This overlay will guide you through the buttons:

| |
|
रावणग्रहणं तत्तु वायुग्रहणसन्निभम् । ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ ७.३३.१ ॥
रावण-ग्रहणम् तत् तु वायु-ग्रहण-सन्निभम् । ततस् पुलस्त्यः शुश्राव कथितम् दिवि दैवतैः ॥ ७।३३।१ ॥
rāvaṇa-grahaṇam tat tu vāyu-grahaṇa-sannibham . tatas pulastyaḥ śuśrāva kathitam divi daivataiḥ .. 7.33.1 ..
ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः । माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ॥ ७.३३.२ ॥
ततस् पुत्र-कृत-स्नेहात् कम्प्यमानः महाधृतिः । माहिष्मती-पतिम् द्रष्टुम् आजगाम महान् ऋषिः ॥ ७।३३।२ ॥
tatas putra-kṛta-snehāt kampyamānaḥ mahādhṛtiḥ . māhiṣmatī-patim draṣṭum ājagāma mahān ṛṣiḥ .. 7.33.2 ..
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः । पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ॥ ७.३३.३ ॥
स वायु-मार्गम् आस्थाय वायु-तुल्य-गतिः द्विजः । पुरीम् माहिष्मतीम् प्राप्तः मनः-सम्पात-विक्रमः ॥ ७।३३।३ ॥
sa vāyu-mārgam āsthāya vāyu-tulya-gatiḥ dvijaḥ . purīm māhiṣmatīm prāptaḥ manaḥ-sampāta-vikramaḥ .. 7.33.3 ..
सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् । प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ७.३३.४ ॥
सः अमरावती-सङ्काशाम् हृष्ट-पुष्ट-जन-आकुलाम् । प्रविवेश पुरीम् ब्रह्मा इन्द्रस्य इव अमरावतीम् ॥ ७।३३।४ ॥
saḥ amarāvatī-saṅkāśām hṛṣṭa-puṣṭa-jana-ākulām . praviveśa purīm brahmā indrasya iva amarāvatīm .. 7.33.4 ..
पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् । ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ॥ ७.३३.५ ॥
पाद-चारम् इव आदित्यम् निष्पतन्तम् सु दुर्दशम् । ततस् ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ॥ ७।३३।५ ॥
pāda-cāram iva ādityam niṣpatantam su durdaśam . tatas te pratyabhijñāya arjunāya nivedayan .. 7.33.5 ..
पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः । शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥ ७.३३.६ ॥
पुलस्त्यः इति विज्ञाय वचनात् हैहय-अधिपः । शिरसि अञ्जलिम् आधाय प्रत्युद्गच्छत् तपस्विनम् ॥ ७।३३।६ ॥
pulastyaḥ iti vijñāya vacanāt haihaya-adhipaḥ . śirasi añjalim ādhāya pratyudgacchat tapasvinam .. 7.33.6 ..
पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च । पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ ७.३३.७ ॥
पुरोहितः अस्य गृह्य अर्घ्यम् मधुपर्कम् तथा एव च । पुरस्तात् प्रययौ राज्ञः शक्रस्य इव बृहस्पतिः ॥ ७।३३।७ ॥
purohitaḥ asya gṛhya arghyam madhuparkam tathā eva ca . purastāt prayayau rājñaḥ śakrasya iva bṛhaspatiḥ .. 7.33.7 ..
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् । अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ ७.३३.८ ॥
ततस् तम् ऋषिम् आयान्तम् उद्यन्तम् इव भास्करम् । अर्जुनः दृश्य सम्भ्रान्तः ववन्द इन्द्रः इव ईश्वरम् ॥ ७।३३।८ ॥
tatas tam ṛṣim āyāntam udyantam iva bhāskaram . arjunaḥ dṛśya sambhrāntaḥ vavanda indraḥ iva īśvaram .. 7.33.8 ..
स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च । पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ ७.३३.९ ॥
स तस्य मधुपर्कम् गाम् पाद्यम् अर्घ्यम् निवेद्य च । पुलस्त्यम् आह राज-इन्द्रः हर्ष-गद्गदया गिरा ॥ ७।३३।९ ॥
sa tasya madhuparkam gām pādyam arghyam nivedya ca . pulastyam āha rāja-indraḥ harṣa-gadgadayā girā .. 7.33.9 ..
अद्यैवममरावत्या तुल्या माहिष्मती कृता । अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥ ७.३३.१० ॥
अद्या एवम् अमरावत्या तुल्या माहिष्मती कृता । अद्या अहम् तु द्विजेन्द्र त्वाम् यस्मात् पश्यामि दुर्दशम् ॥ ७।३३।१० ॥
adyā evam amarāvatyā tulyā māhiṣmatī kṛtā . adyā aham tu dvijendra tvām yasmāt paśyāmi durdaśam .. 7.33.10 ..
अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् । अद्य मे सफलं जन्म अद्य मे सफलं तपः । यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव ॥ ७.३३.११ ॥
अद्य मे कुशलम् देव अद्य मे कुशलम् व्रतम् । अद्य मे स फलम् जन्म अद्य मे स फलम् तपः । यस्मात् देव-गणैः वन्द्यौ वन्दे अहम् चरणौ तव ॥ ७।३३।११ ॥
adya me kuśalam deva adya me kuśalam vratam . adya me sa phalam janma adya me sa phalam tapaḥ . yasmāt deva-gaṇaiḥ vandyau vande aham caraṇau tava .. 7.33.11 ..
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् । ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ ७.३३.१२ ॥
इदम् राज्यम् इमे पुत्राः इमे दाराः इमे वयम् । ब्रह्मन् किम् कुर्मि किम् कार्यम् आज्ञापयतु नः भवान् ॥ ७।३३।१२ ॥
idam rājyam ime putrāḥ ime dārāḥ ime vayam . brahman kim kurmi kim kāryam ājñāpayatu naḥ bhavān .. 7.33.12 ..
तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् । पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम् ॥ ७.३३.१३ ॥
तम् धर्मे अग्निषु पुत्रेषु शिवम् पृष्ट्वा च पार्थिवम् । पुलस्त्यः उवाच राजानम् हैहयानाम् तथा अर्जुनम् ॥ ७।३३।१३ ॥
tam dharme agniṣu putreṣu śivam pṛṣṭvā ca pārthivam . pulastyaḥ uvāca rājānam haihayānām tathā arjunam .. 7.33.13 ..
नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन । अतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ ७.३३.१४ ॥
नरेन्द्र-अम्बुज-पत्र-अक्ष पूर्ण-चन्द्र-निभ-आनन । अतुलम् ते बलम् येन दशग्रीवः त्वया जितः ॥ ७।३३।१४ ॥
narendra-ambuja-patra-akṣa pūrṇa-candra-nibha-ānana . atulam te balam yena daśagrīvaḥ tvayā jitaḥ .. 7.33.14 ..
भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ । सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ ७.३३.१५ ॥
भयात् यस्य उपतिष्ठेताम् निष्पन्दौ सागर-अनिलौ । सः अयम् मृधे त्वया बद्धः पौत्रः मे रण-दुर्जयः ॥ ७।३३।१५ ॥
bhayāt yasya upatiṣṭhetām niṣpandau sāgara-anilau . saḥ ayam mṛdhe tvayā baddhaḥ pautraḥ me raṇa-durjayaḥ .. 7.33.15 ..
पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया । मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम् ॥ ७.३३.१६ ॥
पुत्रकस्य यशः पीतम् नाम विश्रावितम् त्वया । मद्-वाक्यात् याच्यमानः अद्य मुञ्च वत्सम् दशाननम् ॥ ७।३३।१६ ॥
putrakasya yaśaḥ pītam nāma viśrāvitam tvayā . mad-vākyāt yācyamānaḥ adya muñca vatsam daśānanam .. 7.33.16 ..
पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः । मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ ७.३३.१७ ॥
पुलस्त्य-आज्ञाम् प्रगृह्य ऊचे न किञ्चन वचः अर्जुनः । मुमोच वै पार्थिव-इन्द्रः राक्षस-इन्द्रम् प्रहृष्ट-वत् ॥ ७।३३।१७ ॥
pulastya-ājñām pragṛhya ūce na kiñcana vacaḥ arjunaḥ . mumoca vai pārthiva-indraḥ rākṣasa-indram prahṛṣṭa-vat .. 7.33.17 ..
स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः । अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ ७.३३.१८ ॥
स तम् प्रमुच्य त्रिदश-अरिम् अर्जुनः प्रपूज्य दिव्य-आभरण-स्रज्-अम्बरैः । अहिंसकम् सख्यम् उपेत्य स अग्निकम् प्रणम्य तम् ब्रह्म-सुतम् गृहम् ययौ ॥ ७।३३।१८ ॥
sa tam pramucya tridaśa-arim arjunaḥ prapūjya divya-ābharaṇa-sraj-ambaraiḥ . ahiṃsakam sakhyam upetya sa agnikam praṇamya tam brahma-sutam gṛham yayau .. 7.33.18 ..
पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् । परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥ ७.३३.१९ ॥
पुलस्त्येन अपि सन् त्यक्तः राक्षस-इन्द्रः प्रतापवान् । परिष्वक्तः कृत-आतिथ्यः लज्जमानः विनिर्जितः ॥ ७।३३।१९ ॥
pulastyena api san tyaktaḥ rākṣasa-indraḥ pratāpavān . pariṣvaktaḥ kṛta-ātithyaḥ lajjamānaḥ vinirjitaḥ .. 7.33.19 ..
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः । मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ॥ ७.३३.२० ॥
पितामह-सुतः च अपि पुलस्त्यः मुनि-पुङ्गवः । मोचयित्वा दशग्रीवम् ब्रह्म-लोकम् जगाम ह ॥ ७।३३।२० ॥
pitāmaha-sutaḥ ca api pulastyaḥ muni-puṅgavaḥ . mocayitvā daśagrīvam brahma-lokam jagāma ha .. 7.33.20 ..
एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् । पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥ ७.३३.२१ ॥
एवम् स रावणः प्राप्तः कार्तवीर्यात् प्रधर्षणम् । पुलस्त्य-वचनात् च अपि पुनर् मुक्तः महा-बलः ॥ ७।३३।२१ ॥
evam sa rāvaṇaḥ prāptaḥ kārtavīryāt pradharṣaṇam . pulastya-vacanāt ca api punar muktaḥ mahā-balaḥ .. 7.33.21 ..
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन । नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ॥ ७.३३.२२ ॥
एवम् बलिभ्यः बलिनः सन्ति राघव-नन्दन । न अवज्ञा हि परे कार्या यः इच्छेत् प्रियम् आत्मनः ॥ ७।३३।२२ ॥
evam balibhyaḥ balinaḥ santi rāghava-nandana . na avajñā hi pare kāryā yaḥ icchet priyam ātmanaḥ .. 7.33.22 ..
ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् । पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ ७.३३.२३ ॥
ततस् स राजा पिशिताशनानाम् सहस्रबाहोः उपलभ्य मैत्रीम् । पुनर् नृपाणाम् कदनम् चकार चचार सर्वाम् पृथिवीम् च दर्पात् ॥ ७।३३।२३ ॥
tatas sa rājā piśitāśanānām sahasrabāhoḥ upalabhya maitrīm . punar nṛpāṇām kadanam cakāra cacāra sarvām pṛthivīm ca darpāt .. 7.33.23 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe trayastriṃśaḥ sargaḥ .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In