This overlay will guide you through the buttons:

| |
|
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै । प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ॥ ७.३०.१ ॥
jite mahendre 'tibale rāvaṇasya sutena vai . prajāpatiṃ puraskṛtya yayurlaṅkāṃ surāstadā .. 7.30.1 ..
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् । अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ॥ ७.३०.२ ॥
tatra rāvaṇamāsādya putrabhrātṛbhirāvṛtam . abravīdgagane tiṣṭhansāmapūrvaṃ prajāpatiḥ .. 7.30.2 ..
वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे । अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा ॥ ७.३०.३ ॥
vatsa rāvaṇa tuṣṭo 'smi putrasya tava saṃyuge . aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā .. 7.30.3 ..
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा । कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै ॥ ७.३०.४ ॥
jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā . kṛtā pratijñā saphalā prīto 'smi svasutena vai .. 7.30.4 ..
अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् । जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥ ७.३०.५ ॥
ayaṃ ca putro 'tibalastava rāvaṇa vīryavān . jagatīndrajidityeva parikhyāto bhaviṣyati .. 7.30.5 ..
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः । यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ॥ ७.३०.६ ॥
balavāndurjayaścaiva bhaviṣyatyeva rākṣasaḥ . yaṃ samāśritya te rājansthāpitāstridaśā vaśe .. 7.30.6 ..
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः । किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ॥ ७.३०.७ ॥
tanmucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ . kiñcāsya mokṣaṇārthāya prayacchantu divaukasaḥ .. 7.30.7 ..
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः । अमरत्वमहं देव वृणे यद्येष मुच्यते ॥ ७.३०.८ ॥
athābravīnmahātejā indrajitsamitiñjayaḥ . amaratvamahaṃ deva vṛṇe yadyeṣa mucyate .. 7.30.8 ..
चतुष्पदां खेचराणामन्येषां वा महौजसाम् । वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ॥ ७.३०.९ ॥
catuṣpadāṃ khecarāṇāmanyeṣāṃ vā mahaujasām . vṛkṣagulmakṣupalatātṛṇopalamahībhṛtām .. 7.30.9 ..
सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति । अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ॥ ७.३०.१० ॥
sarve 'pi jantavo 'nyonyaṃ bhetavye sati bibhyati . ato 'tra loke sarveṣāṃ sarvasmācca bhavedbhayam .. 7.30.10 ..
ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः । नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि । चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ॥ ७.३०.११ ॥
tato 'bravīnmahātejā meghanādaṃ prajāpatiḥ . nāsti sarvāmaratvaṃ hi kasyacitprāṇino bhuvi . catuṣpadaḥ pakṣiṇaśca bhūtānāṃ vā mahaujasām .. 7.30.11 ..
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ॥ ७.३०.१२ ॥
śrutvā pitāmahenoktamindrajitprabhuṇāvyayam .. 7.30.12 ..
्वं हि कस्यचित्प्राणिनो भुवि । अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः । श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥ ७.३०.१३ ॥
vaṃ hi kasyacitprāṇino bhuvi . athābravītsa tatrasthaṃ meghanādo mahābalaḥ . śrūyatāṃ vā bhavetsiddhiḥ śatakratuvimokṣaṇe .. 7.30.13 ..
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् । सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ॥ ७.३०.१४ ॥
mameṣṭaṃ nityaśo harvyairmantraiḥ sampūjya pāvakam . saṅgrāmamavatarttuṃ ca śatrunirjayakāṅkṣiṇaḥ .. 7.30.14 ..
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः । तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ॥ ७.३०.१५ ॥
aśvayukto ratho mahyamuttiṣṭhettu vibhāvasoḥ . tatsthasyāmaratā syānme eṣa me niścayo varaḥ .. 7.30.15 ..
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ । युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ॥ ७.३०.१६ ॥
tasminyadyasamāpte ca japyahome vibhāvasau . yudhyeyaṃ deva saṅgrāme tadā me syādvināśanam .. 7.30.16 ..
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् । विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ॥ ७.३०.१७ ॥
sarvo hi tapasā deva vṛṇotyamaratāṃ pumān . vikrameṇa mayā tvetadamaratvaṃ pravartitam .. 7.30.17 ..
एवमस्त्विति तं चाह वाक्यं देवः पितामहः । मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ॥ ७.३०.१८ ॥
evamastviti taṃ cāha vākyaṃ devaḥ pitāmahaḥ . muktaścendrajitā śakro gatāśca tridivaṃ surāḥ .. 7.30.18 ..
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः । इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥ ७.३०.१९ ॥
etasminnantare rāma dīno bhraṣṭāmbaradyutiḥ . indraścintāparītātmā dhyānatatparatāṃ gataḥ .. 7.30.19 ..
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः । शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ॥ ७.३०.२० ॥
taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ . śatakrato kimu purā karoti sma suduṣkṛtam .. 7.30.20 ..
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो । एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ॥ ७.३०.२१ ॥
amarendra mayā bahvyaḥ prajāḥ sṛṣṭāstathā prabho . ekavarṇāḥ samābhāṣā ekarūpāśca sarvaśaḥ .. 7.30.21 ..
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा । ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ॥ ७.३०.२२ ॥
tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā . tato 'hamekāgramanāstāḥ prajāḥ paricintayam .. 7.30.22 ..
सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे । यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥ ७.३०.२३ ॥
so 'haṃ tāsāṃ viśeṣārthaṃ striyamekāṃ vinirmame . yadyatprajānāṃ pratyaṅgaṃ viśiṣṭaṃ tattaduddhṛtam .. 7.30.23 ..
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ॥ ७.३०.२४ ॥
tato mayā rūpaguṇairahalyā strī vinirmitā . halaṃ nāmeha vairūpaṃ halyaṃ tatprabhavaṃ bhavet .. 7.30.24 ..
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता । अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ॥ ७.३०.२५ ॥
yasmānna vidyate halyaṃ tenāhalyeti viśrutā . ahalyeti mayā śakra tasyā nāma pravartitam .. 7.30.25 ..
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ । भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ॥ ७.३०.२६ ॥
nirmitāyāṃ ca devendra tasyāṃ nāryāṃ surarṣabha . bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat .. 7.30.26 ..
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो । स्थानाधिकतया पत्नी ममैषेति पुरन्दर ॥ ७.३०.२७ ॥
tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho . sthānādhikatayā patnī mamaiṣeti purandara .. 7.30.27 ..
सा मया न्यासभूता तु गौतमस्य महात्मनः । न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ॥ ७.३०.२८ ॥
sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ . nyastā bahūni varṣāṇi tena niryātitā ca ha .. 7.30.28 ..
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः । ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ॥ ७.३०.२९ ॥
tatastasya parijñāya mahāsthairyaṃ mahāmuneḥ . jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā .. 7.30.29 ..
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः । दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ॥ ७.३०.३० ॥
saṅkruddhastvaṃ hi dharmātman gatvā tasyāśramaṃ muneḥ . dṛṣṭavāṃśca tadā tāṃ strīṃ dīptāmagniśikhāmiva .. 7.30.30 ..
सा त्वया धर्षिता शक्र कामार्तेन समन्युना । दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ॥ ७.३०.३१ ॥
sā tvayā dharṣitā śakra kāmārtena samanyunā . dṛṣṭastvaṃ ca tadā tena hyāśrame paramarṣiṇā .. 7.30.31 ..
ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा । गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ॥ ७.३०.३२ ॥
tataḥ kruddhena tenā 'si śaptaḥ paramatejasā . gato 'si yena devendra daśābhāgaviparyayam .. 7.30.32 ..
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् । तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ॥ ७.३०.३३ ॥
yasmānme dharṣitā patnī tvayā vāsava nirbhayam . tasmāttvaṃ samare rājañchatruhastaṃ gamiṣyasi .. 7.30.33 ..
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः । मानुषेष्वपि लोकेषु भविष्यति न संशयः ॥ ७.३०.३४ ॥
ayaṃ tu bhāvo durbuddhe yastvayeha pravartitaḥ . mānuṣeṣvapi lokeṣu bhaviṣyati na saṃśayaḥ .. 7.30.34 ..
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति । न च ते स्थावरं स्थानं भविष्यति न संशयः ॥ ७.३०.३५ ॥
tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati . na ca te sthāvaraṃ sthānaṃ bhaviṣyati na saṃśayaḥ .. 7.30.35 ..
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति । एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ॥ ७.३०.३६ ॥
yaśca yaśca surendraḥ syāddhruvaḥ sa na bhaviṣyati . eṣa śāpo mayā mukta ityasau tvāṃ tadā 'bravīt .. 7.30.36 ..
तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः । दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ॥ ७.३०.३७ ॥
tāṃ tu bhāryāṃ sa nirbhartsya so 'bravītsumahātapāḥ . durvinīte vinidhvaṃsa mamāśramasamīpataḥ .. 7.30.37 ..
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता । तस्माद्रूपवती लोके न त्वमेका भविष्यति ॥ ७.३०.३८ ॥
rūpayauvanasampannā yasmāttvamanavasthitā . tasmādrūpavatī loke na tvamekā bhaviṣyati .. 7.30.38 ..
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः । यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ॥ ७.३०.३९ ॥
rūpaṃ ca te prajāḥ sarvā gamiṣyanti na saṃśayaḥ . yattadekaṃ samāśritya vibhramo 'yamupasthitaḥ .. 7.30.39 ..
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः । सा तं प्रसादयामास महर्षिं गौतमं तदा ॥ ७.३०.४० ॥
tadāprabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ . sā taṃ prasādayāmāsa maharṣiṃ gautamaṃ tadā .. 7.30.40 ..
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा । न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ॥ ७.३०.४१ ॥
ajñānāddharṣitā vipra tvadrūpeṇa divaukasā . na kāmakārādviprarṣe prasādaṃ kartumarhasi .. 7.30.41 ..
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः । उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ॥ ७.३०.४२ ॥
ahalyayā tvevamuktaḥ pratyuvāca sa gautamaḥ . utpatsyati mahātejā ikṣvākūṇāṃ mahārathaḥ .. 7.30.42 ..
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति । ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः । तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ॥ ७.३०.४३ ॥
rāmo nāma śruto loke vanaṃ cāpyupayāsyati . brāhmaṇārthe mahābāhurviṣṇurmānuṣavigrahaḥ . taṃ drakṣyasi yadā bhadre tataḥ pūtā bhaviṣyasi .. 7.30.43 ..
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् । तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ॥ ७.३०.४४ ॥
sa hi pāvayituṃ śaktastvayā yadduṣkṛtaṃ kṛtam . tasyātithyaṃ ca kṛtvā vai matsamīpaṃ gamiṣyasi .. 7.30.44 ..
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि । एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ॥ ७.३०.४५ ॥
vatsyasi tvaṃ mayā sārdhaṃ tadā hi varavarṇini . evamuktvā sa viprarṣirājagāma svamāśramam .. 7.30.45 ..
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः । शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ॥ ७.३०.४६ ॥
tapaścācāra sumahatsā patnī brahmavādinaḥ . śāpotsargāddhi tasyedaṃ muneḥ sarvamupasthitam .. 7.30.46 ..
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् । तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ॥ ७.३०.४७ ॥
tatsmara tvaṃ mahābāho duṣkṛtaṃ yattvayā kṛtam . tena tvaṃ grahaṇaṃ śatroryāto nānyena vāsava .. 7.30.47 ..
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः । पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ॥ ७.३०.४८ ॥
śīghraṃ vai yaja yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ . pāvitastena yajñena yāsyase tridivaṃ tataḥ .. 7.30.48 ..
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे । नीतः सन्निहितश्चैव आर्यकेण महोदधौ ॥ ७.३०.४९ ॥
putraśca tava devendra na vinaṣṭo mahāraṇe . nītaḥ sannihitaścaiva āryakeṇa mahodadhau .. 7.30.49 ..
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् । पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ॥ ७.३०.५० ॥
etacchrutvā mahendrastu yajñamiṣṭvā ca vaiṣṇavam . punastridivamākrāmadanvaśāsacca devarāṭ .. 7.30.50 ..
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया । निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ॥ ७.३०.५१ ॥
etadindrajito nāma balaṃ yatkīrtitaṃ mayā . nirjitastena devendraḥ prāṇino 'nye tu kiṃ punaḥ .. 7.30.51 ..
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा । अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ॥ ७.३०.५२ ॥
āścaryamiti rāmaśca lakṣmaṇaścābravīttadā . agastyavacanaṃ śrutvā vānarā rākṣasāstadā .. 7.30.52 ..
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् । आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ॥ ७.३०.५३ ॥
vibhīṣaṇastu rāmasya pārśvastho vākyamabravīt . āścaryaṃ smārito 'smyadya yattaddṛṣṭaṃ purātanam .. 7.30.53 ..
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ॥ ७.३०.५४ ॥
agastyaṃ tvabravīdrāmaḥ satyametacchrutaṃ ca me .. 7.30.54 ..
एवं राम समुद्भूतो रावणो लोककण्टकः । सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ॥ ७.३०.५५ ॥
evaṃ rāma samudbhūto rāvaṇo lokakaṇṭakaḥ . saputro yena saṅgrāme jitaḥ śakraḥ sureśvaraḥ .. 7.30.55 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिंशः सर्गः ॥ ३० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe triṃśaḥ sargaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In