This overlay will guide you through the buttons:

| |
|
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् । स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः ॥ ७.२८.१ ॥
सुमालिनम् हतम् दृष्ट्वा वसुना भस्मसात्कृतम् । स्व-सैन्यम् विद्रुतम् च अपि लक्षयित्वा अर्दितम् सुरैः ॥ ७।२८।१ ॥
sumālinam hatam dṛṣṭvā vasunā bhasmasātkṛtam . sva-sainyam vidrutam ca api lakṣayitvā arditam suraiḥ .. 7.28.1 ..
ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा । निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ ७.२८.२ ॥
ततस् स बलवान् क्रुद्धः रावणस्य सुतः तदा । निवर्त्य राक्षसान् सर्वान् मेघनादः व्यवस्थितः ॥ ७।२८।२ ॥
tatas sa balavān kruddhaḥ rāvaṇasya sutaḥ tadā . nivartya rākṣasān sarvān meghanādaḥ vyavasthitaḥ .. 7.28.2 ..
सुरथेनाग्निवर्णेन कामगेन महारथः । अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ७.२८.३ ॥
सु रथेन अग्नि-वर्णेन कामगेन महा-रथः । अभिदुद्राव सेनाम् ताम् वनानि अग्निः इव ज्वलन् ॥ ७।२८।३ ॥
su rathena agni-varṇena kāmagena mahā-rathaḥ . abhidudrāva senām tām vanāni agniḥ iva jvalan .. 7.28.3 ..
ततः प्रविशतस्तस्य विविधायुधधारिणः । विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ७.२८.४ ॥
ततस् प्रविशतः तस्य विविध-आयुध-धारिणः । विदुद्रुवुः दिशः सर्वाः दर्शनात् एव देवताः ॥ ७।२८।४ ॥
tatas praviśataḥ tasya vividha-āyudha-dhāriṇaḥ . vidudruvuḥ diśaḥ sarvāḥ darśanāt eva devatāḥ .. 7.28.4 ..
न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे । सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान् ॥ ७.२८.५ ॥
न बभूव तदा कश्चिद् युयुत्सोः अस्य सम्मुखे । सर्वान् आविद्ध्य वित्रस्तान् ततस् शक्रः अब्रवीत् सुरान् ॥ ७।२८।५ ॥
na babhūva tadā kaścid yuyutsoḥ asya sammukhe . sarvān āviddhya vitrastān tatas śakraḥ abravīt surān .. 7.28.5 ..
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः । एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ७.२८.६ ॥
न भेतव्यम् न गन्तव्यम् निवर्तध्वम् रणे सुराः । एष गच्छति पुत्रः मे युद्ध-अर्थम् अपराजितः ॥ ७।२८।६ ॥
na bhetavyam na gantavyam nivartadhvam raṇe surāḥ . eṣa gacchati putraḥ me yuddha-artham aparājitaḥ .. 7.28.6 ..
ततः शक्रसुतो देवो जयन्त इति विश्रुतः । रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत ॥ ७.२८.७ ॥
ततस् शक्र-सुतः देवः जयन्तः इति विश्रुतः । रथेन अद्भुत-कल्पेन सङ्ग्रामे सः अभ्यवर्तत ॥ ७।२८।७ ॥
tatas śakra-sutaḥ devaḥ jayantaḥ iti viśrutaḥ . rathena adbhuta-kalpena saṅgrāme saḥ abhyavartata .. 7.28.7 ..
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् । रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ ७.२८.८ ॥
ततस् ते त्रिदशाः सर्वे परिवार्य शची-सुतम् । रावणस्य सुतम् युद्धे समासाद्य प्रजघ्निरे ॥ ७।२८।८ ॥
tatas te tridaśāḥ sarve parivārya śacī-sutam . rāvaṇasya sutam yuddhe samāsādya prajaghnire .. 7.28.8 ..
तेषां युद्धं समभवत्सदृशं देवरक्षसाम् । महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ७.२८.९ ॥
तेषाम् युद्धम् समभवत् सदृशम् देव-रक्षसाम् । महा-इन्द्रस्य च पुत्रस्य राक्षस-इन्द्र-सुतस्य च ॥ ७।२८।९ ॥
teṣām yuddham samabhavat sadṛśam deva-rakṣasām . mahā-indrasya ca putrasya rākṣasa-indra-sutasya ca .. 7.28.9 ..
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः । सारथौ पातयामास शरान्कनकभूषणान् ॥ ७.२८.१० ॥
ततस् मातलि-पुत्रे तु गोमुखे राक्षस-आत्मजः । सारथौ पातयामास शरान् कनक-भूषणान् ॥ ७।२८।१० ॥
tatas mātali-putre tu gomukhe rākṣasa-ātmajaḥ . sārathau pātayāmāsa śarān kanaka-bhūṣaṇān .. 7.28.10 ..
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् । तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ॥ ७.२८.११ ॥
शची-सुतः च अपि तथा जयन्तः तस्य सारथिम् । तम् च अपि रावणिः क्रुद्धः समन्तात् प्रत्यविध्यत ॥ ७।२८।११ ॥
śacī-sutaḥ ca api tathā jayantaḥ tasya sārathim . tam ca api rāvaṇiḥ kruddhaḥ samantāt pratyavidhyata .. 7.28.11 ..
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः । रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ ७.२८.१२ ॥
स हि क्रोध-समाविष्टः बली विस्फारित-ईक्षणः । रावणिः शक्रतनयम् शर-वर्षैः अवाकिरत् ॥ ७।२८।१२ ॥
sa hi krodha-samāviṣṭaḥ balī visphārita-īkṣaṇaḥ . rāvaṇiḥ śakratanayam śara-varṣaiḥ avākirat .. 7.28.12 ..
ततो नानाप्रहरणाञ्छितधारान्सहस्रशः । पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥ ७.२८.१३ ॥
ततस् नाना प्रहरणान् शित-धारान् सहस्रशस् । पातयामास सङ्क्रुद्धः सुर-सैन्येषु रावणिः ॥ ७।२८।१३ ॥
tatas nānā praharaṇān śita-dhārān sahasraśas . pātayāmāsa saṅkruddhaḥ sura-sainyeṣu rāvaṇiḥ .. 7.28.13 ..
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् । महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ ७.२८.१४ ॥
शतघ्नी-मुसल-प्रास-गदा-खड्ग-परश्वधान् । महान्ति गिरि-शृङ्गाणि पातयामास रावणिः ॥ ७।२८।१४ ॥
śataghnī-musala-prāsa-gadā-khaḍga-paraśvadhān . mahānti giri-śṛṅgāṇi pātayāmāsa rāvaṇiḥ .. 7.28.14 ..
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् । तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ ७.२८.१५ ॥
ततस् प्रव्यथिताः लोकाः सञ्जज्ञे च तमः अभवत् । तस्य रावण-पुत्रस्य शत्रु-सैन्यानि निघ्नतः ॥ ७।२८।१५ ॥
tatas pravyathitāḥ lokāḥ sañjajñe ca tamaḥ abhavat . tasya rāvaṇa-putrasya śatru-sainyāni nighnataḥ .. 7.28.15 ..
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् । बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ ७.२८.१६ ॥
ततस् तत् दैवत-बलम् समन्तात् तम् शची-सुतम् । बहु-प्रकारम् अस्वस्थम् अभवत् शर-पीडितम् ॥ ७।२८।१६ ॥
tatas tat daivata-balam samantāt tam śacī-sutam . bahu-prakāram asvastham abhavat śara-pīḍitam .. 7.28.16 ..
नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा । तत्र तत्र विपर्यस्तं समन्तात्परिधावति ॥ ७.२८.१७ ॥
न अभ्यजानन्त च अन्योन्यम् रक्षः वा देवताः अथवा । तत्र तत्र विपर्यस्तम् समन्तात् परिधावति ॥ ७।२८।१७ ॥
na abhyajānanta ca anyonyam rakṣaḥ vā devatāḥ athavā . tatra tatra viparyastam samantāt paridhāvati .. 7.28.17 ..
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा । सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ॥ ७.२८.१८ ॥
देवाः देवान् निजघ्नुः ते राक्षसान् राक्षसाः तथा । सम्मूढाः तमसा आच्छन्नाः व्यद्रवन् अपरे तथा ॥ ७।२८।१८ ॥
devāḥ devān nijaghnuḥ te rākṣasān rākṣasāḥ tathā . sammūḍhāḥ tamasā ācchannāḥ vyadravan apare tathā .. 7.28.18 ..
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् । दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ॥ ७.२८.१९ ॥
एतस्मिन् अन्तरे वीरः पुलोमा नाम वीर्यवान् । दैत्य-इन्द्रः तेन सङ्गृह्य शची-पुत्रः अपवाहितः ॥ ७।२८।१९ ॥
etasmin antare vīraḥ pulomā nāma vīryavān . daitya-indraḥ tena saṅgṛhya śacī-putraḥ apavāhitaḥ .. 7.28.19 ..
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा । आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ॥ ७.२८.२० ॥
सङ्गृह्य तम् तु दौहित्रम् प्रविष्टः सागरम् तदा । आर्यकः स हि तस्य आसीत् पुलोमा येन सा शची ॥ ७।२८।२० ॥
saṅgṛhya tam tu dauhitram praviṣṭaḥ sāgaram tadā . āryakaḥ sa hi tasya āsīt pulomā yena sā śacī .. 7.28.20 ..
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः । अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ॥ ७.२८.२१ ॥
ज्ञात्वा प्रणाशम् तु तदा जयन्तस्य अथ देवताः । अप्रहृष्टाः ततस् सर्वाः व्यथिताः सम्प्रदुद्रुवुः ॥ ७।२८।२१ ॥
jñātvā praṇāśam tu tadā jayantasya atha devatāḥ . aprahṛṣṭāḥ tatas sarvāḥ vyathitāḥ sampradudruvuḥ .. 7.28.21 ..
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः । अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ ७.२८.२२ ॥
रावणिः तु अथ सङ्क्रुद्धः बलैः परिवृतः स्वकैः । अभ्यधावत देवान् तान् मुमोच च महा-स्वनम् ॥ ७।२८।२२ ॥
rāvaṇiḥ tu atha saṅkruddhaḥ balaiḥ parivṛtaḥ svakaiḥ . abhyadhāvata devān tān mumoca ca mahā-svanam .. 7.28.22 ..
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् । मातलिं चाह देवेशो रथः समुपनीयताम् ॥ ७.२८.२३ ॥
दृष्ट्वा प्रणाशम् पुत्रस्य दैवतेषु च विद्रुतम् । मातलिम् च आह देवेशः रथः समुपनीयताम् ॥ ७।२८।२३ ॥
dṛṣṭvā praṇāśam putrasya daivateṣu ca vidrutam . mātalim ca āha deveśaḥ rathaḥ samupanīyatām .. 7.28.23 ..
स तु दिव्यो महाभीमः सज्ज एव महारथः । उपस्थितो मातलिना वाह्यमानो महाजवः ॥ ७.२८.२४ ॥
स तु दिव्यः महा-भीमः सज्जः एव महा-रथः । उपस्थितः मातलिना वाह्यमानः महा-जवः ॥ ७।२८।२४ ॥
sa tu divyaḥ mahā-bhīmaḥ sajjaḥ eva mahā-rathaḥ . upasthitaḥ mātalinā vāhyamānaḥ mahā-javaḥ .. 7.28.24 ..
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः । अग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥ ७.२८.२५ ॥
ततस् मेघाः रथे तस्मिन् तडित्त्वन्तः महा-बलाः । अग्रतस् वायु-चपलाः नेदुः परम-निःस्वनाः ॥ ७।२८।२५ ॥
tatas meghāḥ rathe tasmin taḍittvantaḥ mahā-balāḥ . agratas vāyu-capalāḥ neduḥ parama-niḥsvanāḥ .. 7.28.25 ..
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः । ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ ७.२८.२६ ॥
नाना वाद्यानि वाद्यन्त गन्धर्वाः च समाहिताः । ननृतुः च अप्सरः-सङ्घाः निर्याते त्रिदशेश्वरे ॥ ७।२८।२६ ॥
nānā vādyāni vādyanta gandharvāḥ ca samāhitāḥ . nanṛtuḥ ca apsaraḥ-saṅghāḥ niryāte tridaśeśvare .. 7.28.26 ..
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः । वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ ७.२८.२७ ॥
रुद्रैः वसुभिः आदित्यैः साध्यैः च स मरुत्-गणैः । वृतः नाना प्रहरणैः निर्ययौ त्रिदशाधिपः ॥ ७।२८।२७ ॥
rudraiḥ vasubhiḥ ādityaiḥ sādhyaiḥ ca sa marut-gaṇaiḥ . vṛtaḥ nānā praharaṇaiḥ niryayau tridaśādhipaḥ .. 7.28.27 ..
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ । भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ ७.२८.२८ ॥
निर्गच्छतः तु शक्रस्य परुषम् पवनः ववौ । भास्करः निष्प्रभः च आसीत् महा-उल्काः च प्रपेदिरे ॥ ७।२८।२८ ॥
nirgacchataḥ tu śakrasya paruṣam pavanaḥ vavau . bhāskaraḥ niṣprabhaḥ ca āsīt mahā-ulkāḥ ca prapedire .. 7.28.28 ..
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् । आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ ७.२८.२९ ॥
एतस्मिन् अन्तरे शूरः दशग्रीवः प्रतापवान् । आरुरोह रथम् दिव्यम् निर्मितम् विश्वकर्मणा ॥ ७।२८।२९ ॥
etasmin antare śūraḥ daśagrīvaḥ pratāpavān . āruroha ratham divyam nirmitam viśvakarmaṇā .. 7.28.29 ..
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः । तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥ ७.२८.३० ॥
पन्नगैः सु महा-कार्यैः वेष्टितम् रोम-हर्षणैः । तेषाम् निःश्वास-वातेन प्रदीप्तम् इव संयुगे ॥ ७।२८।३० ॥
pannagaiḥ su mahā-kāryaiḥ veṣṭitam roma-harṣaṇaiḥ . teṣām niḥśvāsa-vātena pradīptam iva saṃyuge .. 7.28.30 ..
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः । समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ॥ ७.२८.३१ ॥
दैत्यैः निशाचरैः च एव स रथः परिवारितः । समर-अभिमुखः दैत्यः महा-इन्द्रम् सः अभ्यवर्तत ॥ ७।२८।३१ ॥
daityaiḥ niśācaraiḥ ca eva sa rathaḥ parivāritaḥ . samara-abhimukhaḥ daityaḥ mahā-indram saḥ abhyavartata .. 7.28.31 ..
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः । सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ ७.२८.३२ ॥
पुत्रम् तम् वारयित्वा तु स्वयम् एव व्यवस्थितः । सः अपि युद्धात् विनिष्क्रम्य रावणिः समुपाविशत् ॥ ७।२८।३२ ॥
putram tam vārayitvā tu svayam eva vyavasthitaḥ . saḥ api yuddhāt viniṣkramya rāvaṇiḥ samupāviśat .. 7.28.32 ..
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह । शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ ७.२८.३३ ॥
ततस् युद्धम् प्रवृत्तम् तु सुराणाम् राक्षसैः सह । शस्त्राणि वर्षताम् घोरम् मेघानाम् इव संयुगे ॥ ७।२८।३३ ॥
tatas yuddham pravṛttam tu surāṇām rākṣasaiḥ saha . śastrāṇi varṣatām ghoram meghānām iva saṃyuge .. 7.28.33 ..
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः । नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ ७.२८.३४ ॥
कुम्भकर्णः तु दुष्ट-आत्मा नाना प्रहरण-उद्यतः । न अज्ञायत तदा युद्धे सह केन अपि अयुध्यत ॥ ७।२८।३४ ॥
kumbhakarṇaḥ tu duṣṭa-ātmā nānā praharaṇa-udyataḥ . na ajñāyata tadā yuddhe saha kena api ayudhyata .. 7.28.34 ..
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः । येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ७.२८.३५ ॥
दन्तैः भुजाभ्याम् पद्माम् च शक्ति-तोमर-सायकैः । येन केन एव संरब्धः ताडयामास वै सुरान् ॥ ७।२८।३५ ॥
dantaiḥ bhujābhyām padmām ca śakti-tomara-sāyakaiḥ . yena kena eva saṃrabdhaḥ tāḍayāmāsa vai surān .. 7.28.35 ..
ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः । प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ॥ ७.२८.३६ ॥
ततस् रुद्रैः महा-घोरैः सङ्गम्य अथ निशाचरः । प्रयुद्धः तैः च सङ्ग्रामे क्षतः शस्त्रैः निरन्तरम् ॥ ७।२८।३६ ॥
tatas rudraiḥ mahā-ghoraiḥ saṅgamya atha niśācaraḥ . prayuddhaḥ taiḥ ca saṅgrāme kṣataḥ śastraiḥ nirantaram .. 7.28.36 ..
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् । विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ॥ ७.२८.३७ ॥
बभौ शस्त्र-आचित-तनुः कुम्भकर्णः क्षरन् असृज् । विद्युत्-स्तनित-निर्घोषः धारवान् इव तोयदः ॥ ७।२८।३७ ॥
babhau śastra-ācita-tanuḥ kumbhakarṇaḥ kṣaran asṛj . vidyut-stanita-nirghoṣaḥ dhāravān iva toyadaḥ .. 7.28.37 ..
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः । रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ ७.२८.३८ ॥
ततस् तत् राक्षसम् सैन्यम् प्रयुद्धम् स मरुत्-गणैः । रणे विद्रावितम् सर्वम् नाना प्रहरणैः शितैः ॥ ७।२८।३८ ॥
tatas tat rākṣasam sainyam prayuddham sa marut-gaṇaiḥ . raṇe vidrāvitam sarvam nānā praharaṇaiḥ śitaiḥ .. 7.28.38 ..
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले । वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ ७.२८.३९ ॥
केचिद् विनिहताः कृत्ताः चेष्टन्ति स्म मही-तले । वाहनेषु अवसक्ताः च स्थिताः एव अपरे रणे ॥ ७।२८।३९ ॥
kecid vinihatāḥ kṛttāḥ ceṣṭanti sma mahī-tale . vāhaneṣu avasaktāḥ ca sthitāḥ eva apare raṇe .. 7.28.39 ..
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे । शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ॥ ७.२८.४० ॥
रथान् नागान् खरान् उष्ट्रान् पन्नगान् तुरगान् रणे । शिंशुमारान् वराहान् च पिशाच-वदनान् तथा ॥ ७।२८।४० ॥
rathān nāgān kharān uṣṭrān pannagān turagān raṇe . śiṃśumārān varāhān ca piśāca-vadanān tathā .. 7.28.40 ..
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः । देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ॥ ७.२८.४१ ॥
तान् समालिङ्ग्य बाहुभ्याम् विष्टब्धाः केचिद् उच्छ्रुताः । देवैः तु शस्त्र-सम्भिन्नाः मम्रिरे च निशाचराः ॥ ७।२८।४१ ॥
tān samāliṅgya bāhubhyām viṣṭabdhāḥ kecid ucchrutāḥ . devaiḥ tu śastra-sambhinnāḥ mamrire ca niśācarāḥ .. 7.28.41 ..
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः । निहतानां प्रमत्तानां राक्षसानां महीतले ॥ ७.२८.४२ ॥
चित्र-कर्म इव आभाति स तेषाम् रण-सम्प्लवः । निहतानाम् प्रमत्तानाम् राक्षसानाम् मही-तले ॥ ७।२८।४२ ॥
citra-karma iva ābhāti sa teṣām raṇa-samplavaḥ . nihatānām pramattānām rākṣasānām mahī-tale .. 7.28.42 ..
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला । प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ७.२८.४३ ॥
शोणित-उदक-निष्पन्द-कङ्क-गृध्र-समाकुला । प्रवृत्ता संयुग-मुखे शस्त्र-ग्राहवती नदी ॥ ७।२८।४३ ॥
śoṇita-udaka-niṣpanda-kaṅka-gṛdhra-samākulā . pravṛttā saṃyuga-mukhe śastra-grāhavatī nadī .. 7.28.43 ..
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् । निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ॥ ७.२८.४४ ॥
एतस्मिन् अन्तरे क्रुद्धः दशग्रीवः प्रतापवान् । निरीक्ष्य तत् बलम् कृत्स्नम् दैवतैः विनिपातितम् ॥ ७।२८।४४ ॥
etasmin antare kruddhaḥ daśagrīvaḥ pratāpavān . nirīkṣya tat balam kṛtsnam daivataiḥ vinipātitam .. 7.28.44 ..
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् । त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ॥ ७.२८.४५ ॥
स तम् प्रति विगाह्य आशु प्रवृद्धम् सैन्य-सागरम् । त्रिदशान् समरे निघ्नन् शक्रम् एव अभ्यवर्तत ॥ ७।२८।४५ ॥
sa tam prati vigāhya āśu pravṛddham sainya-sāgaram . tridaśān samare nighnan śakram eva abhyavartata .. 7.28.45 ..
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् । यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ॥ ७.२८.४६ ॥
आगात् शक्रः महत् चापम् विस्फार्य सु महा-स्वनम् । यस्य विस्फार-घोषेण स्तनन्ति स्म दिशः दश ॥ ७।२८।४६ ॥
āgāt śakraḥ mahat cāpam visphārya su mahā-svanam . yasya visphāra-ghoṣeṇa stananti sma diśaḥ daśa .. 7.28.46 ..
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि । निपातयामास शरान्पावकादित्यवर्चसः ॥ ७.२८.४७ ॥
तत् विकृष्य महत् चापम् इन्द्रः रावण-मूर्धनि । निपातयामास शरान् पावक-आदित्य-वर्चसः ॥ ७।२८।४७ ॥
tat vikṛṣya mahat cāpam indraḥ rāvaṇa-mūrdhani . nipātayāmāsa śarān pāvaka-āditya-varcasaḥ .. 7.28.47 ..
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः । शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ७.२८.४८ ॥
तथा एव च महा-बाहुः दशग्रीवः व्यवस्थितः । शक्रम् कार्मुक-विभ्रष्टैः शर-वर्षैः अवाकिरत् ॥ ७।२८।४८ ॥
tathā eva ca mahā-bāhuḥ daśagrīvaḥ vyavasthitaḥ . śakram kārmuka-vibhraṣṭaiḥ śara-varṣaiḥ avākirat .. 7.28.48 ..
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः । न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ॥ ७.२८.४९ ॥
प्रयुध्यतोः अथ तयोः बाण-वर्षैः समन्ततः । न ज्ञायते तदा किञ्चिद् सर्वम् हि तमसा वृतम् ॥ ७।२८।४९ ॥
prayudhyatoḥ atha tayoḥ bāṇa-varṣaiḥ samantataḥ . na jñāyate tadā kiñcid sarvam hi tamasā vṛtam .. 7.28.49 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाविंशः सर्गः ॥ २८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टाविंशः सर्गः ॥ २८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭāviṃśaḥ sargaḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In