This overlay will guide you through the buttons:

| |
|
रावणग्रहणं तत्तु वायुग्रहणसन्निभम् । ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ ७.३३.१ ॥
rāvaṇagrahaṇaṃ tattu vāyugrahaṇasannibham . tataḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ .. 7.33.1 ..
ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः । माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ॥ ७.३३.२ ॥
tataḥ putrakṛtasnehātkampyamāno mahādhṛtiḥ . māhiṣmatīpatiṃ draṣṭumājagāma mahānṛṣiḥ .. 7.33.2 ..
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः । पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ॥ ७.३३.३ ॥
sa vāyumārgamāsthāya vāyutulyagatirdvijaḥ . purīṃ māhiṣmatīṃ prāpto manaḥsampātavikramaḥ .. 7.33.3 ..
सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् । प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ७.३३.४ ॥
so 'marāvatisaṅkāśāṃ hṛṣṭapuṣṭajanākulām . praviveśa purīṃ brahmā indrasyevāmarāvatīm .. 7.33.4 ..
पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् । ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ॥ ७.३३.५ ॥
pādacāramivādityaṃ niṣpatantaṃ sudurdaśam . tataste pratyabhijñāya arjunāya nivedayan .. 7.33.5 ..
पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः । शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥ ७.३३.६ ॥
pulastya iti vijñāya vacanāddhaihayādhipaḥ . śirasyañjalimādhāya pratyudgacchattapasvinam .. 7.33.6 ..
पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च । पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ ७.३३.७ ॥
purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca . purastātprayayau rājñaḥ śakrasyeva bṛhaspatiḥ .. 7.33.7 ..
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् । अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ ७.३३.८ ॥
tatastamṛṣimāyāntamudyantamiva bhāskaram . arjuno dṛśya sambhrānto vavandendra iveśvaram .. 7.33.8 ..
स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च । पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ ७.३३.९ ॥
sa tasya madhuparkaṃ gāṃ pādyamarghyaṃ nivedya ca . pulastyamāha rājendro harṣagadgadayā girā .. 7.33.9 ..
अद्यैवममरावत्या तुल्या माहिष्मती कृता । अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥ ७.३३.१० ॥
adyaivamamarāvatyā tulyā māhiṣmatī kṛtā . adyāhaṃ tu dvijendra tvāṃ yasmātpaśyāmi durdaśam .. 7.33.10 ..
अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् । अद्य मे सफलं जन्म अद्य मे सफलं तपः । यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव ॥ ७.३३.११ ॥
adya me kuśalaṃ deva adya me kuśalaṃ vratam . adya me saphalaṃ janma adya me saphalaṃ tapaḥ . yasmāddevagaṇairvandyau vande 'haṃ caraṇau tava .. 7.33.11 ..
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् । ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ ७.३३.१२ ॥
idaṃ rājyamime putrā ime dārā ime vayam . brahmankiṃ kurmi kiṃ kāryamājñāpayatu no bhavān .. 7.33.12 ..
तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् । पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम् ॥ ७.३३.१३ ॥
taṃ dharme 'gniṣu putreṣu śivaṃ pṛṣṭvā ca pārthivam . pulastyovāca rājānaṃ haihayānāṃ tathā 'rjunam .. 7.33.13 ..
नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन । अतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ ७.३३.१४ ॥
narendrāmbujapatrākṣa pūrṇacandranibhānana . atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ .. 7.33.14 ..
भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ । सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ ७.३३.१५ ॥
bhayādyasyopatiṣṭhetāṃ niṣpandau sāgarānilau . so 'yaṃ mṛdhe tvayā baddhaḥ pautro me raṇadurjayaḥ .. 7.33.15 ..
पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया । मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम् ॥ ७.३३.१६ ॥
putrakasya yaśaḥ pītaṃ nāma viśrāvitaṃ tvayā . madvākyādyācyamāno 'dya muñca vatsaṃ daśānanam .. 7.33.16 ..
पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः । मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ ७.३३.१७ ॥
pulastyājñāṃ pragṛhyoce na kiñcana vaco 'rjunaḥ . mumoca vai pārthivendro rākṣasendraṃ prahṛṣṭavat .. 7.33.17 ..
स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः । अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ ७.३३.१८ ॥
sa taṃ pramucya tridaśārimarjunaḥ prapūjya divyābharaṇasragambaraiḥ . ahiṃsakaṃ sakhyamupetya sāgnikaṃ praṇamya taṃ brahmasutaṃ gṛhaṃ yayau .. 7.33.18 ..
पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् । परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥ ७.३३.१९ ॥
pulastyenāpi santyakto rākṣasendraḥ pratāpavān . pariṣvaktaḥ kṛtātithyo lajjamāno vinirjitaḥ .. 7.33.19 ..
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः । मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ॥ ७.३३.२० ॥
pitāmahasutaścāpi pulastyo munipuṅgavaḥ . mocayitvā daśagrīvaṃ brahmalokaṃ jagāma ha .. 7.33.20 ..
एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् । पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥ ७.३३.२१ ॥
evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryātpradharṣaṇam . pulastyavacanāccāpi punarmukto mahābalaḥ .. 7.33.21 ..
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन । नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ॥ ७.३३.२२ ॥
evaṃ balibhyo balinaḥ santi rāghavanandana . nāvajñā hi pare kāryā ya icchet priyamātmanaḥ .. 7.33.22 ..
ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् । पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ ७.३३.२३ ॥
tataḥ sa rājā piśitāśanānāṃ sahasrabāhorupalabhya maitrīm . punarnṛpāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt .. 7.33.23 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe trayastriṃśaḥ sargaḥ .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In