This overlay will guide you through the buttons:

| |
|
ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः । अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ ७.२९.१ ॥
ततस् तमसि सञ्जाते सर्वे ते देव-राक्षसाः । अयुद्ध्यन्त बल-उन्मत्ताः सूदयन्तः परस्परम् ॥ ७।२९।१ ॥
tatas tamasi sañjāte sarve te deva-rākṣasāḥ . ayuddhyanta bala-unmattāḥ sūdayantaḥ parasparam .. 7.29.1 ..
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् । दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ ७.२९.२ ॥
ततस् तु देव-सैन्येन राक्षसानाम् बृहत् बलम् । दश-अंशम् स्थापितम् युद्धे शेषम् नीतम् यम-क्षयम् ॥ ७।२९।२ ॥
tatas tu deva-sainyena rākṣasānām bṛhat balam . daśa-aṃśam sthāpitam yuddhe śeṣam nītam yama-kṣayam .. 7.29.2 ..
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः । अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ ७.२९.३ ॥
तस्मिन् तु तामसे युद्धे सर्वे ते देव-राक्षसाः । अन्योन्यम् न अभ्यजानन्त युध्यमानाः परस्परम् ॥ ७।२९।३ ॥
tasmin tu tāmase yuddhe sarve te deva-rākṣasāḥ . anyonyam na abhyajānanta yudhyamānāḥ parasparam .. 7.29.3 ..
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः । तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ७.२९.४ ॥
इन्द्रः च रावणः च एव रावणिः च महा-बलः । तस्मिन् तमः-जाल-वृते मोहम् ईयुः न ते त्रयः ॥ ७।२९।४ ॥
indraḥ ca rāvaṇaḥ ca eva rāvaṇiḥ ca mahā-balaḥ . tasmin tamaḥ-jāla-vṛte moham īyuḥ na te trayaḥ .. 7.29.4 ..
स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् । क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ॥ ७.२९.५ ॥
स तु दृष्ट्वा बलम् सर्वम् रावणः निहतम् क्षणात् । क्रोधम् अभ्यगमत् तीव्रम् महा-नादम् च मुक्तवान् ॥ ७।२९।५ ॥
sa tu dṛṣṭvā balam sarvam rāvaṇaḥ nihatam kṣaṇāt . krodham abhyagamat tīvram mahā-nādam ca muktavān .. 7.29.5 ..
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह । परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ ७.२९.६ ॥
क्रोधात् सूतम् च दुर्धर्षः स्यन्दन-स्थम् उवाच ह । पर-सैन्यस्य मध्येन यावत् अन्तः नयस्व माम् ॥ ७।२९।६ ॥
krodhāt sūtam ca durdharṣaḥ syandana-stham uvāca ha . para-sainyasya madhyena yāvat antaḥ nayasva mām .. 7.29.6 ..
अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् । नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥ ७.२९.७ ॥
अद्य एतान् त्रिदशान् सर्वान् विक्रमैः समरे स्वयम् । नाना शस्त्रैः महा-घोरैः नयामि यम-सादनम् ॥ ७।२९।७ ॥
adya etān tridaśān sarvān vikramaiḥ samare svayam . nānā śastraiḥ mahā-ghoraiḥ nayāmi yama-sādanam .. 7.29.7 ..
अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् । त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि । विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥ ७.२९.८ ॥
अहम् इन्द्रम् वधिष्यामि धनदम् वरुणम् यमम् । त्रिदशान् विनिहत्य अथ स्वयम् स्थास्यामि अथ उपरि । विषादः न च कर्तव्यः शीघ्रम् वाहय मे रथम् ॥ ७।२९।८ ॥
aham indram vadhiṣyāmi dhanadam varuṇam yamam . tridaśān vinihatya atha svayam sthāsyāmi atha upari . viṣādaḥ na ca kartavyaḥ śīghram vāhaya me ratham .. 7.29.8 ..
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥ ७.२९.९ ॥
द्विस् खलु त्वाम् ब्रवीमि अद्य यावत् अन्तः नयस्व माम् ॥ ७।२९।९ ॥
dvis khalu tvām bravīmi adya yāvat antaḥ nayasva mām .. 7.29.9 ..
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् । नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ ७.२९.१० ॥
अयम् स नन्दन-उद्देशः यत्र वर्तामहे वयम् । नय माम् अद्य तत्र त्वम् उदयः यत्र पर्वतः ॥ ७।२९।१० ॥
ayam sa nandana-uddeśaḥ yatra vartāmahe vayam . naya mām adya tatra tvam udayaḥ yatra parvataḥ .. 7.29.10 ..
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् । आदिदेशाथ शत्रणां मध्येनैव च सारथिः ॥ ७.२९.११ ॥
तस्य तत् वचनम् श्रुत्वा तुरगान् स मनोजवान् । आदिदेश अथ शत्रणाम् मध्येन एव च सारथिः ॥ ७।२९।११ ॥
tasya tat vacanam śrutvā turagān sa manojavān . ādideśa atha śatraṇām madhyena eva ca sārathiḥ .. 7.29.11 ..
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा । रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ॥ ७.२९.१२ ॥
तस्य तम् निश्चयम् ज्ञात्वा शक्रः देव-ईश्वरः तदा । रथ-स्थः समर-स्थः तान् देवान् वाक्यम् अथा अब्रवीत् ॥ ७।२९।१२ ॥
tasya tam niścayam jñātvā śakraḥ deva-īśvaraḥ tadā . ratha-sthaḥ samara-sthaḥ tān devān vākyam athā abravīt .. 7.29.12 ..
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते । जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ ७.२९.१३ ॥
सुराः शृणुत मद्-वाक्यम् यत् तावत् मम रोचते । जीवन् एव दशग्रीवः साधु रक्षः निगृह्यताम् ॥ ७।२९।१३ ॥
surāḥ śṛṇuta mad-vākyam yat tāvat mama rocate . jīvan eva daśagrīvaḥ sādhu rakṣaḥ nigṛhyatām .. 7.29.13 ..
एष ह्यतिबलः सैन्यै रथेन पवनौजसा । गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥ ७.२९.१४ ॥
एष हि अतिबलः सैन्यैः रथेन पवन-ओजसा । गमिष्यति प्रवृद्ध-ऊर्मिः समुद्रः इव पर्वणि ॥ ७।२९।१४ ॥
eṣa hi atibalaḥ sainyaiḥ rathena pavana-ojasā . gamiṣyati pravṛddha-ūrmiḥ samudraḥ iva parvaṇi .. 7.29.14 ..
नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः । तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ ७.२९.१५ ॥
न हि एष हन्तुम् शक्यः अद्य वर-दानात् सु निर्भयः । तत् ग्रहीष्यामहे रक्षः यत्ताः भवत संयुगे ॥ ७।२९।१५ ॥
na hi eṣa hantum śakyaḥ adya vara-dānāt su nirbhayaḥ . tat grahīṣyāmahe rakṣaḥ yattāḥ bhavata saṃyuge .. 7.29.15 ..
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया । एवमेतस्य पापस्य निरोधो मम रोचते ॥ ७.२९.१६ ॥
यथा बलौ निरुद्धे च त्रैलोक्यम् भुज्यते मया । एवम् एतस्य पापस्य निरोधः मम रोचते ॥ ७।२९।१६ ॥
yathā balau niruddhe ca trailokyam bhujyate mayā . evam etasya pāpasya nirodhaḥ mama rocate .. 7.29.16 ..
ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् । अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ॥ ७.२९.१७ ॥
ततस् अन्यम् देशम् आस्थाय शक्रः सन्त्यज्य रावणम् । अयुध्यत महा-राज राक्षसान् त्रासयन् रणे ॥ ७।२९।१७ ॥
tatas anyam deśam āsthāya śakraḥ santyajya rāvaṇam . ayudhyata mahā-rāja rākṣasān trāsayan raṇe .. 7.29.17 ..
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः । दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ ७.२९.१८ ॥
उत्तरेण दशग्रीवः प्रविवेश अनिवर्तकः । दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ ७।२९।१८ ॥
uttareṇa daśagrīvaḥ praviveśa anivartakaḥ . dakṣiṇena tu pārśvena praviveśa śatakratuḥ .. 7.29.18 ..
ततः स योजनशतं प्रविष्टो राक्षसाधिपः । देवतानां बलं सर्वं शरवर्षैरवाकिरत् ॥ ७.२९.१९ ॥
ततस् स योजन-शतम् प्रविष्टः राक्षस-अधिपः । देवतानाम् बलम् सर्वम् शर-वर्षैः अवाकिरत् ॥ ७।२९।१९ ॥
tatas sa yojana-śatam praviṣṭaḥ rākṣasa-adhipaḥ . devatānām balam sarvam śara-varṣaiḥ avākirat .. 7.29.19 ..
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् । न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ॥ ७.२९.२० ॥
ततस् शक्रः निरीक्ष्य अथ प्रनष्टम् तु स्वकम् बलम् । न्यवर्तयत् असम्भ्रान्तः समावृत्य दशाननम् ॥ ७।२९।२० ॥
tatas śakraḥ nirīkṣya atha pranaṣṭam tu svakam balam . nyavartayat asambhrāntaḥ samāvṛtya daśānanam .. 7.29.20 ..
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ ७.२९.२१ ॥
एतस्मिन् अन्तरे नादः मुक्तः दानव-राक्षसैः । हा हताः स्मः इति ग्रस्तम् दृष्ट्वा शक्रेण रावणम् ॥ ७।२९।२१ ॥
etasmin antare nādaḥ muktaḥ dānava-rākṣasaiḥ . hā hatāḥ smaḥ iti grastam dṛṣṭvā śakreṇa rāvaṇam .. 7.29.21 ..
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः । तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ॥ ७.२९.२२ ॥
ततस् रथम् समास्थाय रावणिः क्रोध-मूर्च्छितः । तत् सैन्यम् अति सङ्क्रुद्धः प्रविवेश सु दारुणम् ॥ ७।२९।२२ ॥
tatas ratham samāsthāya rāvaṇiḥ krodha-mūrcchitaḥ . tat sainyam ati saṅkruddhaḥ praviveśa su dāruṇam .. 7.29.22 ..
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा । प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥ ७.२९.२३ ॥
ताम् प्रविश्य महामायाम् प्राप्ताम् गोपतिना पुरा । प्रविवेश सु संरब्धः तत् सैन्यम् समभिद्रवत् ॥ ७।२९।२३ ॥
tām praviśya mahāmāyām prāptām gopatinā purā . praviveśa su saṃrabdhaḥ tat sainyam samabhidravat .. 7.29.23 ..
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत । महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ ७.२९.२४ ॥
स सर्वाः देवताः त्यक्त्वा शक्रम् एव अभ्यधावत । महा-इन्द्रः च महा-तेजाः न अपश्यत् च सुतम् रिपोः ॥ ७।२९।२४ ॥
sa sarvāḥ devatāḥ tyaktvā śakram eva abhyadhāvata . mahā-indraḥ ca mahā-tejāḥ na apaśyat ca sutam ripoḥ .. 7.29.24 ..
विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः । त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ॥ ७.२९.२५ ॥
विमुक्त-कवचः तत्र वध्यमानः अपि रावणिः । त्रिदशैः सु महा-वीर्यैः न चकार च किञ्चन ॥ ७।२९।२५ ॥
vimukta-kavacaḥ tatra vadhyamānaḥ api rāvaṇiḥ . tridaśaiḥ su mahā-vīryaiḥ na cakāra ca kiñcana .. 7.29.25 ..
स मातलिं समायान्तं ताडयित्वा शरोत्तमैः । महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥ ७.२९.२६ ॥
स मातलिम् समायान्तम् ताडयित्वा शर-उत्तमैः । महा-इन्द्रम् बाण-वर्षेण भूयस् एव अभ्यवाकिरत् ॥ ७।२९।२६ ॥
sa mātalim samāyāntam tāḍayitvā śara-uttamaiḥ . mahā-indram bāṇa-varṣeṇa bhūyas eva abhyavākirat .. 7.29.26 ..
ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् । ऐरावतं समारुह्य मृगयामास रावणिम् ॥ ७.२९.२७ ॥
ततस् त्यक्त्वा रथम् शक्रः विससर्ज च सारथिम् । ऐरावतम् समारुह्य मृगयामास रावणिम् ॥ ७।२९।२७ ॥
tatas tyaktvā ratham śakraḥ visasarja ca sārathim . airāvatam samāruhya mṛgayāmāsa rāvaṇim .. 7.29.27 ..
स तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः । इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ॥ ७.२९.२८ ॥
स तत्र माया-बलवान् अदृश्यः अथ अन्तरिक्ष-गः । इन्द्रम् माया-परिक्षिप्तम् कृत्वा स प्राद्रवत् शरैः ॥ ७।२९।२८ ॥
sa tatra māyā-balavān adṛśyaḥ atha antarikṣa-gaḥ . indram māyā-parikṣiptam kṛtvā sa prādravat śaraiḥ .. 7.29.28 ..
स तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः । तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत् ॥ ७.२९.२९ ॥
स तम् यदा परिश्रान्तम् इन्द्रम् जज्ञे अथ रावणिः । तदा एनम् मायया बद्ध्वा स्व-सैन्यम् अभितस् अनयत् ॥ ७।२९।२९ ॥
sa tam yadā pariśrāntam indram jajñe atha rāvaṇiḥ . tadā enam māyayā baddhvā sva-sainyam abhitas anayat .. 7.29.29 ..
तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् । महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ॥ ७.२९.३० ॥
तम् तु दृष्ट्वा बलात् तेन नीयमानम् महा-रणात् । महेन्द्रम् अमराः सर्वे किम् नु स्यात् इति अचिन्तयन् ॥ ७।२९।३० ॥
tam tu dṛṣṭvā balāt tena nīyamānam mahā-raṇāt . mahendram amarāḥ sarve kim nu syāt iti acintayan .. 7.29.30 ..
दृश्यते न स मायावी शक्रजित्समितिञ्जयः । विद्यावानपि येनेन्द्रो मायया नीयते बलात् ॥ ७.२९.३१ ॥
दृश्यते न स मायावी शक्रजित् समितिञ्जयः । विद्यावान् अपि येन इन्द्रः मायया नीयते बलात् ॥ ७।२९।३१ ॥
dṛśyate na sa māyāvī śakrajit samitiñjayaḥ . vidyāvān api yena indraḥ māyayā nīyate balāt .. 7.29.31 ..
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा । रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ ७.२९.३२ ॥
एतस्मिन् अन्तरे क्रुद्धाः सर्वे सुर-गणाः तदा । रावणम् विमुखीकृत्य शर-वर्षैः अवाकिरन् ॥ ७।२९।३२ ॥
etasmin antare kruddhāḥ sarve sura-gaṇāḥ tadā . rāvaṇam vimukhīkṛtya śara-varṣaiḥ avākiran .. 7.29.32 ..
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा । न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ॥ ७.२९.३३ ॥
रावणः तु समासाद्य आदित्यान् च वसून् तदा । न शशाक स सङ्ग्रामे योद्धुम् शत्रुभिः अर्दितः ॥ ७।२९।३३ ॥
rāvaṇaḥ tu samāsādya ādityān ca vasūn tadā . na śaśāka sa saṅgrāme yoddhum śatrubhiḥ arditaḥ .. 7.29.33 ..
स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् । रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम् ॥ ७.२९.३४ ॥
स तम् दृष्ट्वा परिम्लानम् प्रहारैः जर्जरीकृतम् । रावणिः पितरम् युद्धे दर्शन-स्थः अब्रवीत् इदम् ॥ ७।२९।३४ ॥
sa tam dṛṣṭvā parimlānam prahāraiḥ jarjarīkṛtam . rāvaṇiḥ pitaram yuddhe darśana-sthaḥ abravīt idam .. 7.29.34 ..
आगच्छ तात गच्छामो रणकर्म निवर्तताम् । जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः ॥ ७.२९.३५ ॥
आगच्छ तात गच्छामः रण-कर्म निवर्तताम् । जितम् नः विदितम् ते अस्तु स्वस्थः भव गत-ज्वरः ॥ ७।२९।३५ ॥
āgaccha tāta gacchāmaḥ raṇa-karma nivartatām . jitam naḥ viditam te astu svasthaḥ bhava gata-jvaraḥ .. 7.29.35 ..
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः । स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥ ७.२९.३६ ॥
अयम् हि सुर-सैन्यस्य त्रैलोक्यस्य च यः प्रभुः । स गृहीतः दैव-बलात् भग्न-दर्पाः सुराः कृताः ॥ ७।२९।३६ ॥
ayam hi sura-sainyasya trailokyasya ca yaḥ prabhuḥ . sa gṛhītaḥ daiva-balāt bhagna-darpāḥ surāḥ kṛtāḥ .. 7.29.36 ..
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा । वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ ७.२९.३७ ॥
यथा इष्टम् भुङ्क्ष्व लोकान् त्रीन् निगृह्य अरातिम् ओजसा । वृथा किम् ते श्रमेण इह युद्धम् अद्य तु निष्फलम् ॥ ७।२९।३७ ॥
yathā iṣṭam bhuṅkṣva lokān trīn nigṛhya arātim ojasā . vṛthā kim te śrameṇa iha yuddham adya tu niṣphalam .. 7.29.37 ..
ततस्ते दैवतगणा निवृत्ता रणकर्मणः । तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ॥ ७.२९.३८ ॥
ततस् ते दैवत-गणाः निवृत्ताः रण-कर्मणः । तत् श्रुत्वा रावणेः वाक्यम् स्वस्थ-चेताः बभूव ह ॥ ७।२९।३८ ॥
tatas te daivata-gaṇāḥ nivṛttāḥ raṇa-karmaṇaḥ . tat śrutvā rāvaṇeḥ vākyam svastha-cetāḥ babhūva ha .. 7.29.38 ..
अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः । स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ७.२९.३९ ॥
अथ स रण-विगत-ज्वरः प्रभुः विजयम् अवाप्य निशाचर-अधिपः । स्व-भवनम् अभितस् जगाम हृष्टः स्व-सुतम् अवाप्य च वाक्यम् अब्रवीत् ॥ ७।२९।३९ ॥
atha sa raṇa-vigata-jvaraḥ prabhuḥ vijayam avāpya niśācara-adhipaḥ . sva-bhavanam abhitas jagāma hṛṣṭaḥ sva-sutam avāpya ca vākyam abravīt .. 7.29.39 ..
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् । यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ७.२९.४० ॥
अति बल-सदृशैः पराक्रमैः तैः मम कुल-मान-विवर्धनम् कृतम् । यत् अयम् अतुल्य-बलः त्वया अद्य वै त्रिदश-पतिः त्रिदशाः च निर्जिताः ॥ ७।२९।४० ॥
ati bala-sadṛśaiḥ parākramaiḥ taiḥ mama kula-māna-vivardhanam kṛtam . yat ayam atulya-balaḥ tvayā adya vai tridaśa-patiḥ tridaśāḥ ca nirjitāḥ .. 7.29.40 ..
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् । अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ ७.२९.४१ ॥
नय रथम् अधिरोप्य वासवम् नगरम् इतस् व्रज सेनया वृतः त्वम् । अहम् अपि तव गच्छतः द्रुतम् सह सचिवैः अनुयामि पृष्ठतस् ॥ ७।२९।४१ ॥
naya ratham adhiropya vāsavam nagaram itas vraja senayā vṛtaḥ tvam . aham api tava gacchataḥ drutam saha sacivaiḥ anuyāmi pṛṣṭhatas .. 7.29.41 ..
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः । स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ॥ ७.२९.४२ ॥
अथ स बल-वृतः स वाहनः त्रिदश-पतिम् परिगृह्य रावणिः । स्व-भवनम् अभिगम्य वीर्यवान् कृत-समरान् विससर्ज राक्षसान् ॥ ७।२९।४२ ॥
atha sa bala-vṛtaḥ sa vāhanaḥ tridaśa-patim parigṛhya rāvaṇiḥ . sva-bhavanam abhigamya vīryavān kṛta-samarān visasarja rākṣasān .. 7.29.42 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekonatriṃśaḥ sargaḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In