This overlay will guide you through the buttons:

| |
|
ततो रामो महातेजा विस्मयात्पुनरेव हि । उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ ७.३१.१ ॥
ततस् रामः महा-तेजाः विस्मयात् पुनर् एव हि । उवाच प्रणतः वाक्यम् अगस्त्यम् ऋषि-सत्तमम् ॥ ७।३१।१ ॥
tatas rāmaḥ mahā-tejāḥ vismayāt punar eva hi . uvāca praṇataḥ vākyam agastyam ṛṣi-sattamam .. 7.31.1 ..
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् । पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ॥ ७.३१.२ ॥
भगवन् राक्षसः क्रूरः यदा प्रभृति मेदिनीम् । पर्यटत् किम् तदा लोकाः शून्याः आसन् द्विजोत्तम ॥ ७।३१।२ ॥
bhagavan rākṣasaḥ krūraḥ yadā prabhṛti medinīm . paryaṭat kim tadā lokāḥ śūnyāḥ āsan dvijottama .. 7.31.2 ..
राजा वा राजमात्रो वा किं तदा नात्र कश्चन । धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ॥ ७.३१.३ ॥
राजा वा राजमात्रः वा किम् तदा ना अत्र कश्चन । धर्षणम् यत्र न प्राप्तः रावणः राक्षसेश्वरः ॥ ७।३१।३ ॥
rājā vā rājamātraḥ vā kim tadā nā atra kaścana . dharṣaṇam yatra na prāptaḥ rāvaṇaḥ rākṣaseśvaraḥ .. 7.31.3 ..
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः । बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ॥ ७.३१.४ ॥
उत अहो हत-वीर्याः ते बभूवुः पृथिवीक्षितः । बहिष्कृताः वर-अस्त्रैः च बहवः निर्जिताः नृपाः ॥ ७।३१।४ ॥
uta aho hata-vīryāḥ te babhūvuḥ pṛthivīkṣitaḥ . bahiṣkṛtāḥ vara-astraiḥ ca bahavaḥ nirjitāḥ nṛpāḥ .. 7.31.4 ..
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः । उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥ ७.३१.५ ॥
राघवस्य वचः श्रुत्वा हि अगस्त्यः भगवान् ऋषिः । उवाच रामम् प्रहसन् पितामहः इव ईश्वरम् ॥ ७।३१।५ ॥
rāghavasya vacaḥ śrutvā hi agastyaḥ bhagavān ṛṣiḥ . uvāca rāmam prahasan pitāmahaḥ iva īśvaram .. 7.31.5 ..
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ । चचार रावणो राम पृथिवीं पृथिवीपते ॥ ७.३१.६ ॥
इति एवम् बाधमानः तु पार्थिवान् पार्थिव-ऋषभ । चचार रावणः राम पृथिवीम् पृथिवीपते ॥ ७।३१।६ ॥
iti evam bādhamānaḥ tu pārthivān pārthiva-ṛṣabha . cacāra rāvaṇaḥ rāma pṛthivīm pṛthivīpate .. 7.31.6 ..
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् । सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ॥ ७.३१.७ ॥
ततस् माहिष्मतीम् नाम पुरीम् स्वर्ग-पुरी-प्रभाम् । सम्प्राप्तः यत्र सान्निध्यम् सदा आसीत् वसुरेतसः ॥ ७।३१।७ ॥
tatas māhiṣmatīm nāma purīm svarga-purī-prabhām . samprāptaḥ yatra sānnidhyam sadā āsīt vasuretasaḥ .. 7.31.7 ..
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः । अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ॥ ७.३१.८ ॥
तुल्यः आसीत् नृपः तस्य प्रभावात् वसुरेतसः । अर्जुनः नाम यत्र अग्निः शरकुण्डेशयः सदा ॥ ७।३१।८ ॥
tulyaḥ āsīt nṛpaḥ tasya prabhāvāt vasuretasaḥ . arjunaḥ nāma yatra agniḥ śarakuṇḍeśayaḥ sadā .. 7.31.8 ..
तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली । अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ ७.३१.९ ॥
तम् एव दिवसम् सः अथ हैहय-अधिपतिः बली । अर्जुनः नर्मदाम् रन्तुम् गतः स्त्रीभिः सह ईश्वरः ॥ ७।३१।९ ॥
tam eva divasam saḥ atha haihaya-adhipatiḥ balī . arjunaḥ narmadām rantum gataḥ strībhiḥ saha īśvaraḥ .. 7.31.9 ..
तमेव दिवसं सो ऽथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ॥ ७.३१.१० ॥
तम् एव दिवसम् सः अथ रावणः तत्र आगतः । रावणः राक्षस-इन्द्रः तु तस्य अमात्यान् अपृच्छत ॥ ७।३१।१० ॥
tam eva divasam saḥ atha rāvaṇaḥ tatra āgataḥ . rāvaṇaḥ rākṣasa-indraḥ tu tasya amātyān apṛcchata .. 7.31.10 ..
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ । रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह । ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ॥ ७.३१.११ ॥
क्व अर्जुनः नृपतिः शीघ्रम् सम्यक् आख्यातुम् अर्हथ । रावणः अहम् अनुप्राप्तः युद्ध-ईप्सुः नृवरेण ह । मम आगमनम् अपि अग्रे युष्माभिः सन् निवेद्यताम् ॥ ७।३१।११ ॥
kva arjunaḥ nṛpatiḥ śīghram samyak ākhyātum arhatha . rāvaṇaḥ aham anuprāptaḥ yuddha-īpsuḥ nṛvareṇa ha . mama āgamanam api agre yuṣmābhiḥ san nivedyatām .. 7.31.11 ..
इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः । अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥ ७.३१.१२ ॥
इति एवम् रावणेन उक्ताः ते अमात्याः सु विपश्चितः । अब्रुवन् राक्षस-पतिम् अ सान्निध्यम् महीपतेः ॥ ७।३१।१२ ॥
iti evam rāvaṇena uktāḥ te amātyāḥ su vipaścitaḥ . abruvan rākṣasa-patim a sānnidhyam mahīpateḥ .. 7.31.12 ..
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् । अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ॥ ७.३१.१३ ॥
श्रुत्वा विश्रवसः पुत्रः पौराणाम् अर्जुनम् गतम् । अपसृत्य आगतः विन्ध्यम् हिमवत्-सन्निभम् गिरिम् ॥ ७।३१।१३ ॥
śrutvā viśravasaḥ putraḥ paurāṇām arjunam gatam . apasṛtya āgataḥ vindhyam himavat-sannibham girim .. 7.31.13 ..
स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् । अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ॥ ७.३१.१४ ॥
स तम् अभ्रम् इव आविष्टम् उद्भ्रन्तम् इव मेदिनीम् । अपश्यत् रावणः विन्ध्यम् आलिखन्तम् इव अम्बरम् ॥ ७।३१।१४ ॥
sa tam abhram iva āviṣṭam udbhrantam iva medinīm . apaśyat rāvaṇaḥ vindhyam ālikhantam iva ambaram .. 7.31.14 ..
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् । प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ॥ ७.३१.१५ ॥
सहस्र-शिखर-उपेतम् सिंह-अध्युषित-कन्दरम् । प्रपात-पतितैः तोयैः स अट्टहासम् इव अम्बुधिम् ॥ ७।३१।१५ ॥
sahasra-śikhara-upetam siṃha-adhyuṣita-kandaram . prapāta-patitaiḥ toyaiḥ sa aṭṭahāsam iva ambudhim .. 7.31.15 ..
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः । स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ॥ ७.३१.१६ ॥
देव-दानव-गन्धर्वैः स अप्सरः-गण-किन्नरैः । स्व-स्त्रीभिः क्रीडमानैः च स्वर्ग-भूतम् महा-उच्छ्रयम् ॥ ७।३१।१६ ॥
deva-dānava-gandharvaiḥ sa apsaraḥ-gaṇa-kinnaraiḥ . sva-strībhiḥ krīḍamānaiḥ ca svarga-bhūtam mahā-ucchrayam .. 7.31.16 ..
नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् । फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ॥ ७.३१.१७ ॥
नदीभिः स्यन्दमानाभिः स्फटिक-प्रतिमम् जलम् । फणाभिः चल-जिह्वाभिः अनन्तम् इव विष्ठितम् ॥ ७।३१।१७ ॥
nadībhiḥ syandamānābhiḥ sphaṭika-pratimam jalam . phaṇābhiḥ cala-jihvābhiḥ anantam iva viṣṭhitam .. 7.31.17 ..
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् । पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ॥ ७.३१.१८ ॥
उत्क्रामन्तम् दरीवन्तम् हिमवत्-सन्निभम् गिरिम् । पश्यमानः ततस् विन्ध्यम् रावणः नर्मदाम् ययौ ॥ ७।३१।१८ ॥
utkrāmantam darīvantam himavat-sannibham girim . paśyamānaḥ tatas vindhyam rāvaṇaḥ narmadām yayau .. 7.31.18 ..
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ॥ ७.३१.१९ ॥
चल-उपल-जलाम् पुण्याम् पश्चिम-उदधि-गामिनीम् ॥ ७।३१।१९ ॥
cala-upala-jalām puṇyām paścima-udadhi-gāminīm .. 7.31.19 ..
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः । उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ॥ ७.३१.२० ॥
महिषैः सृमरैः सिंहैः शार्दूल-ऋक्ष-गज-उत्तमैः । उष्ण-अभितप्तैः तृषितैः सङ्क्षोभित-जलाशयाम् ॥ ७।३१।२० ॥
mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūla-ṛkṣa-gaja-uttamaiḥ . uṣṇa-abhitaptaiḥ tṛṣitaiḥ saṅkṣobhita-jalāśayām .. 7.31.20 ..
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः । सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ॥ ७.३१.२१ ॥
चक्रवाकैः स कारण्डैः स हंस-जलकुक्कुटैः । सारसैः च सदा मत्तैः सु कूजद्भिः समावृताम् ॥ ७।३१।२१ ॥
cakravākaiḥ sa kāraṇḍaiḥ sa haṃsa-jalakukkuṭaiḥ . sārasaiḥ ca sadā mattaiḥ su kūjadbhiḥ samāvṛtām .. 7.31.21 ..
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् । विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ॥ ७.३१.२२ ॥
फुल्ल-द्रुम-कृत-उत्तंसाम् चक्रवाक-युग-स्तनीम् । विस्तीर्ण-पुलिन-श्रोणीम् हंस-आवलि-सु मेखलाम् ॥ ७।३१।२२ ॥
phulla-druma-kṛta-uttaṃsām cakravāka-yuga-stanīm . vistīrṇa-pulina-śroṇīm haṃsa-āvali-su mekhalām .. 7.31.22 ..
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् । जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् । पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ॥ ७.३१.२३ ॥
पुष्प-रेणु-अनुलिप्त-अङ्गीम् जलफेन-अमल-अंशुकाम् । जल-अवगाह-संस्पर्शाम् फुल्ल-उत्पल-शुभ-ईक्षणाम् । पुष्पकात् अवरुह्य आशु नर्मदाम् सरिताम् वराम् ॥ ७।३१।२३ ॥
puṣpa-reṇu-anulipta-aṅgīm jalaphena-amala-aṃśukām . jala-avagāha-saṃsparśām phulla-utpala-śubha-īkṣaṇām . puṣpakāt avaruhya āśu narmadām saritām varām .. 7.31.23 ..
इष्टामिव वरां नारीमवगाह्य दशाननः । स तस्याः पुलिने रम्ये नानामुनिनिषेविते ॥ ७.३१.२४ ॥
इष्टाम् इव वराम् नारीम् अवगाह्य दशाननः । स तस्याः पुलिने रम्ये नाना मुनि-निषेविते ॥ ७।३१।२४ ॥
iṣṭām iva varām nārīm avagāhya daśānanaḥ . sa tasyāḥ puline ramye nānā muni-niṣevite .. 7.31.24 ..
उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः । प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ॥ ७.३१.२५ ॥
उपोपविष्टैः सचिवैः सार्धम् राक्षस-पुङ्गवः । प्रख्याय नर्मदाम् सः अथ गङ्गा इयम् इति रावणः ॥ ७।३१।२५ ॥
upopaviṣṭaiḥ sacivaiḥ sārdham rākṣasa-puṅgavaḥ . prakhyāya narmadām saḥ atha gaṅgā iyam iti rāvaṇaḥ .. 7.31.25 ..
नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः । उवाच सचिवांस्तत्र सलीलं शुकसारणौ ॥ ७.३१.२६ ॥
नर्मदा-आदर्श-जम् हर्षम् आप्तवान् राक्षस-अधिपः । उवाच सचिवान् तत्र स लीलम् शुक-सारणौ ॥ ७।३१।२६ ॥
narmadā-ādarśa-jam harṣam āptavān rākṣasa-adhipaḥ . uvāca sacivān tatra sa līlam śuka-sāraṇau .. 7.31.26 ..
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् । तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ॥ ७.३१.२७ ॥
एष रश्मि-सहस्रेण जगत् कृत्वा एव काञ्चनम् । तीक्ष्ण-ताप-करः सूर्यः नभसः अर्धम् समाश्रितः ॥ ७।३१।२७ ॥
eṣa raśmi-sahasreṇa jagat kṛtvā eva kāñcanam . tīkṣṇa-tāpa-karaḥ sūryaḥ nabhasaḥ ardham samāśritaḥ .. 7.31.27 ..
मामासीनं विदित्वैव चन्द्रायति दिवाकरः ॥ ७.३१.२८ ॥
माम् आसीनम् विदित्वा एव चन्द्रायति दिवाकरः ॥ ७।३१।२८ ॥
mām āsīnam viditvā eva candrāyati divākaraḥ .. 7.31.28 ..
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः । मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ॥ ७.३१.२९ ॥
नर्मदा-जल-शीतः च सुगन्धिः श्रम-नाशनः । मद्-भयात् अनिलः अपि अत्र वाति एष सु समाहितः ॥ ७।३१।२९ ॥
narmadā-jala-śītaḥ ca sugandhiḥ śrama-nāśanaḥ . mad-bhayāt anilaḥ api atra vāti eṣa su samāhitaḥ .. 7.31.29 ..
इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी । नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ॥ ७.३१.३० ॥
इयम् वा अपि सरित् श्रेष्ठा नर्मदा नर्म-वर्धिनी । नक्र-मीन-विहङ्ग-ऊर्मिः स भया इव अङ्गना स्थिता ॥ ७।३१।३० ॥
iyam vā api sarit śreṣṭhā narmadā narma-vardhinī . nakra-mīna-vihaṅga-ūrmiḥ sa bhayā iva aṅganā sthitā .. 7.31.30 ..
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि । चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥ ७.३१.३१ ॥
तत् भवन्तः क्षताः शस्त्रैः नृपैः इन्द्र-समैः युधि । चन्दनस्य रसेन इव रुधिरेण समुक्षिताः ॥ ७।३१।३१ ॥
tat bhavantaḥ kṣatāḥ śastraiḥ nṛpaiḥ indra-samaiḥ yudhi . candanasya rasena iva rudhireṇa samukṣitāḥ .. 7.31.31 ..
ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् । महापद्ममुखा मत्ता गङ्गामिव गहागजाः । अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥ ७.३१.३२ ॥
ते यूयम् अवगाहध्वम् नर्मदाम् शर्म-दाम् शुभाम् । महा-पद्म-मुखाः मत्ताः गङ्गाम् इव गहा-गजाः । अस्याम् स्नात्वा महा-नद्याम् पाप्मानम् विप्रमोक्ष्यथ ॥ ७।३१।३२ ॥
te yūyam avagāhadhvam narmadām śarma-dām śubhām . mahā-padma-mukhāḥ mattāḥ gaṅgām iva gahā-gajāḥ . asyām snātvā mahā-nadyām pāpmānam vipramokṣyatha .. 7.31.32 ..
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे । पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ॥ ७.३१.३३ ॥
अहम् अपि अद्य पुलिने शरद्-इन्दु-सम-प्रभे । पुष्प-उपहारम् शनकैस् करिष्यामि कपर्दिनः ॥ ७।३१।३३ ॥
aham api adya puline śarad-indu-sama-prabhe . puṣpa-upahāram śanakais kariṣyāmi kapardinaḥ .. 7.31.33 ..
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः । समहोदरधूम्राक्षा नर्मदां विजगाहिरे ॥ ७.३१.३४ ॥
रावणेन एवम् उक्ताः तु प्रहस्त-शुक-सारणाः । स महोदर-धूम्राक्षाः नर्मदाम् विजगाहिरे ॥ ७।३१।३४ ॥
rāvaṇena evam uktāḥ tu prahasta-śuka-sāraṇāḥ . sa mahodara-dhūmrākṣāḥ narmadām vijagāhire .. 7.31.34 ..
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी । वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ॥ ७.३१.३५ ॥
राक्षस-इन्द्र-गजैः तैः तु क्षोभिता नर्मदा नदी । वामन-अञ्जन-पद्म-आद्यैः गङ्गाः इव महा-गजैः ॥ ७।३१।३५ ॥
rākṣasa-indra-gajaiḥ taiḥ tu kṣobhitā narmadā nadī . vāmana-añjana-padma-ādyaiḥ gaṅgāḥ iva mahā-gajaiḥ .. 7.31.35 ..
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः । उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ॥ ७.३१.३६ ॥
ततस् ते राक्षसाः स्नात्वा नर्मदायाम् महा-बलाः । उत्तीर्य पुष्पाणि आजह्रुः बलि-अर्थम् रावणस्य तु ॥ ७।३१।३६ ॥
tatas te rākṣasāḥ snātvā narmadāyām mahā-balāḥ . uttīrya puṣpāṇi ājahruḥ bali-artham rāvaṇasya tu .. 7.31.36 ..
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे । राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ॥ ७.३१.३७ ॥
नर्मदा-पुलिने हृद्ये शुभ्र-अभ्र-सदृश-प्रभे । राक्षसैः तु मुहूर्तेन कृतः पुष्प-मयः गिरिः ॥ ७।३१।३७ ॥
narmadā-puline hṛdye śubhra-abhra-sadṛśa-prabhe . rākṣasaiḥ tu muhūrtena kṛtaḥ puṣpa-mayaḥ giriḥ .. 7.31.37 ..
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः । अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥ ७.३१.३८ ॥
पुष्पेषु उपहृतेषु एवम् रावणः राक्षसेश्वरः । अवतीर्णः नदीम् स्नातुम् गङ्गाम् इव महा-गजः ॥ ७।३१।३८ ॥
puṣpeṣu upahṛteṣu evam rāvaṇaḥ rākṣaseśvaraḥ . avatīrṇaḥ nadīm snātum gaṅgām iva mahā-gajaḥ .. 7.31.38 ..
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् । नर्मदासलिलात्तस्मादुत्ततार स रावणः ॥ ७.३१.३९ ॥
तत्र स्नात्वा च विधिवत् जप्त्वा जप्यम् अनुत्तमम् । नर्मदा-सलिलात् तस्मात् उत्ततार स रावणः ॥ ७।३१।३९ ॥
tatra snātvā ca vidhivat japtvā japyam anuttamam . narmadā-salilāt tasmāt uttatāra sa rāvaṇaḥ .. 7.31.39 ..
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् । रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ॥ ७.३१.४० ॥
ततस् क्लिन्न-अम्बरम् त्यक्त्वा शुक्ल-वस्त्र-समावृतम् । रावणम् प्राञ्जलिम् यान्तम् अन्वयुः सर्व-राक्षसाः ॥ ७।३१।४० ॥
tatas klinna-ambaram tyaktvā śukla-vastra-samāvṛtam . rāvaṇam prāñjalim yāntam anvayuḥ sarva-rākṣasāḥ .. 7.31.40 ..
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः । यत्र यत्र च याति स्म रावणो राक्षसेश्वरः । जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ॥ ७.३१.४१ ॥
तद्-गती-वशम् आपन्नाः मूर्तिमन्तः इव अचलाः । यत्र यत्र च याति स्म रावणः राक्षसेश्वरः । जाम्बूनद-मयम् लिङ्गम् तत्र तत्र स्म नीयते ॥ ७।३१।४१ ॥
tad-gatī-vaśam āpannāḥ mūrtimantaḥ iva acalāḥ . yatra yatra ca yāti sma rāvaṇaḥ rākṣaseśvaraḥ . jāmbūnada-mayam liṅgam tatra tatra sma nīyate .. 7.31.41 ..
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः । अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ॥ ७.३१.४२ ॥
वालुका-वेदि-मध्ये तु तत् लिङ्गम् स्थाप्य रावणः । अर्चयामास गन्धैः च पुष्पैः च अमृत-गन्धिभिः ॥ ७।३१।४२ ॥
vālukā-vedi-madhye tu tat liṅgam sthāpya rāvaṇaḥ . arcayāmāsa gandhaiḥ ca puṣpaiḥ ca amṛta-gandhibhiḥ .. 7.31.42 ..
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् । समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ॥ ७.३१.४३ ॥
ततस् सताम् आर्ति-हरम् परम् वरम् वर-प्रदम् चन्द्र-मयूख-भूषणम् । समर्चयित्वा स निशाचरः जगौ प्रसार्य हस्तान् प्रणनर्त च अग्रतस् ॥ ७।३१।४३ ॥
tatas satām ārti-haram param varam vara-pradam candra-mayūkha-bhūṣaṇam . samarcayitvā sa niśācaraḥ jagau prasārya hastān praṇanarta ca agratas .. 7.31.43 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकत्रिंशः सर्गः ॥ ३१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekatriṃśaḥ sargaḥ .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In