This overlay will guide you through the buttons:

| |
|
ततो रामो महातेजा विस्मयात्पुनरेव हि । उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ ७.३१.१ ॥
tato rāmo mahātejā vismayātpunareva hi . uvāca praṇato vākyamagastyamṛṣisattamam .. 7.31.1 ..
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् । पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ॥ ७.३१.२ ॥
bhagavanrākṣasaḥ krūro yadāprabhṛti medinīm . paryaṭatkiṃ tadā lokāḥ śūnyā āsandvijottama .. 7.31.2 ..
राजा वा राजमात्रो वा किं तदा नात्र कश्चन । धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ॥ ७.३१.३ ॥
rājā vā rājamātro vā kiṃ tadā nātra kaścana . dharṣaṇaṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ .. 7.31.3 ..
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः । बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ॥ ७.३१.४ ॥
utāho hatavīryāste babhūvuḥ pṛthivīkṣitaḥ . bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ .. 7.31.4 ..
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः । उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥ ७.३१.५ ॥
rāghavasya vacaḥ śrutvā hyagastyo bhagavānṛṣiḥ . uvāca rāmaṃ prahasanpitāmaha iveśvaram .. 7.31.5 ..
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ । चचार रावणो राम पृथिवीं पृथिवीपते ॥ ७.३१.६ ॥
ityevaṃ bādhamānastu pārthivānpārthivarṣabha . cacāra rāvaṇo rāma pṛthivīṃ pṛthivīpate .. 7.31.6 ..
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् । सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ॥ ७.३१.७ ॥
tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām . samprāpto yatra sānnidhyaṃ sadāsīdvasuretasaḥ .. 7.31.7 ..
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः । अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ॥ ७.३१.८ ॥
tulya āsīnnṛpastasya prabhāvādvasuretasaḥ . arjuno nāma yatrāgniḥ śarakuṇḍeśayaḥ sadā .. 7.31.8 ..
तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली । अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ ७.३१.९ ॥
tameva divasaṃ so 'tha haihayādhipatirbalī . arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ .. 7.31.9 ..
तमेव दिवसं सो ऽथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ॥ ७.३१.१० ॥
tameva divasaṃ so 'tha rāvaṇastatra āgataḥ . rāvaṇo rākṣasendrastu tasyāmātyānapṛcchata .. 7.31.10 ..
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ । रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह । ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ॥ ७.३१.११ ॥
kvārjuno nṛpatiḥ śīghraṃ samyagākhyātumarhatha . rāvaṇo 'hamanuprāpto yuddhepsurnṛvareṇa ha . mamāgamanamapyagre yuṣmābhiḥ sannivedyatām .. 7.31.11 ..
इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः । अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥ ७.३१.१२ ॥
ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ . abruvanrākṣasapatimasānnidhyaṃ mahīpateḥ .. 7.31.12 ..
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् । अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ॥ ७.३१.१३ ॥
śrutvā viśravasaḥ putraḥ paurāṇāmarjunaṃ gatam . apasṛtyāgato vindhyaṃ himavatsannibhaṃ girim .. 7.31.13 ..
स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् । अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ॥ ७.३१.१४ ॥
sa tamabhramivāviṣṭamudbhrantamiva medinīm . apaśyadrāvaṇo vindhyamālikhantamivāmbaram .. 7.31.14 ..
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् । प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ॥ ७.३१.१५ ॥
sahasraśikharopetaṃ siṃhādhyuṣitakandaram . prapātapatitaistoyaiḥ sāṭṭahāsamivāmbudhim .. 7.31.15 ..
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः । स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ॥ ७.३१.१६ ॥
devadānavagandharvaiḥ sāpsarogaṇakinnaraiḥ . svastrībhiḥ krīḍamānaiśca svargabhūtaṃ mahocchrayam .. 7.31.16 ..
नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् । फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ॥ ७.३१.१७ ॥
nadībhiḥ syandamānābhiḥ sphaṭikapratimaṃ jalam . phaṇābhiścalajihvābhiranantamiva viṣṭhitam .. 7.31.17 ..
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् । पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ॥ ७.३१.१८ ॥
utkrāmantaṃ darīvantaṃ himavatsannibhaṃ girim . paśyamānastato vindhyaṃ rāvaṇo narmadāṃ yayau .. 7.31.18 ..
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ॥ ७.३१.१९ ॥
calopalajalāṃ puṇyāṃ paścimodadhigāminīm .. 7.31.19 ..
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः । उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ॥ ७.३१.२० ॥
mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ . uṣṇābhitaptaistṛṣitaiḥ saṅkṣobhitajalāśayām .. 7.31.20 ..
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः । सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ॥ ७.३१.२१ ॥
cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ . sārasaiśca sadā mattaiḥ sukūjadbhiḥ samāvṛtām .. 7.31.21 ..
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् । विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ॥ ७.३१.२२ ॥
phulladrumakṛtottaṃsāṃ cakravākayugastanīm . vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām .. 7.31.22 ..
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् । जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् । पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ॥ ७.३१.२३ ॥
puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām . jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām . puṣpakādavaruhyāśu narmadāṃ saritāṃ varām .. 7.31.23 ..
इष्टामिव वरां नारीमवगाह्य दशाननः । स तस्याः पुलिने रम्ये नानामुनिनिषेविते ॥ ७.३१.२४ ॥
iṣṭāmiva varāṃ nārīmavagāhya daśānanaḥ . sa tasyāḥ puline ramye nānāmuniniṣevite .. 7.31.24 ..
उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः । प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ॥ ७.३१.२५ ॥
upopaviṣṭaiḥ sacivaiḥ sārdhaṃ rākṣasapuṅgavaḥ . prakhyāya narmadāṃ so 'tha gaṅgeyamiti rāvaṇaḥ .. 7.31.25 ..
नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः । उवाच सचिवांस्तत्र सलीलं शुकसारणौ ॥ ७.३१.२६ ॥
narmadādarśajaṃ harṣamāptavān rākṣasādhipaḥ . uvāca sacivāṃstatra salīlaṃ śukasāraṇau .. 7.31.26 ..
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् । तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ॥ ७.३१.२७ ॥
eṣa raśmisahasreṇa jagatkṛtvaiva kāñcanam . tīkṣṇatāpakaraḥ sūryo nabhaso 'rdhaṃ samāśritaḥ .. 7.31.27 ..
मामासीनं विदित्वैव चन्द्रायति दिवाकरः ॥ ७.३१.२८ ॥
māmāsīnaṃ viditvaiva candrāyati divākaraḥ .. 7.31.28 ..
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः । मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ॥ ७.३१.२९ ॥
narmadājalaśītaśca sugandhiḥ śramanāśanaḥ . madbhayādanilo 'pyatra vātyeṣa susamāhitaḥ .. 7.31.29 ..
इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी । नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ॥ ७.३१.३० ॥
iyaṃ vāpi saricchreṣṭhā narmadā narmavardhinī . nakramīnavihaṅgormiḥ sabhayevāṅganā sthitā .. 7.31.30 ..
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि । चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥ ७.३१.३१ ॥
tadbhavantaḥ kṣatāḥ śastrairnṛpairindrasamairyudhi . candanasya raseneva rudhireṇa samukṣitāḥ .. 7.31.31 ..
ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् । महापद्ममुखा मत्ता गङ्गामिव गहागजाः । अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥ ७.३१.३२ ॥
te yūyamavagāhadhvaṃ narmadāṃ śarmadāṃ śubhām . mahāpadmamukhā mattā gaṅgāmiva gahāgajāḥ . asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha .. 7.31.32 ..
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे । पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ॥ ७.३१.३३ ॥
ahamapyadya puline śaradindusamaprabhe . puṣpopahāraṃ śanakaiḥ kariṣyāmi kapardinaḥ .. 7.31.33 ..
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः । समहोदरधूम्राक्षा नर्मदां विजगाहिरे ॥ ७.३१.३४ ॥
rāvaṇenaivamuktāstu prahastaśukasāraṇāḥ . samahodaradhūmrākṣā narmadāṃ vijagāhire .. 7.31.34 ..
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी । वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ॥ ७.३१.३५ ॥
rākṣasendragajaistaistu kṣobhitā narmadā nadī . vāmanāñjanapadmādyairgaṅgā iva mahāgajaiḥ .. 7.31.35 ..
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः । उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ॥ ७.३१.३६ ॥
tataste rākṣasāḥ snātvā narmadāyāṃ mahābalāḥ . uttīrya puṣpāṇyājahrurbalyarthaṃ rāvaṇasya tu .. 7.31.36 ..
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे । राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ॥ ७.३१.३७ ॥
narmadāpuline hṛdye śubhrābhrasadṛśaprabhe . rākṣasaistu muhūrtena kṛtaḥ puṣpamayo giriḥ .. 7.31.37 ..
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः । अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥ ७.३१.३८ ॥
puṣpeṣūpahṛteṣvevaṃ rāvaṇo rākṣaseśvaraḥ . avatīrṇo nadīṃ snātuṃ gaṅgāmiva mahāgajaḥ .. 7.31.38 ..
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् । नर्मदासलिलात्तस्मादुत्ततार स रावणः ॥ ७.३१.३९ ॥
tatra snātvā ca vidhivajjaptvā japyamanuttamam . narmadāsalilāttasmāduttatāra sa rāvaṇaḥ .. 7.31.39 ..
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् । रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ॥ ७.३१.४० ॥
tataḥ klinnāmbaraṃ tyaktvā śuklavastrasamāvṛtam . rāvaṇaṃ prāñjaliṃ yāntamanvayuḥ sarvarākṣasāḥ .. 7.31.40 ..
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः । यत्र यत्र च याति स्म रावणो राक्षसेश्वरः । जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ॥ ७.३१.४१ ॥
tadgatīvaśamāpannā mūrtimanta ivācalāḥ . yatra yatra ca yāti sma rāvaṇo rākṣaseśvaraḥ . jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate .. 7.31.41 ..
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः । अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ॥ ७.३१.४२ ॥
vālukāvedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ . arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ .. 7.31.42 ..
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् । समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ॥ ७.३१.४३ ॥
tataḥ satāmārtiharaṃ paraṃ varaṃ varapradaṃ candramayūkhabhūṣaṇam . samarcayitvā sa niśācaro jagau prasārya hastānpraṇanarta cāgrataḥ .. 7.31.43 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekatriṃśaḥ sargaḥ .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In