This overlay will guide you through the buttons:

| |
|
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः । पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ ७.३२.१ ॥
नर्मदा-पुलिने यत्र राक्षस-इन्द्रः सु दारुणः । पुष्प-उपहारम् कुरुते तस्मात् देशात् अदूरतः ॥ ७।३२।१ ॥
narmadā-puline yatra rākṣasa-indraḥ su dāruṇaḥ . puṣpa-upahāram kurute tasmāt deśāt adūrataḥ .. 7.32.1 ..
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः । क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ ७.३२.२ ॥
अर्जुनः जयताम् श्रेष्ठः माहिष्मत्याः पतिः प्रभुः । क्रीडते सह नारीभिः नर्मदा-तोयम् आश्रितः ॥ ७।३२।२ ॥
arjunaḥ jayatām śreṣṭhaḥ māhiṣmatyāḥ patiḥ prabhuḥ . krīḍate saha nārībhiḥ narmadā-toyam āśritaḥ .. 7.32.2 ..
तासां मध्यगतो राजा रराज च तदार्जुनः । करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ७.३२.३ ॥
तासाम् मध्य-गतः राजा रराज च तदा अर्जुनः । करेणूनाम् सहस्रस्य मध्य-स्थः इव कुञ्जरः ॥ ७।३२।३ ॥
tāsām madhya-gataḥ rājā rarāja ca tadā arjunaḥ . kareṇūnām sahasrasya madhya-sthaḥ iva kuñjaraḥ .. 7.32.3 ..
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् । रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥ ७.३२.४ ॥
जिज्ञासुः स तु बाहूनाम् सहस्रस्य उत्तमम् बलम् । रुरोध नर्मदा-वेगम् बाहुभिः बहुभिः वृतः ॥ ७।३२।४ ॥
jijñāsuḥ sa tu bāhūnām sahasrasya uttamam balam . rurodha narmadā-vegam bāhubhiḥ bahubhiḥ vṛtaḥ .. 7.32.4 ..
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् । कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ ७.३२.५ ॥
कार्तवीर्य-भुज-आसक्तम् तत् जलम् प्राप्य निर्मलम् । कूल-उपहारम् कुर्वाणम् प्रतिस्रोतस् प्रधावति ॥ ७।३२।५ ॥
kārtavīrya-bhuja-āsaktam tat jalam prāpya nirmalam . kūla-upahāram kurvāṇam pratisrotas pradhāvati .. 7.32.5 ..
समीननक्रमकरः सपुष्पकुशसंस्तरः । स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ ७.३२.६ ॥
स मीन-नक्र-मकरः स पुष्प-कुश-संस्तरः । स नर्मदा-अम्भसः वेगः प्रावृष्-काले इव आबभौ ॥ ७।३२।६ ॥
sa mīna-nakra-makaraḥ sa puṣpa-kuśa-saṃstaraḥ . sa narmadā-ambhasaḥ vegaḥ prāvṛṣ-kāle iva ābabhau .. 7.32.6 ..
स वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः । पुष्पोपहारं सकलं रावणस्य जहार ह ॥ ७.३२.७ ॥
स वेगः कार्तवीर्येण सम्प्रेषितः इव अम्भसः । पुष्प-उपहारम् सकलम् रावणस्य जहार ह ॥ ७।३२।७ ॥
sa vegaḥ kārtavīryeṇa sampreṣitaḥ iva ambhasaḥ . puṣpa-upahāram sakalam rāvaṇasya jahāra ha .. 7.32.7 ..
रावणो ऽर्धसमाप्तं तमुत्सृज्य नियमं तदा । नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ७.३२.८ ॥
रावणः अर्ध-समाप्तम् तम् उत्सृज्य नियमम् तदा । नर्मदाम् पश्यते कान्ताम् प्रतिकूलाम् यथा प्रियाम् ॥ ७।३२।८ ॥
rāvaṇaḥ ardha-samāptam tam utsṛjya niyamam tadā . narmadām paśyate kāntām pratikūlām yathā priyām .. 7.32.8 ..
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् । वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ७.३२.९ ॥
पश्चिमेन तु तम् दृष्ट्वा सागर-उद्गार-सन्निभम् । वर्धन्तम् अम्भसः वेगम् पूर्वाम् आशाम् प्रविश्य तु ॥ ७।३२।९ ॥
paścimena tu tam dṛṣṭvā sāgara-udgāra-sannibham . vardhantam ambhasaḥ vegam pūrvām āśām praviśya tu .. 7.32.9 ..
ततो ऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् । निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ ७.३२.१० ॥
ततस् अनुभ्रान्त-शकुनाम् स्वभाव-उपरमे स्थिताम् । निर्विकार-अङ्गना-आभासाम् अपश्यत् रावणः नदीम् ॥ ७।३२।१० ॥
tatas anubhrānta-śakunām svabhāva-uparame sthitām . nirvikāra-aṅganā-ābhāsām apaśyat rāvaṇaḥ nadīm .. 7.32.10 ..
सव्येतरकराङ्गुल्या सशब्दं च दशाननः । वेगप्रभावमन्वेष्टुं सो ऽदिशच्छुकसारणौ ॥ ७.३२.११ ॥
सव्येतर-कर-अङ्गुल्या स शब्दम् च दशाननः । वेग-प्रभावम् अन्वेष्टुम् सः अदिशत् शुक-सारणौ ॥ ७।३२।११ ॥
savyetara-kara-aṅgulyā sa śabdam ca daśānanaḥ . vega-prabhāvam anveṣṭum saḥ adiśat śuka-sāraṇau .. 7.32.11 ..
तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ । व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥ ७.३२.१२ ॥
तौ तु रावण-सन्दिष्टौ भ्रातरौ शुक-सारणौ । व्योम-अन्तर-गतौ वीरौ प्रस्थितौ पश्चिमा-मुखौ ॥ ७।३२।१२ ॥
tau tu rāvaṇa-sandiṣṭau bhrātarau śuka-sāraṇau . vyoma-antara-gatau vīrau prasthitau paścimā-mukhau .. 7.32.12 ..
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ । पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ ७.३२.१३ ॥
अर्ध-योजन-मात्रम् तु गत्वा तौ रजनीचरौ । पश्येताम् पुरुषम् तोये क्रीडन्तम् सहयोषितम् ॥ ७।३२।१३ ॥
ardha-yojana-mātram tu gatvā tau rajanīcarau . paśyetām puruṣam toye krīḍantam sahayoṣitam .. 7.32.13 ..
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् । मदरक्तान्तनयनं मदव्याकुलतेजसम् ॥ ७.३२.१४ ॥
बृहत्-साल-प्रतीकाशम् तोय-व्याकुल-मूर्धजम् । मद-रक्त-अन्त-नयनम् मद-व्याकुल-तेजसम् ॥ ७।३२।१४ ॥
bṛhat-sāla-pratīkāśam toya-vyākula-mūrdhajam . mada-rakta-anta-nayanam mada-vyākula-tejasam .. 7.32.14 ..
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् । गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ ७.३२.१५ ॥
नदीम् बाहु-सहस्रेण रुन्धन्तम् अरि-मर्दनम् । गिरिम् पाद-सहस्रेण रुन्धन्तम् इव मेदिनीम् ॥ ७।३२।१५ ॥
nadīm bāhu-sahasreṇa rundhantam ari-mardanam . girim pāda-sahasreṇa rundhantam iva medinīm .. 7.32.15 ..
बालानां वरनारीणां सहस्रेण समावृतम् । समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ ७.३२.१६ ॥
बालानाम् वर-नारीणाम् सहस्रेण समावृतम् । स मदानाम् करेणूनाम् सहस्रेण इव कुञ्जरम् ॥ ७।३२।१६ ॥
bālānām vara-nārīṇām sahasreṇa samāvṛtam . sa madānām kareṇūnām sahasreṇa iva kuñjaram .. 7.32.16 ..
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ । सन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ ७.३२.१७ ॥
तम् अद्भुततमम् दृष्ट्वा राक्षसौ शुक-सारणौ । सन्निवृत्तौ उपागम्य रावणम् तम् अथा ऊचतुः ॥ ७।३२।१७ ॥
tam adbhutatamam dṛṣṭvā rākṣasau śuka-sāraṇau . sannivṛttau upāgamya rāvaṇam tam athā ūcatuḥ .. 7.32.17 ..
बृहत्सालप्रतीकाशः को ऽप्यसौ राक्षसेश्वर । नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥ ७.३२.१८ ॥
बृहत्-साल-प्रतीकाशः कः अपि असौ राक्षस-ईश्वर । नर्मदाम् रोध-वत् रुद्ध्वा क्रीडापयति योषितः ॥ ७।३२।१८ ॥
bṛhat-sāla-pratīkāśaḥ kaḥ api asau rākṣasa-īśvara . narmadām rodha-vat ruddhvā krīḍāpayati yoṣitaḥ .. 7.32.18 ..
तेन बाहुसहस्रेण सन्निरुद्धजला नदी । सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ॥ ७.३२.१९ ॥
तेन बाहु-सहस्रेण सन्निरुद्ध-जला नदी । सागर-उद्गार-सङ्काशान् उद्गारान् सृजते मुहुर् ॥ ७।३२।१९ ॥
tena bāhu-sahasreṇa sanniruddha-jalā nadī . sāgara-udgāra-saṅkāśān udgārān sṛjate muhur .. 7.32.19 ..
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ । रावणो ऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥ ७.३२.२० ॥
इति एवम् भाषमाणौ तौ निशाम्य शुक-सारणौ । रावणः अर्जुनः इति उक्त्वा प्रययौ युद्ध-लालसः ॥ ७।३२।२० ॥
iti evam bhāṣamāṇau tau niśāmya śuka-sāraṇau . rāvaṇaḥ arjunaḥ iti uktvā prayayau yuddha-lālasaḥ .. 7.32.20 ..
अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे । चण्डः प्रवाति पवनः सनादः सुरजास्तथा ॥ ७.३२.२१ ॥
अर्जुन-अभिमुखे तस्मिन् रावणे राक्षस-अधिपे । चण्डः प्रवाति पवनः सनादः सुरजाः तथा ॥ ७।३२।२१ ॥
arjuna-abhimukhe tasmin rāvaṇe rākṣasa-adhipe . caṇḍaḥ pravāti pavanaḥ sanādaḥ surajāḥ tathā .. 7.32.21 ..
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः । महोदरमहापार्श्वधूम्राक्षशुकसारणैः ॥ ७.३२.२२ ॥
सकृत् एव कृतः रावः स रक्तः प्रेषितः घनैः । महोदर-महापार्श्व-धूम्राक्ष-शुक-सारणैः ॥ ७।३२।२२ ॥
sakṛt eva kṛtaḥ rāvaḥ sa raktaḥ preṣitaḥ ghanaiḥ . mahodara-mahāpārśva-dhūmrākṣa-śuka-sāraṇaiḥ .. 7.32.22 ..
संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः । अदीर्घेणैव कालेन स तदा राक्षसो बली । तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ॥ ७.३२.२३ ॥
संवृतः राक्षस-इन्द्रः तु तत्र अगात् यत्र च अर्जुनः । अदीर्घेण एव कालेन स तदा राक्षसः बली । तम् नर्मदा-ह्रदम् भीमम् आजगाम अञ्जन-प्रभः ॥ ७।३२।२३ ॥
saṃvṛtaḥ rākṣasa-indraḥ tu tatra agāt yatra ca arjunaḥ . adīrgheṇa eva kālena sa tadā rākṣasaḥ balī . tam narmadā-hradam bhīmam ājagāma añjana-prabhaḥ .. 7.32.23 ..
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् । नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ॥ ७.३२.२४ ॥
स तत्र स्त्री-परिवृतम् वाशिताभिः इव द्विपम् । नरेन्द्रम् पश्यते राजा राक्षसानाम् तदा अर्जुनम् ॥ ७।३२।२४ ॥
sa tatra strī-parivṛtam vāśitābhiḥ iva dvipam . narendram paśyate rājā rākṣasānām tadā arjunam .. 7.32.24 ..
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ॥ ७.३२.२५ ॥
स रोषात् रक्त-नयनः राक्षस-इन्द्रः बल-उद्धतः ॥ ७।३२।२५ ॥
sa roṣāt rakta-nayanaḥ rākṣasa-indraḥ bala-uddhataḥ .. 7.32.25 ..
इत्येवमर्जुनामात्यनाह गम्भीरया गिरा । अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ॥ ७.३२.२६ ॥
इति एवम् अर्जुन-अमात्यन् आह गम्भीरया गिरा । अमात्याः क्षिप्रम् आख्यात हैहयस्य नृपस्य वै ॥ ७।३२।२६ ॥
iti evam arjuna-amātyan āha gambhīrayā girā . amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai .. 7.32.26 ..
युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः । रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते । उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ॥ ७.३२.२७ ॥
युद्ध-अर्थी समनुप्राप्तः रावणः नाम राक्षसः । रावणस्य वचः श्रुत्वा मन्त्रिणः अथ अर्जुनस्य ते । उत्तस्थुः स आयुध-अस्त्राः च रावणम् वाक्यम् अब्रुवन् ॥ ७।३२।२७ ॥
yuddha-arthī samanuprāptaḥ rāvaṇaḥ nāma rākṣasaḥ . rāvaṇasya vacaḥ śrutvā mantriṇaḥ atha arjunasya te . uttasthuḥ sa āyudha-astrāḥ ca rāvaṇam vākyam abruvan .. 7.32.27 ..
युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण ॥ ७.३२.२८ ॥
युद्धस्य कालः विज्ञेयः साधु भोः साधु रावण ॥ ७।३२।२८ ॥
yuddhasya kālaḥ vijñeyaḥ sādhu bhoḥ sādhu rāvaṇa .. 7.32.28 ..
चः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते । यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहते नृपम् । स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसे ऽर्जुनम् । वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥ ७.३२.२९ ॥
चः श्रुत्वा मन्त्रिणः अथ अर्जुनस्य ते । यः क्षीबम् स्त्री-वृतम् च एव योद्धुम् उत्सहते नृपम् । स्त्री-समक्षम् कथम् यत् तत् योद्धुम् उत्सहसे अर्जुनम् । वाशिता-मध्य-गम् मत्तम् शार्दूलः इव कुञ्जरम् ॥ ७।३२।२९ ॥
caḥ śrutvā mantriṇaḥ atha arjunasya te . yaḥ kṣībam strī-vṛtam ca eva yoddhum utsahate nṛpam . strī-samakṣam katham yat tat yoddhum utsahase arjunam . vāśitā-madhya-gam mattam śārdūlaḥ iva kuñjaram .. 7.32.29 ..
क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया । युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरे ऽर्जुनम् ॥ ७.३२.३० ॥
क्षमस्व अद्य दशग्रीव चोष्यताम् रजनी त्वया । युद्धे श्रद्धा च यदि अस्ति श्वस् तात समरे अर्जुनम् ॥ ७।३२।३० ॥
kṣamasva adya daśagrīva coṣyatām rajanī tvayā . yuddhe śraddhā ca yadi asti śvas tāta samare arjunam .. 7.32.30 ..
यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता । निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ ७.३२.३१ ॥
यत् यदि अस्ति मतिः योद्धुम् युद्ध-तृष्णा-समावृता । निहत्य अस्मान् ततस् युद्धम् अर्जुनेन उपयास्यसि ॥ ७।३२।३१ ॥
yat yadi asti matiḥ yoddhum yuddha-tṛṣṇā-samāvṛtā . nihatya asmān tatas yuddham arjunena upayāsyasi .. 7.32.31 ..
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु । सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥ ७.३२.३२ ॥
ततस् ते रावण-अमात्यैः अमात्याः पार्थिवस्य तु । सूदिताः च अपि ते युद्धे भक्षिताः च बुभुक्षितैः ॥ ७।३२।३२ ॥
tatas te rāvaṇa-amātyaiḥ amātyāḥ pārthivasya tu . sūditāḥ ca api te yuddhe bhakṣitāḥ ca bubhukṣitaiḥ .. 7.32.32 ..
ततो हलहलाशब्दो नर्मदातीर आबभौ । अर्जुनस्यानुयातऽणां रावणस्य च मन्त्रिणाम् ॥ ७.३२.३३ ॥
ततस् हलहला शब्दः नर्मदा-तीरे आबभौ । रावणस्य च मन्त्रिणाम् ॥ ७।३२।३३ ॥
tatas halahalā śabdaḥ narmadā-tīre ābabhau . rāvaṇasya ca mantriṇām .. 7.32.33 ..
इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः । सरावणानर्दयन्तः समन्तात्समभिद्रुताः ॥ ७.३२.३४ ॥
इषुभिः तोमरैः शूलैः त्रिशूलैः वज्र-कर्षणैः । स रावणान् अर्दयन्तः समन्तात् समभिद्रुताः ॥ ७।३२।३४ ॥
iṣubhiḥ tomaraiḥ śūlaiḥ triśūlaiḥ vajra-karṣaṇaiḥ . sa rāvaṇān ardayantaḥ samantāt samabhidrutāḥ .. 7.32.34 ..
हैहयाधिपयोधानां वेग आसीत्सुदारुणः । सनक्रमीनमकरसमुद्रस्येव निःस्वनः ॥ ७.३२.३५ ॥
हैहय-अधिप-योधानाम् वेगः आसीत् सु दारुणः । स नक्र-मीन-मकर-समुद्रस्य इव निःस्वनः ॥ ७।३२।३५ ॥
haihaya-adhipa-yodhānām vegaḥ āsīt su dāruṇaḥ . sa nakra-mīna-makara-samudrasya iva niḥsvanaḥ .. 7.32.35 ..
रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः । कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ॥ ७.३२.३६ ॥
रावणस्य तु ते अमात्याः प्रहस्त-शुक-सारणाः । कार्तवीर्य-बलम् क्रुद्धाः निर्दहन्ति स्म तेजसा ॥ ७।३२।३६ ॥
rāvaṇasya tu te amātyāḥ prahasta-śuka-sāraṇāḥ . kārtavīrya-balam kruddhāḥ nirdahanti sma tejasā .. 7.32.36 ..
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः । क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥ ७.३२.३७ ॥
अर्जुनाय तु तत् कर्म रावणस्य स मन्त्रिणः । क्रीडमानाय कथितम् पुरुषैः द्वाररक्षिभिः ॥ ७।३२।३७ ॥
arjunāya tu tat karma rāvaṇasya sa mantriṇaḥ . krīḍamānāya kathitam puruṣaiḥ dvārarakṣibhiḥ .. 7.32.37 ..
श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततो ऽर्जुनः । उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥ ७.३२.३८ ॥
श्रुत्वा न भेतव्यम् इति स्त्री-जनम् तम् ततस् अर्जुनः । उत्ततार जलात् तस्मात् गङ्गा-तोयात् इव अञ्जनः ॥ ७।३२।३८ ॥
śrutvā na bhetavyam iti strī-janam tam tatas arjunaḥ . uttatāra jalāt tasmāt gaṅgā-toyāt iva añjanaḥ .. 7.32.38 ..
क्रोधदूषितनेत्रस्तु स ततो ऽर्जुनपावकः । प्रजज्वाल महाघोरो युगान्त इव पावकः ॥ ७.३२.३९ ॥
क्रोध-दूषित-नेत्रः तु स ततस् अर्जुन-पावकः । प्रजज्वाल महा-घोरः युग-अन्ते इव पावकः ॥ ७।३२।३९ ॥
krodha-dūṣita-netraḥ tu sa tatas arjuna-pāvakaḥ . prajajvāla mahā-ghoraḥ yuga-ante iva pāvakaḥ .. 7.32.39 ..
स तूर्णतरमादाय वरहेमाङ्गदो गदाम् । अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥ ७.३२.४० ॥
स तूर्णतरम् आदाय वर-हेम-अङ्गदः गदाम् । अभिदुद्राव रक्षांसि तमांसि इव दिवाकरः ॥ ७।३२।४० ॥
sa tūrṇataram ādāya vara-hema-aṅgadaḥ gadām . abhidudrāva rakṣāṃsi tamāṃsi iva divākaraḥ .. 7.32.40 ..
बाहुविक्षेपकरणां समुद्यम्य महागदाम् । गारुडं वेगमास्थाय चापपातैव सो ऽर्जुनः ॥ ७.३२.४१ ॥
बाहु-विक्षेप-करणाम् समुद्यम्य महा-गदाम् । गारुडम् वेगम् आस्थाय च अपपात एव सः अर्जुनः ॥ ७।३२।४१ ॥
bāhu-vikṣepa-karaṇām samudyamya mahā-gadām . gāruḍam vegam āsthāya ca apapāta eva saḥ arjunaḥ .. 7.32.41 ..
तस्य मार्गं समारुद्ध्य विन्ध्यो ऽर्कस्येव पर्वतः । स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥ ७.३२.४२ ॥
तस्य मार्गम् समारुद्ध्य विन्ध्यः अर्कस्य इव पर्वतः । स्थितः विन्ध्यः इव अकम्प्यः प्रहस्तः मुसल-आयुधः ॥ ७।३२।४२ ॥
tasya mārgam samāruddhya vindhyaḥ arkasya iva parvataḥ . sthitaḥ vindhyaḥ iva akampyaḥ prahastaḥ musala-āyudhaḥ .. 7.32.42 ..
ततो ऽस्य मुसलं घोरं लोहबद्धं महोद्धतः । प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ॥ ७.३२.४३ ॥
ततस् अस्य मुसलम् घोरम् लोह-बद्धम् महा-उद्धतः । प्रहस्तः प्रेषयन् क्रुद्धः ररास च यथा अम्बुदः ॥ ७।३२।४३ ॥
tatas asya musalam ghoram loha-baddham mahā-uddhataḥ . prahastaḥ preṣayan kruddhaḥ rarāsa ca yathā ambudaḥ .. 7.32.43 ..
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः । प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥ ७.३२.४४ ॥
तस्य अग्रे मुसलस्य अग्निः अशोक-आपीड-सन्निभः । प्रहस्त-कर-मुक्तस्य बभूव प्रदहन् इव ॥ ७।३२।४४ ॥
tasya agre musalasya agniḥ aśoka-āpīḍa-sannibhaḥ . prahasta-kara-muktasya babhūva pradahan iva .. 7.32.44 ..
अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः । निपुणं वञ्चयामास सगदो ऽगदविक्रमः ॥ ७.३२.४५ ॥
अथ आयान्तम् तु मुसलम् कार्तवीर्यः तदा अर्जुनः । निपुणम् वञ्चयामास स गदः अगद-विक्रमः ॥ ७।३२।४५ ॥
atha āyāntam tu musalam kārtavīryaḥ tadā arjunaḥ . nipuṇam vañcayāmāsa sa gadaḥ agada-vikramaḥ .. 7.32.45 ..
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः । भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥ ७.३२.४६ ॥
ततस् तम् अभिदुद्राव प्रहस्तम् हैहय-अधिपः । भ्रामयानः गदाम् गुर्वीम् पञ्च-बाहु-शत-उच्छ्रयाम् ॥ ७।३२।४६ ॥
tatas tam abhidudrāva prahastam haihaya-adhipaḥ . bhrāmayānaḥ gadām gurvīm pañca-bāhu-śata-ucchrayām .. 7.32.46 ..
तथा हतो ऽतिवेगेन प्रहस्तो गदया तदा । निपपात स्थितः शैलो वज्रिवज्रहतो यथा ॥ ७.३२.४७ ॥
तथा हतः अतिवेगेन प्रहस्तः गदया तदा । निपपात स्थितः शैलः वज्रि-वज्र-हतः यथा ॥ ७।३२।४७ ॥
tathā hataḥ ativegena prahastaḥ gadayā tadā . nipapāta sthitaḥ śailaḥ vajri-vajra-hataḥ yathā .. 7.32.47 ..
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः । समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ॥ ७.३२.४८ ॥
प्रहस्तम् पतितम् दृष्ट्वा मारीच-शुक-सारणाः । स महोदर-धूम्राक्षाः हि अपसृष्टाः रण-अजिरात् ॥ ७।३२।४८ ॥
prahastam patitam dṛṣṭvā mārīca-śuka-sāraṇāḥ . sa mahodara-dhūmrākṣāḥ hi apasṛṣṭāḥ raṇa-ajirāt .. 7.32.48 ..
अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते । रावणो ऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ ७.३२.४९ ॥
अपक्रान्तेषु अमात्येषु प्रहस्ते वै निपातिते । रावणः अभ्यद्रवत् तूर्णम् अर्जुनम् नृप-सत्तमम् ॥ ७।३२।४९ ॥
apakrānteṣu amātyeṣu prahaste vai nipātite . rāvaṇaḥ abhyadravat tūrṇam arjunam nṛpa-sattamam .. 7.32.49 ..
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् । नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ॥ ७.३२.५० ॥
सहस्रबाहोः तत् युद्धम् विंशद्बाहोः च दारुणम् । नृप-राक्षसयोः तत्र च आरब्धम् रोम-हर्षणम् ॥ ७।३२।५० ॥
sahasrabāhoḥ tat yuddham viṃśadbāhoḥ ca dāruṇam . nṛpa-rākṣasayoḥ tatra ca ārabdham roma-harṣaṇam .. 7.32.50 ..
सागराविव संरब्धौ चलन्मूलाविवाचलौ । तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥ ७.३२.५१ ॥
सागरौ इव संरब्धौ चलत्-मूलौ इव अचलौ । तेजः-युक्तौ इव आदित्यौ प्रदहन्तौ इव अनलौ ॥ ७।३२।५१ ॥
sāgarau iva saṃrabdhau calat-mūlau iva acalau . tejaḥ-yuktau iva ādityau pradahantau iva analau .. 7.32.51 ..
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ । मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ ७.३२.५२ ॥
बल-उद्धतौ यथा नागौ वाशिता-अर्थे यथा वृषौ । मेघौ इव विनर्दन्तौ सिंहौ इव बल-उत्कटौ ॥ ७।३२।५२ ॥
bala-uddhatau yathā nāgau vāśitā-arthe yathā vṛṣau . meghau iva vinardantau siṃhau iva bala-utkaṭau .. 7.32.52 ..
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ । परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ ७.३२.५३ ॥
रुद्र-कालौ इव क्रुद्धौ तदा तौ राक्षस-अर्जुनौ । परस्परम् गदाभ्याम् तौ ताडयामासतुः भृशम् ॥ ७।३२।५३ ॥
rudra-kālau iva kruddhau tadā tau rākṣasa-arjunau . parasparam gadābhyām tau tāḍayāmāsatuḥ bhṛśam .. 7.32.53 ..
वज्रप्रहारानचला यथा घोरान्विषेहिरे । गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥ ७.३२.५४ ॥
वज्र-प्रहारान् अचलाः यथा घोरान् विषेहिरे । गदा-प्रहारान् तौ तत्र सेहाते नर-राक्षसौ ॥ ७।३२।५४ ॥
vajra-prahārān acalāḥ yathā ghorān viṣehire . gadā-prahārān tau tatra sehāte nara-rākṣasau .. 7.32.54 ..
यथा ऽ शनिरवेभ्यस्तु जायते ऽथ प्रतिश्रुतिः । तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥ ७.३२.५५ ॥
यथा शनि-रवेभ्यः तु जायते अथ प्रतिश्रुतिः । तथा तयोः गदा-पोथैः दिशः सर्वाः प्रतिश्रुताः ॥ ७।३२।५५ ॥
yathā śani-ravebhyaḥ tu jāyate atha pratiśrutiḥ . tathā tayoḥ gadā-pothaiḥ diśaḥ sarvāḥ pratiśrutāḥ .. 7.32.55 ..
अर्जुनस्य गदा सा तु पात्यमाना ऽहितोरसि । काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ॥ ७.३२.५६ ॥
अर्जुनस्य गदा सा तु पात्यमाना अहित-उरसि । काञ्चन-आभम् नभः चक्रे विद्युत्-सौदामिनी यथा ॥ ७।३२।५६ ॥
arjunasya gadā sā tu pātyamānā ahita-urasi . kāñcana-ābham nabhaḥ cakre vidyut-saudāminī yathā .. 7.32.56 ..
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः । अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥ ७.३२.५७ ॥
तथा एव रावणेन अपि पात्यमानाः मुहुर् मुहुर् । अर्जुन-उरसि निर्भाति गदा उल्का इव महा-गिरौ ॥ ७।३२।५७ ॥
tathā eva rāvaṇena api pātyamānāḥ muhur muhur . arjuna-urasi nirbhāti gadā ulkā iva mahā-girau .. 7.32.57 ..
नार्जुनः खेदमायाति न राक्षसगणेश्वरः । इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥ ७.३२.५८ ॥
न अर्जुनः खेदम् आयाति न राक्षस-गण-ईश्वरः । इदम् आसीत् तयोः युद्धम् यथा पूर्वम् बलि-इन्द्रयोः ॥ ७।३२।५८ ॥
na arjunaḥ khedam āyāti na rākṣasa-gaṇa-īśvaraḥ . idam āsīt tayoḥ yuddham yathā pūrvam bali-indrayoḥ .. 7.32.58 ..
शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ । परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ॥ ७.३२.५९ ॥
शृङ्गैः इव वृषा आयुध्यन् दन्त-अग्रैः इव कुञ्जरौ । परस्परम् तौ निघ्नन्तौ नर-राक्षस-सत्तमौ ॥ ७।३२।५९ ॥
śṛṅgaiḥ iva vṛṣā āyudhyan danta-agraiḥ iva kuñjarau . parasparam tau nighnantau nara-rākṣasa-sattamau .. 7.32.59 ..
ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा । स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ॥ ७.३२.६० ॥
ततस् अर्जुनेन क्रुद्धेन सर्व-प्राणेन सा गदा । स्तनयोः अन्तरे मुक्ता रावणस्य महा-उरसि ॥ ७।३२।६० ॥
tatas arjunena kruddhena sarva-prāṇena sā gadā . stanayoḥ antare muktā rāvaṇasya mahā-urasi .. 7.32.60 ..
वरदानकृतत्राणे सा गदा रावणोरसि । दुर्बलेव यथावेगं द्विधाभूत्वा ऽपतत्क्षितौ ॥ ७.३२.६१ ॥
वर-दान-कृत-त्राणे सा गदा रावण-उरसि । दुर्बला इव यथावेगम् द्विधा भूत्वा अपतत् क्षितौ ॥ ७।३२।६१ ॥
vara-dāna-kṛta-trāṇe sā gadā rāvaṇa-urasi . durbalā iva yathāvegam dvidhā bhūtvā apatat kṣitau .. 7.32.61 ..
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः । अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ॥ ७.३२.६२ ॥
स तु अर्जुन-प्रमुक्तेन गदा-पातेन रावणः । अपासर्पत् धनुः-मात्रम् निषसाद च निष्टनन् ॥ ७।३२।६२ ॥
sa tu arjuna-pramuktena gadā-pātena rāvaṇaḥ . apāsarpat dhanuḥ-mātram niṣasāda ca niṣṭanan .. 7.32.62 ..
स विह्वलं तदालक्ष्य दशग्रीवं ततो ऽर्जुनः । सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥ ७.३२.६३ ॥
स विह्वलम् तदा आलक्ष्य दशग्रीवम् ततस् अर्जुनः । सहसा उत्पत्य जग्राह गरुत्मान् इव पन्नगम् ॥ ७।३२।६३ ॥
sa vihvalam tadā ālakṣya daśagrīvam tatas arjunaḥ . sahasā utpatya jagrāha garutmān iva pannagam .. 7.32.63 ..
स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् । बबन्ध बलवान्राजा बलिं नारायणो यथा ॥ ७.३२.६४ ॥
स तु बाहु-सहस्रेण बलात् गृह्य दशाननम् । बबन्ध बलवान् राजा बलिम् नारायणः यथा ॥ ७।३२।६४ ॥
sa tu bāhu-sahasreṇa balāt gṛhya daśānanam . babandha balavān rājā balim nārāyaṇaḥ yathā .. 7.32.64 ..
बध्यमाने दशग्रीवे सिद्धचारणदेवताः । साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥ ७.३२.६५ ॥
बध्यमाने दशग्रीवे सिद्ध-चारण-देवताः । साध्वी इति वादिनः पुष्पैः किरन्ति अर्जुन-मूर्धनि ॥ ७।३२।६५ ॥
badhyamāne daśagrīve siddha-cāraṇa-devatāḥ . sādhvī iti vādinaḥ puṣpaiḥ kiranti arjuna-mūrdhani .. 7.32.65 ..
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् । ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ ७.३२.६६ ॥
व्याघ्रः मृगम् इव आदाय मृगराज् इव दन्तिनम् । ननाद हैहयः राजा हर्षात् अम्बुद-वत् मुहुर् ॥ ७।३२।६६ ॥
vyāghraḥ mṛgam iva ādāya mṛgarāj iva dantinam . nanāda haihayaḥ rājā harṣāt ambuda-vat muhur .. 7.32.66 ..
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् । सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ॥ ७.३२.६७ ॥
प्रहस्तः तु समाश्वस्तः दृष्ट्वा बद्धम् दशाननम् । सह तैः राक्षसैः क्रुद्धः च अभिदुद्राव पार्थिवम् ॥ ७।३२।६७ ॥
prahastaḥ tu samāśvastaḥ dṛṣṭvā baddham daśānanam . saha taiḥ rākṣasaiḥ kruddhaḥ ca abhidudrāva pārthivam .. 7.32.67 ..
नक्तञ्चराणां वेगस्तु तेषामापततां बभौ । उद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ ७.३२.६८ ॥
नक्तञ्चराणाम् वेगः तु तेषाम् आपतताम् बभौ । उद्भूते आतप-अपाये पयोदानाम् इव अम्बुधौ ॥ ७।३२।६८ ॥
naktañcarāṇām vegaḥ tu teṣām āpatatām babhau . udbhūte ātapa-apāye payodānām iva ambudhau .. 7.32.68 ..
मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् । मुसलानि सशूलानि सोत्ससर्ज तदार्जुने ॥ ७.३२.६९ ॥
मुञ्च मुञ्च इति भाषन्तः तिष्ठ तिष्ठ इति च असकृत् । मुसलानि स शूलानि स उत्ससर्ज तदा अर्जुने ॥ ७।३२।६९ ॥
muñca muñca iti bhāṣantaḥ tiṣṭha tiṣṭha iti ca asakṛt . musalāni sa śūlāni sa utsasarja tadā arjune .. 7.32.69 ..
अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः । आयुधान्यमरारीणां जग्राहारिनिषूदनः ॥ ७.३२.७० ॥
अप्राप्तानि एव तानि आशु असम्भ्रान्तः तदा अर्जुनः । आयुधानि अमरारीणाम् जग्राह अरि-निषूदनः ॥ ७।३२।७० ॥
aprāptāni eva tāni āśu asambhrāntaḥ tadā arjunaḥ . āyudhāni amarārīṇām jagrāha ari-niṣūdanaḥ .. 7.32.70 ..
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः । भित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥ ७.३२.७१ ॥
ततस् तैः एव रक्षांसि दुर्धरैः प्रवर-आयुधैः । भित्त्वा विद्रावयामास वायुः अम्बुधरान् इव ॥ ७।३२।७१ ॥
tatas taiḥ eva rakṣāṃsi durdharaiḥ pravara-āyudhaiḥ . bhittvā vidrāvayāmāsa vāyuḥ ambudharān iva .. 7.32.71 ..
राक्षसांस्त्रासयित्वा तु कार्तवीर्यो ऽर्जुनस्तदा । रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥ ७.३२.७२ ॥
राक्षसान् त्रासयित्वा तु कार्तवीर्यः अर्जुनः तदा । रावणम् गृह्य नगरम् प्रविवेश सुहृद्-वृतः ॥ ७।३२।७२ ॥
rākṣasān trāsayitvā tu kārtavīryaḥ arjunaḥ tadā . rāvaṇam gṛhya nagaram praviveśa suhṛd-vṛtaḥ .. 7.32.72 ..
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः । तदा ऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥ ७.३२.७३ ॥
स कीर्यमाणः कुसुम-अक्षत-उत्करैः द्विजैः स पौरैः पुरुहूत-सन्निभः । तदा अर्जुनः सम्प्रविवेश ताम् पुरीम् बलिम् निगृह्य इव सहस्रलोचनः ॥ ७।३२।७३ ॥
sa kīryamāṇaḥ kusuma-akṣata-utkaraiḥ dvijaiḥ sa pauraiḥ puruhūta-sannibhaḥ . tadā arjunaḥ sampraviveśa tām purīm balim nigṛhya iva sahasralocanaḥ .. 7.32.73 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe dvātriṃśaḥ sargaḥ .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In