.24.26 ..
एते राजंस्त्वया वीरा दैत्या विनिहता रणे । कालकेया इति ख्याताः सहस्राणि चतुर्दश ॥ ७.२४.२७ ॥
एते राजन् त्वया वीराः दैत्याः विनिहताः रणे । कालकेयाः इति ख्याताः सहस्राणि चतुर्दश ॥ ७।२४।२७ ॥
ete rājan tvayā vīrāḥ daityāḥ vinihatāḥ raṇe . kālakeyāḥ iti khyātāḥ sahasrāṇi caturdaśa .. 7.24.27 ..
प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ॥ ७.२४.२८ ॥
प्राणेभ्यः अपि गरीयान् मे तत्र भर्ता महा-बलः ॥ ७।२४।२८ ॥
prāṇebhyaḥ api garīyān me tatra bhartā mahā-balaḥ .. 7.24.28 ..
सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना । त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ॥ ७.२४.२९ ॥
सः अपि त्वया हतः तात रिपुणा भ्रातृ-गृध्नुना । त्वया अस्मि निहता राजन् स्वयम् एव हि बन्धुना ॥ ७।२४।२९ ॥
saḥ api tvayā hataḥ tāta ripuṇā bhrātṛ-gṛdhnunā . tvayā asmi nihatā rājan svayam eva hi bandhunā .. 7.24.29 ..
राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् । ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि । स त्वया निहतो युद्धे स्वयमेव न लज्जसे ॥ ७.२४.३० ॥
राजन् वैधव्य-शब्दम् च भोक्ष्यामि त्वद्-कृते हि अहम् । ननु नाम त्वया रक्ष्यः जामाता समरेषु अपि । स त्वया निहतः युद्धे स्वयम् एव न लज्जसे ॥ ७।२४।३० ॥
rājan vaidhavya-śabdam ca bhokṣyāmi tvad-kṛte hi aham . nanu nāma tvayā rakṣyaḥ jāmātā samareṣu api . sa tvayā nihataḥ yuddhe svayam eva na lajjase .. 7.24.30 ..
एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया । अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥ ७.२४.३१ ॥
एवम् उक्तः दशग्रीवः भगिन्या क्रोशमानया । अब्रवीत् सान्त्वयित्वा ताम् साम-पूर्वम् इदम् वचः ॥ ७।२४।३१ ॥
evam uktaḥ daśagrīvaḥ bhaginyā krośamānayā . abravīt sāntvayitvā tām sāma-pūrvam idam vacaḥ .. 7.24.31 ..
अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः । दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ॥ ७.२४.३२ ॥
अलम् वत्से रुदित्वा ते न भेतव्यम् च सर्वशस् । दान-मान-प्रसादैः त्वाम् तोषयिष्यामि यत्नतः ॥ ७।२४।३२ ॥
alam vatse ruditvā te na bhetavyam ca sarvaśas . dāna-māna-prasādaiḥ tvām toṣayiṣyāmi yatnataḥ .. 7.24.32 ..
युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् । नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ॥ ७.२४.३३ ॥
युद्ध-प्रमत्तः व्याक्षिप्तः जय-आकाङ्क्षी क्षिपन् शरान् । न अवगच्छामि युद्धेषु स्वान् परान् वा अपि अहम् शुभे ॥ ७।२४।३३ ॥
yuddha-pramattaḥ vyākṣiptaḥ jaya-ākāṅkṣī kṣipan śarān . na avagacchāmi yuddheṣu svān parān vā api aham śubhe .. 7.24.33 ..
जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः । तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ॥ ७.२४.३४ ॥
जामातरम् न जाने स्म प्रहरन् युद्ध-दुर्मदः । तेन असौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ॥ ७।२४।३४ ॥
jāmātaram na jāne sma praharan yuddha-durmadaḥ . tena asau nihataḥ saṅkhye mayā bhartā tava svasaḥ .. 7.24.34 ..
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् । भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ॥ ७.२४.३५ ॥
अस्मिन् काले तु यत् प्राप्तम् तत् करिष्यामि ते हितम् । भ्रातुः ऐश्वर्य-युक्तस्य खरस्य वस पार्श्वतस् ॥ ७।२४।३५ ॥
asmin kāle tu yat prāptam tat kariṣyāmi te hitam . bhrātuḥ aiśvarya-yuktasya kharasya vasa pārśvatas .. 7.24.35 ..
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति । प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ॥ ७.२४.३६ ॥
चतुर्दशानाम् भ्राता ते सहस्राणाम् भविष्यति । प्रभुः प्रयाणे दाने च राक्षसानाम् महा-बलः ॥ ७।२४।३६ ॥
caturdaśānām bhrātā te sahasrāṇām bhaviṣyati . prabhuḥ prayāṇe dāne ca rākṣasānām mahā-balaḥ .. 7.24.36 ..
तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः । भविष्यति तवादेशं सदा कुर्वन्निशाचरः ॥ ७.२४.३७ ॥
तत्र मातृष्वसेयः इयः ते भ्राता अयम् वै खरः प्रभुः । भविष्यति तव आदेशम् सदा कुर्वन् निशाचरः ॥ ७।२४।३७ ॥
tatra mātṛṣvaseyaḥ iyaḥ te bhrātā ayam vai kharaḥ prabhuḥ . bhaviṣyati tava ādeśam sadā kurvan niśācaraḥ .. 7.24.37 ..
शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् । दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ॥ ७.२४.३८ ॥
शीघ्रम् गच्छतु अयम् वीरः दण्डकान् परिरक्षितुम् । दूषणः अस्य बलाध्यक्षः भविष्यति महा-बलः ॥ ७।२४।३८ ॥
śīghram gacchatu ayam vīraḥ daṇḍakān parirakṣitum . dūṣaṇaḥ asya balādhyakṣaḥ bhaviṣyati mahā-balaḥ .. 7.24.38 ..
तत्र ते वचनं शूरः करिष्यति सदा खरः । रक्षसां कामरूपाणां प्रभुरेष भविष्यति ॥ ७.२४.३९ ॥
तत्र ते वचनम् शूरः करिष्यति सदा खरः । रक्षसाम् कामरूपाणाम् प्रभुः एष भविष्यति ॥ ७।२४।३९ ॥
tatra te vacanam śūraḥ kariṣyati sadā kharaḥ . rakṣasām kāmarūpāṇām prabhuḥ eṣa bhaviṣyati .. 7.24.39 ..
एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह । चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ॥ ७.२४.४० ॥
एवम् उक्त्वा दशग्रीवः सैन्यम् अस्य आदिदेश ह । चतुर्दश सहस्राणि रक्षसाम् वीर्य-शालिनाम् ॥ ७।२४।४० ॥
evam uktvā daśagrīvaḥ sainyam asya ādideśa ha . caturdaśa sahasrāṇi rakṣasām vīrya-śālinām .. 7.24.40 ..
स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः । आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ॥ ७.२४.४१ ॥
स तैः परिवृतः सर्वैः राक्षसैः घोर-दर्शनैः । आगच्छत खरः शीघ्रम् दण्डकान् अकुतोभयः ॥ ७।२४।४१ ॥
sa taiḥ parivṛtaḥ sarvaiḥ rākṣasaiḥ ghora-darśanaiḥ . āgacchata kharaḥ śīghram daṇḍakān akutobhayaḥ .. 7.24.41 ..
स तत्र कारयामास राज्यं निहतकण्टकम् । सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ॥ ७.२४.४२ ॥
स तत्र कारयामास राज्यम् निहत-कण्टकम् । सा च शूर्पणखा तत्र न्यवसत् दण्डक-वने ॥ ७।२४।४२ ॥
sa tatra kārayāmāsa rājyam nihata-kaṇṭakam . sā ca śūrpaṇakhā tatra nyavasat daṇḍaka-vane .. 7.24.42 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुर्विंशः सर्गः ॥ २४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe caturviṃśaḥ sargaḥ .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In