This overlay will guide you through the buttons:

| |
|
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः ॥ ७.३.१ ॥
अथ पुत्रः पुलस्त्यस्य विश्रवाः मुनि-पुङ्गवः । अचिरेण एव कालेन पिता इव तपसि स्थितः ॥ ७।३।१ ॥
atha putraḥ pulastyasya viśravāḥ muni-puṅgavaḥ . acireṇa eva kālena pitā iva tapasi sthitaḥ .. 7.3.1 ..
सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः । सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ ७.३.२ ॥
सत्यवान् शीलवान् शान्तः स्वाध्याय-निरतः शुचिः । सर्व-भोगेषु असंसक्तः नित्यम् धर्म-परायणः ॥ ७।३।२ ॥
satyavān śīlavān śāntaḥ svādhyāya-nirataḥ śuciḥ . sarva-bhogeṣu asaṃsaktaḥ nityam dharma-parāyaṇaḥ .. 7.3.2 ..
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः । ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ॥ ७.३.३ ॥
ज्ञात्वा तस्य तु तत् वृत्तम् भरद्वाजः महा-मुनिः । ददौ विश्रवसे भार्याम् स्व-सुताम् देववर्णिनीम् ॥ ७।३।३ ॥
jñātvā tasya tu tat vṛttam bharadvājaḥ mahā-muniḥ . dadau viśravase bhāryām sva-sutām devavarṇinīm .. 7.3.3 ..
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा । प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ॥ ७.३.४ ॥
प्रतिगृह्य तु धर्मेण भरद्वाज-सुताम् तदा । प्रजा-अन्वेक्षिकया बुद्ध्या श्रेयः हि अस्य विचिन्तयन् ॥ ७।३।४ ॥
pratigṛhya tu dharmeṇa bharadvāja-sutām tadā . prajā-anvekṣikayā buddhyā śreyaḥ hi asya vicintayan .. 7.3.4 ..
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ॥ ७.३.५ ॥
मुदा परमया युक्तः विश्रवाः मुनि-पुङ्गवः । स तस्याम् वीर्य-सम्पन्नम् अपत्यम् परम-अद्भुतम् ॥ ७।३।५ ॥
mudā paramayā yuktaḥ viśravāḥ muni-puṅgavaḥ . sa tasyām vīrya-sampannam apatyam parama-adbhutam .. 7.3.5 ..
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् । तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ॥ ७.३.६ ॥
जनयामास धर्म-ज्ञः सर्वैः ब्रह्म-गुणैः युतम् । तस्मिन् जाते तु संहृष्टः सम्बभूव पितामहः ॥ ७।३।६ ॥
janayāmāsa dharma-jñaḥ sarvaiḥ brahma-guṇaiḥ yutam . tasmin jāte tu saṃhṛṣṭaḥ sambabhūva pitāmahaḥ .. 7.3.6 ..
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति । नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ॥ ७.३.७ ॥
दृष्ट्वा श्रेयस्करीम् बुद्धिम् धनाध्यक्षः भविष्यति । नाम तस्य अकरोत् प्रीतः सार्धम् देवर्षिभिः तदा ॥ ७।३।७ ॥
dṛṣṭvā śreyaskarīm buddhim dhanādhyakṣaḥ bhaviṣyati . nāma tasya akarot prītaḥ sārdham devarṣibhiḥ tadā .. 7.3.7 ..
यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव । तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ॥ ७.३.८ ॥
यस्मात् विश्रवसः अपत्यम् सादृश्यात् विश्रवाः इव । तस्मात् वैश्रवणः नाम भविष्यतु एष विश्रुतः ॥ ७।३।८ ॥
yasmāt viśravasaḥ apatyam sādṛśyāt viśravāḥ iva . tasmāt vaiśravaṇaḥ nāma bhaviṣyatu eṣa viśrutaḥ .. 7.3.8 ..
स तु वैश्रवणस्तत्र तपोवनगतस्तदा । अवर्धताहुतिहुतो महातेजा यथानलः ॥ ७.३.९ ॥
स तु वैश्रवणः तत्र तपः-वन-गतः तदा । अवर्धत आहुति-हुतः महा-तेजाः यथा अनलः ॥ ७।३।९ ॥
sa tu vaiśravaṇaḥ tatra tapaḥ-vana-gataḥ tadā . avardhata āhuti-hutaḥ mahā-tejāḥ yathā analaḥ .. 7.3.9 ..
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः । चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ॥ ७.३.१० ॥
तस्य आश्रम-पद-स्थस्य बुद्धिः जज्ञे महात्मनः । चरिष्ये परमम् धर्मम् धर्मः हि परमा गतिः ॥ ७।३।१० ॥
tasya āśrama-pada-sthasya buddhiḥ jajñe mahātmanaḥ . cariṣye paramam dharmam dharmaḥ hi paramā gatiḥ .. 7.3.10 ..
स तु वर्षसहस्राणि तपस्तप्त्वा महावने । यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ॥ ७.३.११ ॥
स तु वर्ष-सहस्राणि तपः तप्त्वा महा-वने । यन्त्रितः नियमैः उग्रैः चकार सु महत् तपः ॥ ७।३।११ ॥
sa tu varṣa-sahasrāṇi tapaḥ taptvā mahā-vane . yantritaḥ niyamaiḥ ugraiḥ cakāra su mahat tapaḥ .. 7.3.11 ..
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् । जलाशी मारुताहारो निराहारस्तथैव च ॥ ७.३.१२ ॥
पूर्णे वर्ष-सहस्र-अन्ते तम् तम् विधिम् अकल्पयत् । जल-आशी मारुत-आहारः निराहारः तथा एव च ॥ ७।३।१२ ॥
pūrṇe varṣa-sahasra-ante tam tam vidhim akalpayat . jala-āśī māruta-āhāraḥ nirāhāraḥ tathā eva ca .. 7.3.12 ..
एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् । अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ॥ ७.३.१३ ॥
एवम् वर्ष-सहस्राणि जग्मुः तानि एक-वर्ष-वत् । अथ प्रीतः महा-तेजाः स इन्द्रैः सुर-गणैः सह ॥ ७।३।१३ ॥
evam varṣa-sahasrāṇi jagmuḥ tāni eka-varṣa-vat . atha prītaḥ mahā-tejāḥ sa indraiḥ sura-gaṇaiḥ saha .. 7.3.13 ..
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् । परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत । वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ॥ ७.३.१४ ॥
गत्वा तस्य आश्रम-पदम् ब्रह्मा इदम् वाक्यम् अब्रवीत् । परितुष्टः अस्मि ते वत्स कर्मणा अनेन सुव्रत । वरम् वृणीष्व भद्रम् ते वर-अर्हः त्वम् महामते ॥ ७।३।१४ ॥
gatvā tasya āśrama-padam brahmā idam vākyam abravīt . parituṣṭaḥ asmi te vatsa karmaṇā anena suvrata . varam vṛṇīṣva bhadram te vara-arhaḥ tvam mahāmate .. 7.3.14 ..
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् । भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ॥ ७.३.१५ ॥
अथ अब्रवीत् वैश्रवणः पितामहम् उपस्थितम् । भगवन् लोकपाल-त्वम् इच्छेयम् वित्त-रक्षणम् ॥ ७।३।१५ ॥
atha abravīt vaiśravaṇaḥ pitāmaham upasthitam . bhagavan lokapāla-tvam iccheyam vitta-rakṣaṇam .. 7.3.15 ..
अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा । ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ॥ ७.३.१६ ॥
अथा अब्रवीत् वैश्रवणम् परितुष्टेन चेतसा । ब्रह्मा सुर-गणैः सार्धम् बाढम् इति एव हृष्ट-वत् ॥ ७।३।१६ ॥
athā abravīt vaiśravaṇam parituṣṭena cetasā . brahmā sura-gaṇaiḥ sārdham bāḍham iti eva hṛṣṭa-vat .. 7.3.16 ..
अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ॥ ७.३.१७ ॥
अहम् वै लोकपालानाम् चतुर्थम् स्रष्टुम् उद्यतः ॥ ७।३।१७ ॥
aham vai lokapālānām caturtham sraṣṭum udyataḥ .. 7.3.17 ..
यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् । तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि । शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ॥ ७.३.१८ ॥
यम-इन्द्र-वरुणानाम् च पदम् यत् तव च ईप्सितम् । तत् गच्छ त्वम् हि धर्म-ज्ञ निधि-ईश-त्वम् अवाप्नुहि । शक्र-अम्बु-पयमानाम् च चतुर्थः त्वम् भविष्यसि ॥ ७।३।१८ ॥
yama-indra-varuṇānām ca padam yat tava ca īpsitam . tat gaccha tvam hi dharma-jña nidhi-īśa-tvam avāpnuhi . śakra-ambu-payamānām ca caturthaḥ tvam bhaviṣyasi .. 7.3.18 ..
एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् । प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ॥ ७.३.१९ ॥
एतत् च पुष्पकम् नाम विमानम् सूर्य-सन्निभम् । प्रतिगृह्णीष्व यान-अर्थम् त्रिदशैः सम-ताम् व्रज ॥ ७।३।१९ ॥
etat ca puṣpakam nāma vimānam sūrya-sannibham . pratigṛhṇīṣva yāna-artham tridaśaiḥ sama-tām vraja .. 7.3.19 ..
स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् । कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ॥ ७.३.२० ॥
स्वस्ति ते अस्तु गमिष्यामः सर्वे एव यथागतम् । कृतकृत्याः वयम् तात दत्त्वा तव वर-द्वयम् ॥ ७।३।२० ॥
svasti te astu gamiṣyāmaḥ sarve eva yathāgatam . kṛtakṛtyāḥ vayam tāta dattvā tava vara-dvayam .. 7.3.20 ..
इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ॥ ७.३.२१ ॥
इति उक्त्वा स गतः ब्रह्मा स्व-स्थानम् त्रिदशैः सह ॥ ७।३।२१ ॥
iti uktvā sa gataḥ brahmā sva-sthānam tridaśaiḥ saha .. 7.3.21 ..
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् । वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् । निवासनं न मे देवो विदधे स प्रजापतिः ॥ ७.३.२२ ॥
गतेषु ब्रह्म-पूर्वेषु देवेषु अथ नभ-स्थलम् । वने स पितरम् प्राह प्राञ्जलिः प्रयत-आत्मवान् । निवासनम् न मे देवः विदधे स प्रजापतिः ॥ ७।३।२२ ॥
gateṣu brahma-pūrveṣu deveṣu atha nabha-sthalam . vane sa pitaram prāha prāñjaliḥ prayata-ātmavān . nivāsanam na me devaḥ vidadhe sa prajāpatiḥ .. 7.3.22 ..
भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् । तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ॥ ७.३.२३ ॥
भगवन् लब्धवान् अस्मि वरम् इष्टम् पितामहात् । तम् पश्य भगवन् कञ्चिद् निवासम् साधु मे प्रभो ॥ ७।३।२३ ॥
bhagavan labdhavān asmi varam iṣṭam pitāmahāt . tam paśya bhagavan kañcid nivāsam sādhu me prabho .. 7.3.23 ..
न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् । एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ॥ ७.३.२४ ॥
न च पीडा भवेत् यत्र प्राणिनः यस्य कस्यचिद् । एवम् उक्तः तु पुत्रेण विश्रवाः मुनि-पुङ्गवः ॥ ७।३।२४ ॥
na ca pīḍā bhavet yatra prāṇinaḥ yasya kasyacid . evam uktaḥ tu putreṇa viśravāḥ muni-puṅgavaḥ .. 7.3.24 ..
वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः । दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ॥ ७.३.२५ ॥
वचनम् प्राह धर्म-ज्ञः श्रूयताम् इति सत्तमः । दक्षिणस्य उदधेः तीरे त्रिकूटः नाम पर्वतः ॥ ७।३।२५ ॥
vacanam prāha dharma-jñaḥ śrūyatām iti sattamaḥ . dakṣiṇasya udadheḥ tīre trikūṭaḥ nāma parvataḥ .. 7.3.25 ..
तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा । लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ॥ ७.३.२६ ॥
तस्य अग्रे तु विशाला सा महा-इन्द्रस्य पुरी यथा । लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ॥ ७।३।२६ ॥
tasya agre tu viśālā sā mahā-indrasya purī yathā . laṅkā nāma purī ramyā nirmitā viśvakarmaṇā .. 7.3.26 ..
राक्षसानां निवासार्थं यथेन्द्रस्यामरावती । तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ॥ ७.३.२७ ॥
राक्षसानाम् निवास-अर्थम् यथा इन्द्रस्य अमरावती । तत्र त्वम् वस भद्रम् ते लङ्कायाम् न अत्र संशयः ॥ ७।३।२७ ॥
rākṣasānām nivāsa-artham yathā indrasya amarāvatī . tatra tvam vasa bhadram te laṅkāyām na atra saṃśayaḥ .. 7.3.27 ..
हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता । रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ॥ ७.३.२८ ॥
हेम-प्राकार-परिघा यन्त्र-शस्त्र-समावृता । रमणीया पुरी सा हि रुक्म-वैडूर्य-तोरणा ॥ ७।३।२८ ॥
hema-prākāra-parighā yantra-śastra-samāvṛtā . ramaṇīyā purī sā hi rukma-vaiḍūrya-toraṇā .. 7.3.28 ..
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः । शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ॥ ७.३.२९ ॥
राक्षसैः सा परित्यक्ता पुरा विष्णु-भय-अर्दितैः । शून्या रक्षः-गणैः सर्वैः रसातल-तलम् गतैः ॥ ७।३।२९ ॥
rākṣasaiḥ sā parityaktā purā viṣṇu-bhaya-arditaiḥ . śūnyā rakṣaḥ-gaṇaiḥ sarvaiḥ rasātala-talam gataiḥ .. 7.3.29 ..
शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते । स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ॥ ७.३.३० ॥
शून्या सम्प्रति लङ्का सा प्रभुः तस्याः न विद्यते । स त्वम् तत्र निवासाय गच्छ पुत्र यथासुखम् ॥ ७।३।३० ॥
śūnyā samprati laṅkā sā prabhuḥ tasyāḥ na vidyate . sa tvam tatra nivāsāya gaccha putra yathāsukham .. 7.3.30 ..
निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् । एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ॥ ७.३.३१ ॥
निर्दोषः तत्र ते वासः न बाधाः तत्र कस्यचिद् । एतत् शुत्वा स धर्म-आत्मा धर्मिष्ठम् वचनम् पितुः ॥ ७।३।३१ ॥
nirdoṣaḥ tatra te vāsaḥ na bādhāḥ tatra kasyacid . etat śutvā sa dharma-ātmā dharmiṣṭham vacanam pituḥ .. 7.3.31 ..
निवासयामास तदा लङ्कां पर्वतमूर्धनि । नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ॥ ७.३.३२ ॥
निवासयामास तदा लङ्काम् पर्वत-मूर्धनि । नैरृतानाम् सहस्रैः तु हृष्टैः सह ॥ ७।३।३२ ॥
nivāsayāmāsa tadā laṅkām parvata-mūrdhani . nairṛtānām sahasraiḥ tu hṛṣṭaiḥ saha .. 7.3.32 ..
अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ॥ ७.३.३३ ॥
अचिरेण एव कालेन सम्पूर्णा तस्य शासनात् ॥ ७।३।३३ ॥
acireṇa eva kālena sampūrṇā tasya śāsanāt .. 7.3.33 ..
स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः । समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ॥ ७.३.३४ ॥
स तु तत्र अवसत् प्रीतः धर्म-आत्मा नैरृत-ऋषभः । समुद्र-परिघायाम् तु लङ्कायाम् विश्रव-आत्मजः ॥ ७।३।३४ ॥
sa tu tatra avasat prītaḥ dharma-ātmā nairṛta-ṛṣabhaḥ . samudra-parighāyām tu laṅkāyām viśrava-ātmajaḥ .. 7.3.34 ..
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः । अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ॥ ७.३.३५ ॥
काले काले तु धर्म-आत्मा पुष्पकेण धनेश्वरः । अभ्यागच्छत् विनीत-आत्मा पितरम् मातरम् च हि ॥ ७।३।३५ ॥
kāle kāle tu dharma-ātmā puṣpakeṇa dhaneśvaraḥ . abhyāgacchat vinīta-ātmā pitaram mātaram ca hi .. 7.3.35 ..
स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः । गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ॥ ७.३.३६ ॥
स देव-गन्धर्व-गणैः अभिष्टुतः तथा अप्सरः-नृत्य-विभूषित-आलयः । गभस्तिभिः सूर्यः इव अवभासयन् पितुः समीपम् प्रययौ स वित्तपः ॥ ७।३।३६ ॥
sa deva-gandharva-gaṇaiḥ abhiṣṭutaḥ tathā apsaraḥ-nṛtya-vibhūṣita-ālayaḥ . gabhastibhiḥ sūryaḥ iva avabhāsayan pituḥ samīpam prayayau sa vittapaḥ .. 7.3.36 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे तृतीयः सर्गः ॥ ३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे तृतीयः सर्गः ॥ ३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe tṛtīyaḥ sargaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In