This overlay will guide you through the buttons:

| |
|
कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः । आससाद महातेजा इन्द्रलोकं निशाचरः ॥ ७.२७.१ ॥
कैलासम् लङ्घयित्वा अथ दशग्रीवः स रावणः । आससाद महा-तेजाः इन्द्र-लोकम् निशाचरः ॥ ७।२७।१ ॥
kailāsam laṅghayitvā atha daśagrīvaḥ sa rāvaṇaḥ . āsasāda mahā-tejāḥ indra-lokam niśācaraḥ .. 7.27.1 ..
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः । देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ॥ ७.२७.२ ॥
तस्य राक्षस-सैन्यस्य समन्तात् उपयास्यतः । देव-लोकम् ययौ शब्दः मथ्यमान-अर्णव-उपमः ॥ ७।२७।२ ॥
tasya rākṣasa-sainyasya samantāt upayāsyataḥ . deva-lokam yayau śabdaḥ mathyamāna-arṇava-upamaḥ .. 7.27.2 ..
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् । अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ॥ ७.२७.३ ॥
श्रुत्वा तु रावणम् प्राप्तम् इन्द्रः चलितः आसनात् । अब्रवीत् तत्र तान् देवान् सर्वान् एव समागतान् ॥ ७।२७।३ ॥
śrutvā tu rāvaṇam prāptam indraḥ calitaḥ āsanāt . abravīt tatra tān devān sarvān eva samāgatān .. 7.27.3 ..
आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् । सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ॥ ७.२७.४ ॥
आदित्यान् स वसून् रुद्रान् विश्वान् साध्यान् मरुत्-गणान् । सज्जीभवत युद्ध-अर्थम् रावणस्य दुरात्मनः ॥ ७।२७।४ ॥
ādityān sa vasūn rudrān viśvān sādhyān marut-gaṇān . sajjībhavata yuddha-artham rāvaṇasya durātmanaḥ .. 7.27.4 ..
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि । सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ॥ ७.२७.५ ॥
एवम् उक्ताः तु शक्रेण देवाः शक्र-समाः युधि । सन्नह्य सु महा-सत्त्वाः युद्ध-श्रद्धा-समन्विताः ॥ ७।२७।५ ॥
evam uktāḥ tu śakreṇa devāḥ śakra-samāḥ yudhi . sannahya su mahā-sattvāḥ yuddha-śraddhā-samanvitāḥ .. 7.27.5 ..
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति । विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ॥ ७.२७.६ ॥
स तु दीनः परित्रस्तः महा-इन्द्रः रावणम् प्रति । विष्णोः समीपम् आगत्य वाक्यम् एतत् उवाच ह ॥ ७।२७।६ ॥
sa tu dīnaḥ paritrastaḥ mahā-indraḥ rāvaṇam prati . viṣṇoḥ samīpam āgatya vākyam etat uvāca ha .. 7.27.6 ..
विष्णो कथं करिष्यामि महावीर्यपराक्रमः । असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ॥ ७.२७.७ ॥
विष्णो कथम् करिष्यामि महा-वीर्य-पराक्रमः । असौ हि बलवत् रक्षः युद्ध-अर्थम् अभिवर्तते ॥ ७।२७।७ ॥
viṣṇo katham kariṣyāmi mahā-vīrya-parākramaḥ . asau hi balavat rakṣaḥ yuddha-artham abhivartate .. 7.27.7 ..
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना । तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ॥ ७.२७.८ ॥
वर-प्रदानात् बलवान् न खलु अन्येन हेतुना । तत् तु सत्य-वचः कार्यम् यत् उक्तम् पद्मयोनिना ॥ ७।२७।८ ॥
vara-pradānāt balavān na khalu anyena hetunā . tat tu satya-vacaḥ kāryam yat uktam padmayoninā .. 7.27.8 ..
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ । त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ॥ ७.२७.९ ॥
तत् यथा नमुचिः वृत्रः बलिः नरक-शम्बरौ । त्वद्-बलम् समवष्टभ्य मया दग्धाः तथा कुरु ॥ ७।२७।९ ॥
tat yathā namuciḥ vṛtraḥ baliḥ naraka-śambarau . tvad-balam samavaṣṭabhya mayā dagdhāḥ tathā kuru .. 7.27.9 ..
नह्यन्यो देवदेवेश त्वामृते मधुसूदन । गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ॥ ७.२७.१० ॥
न हि अन्यः देवदेवेश त्वाम् ऋते मधुसूदन । गतिः परायणम् न अस्ति त्रैलोक्ये स चराचरे ॥ ७।२७।१० ॥
na hi anyaḥ devadeveśa tvām ṛte madhusūdana . gatiḥ parāyaṇam na asti trailokye sa carācare .. 7.27.10 ..
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः । त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ॥ ७.२७.११ ॥
त्वम् हि नारायणः श्रीमान् पद्मनाभः सनातनः । त्वया इमे स्थापिताः लोकाः शक्रः च अहम् सुर-ईश्वरः ॥ ७।२७।११ ॥
tvam hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ . tvayā ime sthāpitāḥ lokāḥ śakraḥ ca aham sura-īśvaraḥ .. 7.27.11 ..
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् । त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ॥ ७.२७.१२ ॥
त्वया सृष्टम् इदम् सर्वम् त्रैलोक्यम् सचराचरम् । त्वाम् एव भगवन् सर्वे प्रविशन्ति युग-क्षये ॥ ७।२७।१२ ॥
tvayā sṛṣṭam idam sarvam trailokyam sacarācaram . tvām eva bhagavan sarve praviśanti yuga-kṣaye .. 7.27.12 ..
तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् । अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ॥ ७.२७.१३ ॥
तत् आचक्ष्व यथा तत्त्वम् देवदेव मम स्वयम् । अपि चक्र-सहायः त्वम् योत्स्यसे रावणम् प्रभो ॥ ७।२७।१३ ॥
tat ācakṣva yathā tattvam devadeva mama svayam . api cakra-sahāyaḥ tvam yotsyase rāvaṇam prabho .. 7.27.13 ..
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः । अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ॥ ७.२७.१४ ॥
एवम् उक्तः स शक्रेण देवः नारायणः प्रभुः । अब्रवीत् न परित्रासः कर्तव्यः श्रूयताम् च मे ॥ ७।२७।१४ ॥
evam uktaḥ sa śakreṇa devaḥ nārāyaṇaḥ prabhuḥ . abravīt na paritrāsaḥ kartavyaḥ śrūyatām ca me .. 7.27.14 ..
न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः । हन्तुं चापि समासाद्य वरदानेन दुर्जयः ॥ ७.२७.१५ ॥
न तावत् एष दुष्ट-आत्मा शक्यः जेतुम् सुर-असुरैः । हन्तुम् च अपि समासाद्य वर-दानेन दुर्जयः ॥ ७।२७।१५ ॥
na tāvat eṣa duṣṭa-ātmā śakyaḥ jetum sura-asuraiḥ . hantum ca api samāsādya vara-dānena durjayaḥ .. 7.27.15 ..
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः । राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ॥ ७.२७.१६ ॥
सर्वथा तु महत् कर्म करिष्यति बल-उत्कटः । राक्षसः पुत्र-सहितः दृष्टम् एतत् निसर्गतः ॥ ७।२७।१६ ॥
sarvathā tu mahat karma kariṣyati bala-utkaṭaḥ . rākṣasaḥ putra-sahitaḥ dṛṣṭam etat nisargataḥ .. 7.27.16 ..
यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर । नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ॥ ७.२७.१७ ॥
यत् तु माम् त्वम् अभाषिष्ठ युद्ध्यस्व इति सुरेश्वर । न अहम् तम् प्रतियोत्स्यामि रावणम् राक्षसम् युधि ॥ ७।२७।१७ ॥
yat tu mām tvam abhāṣiṣṭha yuddhyasva iti sureśvara . na aham tam pratiyotsyāmi rāvaṇam rākṣasam yudhi .. 7.27.17 ..
नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते । दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ॥ ७.२७.१८ ॥
न अ हत्वा समरे शत्रुम् विष्णुः प्रतिनिवर्तते । दुर्लभः च एव कामः अद्य वर-गुप्तात् हि रावणात् ॥ ७।२७।१८ ॥
na a hatvā samare śatrum viṣṇuḥ pratinivartate . durlabhaḥ ca eva kāmaḥ adya vara-guptāt hi rāvaṇāt .. 7.27.18 ..
प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो । भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ॥ ७.२७.१९ ॥
प्रतिजाने च देव-इन्द्र त्वद्-समीपे शतक्रतो । भविता अस्मि यथा अस्य अहम् रक्षसः मृत्यु-कारणम् ॥ ७।२७।१९ ॥
pratijāne ca deva-indra tvad-samīpe śatakrato . bhavitā asmi yathā asya aham rakṣasaḥ mṛtyu-kāraṇam .. 7.27.19 ..
अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् । देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् । एतत्ते कथितं तत्त्वं देवराज शचीपते ॥ ७.२७.२० ॥
अहम् एव निहन्ता अस्मि रावणम् स पुरःसरम् । देवताः नन्दयिष्यामि ज्ञात्वा कालम् उपागतम् । एतत् ते कथितम् तत्त्वम् देवराज शचीपते ॥ ७।२७।२० ॥
aham eva nihantā asmi rāvaṇam sa puraḥsaram . devatāḥ nandayiṣyāmi jñātvā kālam upāgatam . etat te kathitam tattvam devarāja śacīpate .. 7.27.20 ..
युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ॥ ७.२७.२१ ॥
युद्ध्यस्व विगत-त्रासः सर्वैः सार्धम् महा-बल ॥ ७।२७।२१ ॥
yuddhyasva vigata-trāsaḥ sarvaiḥ sārdham mahā-bala .. 7.27.21 ..
यामि ज्ञात्वा कालमुपागतम् । ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ । सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ॥ ७.२७.२२ ॥
यामि ज्ञात्वा कालम् उपागतम् । ततस् रुद्राः सह आदित्याः वसवः मरुतः अश्वनौ । सन्नद्धाः निर्ययुः तूर्णम् राक्षसान् अभितस् पुरात् ॥ ७।२७।२२ ॥
yāmi jñātvā kālam upāgatam . tatas rudrāḥ saha ādityāḥ vasavaḥ marutaḥ aśvanau . sannaddhāḥ niryayuḥ tūrṇam rākṣasān abhitas purāt .. 7.27.22 ..
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये । तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ॥ ७.२७.२३ ॥
एतस्मिन् अन्तरे नादः शुश्रुवे रजनी-क्षये । तस्य रावण-सैन्यस्य प्रयुद्धस्य समन्ततः ॥ ७।२७।२३ ॥
etasmin antare nādaḥ śuśruve rajanī-kṣaye . tasya rāvaṇa-sainyasya prayuddhasya samantataḥ .. 7.27.23 ..
ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै । सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ॥ ७.२७.२४ ॥
ते प्रयुद्धाः महा-वीर्याः हि अन्योन्यम् अभिवीक्ष्य वै । सङ्ग्रामम् एव अभिमुखाः हि अभवर्तन्त हृष्ट-वत् ॥ ७।२७।२४ ॥
te prayuddhāḥ mahā-vīryāḥ hi anyonyam abhivīkṣya vai . saṅgrāmam eva abhimukhāḥ hi abhavartanta hṛṣṭa-vat .. 7.27.24 ..
ततो दैवतसैन्यनां सङ्क्षोभः समजायत । तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ॥ ७.२७.२५ ॥
ततस् दैवत-सैन्यनाम् सङ्क्षोभः समजायत । तत् अक्षयम् महा-सैन्यम् दृष्ट्वा समर-मूर्धनि ॥ ७।२७।२५ ॥
tatas daivata-sainyanām saṅkṣobhaḥ samajāyata . tat akṣayam mahā-sainyam dṛṣṭvā samara-mūrdhani .. 7.27.25 ..
ततो युद्धं समभवेद्देवदानवरक्षसाम् । घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ॥ ७.२७.२६ ॥
ततस् युद्धम् समभवेत् देव-दानव-रक्षसाम् । घोरम् तुमुल-निर्ह्रादम् नाना प्रहरण-उद्यतम् ॥ ७।२७।२६ ॥
tatas yuddham samabhavet deva-dānava-rakṣasām . ghoram tumula-nirhrādam nānā praharaṇa-udyatam .. 7.27.26 ..
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः । युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ॥ ७.२७.२७ ॥
एतस्मिन् अन्तरे शूराः राक्षसाः घोर-दर्शनाः । युद्ध-अर्थम् समवर्तन्त सचिवाः रावणस्य ते ॥ ७।२७।२७ ॥
etasmin antare śūrāḥ rākṣasāḥ ghora-darśanāḥ . yuddha-artham samavartanta sacivāḥ rāvaṇasya te .. 7.27.27 ..
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ । अकम्पनो निकुम्भश्च शुकः सारण एव च ॥ ७.२७.२८ ॥
मारीचः च प्रहस्तः च महापार्श्व-महोदरौ । अकम्पनः निकुम्भः च शुकः सारणः एव च ॥ ७।२७।२८ ॥
mārīcaḥ ca prahastaḥ ca mahāpārśva-mahodarau . akampanaḥ nikumbhaḥ ca śukaḥ sāraṇaḥ eva ca .. 7.27.28 ..
संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः । जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ॥ ७.२७.२९ ॥
संह्लादः धूमकेतुः च महादंष्ट्रः घटोदरः । जम्बुमाली महाह्रादः विरूपाक्षः च राक्षसः ॥ ७।२७।२९ ॥
saṃhlādaḥ dhūmaketuḥ ca mahādaṃṣṭraḥ ghaṭodaraḥ . jambumālī mahāhrādaḥ virūpākṣaḥ ca rākṣasaḥ .. 7.27.29 ..
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः । त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ॥ ७.२७.३० ॥
सुप्तघ्नः यज्ञकोपः च दुर्मुखः दूषणः खरः । त्रिशिराः करवीराक्षः सूर्यशत्रुः च राक्षसः ॥ ७।२७।३० ॥
suptaghnaḥ yajñakopaḥ ca durmukhaḥ dūṣaṇaḥ kharaḥ . triśirāḥ karavīrākṣaḥ sūryaśatruḥ ca rākṣasaḥ .. 7.27.30 ..
महाकायो ऽतिकायश्च देवान्तकनरान्तकौ । एतैः सर्वैः परिवृतो महावीर्यो महाबलः ॥ ७.२७.३१ ॥
महाकायः अतिकायः च देवान्तक-नरान्तकौ । एतैः सर्वैः परिवृतः महा-वीर्यः महा-बलः ॥ ७।२७।३१ ॥
mahākāyaḥ atikāyaḥ ca devāntaka-narāntakau . etaiḥ sarvaiḥ parivṛtaḥ mahā-vīryaḥ mahā-balaḥ .. 7.27.31 ..
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह । स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः । व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ॥ ७.२७.३२ ॥
रावणस्य आर्यकः सैन्यम् सुमाली प्रविवेश ह । स दैवत-गणान् सर्वान् नाना प्रहरणैः शितैः । व्यध्वंसयत् सु सङ्क्रुद्धः वायुः जलधरान् इव ॥ ७।२७।३२ ॥
rāvaṇasya āryakaḥ sainyam sumālī praviveśa ha . sa daivata-gaṇān sarvān nānā praharaṇaiḥ śitaiḥ . vyadhvaṃsayat su saṅkruddhaḥ vāyuḥ jaladharān iva .. 7.27.32 ..
तद्दैवतबलं राम हन्यमानं निशाचरैः । प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ॥ ७.२७.३३ ॥
तत् दैवत-बलम् राम हन्यमानम् निशाचरैः । प्रणुन्नम् सर्वतस् दिग्भ्यः सिंह-नुन्नाः मृगाः इव ॥ ७।२७।३३ ॥
tat daivata-balam rāma hanyamānam niśācaraiḥ . praṇunnam sarvatas digbhyaḥ siṃha-nunnāḥ mṛgāḥ iva .. 7.27.33 ..
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः । सावित्र इति विख्यातः प्रविवेश रणाजिरम् ॥ ७.२७.३४ ॥
एतस्मिन् अन्तरे शूरः वसूनाम् अष्टमः वसुः । सावित्रः इति विख्यातः प्रविवेश रण-अजिरम् ॥ ७।२७।३४ ॥
etasmin antare śūraḥ vasūnām aṣṭamaḥ vasuḥ . sāvitraḥ iti vikhyātaḥ praviveśa raṇa-ajiram .. 7.27.34 ..
तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ । निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ॥ ७.२७.३५ ॥
तथा आदित्यौ महा-वीर्यौ त्वष्टा पूषा च दंशितौ । निंर्भयौ सह सैन्येन तदा प्राविशताम् रणे ॥ ७।२७।३५ ॥
tathā ādityau mahā-vīryau tvaṣṭā pūṣā ca daṃśitau . niṃrbhayau saha sainyena tadā prāviśatām raṇe .. 7.27.35 ..
ततो युद्धं समभवत्सुराणां सह राक्षसैः । क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ॥ ७.२७.३६ ॥
ततस् युद्धम् समभवत् सुराणाम् सह राक्षसैः । क्रुद्धानाम् रक्षसाम् कीर्तिम् समरेषु अनिवर्तिनाम् ॥ ७।२७।३६ ॥
tatas yuddham samabhavat surāṇām saha rākṣasaiḥ . kruddhānām rakṣasām kīrtim samareṣu anivartinām .. 7.27.36 ..
ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् । नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ॥ ७.२७.३७ ॥
ततस् ते राक्षसाः सर्वे विबुधान् समरे स्थितान् । नाना प्रहरणैः घोरैः जघ्नुः शत-सहस्रशस् ॥ ७।२७।३७ ॥
tatas te rākṣasāḥ sarve vibudhān samare sthitān . nānā praharaṇaiḥ ghoraiḥ jaghnuḥ śata-sahasraśas .. 7.27.37 ..
देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् । समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ॥ ७.२७.३८ ॥
देवाः च राक्षसान् घोरान् महा-बल-पराक्रमान् । समरे विमलैः शस्त्रैः उपनिन्युः यम-क्षयम् ॥ ७।२७।३८ ॥
devāḥ ca rākṣasān ghorān mahā-bala-parākramān . samare vimalaiḥ śastraiḥ upaninyuḥ yama-kṣayam .. 7.27.38 ..
एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः । नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ॥ ७.२७.३९ ॥
एतस्मिन् अन्तरे राम सुमाली नाम राक्षसः । नाना प्रहरणैः क्रुद्धः तत् सैन्यम् सः अभ्यवर्तत ॥ ७।२७।३९ ॥
etasmin antare rāma sumālī nāma rākṣasaḥ . nānā praharaṇaiḥ kruddhaḥ tat sainyam saḥ abhyavartata .. 7.27.39 ..
स दैवतबलं सर्वं नानाप्रहणैः शितैः । व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ॥ ७.२७.४० ॥
स दैवत-बलम् सर्वम् नाना प्रहणैः शितैः । व्यध्वंसयत सङ्क्रुद्धः वायुः जलधरम् यथा ॥ ७।२७।४० ॥
sa daivata-balam sarvam nānā prahaṇaiḥ śitaiḥ . vyadhvaṃsayata saṅkruddhaḥ vāyuḥ jaladharam yathā .. 7.27.40 ..
ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः । हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ॥ ७.२७.४१ ॥
ते महा-बाण-वर्षैः च शूल-प्रासैः सु दारुणैः । हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ॥ ७।२७।४१ ॥
te mahā-bāṇa-varṣaiḥ ca śūla-prāsaiḥ su dāruṇaiḥ . hanyamānāḥ surāḥ sarve na vyatiṣṭhanta saṃhatāḥ .. 7.27.41 ..
ततो विद्राव्यमाणेषु दैवतेषु सुमालिना । वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ॥ ७.२७.४२ ॥
ततस् विद्राव्यमाणेषु दैवतेषु सुमालिना । वसूनाम् अष्टमः क्रुद्धः सावित्रः वै व्यवस्थितः ॥ ७।२७।४२ ॥
tatas vidrāvyamāṇeṣu daivateṣu sumālinā . vasūnām aṣṭamaḥ kruddhaḥ sāvitraḥ vai vyavasthitaḥ .. 7.27.42 ..
संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् । विक्रमेण महातेजा वारयामास संयुगे ॥ ७.२७.४३ ॥
संवृतः स्वैरथ-अनीकैः प्रहरन्तम् निशाचरम् । विक्रमेण महा-तेजाः वारयामास संयुगे ॥ ७।२७।४३ ॥
saṃvṛtaḥ svairatha-anīkaiḥ praharantam niśācaram . vikrameṇa mahā-tejāḥ vārayāmāsa saṃyuge .. 7.27.43 ..
ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ॥ ७.२७.४४ ॥
ततस् तयोः महा-युद्धम् अभवत् रोम-हर्षणम् ॥ ७।२७।४४ ॥
tatas tayoḥ mahā-yuddham abhavat roma-harṣaṇam .. 7.27.44 ..
सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः । ततस्तस्य महाबाणैर्वसुना सुमहात्मना । निहतः पन्नगरथः क्षणेन विनिपातितः ॥ ७.२७.४५ ॥
सुमालिनः वसोः च एव समरेषु अनिवर्तिनोः । ततस् तस्य महा-बाणैः वसुना सु महात्मना । निहतः पन्नग-रथः क्षणेन विनिपातितः ॥ ७।२७।४५ ॥
sumālinaḥ vasoḥ ca eva samareṣu anivartinoḥ . tatas tasya mahā-bāṇaiḥ vasunā su mahātmanā . nihataḥ pannaga-rathaḥ kṣaṇena vinipātitaḥ .. 7.27.45 ..
हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् । गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ॥ ७.२७.४६ ॥
हत्वा तु संयुगे तस्य रथम् बाण-शतैः चितम् । गदाम् तस्य वध-अर्थाय वसुः जग्राह पाणिना ॥ ७।२७।४६ ॥
hatvā tu saṃyuge tasya ratham bāṇa-śataiḥ citam . gadām tasya vadha-arthāya vasuḥ jagrāha pāṇinā .. 7.27.46 ..
ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् । तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ॥ ७.२७.४७ ॥
ततस् प्रगृह्य दीप्त-अग्राम् काल-दण्ड-उपमाम् गदाम् । ताम् मूर्ध्नि पातयामास सावित्रः वै सुमालिनः ॥ ७।२७।४७ ॥
tatas pragṛhya dīpta-agrām kāla-daṇḍa-upamām gadām . tām mūrdhni pātayāmāsa sāvitraḥ vai sumālinaḥ .. 7.27.47 ..
सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा । इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ॥ ७.२७.४८ ॥
सा तस्य उपरि च उल्का-आभा पतन्ती इव बभौ गदा । इन्द्र-प्रमुक्ता गर्जन्ती गिरौ इव महा-अशनिः ॥ ७।२७।४८ ॥
sā tasya upari ca ulkā-ābhā patantī iva babhau gadā . indra-pramuktā garjantī girau iva mahā-aśaniḥ .. 7.27.48 ..
तस्य नैवास्थि न शिरो न मांसं ददृशे तदा । गदया भस्मतां नीतं निहतस्य रणाजिरे ॥ ७.२७.४९ ॥
तस्य न एव अस्थि न शिरः न मांसम् ददृशे तदा । गदया भस्म-ताम् नीतम् निहतस्य रण-अजिरे ॥ ७।२७।४९ ॥
tasya na eva asthi na śiraḥ na māṃsam dadṛśe tadā . gadayā bhasma-tām nītam nihatasya raṇa-ajire .. 7.27.49 ..
तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः । व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् । विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ॥ ७.२७.५० ॥
तम् दृष्ट्वा निहतम् सङ्ख्ये राक्षसाः ते समन्ततः । व्यद्रवन् सहिताः सर्वे क्रोशमानाः परस्परम् । विद्राव्यमाणाः वसुना राक्षसाः न अवतस्थिरे ॥ ७।२७।५० ॥
tam dṛṣṭvā nihatam saṅkhye rākṣasāḥ te samantataḥ . vyadravan sahitāḥ sarve krośamānāḥ parasparam . vidrāvyamāṇāḥ vasunā rākṣasāḥ na avatasthire .. 7.27.50 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तविंशः सर्गः ॥ २७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्तविंशः सर्गः ॥ २७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptaviṃśaḥ sargaḥ .. 27 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In