This overlay will guide you through the buttons:

| |
|
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै । प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ॥ ७.३०.१ ॥
जिते महा-इन्द्रे अतिबले रावणस्य सुतेन वै । प्रजापतिम् पुरस्कृत्य ययुः लङ्काम् सुराः तदा ॥ ७।३०।१ ॥
jite mahā-indre atibale rāvaṇasya sutena vai . prajāpatim puraskṛtya yayuḥ laṅkām surāḥ tadā .. 7.30.1 ..
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् । अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ॥ ७.३०.२ ॥
तत्र रावणम् आसाद्य पुत्र-भ्रातृभिः आवृतम् । अब्रवीत् गगने तिष्ठन् साम-पूर्वम् प्रजापतिः ॥ ७।३०।२ ॥
tatra rāvaṇam āsādya putra-bhrātṛbhiḥ āvṛtam . abravīt gagane tiṣṭhan sāma-pūrvam prajāpatiḥ .. 7.30.2 ..
वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे । अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा ॥ ७.३०.३ ॥
वत्स रावण तुष्टः अस्मि पुत्रस्य तव संयुगे । अहो अस्य विक्रम-औदार्यम् तव तुल्यः अधिकः अपि वा ॥ ७।३०।३ ॥
vatsa rāvaṇa tuṣṭaḥ asmi putrasya tava saṃyuge . aho asya vikrama-audāryam tava tulyaḥ adhikaḥ api vā .. 7.30.3 ..
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा । कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै ॥ ७.३०.४ ॥
जितम् हि भवता सर्वम् त्रैलोक्यम् स्वेन तेजसा । कृता प्रतिज्ञा सफला प्रीतः अस्मि स्व-सुतेन वै ॥ ७।३०।४ ॥
jitam hi bhavatā sarvam trailokyam svena tejasā . kṛtā pratijñā saphalā prītaḥ asmi sva-sutena vai .. 7.30.4 ..
अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् । जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥ ७.३०.५ ॥
अयम् च पुत्रः अतिबलः तव रावण वीर्यवान् । जगतीन्द्रजित् इति एव परिख्यातः भविष्यति ॥ ७।३०।५ ॥
ayam ca putraḥ atibalaḥ tava rāvaṇa vīryavān . jagatīndrajit iti eva parikhyātaḥ bhaviṣyati .. 7.30.5 ..
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः । यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ॥ ७.३०.६ ॥
बलवान् दुर्जयः च एव भविष्यति एव राक्षसः । यम् समाश्रित्य ते राजन् स्थापिताः त्रिदशाः वशे ॥ ७।३०।६ ॥
balavān durjayaḥ ca eva bhaviṣyati eva rākṣasaḥ . yam samāśritya te rājan sthāpitāḥ tridaśāḥ vaśe .. 7.30.6 ..
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः । किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ॥ ७.३०.७ ॥
तत् मुच्यताम् महा-बाहो महा-इन्द्रः पाकशासनः । किञ्च अस्य मोक्षण-अर्थाय प्रयच्छन्तु दिवौकसः ॥ ७।३०।७ ॥
tat mucyatām mahā-bāho mahā-indraḥ pākaśāsanaḥ . kiñca asya mokṣaṇa-arthāya prayacchantu divaukasaḥ .. 7.30.7 ..
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः । अमरत्वमहं देव वृणे यद्येष मुच्यते ॥ ७.३०.८ ॥
अथा अब्रवीत् महा-तेजाः इन्द्रजित् समितिञ्जयः । अमर-त्वम् अहम् देव वृणे यदि एष मुच्यते ॥ ७।३०।८ ॥
athā abravīt mahā-tejāḥ indrajit samitiñjayaḥ . amara-tvam aham deva vṛṇe yadi eṣa mucyate .. 7.30.8 ..
चतुष्पदां खेचराणामन्येषां वा महौजसाम् । वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ॥ ७.३०.९ ॥
चतुष्पदाम् खेचराणाम् अन्येषाम् वा महा-ओजसाम् । वृक्ष-गुल्म-क्षुप-लता-तृण-उपल-महीभृताम् ॥ ७।३०।९ ॥
catuṣpadām khecarāṇām anyeṣām vā mahā-ojasām . vṛkṣa-gulma-kṣupa-latā-tṛṇa-upala-mahībhṛtām .. 7.30.9 ..
सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति । अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ॥ ७.३०.१० ॥
सर्वे अपि जन्तवः अन्योन्यम् भेतव्ये सति बिभ्यति । अतस् अत्र लोके सर्वेषाम् सर्वस्मात् च भवेत् भयम् ॥ ७।३०।१० ॥
sarve api jantavaḥ anyonyam bhetavye sati bibhyati . atas atra loke sarveṣām sarvasmāt ca bhavet bhayam .. 7.30.10 ..
ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः । नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि । चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ॥ ७.३०.११ ॥
ततस् अब्रवीत् महा-तेजाः मेघ-नादम् प्रजापतिः । न अस्ति सर्व-अमर-त्वम् हि कस्यचिद् प्राणिनः भुवि । चतुष्पदः पक्षिणः च भूतानाम् वा महा-ओजसाम् ॥ ७।३०।११ ॥
tatas abravīt mahā-tejāḥ megha-nādam prajāpatiḥ . na asti sarva-amara-tvam hi kasyacid prāṇinaḥ bhuvi . catuṣpadaḥ pakṣiṇaḥ ca bhūtānām vā mahā-ojasām .. 7.30.11 ..
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ॥ ७.३०.१२ ॥
श्रुत्वा पितामहेन उक्तम् इन्द्रजित्-प्रभुणा अव्ययम् ॥ ७।३०।१२ ॥
śrutvā pitāmahena uktam indrajit-prabhuṇā avyayam .. 7.30.12 ..
्वं हि कस्यचित्प्राणिनो भुवि । अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः । श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥ ७.३०.१३ ॥
वम् हि कस्यचिद् प्राणिनः भुवि । अथा अब्रवीत् स तत्रस्थम् मेघनादः महा-बलः । श्रूयताम् वा भवेत् सिद्धिः शतक्रतु-विमोक्षणे ॥ ७।३०।१३ ॥
vam hi kasyacid prāṇinaḥ bhuvi . athā abravīt sa tatrastham meghanādaḥ mahā-balaḥ . śrūyatām vā bhavet siddhiḥ śatakratu-vimokṣaṇe .. 7.30.13 ..
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् । सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ॥ ७.३०.१४ ॥
मम इष्टम् नित्यशस् हर्व्यैः मन्त्रैः सम्पूज्य पावकम् । सङ्ग्रामम् अवतर्त्तुम् च शत्रु-निर्जय-काङ्क्षिणः ॥ ७।३०।१४ ॥
mama iṣṭam nityaśas harvyaiḥ mantraiḥ sampūjya pāvakam . saṅgrāmam avatarttum ca śatru-nirjaya-kāṅkṣiṇaḥ .. 7.30.14 ..
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः । तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ॥ ७.३०.१५ ॥
अश्व-युक्तः रथः मह्यम् उत्तिष्ठेत् तु विभावसोः । तद्-स्थस्य अमरता स्यात् मे एष मे निश्चयः वरः ॥ ७।३०।१५ ॥
aśva-yuktaḥ rathaḥ mahyam uttiṣṭhet tu vibhāvasoḥ . tad-sthasya amaratā syāt me eṣa me niścayaḥ varaḥ .. 7.30.15 ..
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ । युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ॥ ७.३०.१६ ॥
तस्मिन् यदि असमाप्ते च जप्य-होमे विभावसौ । युध्येयम् देव सङ्ग्रामे तदा मे स्यात् विनाशनम् ॥ ७।३०।१६ ॥
tasmin yadi asamāpte ca japya-home vibhāvasau . yudhyeyam deva saṅgrāme tadā me syāt vināśanam .. 7.30.16 ..
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् । विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ॥ ७.३०.१७ ॥
सर्वः हि तपसा देव वृणोति अमर-ताम् पुमान् । विक्रमेण मया तु एतत् अमर-त्वम् प्रवर्तितम् ॥ ७।३०।१७ ॥
sarvaḥ hi tapasā deva vṛṇoti amara-tām pumān . vikrameṇa mayā tu etat amara-tvam pravartitam .. 7.30.17 ..
एवमस्त्विति तं चाह वाक्यं देवः पितामहः । मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ॥ ७.३०.१८ ॥
एवम् अस्तु इति तम् च आह वाक्यम् देवः पितामहः । मुक्तः च इन्द्रजिता शक्रः गताः च त्रिदिवम् सुराः ॥ ७।३०।१८ ॥
evam astu iti tam ca āha vākyam devaḥ pitāmahaḥ . muktaḥ ca indrajitā śakraḥ gatāḥ ca tridivam surāḥ .. 7.30.18 ..
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः । इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥ ७.३०.१९ ॥
एतस्मिन् अन्तरे राम दीनः भ्रष्ट-अम्बर-द्युतिः । इन्द्रः चिन्ता-परीत-आत्मा ध्यान-तत्पर-ताम् गतः ॥ ७।३०।१९ ॥
etasmin antare rāma dīnaḥ bhraṣṭa-ambara-dyutiḥ . indraḥ cintā-parīta-ātmā dhyāna-tatpara-tām gataḥ .. 7.30.19 ..
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः । शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ॥ ७.३०.२० ॥
तम् तु दृष्ट्वा तथाभूतम् प्राह देवः प्रजापतिः । शतक्रतो किमु पुरा करोति स्म सु दुष्कृतम् ॥ ७।३०।२० ॥
tam tu dṛṣṭvā tathābhūtam prāha devaḥ prajāpatiḥ . śatakrato kimu purā karoti sma su duṣkṛtam .. 7.30.20 ..
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो । एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ॥ ७.३०.२१ ॥
अमर-इन्द्र मया बह्व्यः प्रजाः सृष्टाः तथा प्रभो । एक-वर्णाः सम-आभाषाः एक-रूपाः च सर्वशस् ॥ ७।३०।२१ ॥
amara-indra mayā bahvyaḥ prajāḥ sṛṣṭāḥ tathā prabho . eka-varṇāḥ sama-ābhāṣāḥ eka-rūpāḥ ca sarvaśas .. 7.30.21 ..
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा । ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ॥ ७.३०.२२ ॥
तासाम् ना अस्ति विशेषः हि दर्शने लक्षणे अपि वा । ततस् अहम् एकाग्र-मनाः ताः प्रजाः परिचिन्तयम् ॥ ७।३०।२२ ॥
tāsām nā asti viśeṣaḥ hi darśane lakṣaṇe api vā . tatas aham ekāgra-manāḥ tāḥ prajāḥ paricintayam .. 7.30.22 ..
सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे । यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥ ७.३०.२३ ॥
सः अहम् तासाम् विशेष-अर्थम् स्त्रियम् एकाम् विनिर्ममे । यत् यत् प्रजानाम् प्रत्यङ्गम् विशिष्टम् तत् तत् उद्धृतम् ॥ ७।३०।२३ ॥
saḥ aham tāsām viśeṣa-artham striyam ekām vinirmame . yat yat prajānām pratyaṅgam viśiṣṭam tat tat uddhṛtam .. 7.30.23 ..
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ॥ ७.३०.२४ ॥
ततस् मया रूप-गुणैः अहल्या स्त्री विनिर्मिता । हलम् नाम इह वैरूपम् हल्यम् तद्-प्रभवम् भवेत् ॥ ७।३०।२४ ॥
tatas mayā rūpa-guṇaiḥ ahalyā strī vinirmitā . halam nāma iha vairūpam halyam tad-prabhavam bhavet .. 7.30.24 ..
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता । अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ॥ ७.३०.२५ ॥
यस्मात् न विद्यते हल्यम् तेन अहल्या इति विश्रुता । अहल्या इति मया शक्र तस्याः नाम प्रवर्तितम् ॥ ७।३०।२५ ॥
yasmāt na vidyate halyam tena ahalyā iti viśrutā . ahalyā iti mayā śakra tasyāḥ nāma pravartitam .. 7.30.25 ..
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ । भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ॥ ७.३०.२६ ॥
निर्मितायाम् च देव-इन्द्र तस्याम् नार्याम् सुरर्षभ । भविष्यति इति कस्य एषा मम चिन्ता ततस् अभवत् ॥ ७।३०।२६ ॥
nirmitāyām ca deva-indra tasyām nāryām surarṣabha . bhaviṣyati iti kasya eṣā mama cintā tatas abhavat .. 7.30.26 ..
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो । स्थानाधिकतया पत्नी ममैषेति पुरन्दर ॥ ७.३०.२७ ॥
त्वम् तु शक्र तदा नारीम् जानीषे मनसा प्रभो । स्थान-अधिक-तया पत्नी मम एषा इति पुरन्दर ॥ ७।३०।२७ ॥
tvam tu śakra tadā nārīm jānīṣe manasā prabho . sthāna-adhika-tayā patnī mama eṣā iti purandara .. 7.30.27 ..
सा मया न्यासभूता तु गौतमस्य महात्मनः । न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ॥ ७.३०.२८ ॥
सा मया न्यास-भूता तु गौतमस्य महात्मनः । न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ॥ ७।३०।२८ ॥
sā mayā nyāsa-bhūtā tu gautamasya mahātmanaḥ . nyastā bahūni varṣāṇi tena niryātitā ca ha .. 7.30.28 ..
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः । ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ॥ ७.३०.२९ ॥
ततस् तस्य परिज्ञाय महा-स्थैर्यम् महा-मुनेः । ज्ञात्वा तपसि सिद्धिम् च पत्नी-अर्थम् स्पर्शिता तदा ॥ ७।३०।२९ ॥
tatas tasya parijñāya mahā-sthairyam mahā-muneḥ . jñātvā tapasi siddhim ca patnī-artham sparśitā tadā .. 7.30.29 ..
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः । दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ॥ ७.३०.३० ॥
सङ्क्रुद्धः त्वम् हि धर्म-आत्मन् गत्वा तस्य आश्रमम् मुनेः । दृष्टवान् च तदा ताम् स्त्रीम् दीप्ताम् अग्नि-शिखाम् इव ॥ ७।३०।३० ॥
saṅkruddhaḥ tvam hi dharma-ātman gatvā tasya āśramam muneḥ . dṛṣṭavān ca tadā tām strīm dīptām agni-śikhām iva .. 7.30.30 ..
सा त्वया धर्षिता शक्र कामार्तेन समन्युना । दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ॥ ७.३०.३१ ॥
सा त्वया धर्षिता शक्र काम् आर्तेन स मन्युना । दृष्टः त्वम् च तदा तेन हि आश्रमे परम-ऋषिणा ॥ ७।३०।३१ ॥
sā tvayā dharṣitā śakra kām ārtena sa manyunā . dṛṣṭaḥ tvam ca tadā tena hi āśrame parama-ṛṣiṇā .. 7.30.31 ..
ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा । गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ॥ ७.३०.३२ ॥
ततस् क्रुद्धेन तेन असि शप्तः परम-तेजसा । गतः असि येन देव-इन्द्र दशा-भाग-विपर्ययम् ॥ ७।३०।३२ ॥
tatas kruddhena tena asi śaptaḥ parama-tejasā . gataḥ asi yena deva-indra daśā-bhāga-viparyayam .. 7.30.32 ..
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् । तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ॥ ७.३०.३३ ॥
यस्मात् मे धर्षिता पत्नी त्वया वासव निर्भयम् । तस्मात् त्वम् समरे राजन् शत्रु-हस्तम् गमिष्यसि ॥ ७।३०।३३ ॥
yasmāt me dharṣitā patnī tvayā vāsava nirbhayam . tasmāt tvam samare rājan śatru-hastam gamiṣyasi .. 7.30.33 ..
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः । मानुषेष्वपि लोकेषु भविष्यति न संशयः ॥ ७.३०.३४ ॥
अयम् तु भावः दुर्बुद्धे यः त्वया इह प्रवर्तितः । मानुषेषु अपि लोकेषु भविष्यति न संशयः ॥ ७।३०।३४ ॥
ayam tu bhāvaḥ durbuddhe yaḥ tvayā iha pravartitaḥ . mānuṣeṣu api lokeṣu bhaviṣyati na saṃśayaḥ .. 7.30.34 ..
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति । न च ते स्थावरं स्थानं भविष्यति न संशयः ॥ ७.३०.३५ ॥
तत्र अर्धम् तस्य यः कर्ता त्वयि अर्धम् निपतिष्यति । न च ते स्थावरम् स्थानम् भविष्यति न संशयः ॥ ७।३०।३५ ॥
tatra ardham tasya yaḥ kartā tvayi ardham nipatiṣyati . na ca te sthāvaram sthānam bhaviṣyati na saṃśayaḥ .. 7.30.35 ..
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति । एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ॥ ७.३०.३६ ॥
यः च यः च सुर-इन्द्रः स्यात् ध्रुवः स न भविष्यति । एष शापः मया मुक्तः इति असौ त्वाम् तदा अब्रवीत् ॥ ७।३०।३६ ॥
yaḥ ca yaḥ ca sura-indraḥ syāt dhruvaḥ sa na bhaviṣyati . eṣa śāpaḥ mayā muktaḥ iti asau tvām tadā abravīt .. 7.30.36 ..
तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः । दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ॥ ७.३०.३७ ॥
ताम् तु भार्याम् स निर्भर्त्स्य सः अब्रवीत् सु महा-तपाः । दुर्विनीते विनिध्वंस मम आश्रम-समीपतः ॥ ७।३०।३७ ॥
tām tu bhāryām sa nirbhartsya saḥ abravīt su mahā-tapāḥ . durvinīte vinidhvaṃsa mama āśrama-samīpataḥ .. 7.30.37 ..
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता । तस्माद्रूपवती लोके न त्वमेका भविष्यति ॥ ७.३०.३८ ॥
रूप-यौवन-सम्पन्ना यस्मात् त्वम् अनवस्थिता । तस्मात् रूपवती लोके न त्वम् एका भविष्यति ॥ ७।३०।३८ ॥
rūpa-yauvana-sampannā yasmāt tvam anavasthitā . tasmāt rūpavatī loke na tvam ekā bhaviṣyati .. 7.30.38 ..
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः । यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ॥ ७.३०.३९ ॥
रूपम् च ते प्रजाः सर्वाः गमिष्यन्ति न संशयः । यत् तत् एकम् समाश्रित्य विभ्रमः अयम् उपस्थितः ॥ ७।३०।३९ ॥
rūpam ca te prajāḥ sarvāḥ gamiṣyanti na saṃśayaḥ . yat tat ekam samāśritya vibhramaḥ ayam upasthitaḥ .. 7.30.39 ..
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः । सा तं प्रसादयामास महर्षिं गौतमं तदा ॥ ७.३०.४० ॥
तदा प्रभृति भूयिष्ठम् प्रजाः रूप-समन्विताः । सा तम् प्रसादयामास महा-ऋषिम् गौतमम् तदा ॥ ७।३०।४० ॥
tadā prabhṛti bhūyiṣṭham prajāḥ rūpa-samanvitāḥ . sā tam prasādayāmāsa mahā-ṛṣim gautamam tadā .. 7.30.40 ..
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा । न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ॥ ७.३०.४१ ॥
अज्ञानात् हर्षिताः विप्र त्वद्-रूपेण दिवौकसा । न कामकारात् विप्रर्षे प्रसादम् कर्तुम् अर्हसि ॥ ७।३०।४१ ॥
ajñānāt harṣitāḥ vipra tvad-rūpeṇa divaukasā . na kāmakārāt viprarṣe prasādam kartum arhasi .. 7.30.41 ..
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः । उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ॥ ७.३०.४२ ॥
अहल्यया तु एवम् उक्तः प्रत्युवाच स गौतमः । उत्पत्स्यति महा-तेजाः इक्ष्वाकूणाम् महा-रथः ॥ ७।३०।४२ ॥
ahalyayā tu evam uktaḥ pratyuvāca sa gautamaḥ . utpatsyati mahā-tejāḥ ikṣvākūṇām mahā-rathaḥ .. 7.30.42 ..
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति । ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः । तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ॥ ७.३०.४३ ॥
रामः नाम श्रुतः लोके वनम् च अपि उपयास्यति । ब्राह्मण-अर्थे महा-बाहुः विष्णुः मानुष-विग्रहः । तम् द्रक्ष्यसि यदा भद्रे ततस् पूता भविष्यसि ॥ ७।३०।४३ ॥
rāmaḥ nāma śrutaḥ loke vanam ca api upayāsyati . brāhmaṇa-arthe mahā-bāhuḥ viṣṇuḥ mānuṣa-vigrahaḥ . tam drakṣyasi yadā bhadre tatas pūtā bhaviṣyasi .. 7.30.43 ..
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् । तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ॥ ७.३०.४४ ॥
स हि पावयितुम् शक्तः त्वया यत् दुष्कृतम् कृतम् । तस्य आतिथ्यम् च कृत्वा वै मद्-समीपम् गमिष्यसि ॥ ७।३०।४४ ॥
sa hi pāvayitum śaktaḥ tvayā yat duṣkṛtam kṛtam . tasya ātithyam ca kṛtvā vai mad-samīpam gamiṣyasi .. 7.30.44 ..
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि । एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ॥ ७.३०.४५ ॥
वत्स्यसि त्वम् मया सार्धम् तदा हि वरवर्णिनि । एवम् उक्त्वा स विप्रर्षिः आजगाम स्वम् आश्रमम् ॥ ७।३०।४५ ॥
vatsyasi tvam mayā sārdham tadā hi varavarṇini . evam uktvā sa viprarṣiḥ ājagāma svam āśramam .. 7.30.45 ..
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः । शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ॥ ७.३०.४६ ॥
तपः च आचार सु महत् सा पत्नी ब्रह्म-वादिनः । शाप-उत्सर्गात् हि तस्य इदम् मुनेः सर्वम् उपस्थितम् ॥ ७।३०।४६ ॥
tapaḥ ca ācāra su mahat sā patnī brahma-vādinaḥ . śāpa-utsargāt hi tasya idam muneḥ sarvam upasthitam .. 7.30.46 ..
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् । तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ॥ ७.३०.४७ ॥
तत् स्मर त्वम् महा-बाहो दुष्कृतम् यत् त्वया कृतम् । तेन त्वम् ग्रहणम् शत्रोः यातः न अन्येन वासव ॥ ७।३०।४७ ॥
tat smara tvam mahā-bāho duṣkṛtam yat tvayā kṛtam . tena tvam grahaṇam śatroḥ yātaḥ na anyena vāsava .. 7.30.47 ..
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः । पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ॥ ७.३०.४८ ॥
शीघ्रम् वै यज यज्ञम् त्वम् वैष्णवम् सु समाहितः । पावितः तेन यज्ञेन यास्यसे त्रिदिवम् ततस् ॥ ७।३०।४८ ॥
śīghram vai yaja yajñam tvam vaiṣṇavam su samāhitaḥ . pāvitaḥ tena yajñena yāsyase tridivam tatas .. 7.30.48 ..
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे । नीतः सन्निहितश्चैव आर्यकेण महोदधौ ॥ ७.३०.४९ ॥
पुत्रः च तव देव-इन्द्र न विनष्टः महा-रणे । नीतः सन्निहितः च एव आर्यकेण महा-उदधौ ॥ ७।३०।४९ ॥
putraḥ ca tava deva-indra na vinaṣṭaḥ mahā-raṇe . nītaḥ sannihitaḥ ca eva āryakeṇa mahā-udadhau .. 7.30.49 ..
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् । पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ॥ ७.३०.५० ॥
एतत् श्रुत्वा महा-इन्द्रः तु यज्ञम् इष्ट्वा च वैष्णवम् । पुनर् त्रिदिवम् आक्रामत् अन्वशासत् च देवराज् ॥ ७।३०।५० ॥
etat śrutvā mahā-indraḥ tu yajñam iṣṭvā ca vaiṣṇavam . punar tridivam ākrāmat anvaśāsat ca devarāj .. 7.30.50 ..
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया । निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ॥ ७.३०.५१ ॥
एतत् इन्द्रजितः नाम बलम् यत् कीर्तितम् मया । निर्जितः तेन देवेन्द्रः प्राणिनः अन्ये तु किम् पुनर् ॥ ७।३०।५१ ॥
etat indrajitaḥ nāma balam yat kīrtitam mayā . nirjitaḥ tena devendraḥ prāṇinaḥ anye tu kim punar .. 7.30.51 ..
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा । अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ॥ ७.३०.५२ ॥
आश्चर्यम् इति रामः च लक्ष्मणः च अब्रवीत् तदा । अगस्त्य-वचनम् श्रुत्वा वानराः राक्षसाः तदा ॥ ७।३०।५२ ॥
āścaryam iti rāmaḥ ca lakṣmaṇaḥ ca abravīt tadā . agastya-vacanam śrutvā vānarāḥ rākṣasāḥ tadā .. 7.30.52 ..
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् । आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ॥ ७.३०.५३ ॥
विभीषणः तु रामस्य पार्श्व-स्थः वाक्यम् अब्रवीत् । आश्चर्यम् स्मारितः अस्मि अद्य यत् तत् दृष्टम् पुरातनम् ॥ ७।३०।५३ ॥
vibhīṣaṇaḥ tu rāmasya pārśva-sthaḥ vākyam abravīt . āścaryam smāritaḥ asmi adya yat tat dṛṣṭam purātanam .. 7.30.53 ..
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ॥ ७.३०.५४ ॥
अगस्त्यम् तु अब्रवीत् रामः सत्यम् एतत् श्रुतम् च मे ॥ ७।३०।५४ ॥
agastyam tu abravīt rāmaḥ satyam etat śrutam ca me .. 7.30.54 ..
एवं राम समुद्भूतो रावणो लोककण्टकः । सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ॥ ७.३०.५५ ॥
एवम् राम समुद्भूतः रावणः लोक-कण्टकः । स पुत्रः येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ॥ ७।३०।५५ ॥
evam rāma samudbhūtaḥ rāvaṇaḥ loka-kaṇṭakaḥ . sa putraḥ yena saṅgrāme jitaḥ śakraḥ sureśvaraḥ .. 7.30.55 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिंशः सर्गः ॥ ३० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्रिंशः सर्गः ॥ ३० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe triṃśaḥ sargaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In