This overlay will guide you through the buttons:

| |
|
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः । चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥ ७.३४.१ ॥
अर्जुनेन विमुक्तः तु रावणः राक्षस-अधिपः । चचार पृथिवीम् सर्वाम् अनिर्विण्णः तथा कृतः ॥ ७।३४।१ ॥
arjunena vimuktaḥ tu rāvaṇaḥ rākṣasa-adhipaḥ . cacāra pṛthivīm sarvām anirviṇṇaḥ tathā kṛtaḥ .. 7.34.1 ..
राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् । रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥ ७.३४.२ ॥
राक्षसम् वा मनुष्यम् वा शृणुते अयम् बल-अधिकम् । रावणः तम् समासाद्य युद्धे ह्वयति दर्पितः ॥ ७।३४।२ ॥
rākṣasam vā manuṣyam vā śṛṇute ayam bala-adhikam . rāvaṇaḥ tam samāsādya yuddhe hvayati darpitaḥ .. 7.34.2 ..
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् । गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ॥ ७.३४.३ ॥
ततस् कदाचिद् किष्किन्धाम् नगरीम् वालि-पालिताम् । गत्वा ह्वयति युद्धाय वालिनम् हेम-मालिनम् ॥ ७।३४।३ ॥
tatas kadācid kiṣkindhām nagarīm vāli-pālitām . gatvā hvayati yuddhāya vālinam hema-mālinam .. 7.34.3 ..
ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः । उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ॥ ७.३४.४ ॥
ततस् तु वानर-अमात्यः तारः तारा-पिता प्रभुः । उवाच वानरः वाक्यम् युद्ध-प्रेप्सुम् उपागतम् ॥ ७।३४।४ ॥
tatas tu vānara-amātyaḥ tāraḥ tārā-pitā prabhuḥ . uvāca vānaraḥ vākyam yuddha-prepsum upāgatam .. 7.34.4 ..
राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् । को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ॥ ७.३४.५ ॥
राक्षस-इन्द गतः वाली यः ते प्रतिबलः भवेत् । कः अन्यः प्रमुखतस् स्थातुम् तव शक्तः प्लवङ्गमः ॥ ७।३४।५ ॥
rākṣasa-inda gataḥ vālī yaḥ te pratibalaḥ bhavet . kaḥ anyaḥ pramukhatas sthātum tava śaktaḥ plavaṅgamaḥ .. 7.34.5 ..
चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ ७.३४.६ ॥
चतुर्भ्यः अपि समुद्रेभ्यः सन्ध्याम् अन्वास्य रावण । इमम् मुहूर्तम् आयाति वाली तिष्ठ मुहूर्तकम् ॥ ७।३४।६ ॥
caturbhyaḥ api samudrebhyaḥ sandhyām anvāsya rāvaṇa . imam muhūrtam āyāti vālī tiṣṭha muhūrtakam .. 7.34.6 ..
एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः । युद्धार्थिनामिमे राजन्वानराधिपतेजसा ॥ ७.३४.७ ॥
एतान् अस्थि-चयान् पश्य ये एते शङ्ख-पाण्डुराः । युद्ध-अर्थिनाम् इमे राजन् वानर-अधिप-तेजसा ॥ ७।३४।७ ॥
etān asthi-cayān paśya ye ete śaṅkha-pāṇḍurāḥ . yuddha-arthinām ime rājan vānara-adhipa-tejasā .. 7.34.7 ..
यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस । तदा वालिनमासाद्य तदन्तं तव जीवितम् ॥ ७.३४.८ ॥
यत् वा अमृत-रसः पीतः त्वया रावण राक्षस । तदा वालिनम् आसाद्य तद्-अन्तम् तव जीवितम् ॥ ७।३४।८ ॥
yat vā amṛta-rasaḥ pītaḥ tvayā rāvaṇa rākṣasa . tadā vālinam āsādya tad-antam tava jīvitam .. 7.34.8 ..
पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत । इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ॥ ७.३४.९ ॥
पश्य इदानीम् जगत् चित्रम् इमम् विश्रवसः सुत । इदम् मुहूर्तम् तिष्ठस्व दुर्लभम् ते भविष्यति ॥ ७।३४।९ ॥
paśya idānīm jagat citram imam viśravasaḥ suta . idam muhūrtam tiṣṭhasva durlabham te bhaviṣyati .. 7.34.9 ..
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् । वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ॥ ७.३४.१० ॥
अथवा त्वरसे मर्तुम् गच्छ दक्षिण-सागरम् । वालिनम् द्रक्ष्यसे तत्र भूमि-स्थम् इव पावकम् ॥ ७।३४।१० ॥
athavā tvarase martum gaccha dakṣiṇa-sāgaram . vālinam drakṣyase tatra bhūmi-stham iva pāvakam .. 7.34.10 ..
स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः । पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥ ७.३४.११ ॥
स तु तारम् विनिर्भर्त्स्य रावणः लोक-रावणः । पुष्पकम् तत् समारुह्य प्रययौ दक्षिण-अर्णवम् ॥ ७।३४।११ ॥
sa tu tāram vinirbhartsya rāvaṇaḥ loka-rāvaṇaḥ . puṣpakam tat samāruhya prayayau dakṣiṇa-arṇavam .. 7.34.11 ..
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् । रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ॥ ७.३४.१२ ॥
तत्र हेमगिरि-प्रख्यम् तरुण-अर्क-निभ-आननम् । रावणः वालिनम् दृष्ट्वा सन्ध्या-उपासन-तत्परम् ॥ ७।३४।१२ ॥
tatra hemagiri-prakhyam taruṇa-arka-nibha-ānanam . rāvaṇaḥ vālinam dṛṣṭvā sandhyā-upāsana-tatparam .. 7.34.12 ..
पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः । ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ॥ ७.३४.१३ ॥
पुष्पकात् अवरुह्य अथ रावणः अञ्जन-सन्निभः । ग्रहीतुम् वालिनम् तूर्णम् निःशब्द-पदम् आव्रजत् ॥ ७।३४।१३ ॥
puṣpakāt avaruhya atha rāvaṇaḥ añjana-sannibhaḥ . grahītum vālinam tūrṇam niḥśabda-padam āvrajat .. 7.34.13 ..
यदृच्छया तदा दृष्टो वालिनापि स रावणः । पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ॥ ७.३४.१४ ॥
यदृच्छया तदा दृष्टः वालिना अपि स रावणः । पाप-अभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ॥ ७।३४।१४ ॥
yadṛcchayā tadā dṛṣṭaḥ vālinā api sa rāvaṇaḥ . pāpa-abhiprāyavān dṛṣṭvā cakāra na tu sambhramam .. 7.34.14 ..
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा । न चिन्तयति तं वाली रावणं पापनिश्चयम् ॥ ७.३४.१५ ॥
शशम् आलक्ष्य सिंहः वा पन्नगम् गरुडः यथा । न चिन्तयति तम् वाली रावणम् पाप-निश्चयम् ॥ ७।३४।१५ ॥
śaśam ālakṣya siṃhaḥ vā pannagam garuḍaḥ yathā . na cintayati tam vālī rāvaṇam pāpa-niścayam .. 7.34.15 ..
जिघृक्षमाणमायान्तं रावणं पापचेतसम् । कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ॥ ७.३४.१६ ॥
जिघृक्षमाणम् आयान्तम् रावणम् पाप-चेतसम् । कक्ष-अवलम्बिनम् कृत्वा गमिष्ये त्रीन् महा-अर्णवान् ॥ ७।३४।१६ ॥
jighṛkṣamāṇam āyāntam rāvaṇam pāpa-cetasam . kakṣa-avalambinam kṛtvā gamiṣye trīn mahā-arṇavān .. 7.34.16 ..
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् । लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥ ७.३४.१७ ॥
द्रक्ष्यन्ति अरिम् मम अङ्क-स्थम् स्रंसत्-ऊरु-कर-अम्बरम् । लम्बमानम् दशग्रीवम् गरुडस्य इव पन्नगम् ॥ ७।३४।१७ ॥
drakṣyanti arim mama aṅka-stham sraṃsat-ūru-kara-ambaram . lambamānam daśagrīvam garuḍasya iva pannagam .. 7.34.17 ..
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः । जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ॥ ७.३४.१८ ॥
इति एवम् मतिम् आस्थाय वाली कर्णम् उपाश्रितः । जपन् वै नैगमान् मन्त्रान् तस्थौ पर्वतराज् इव ॥ ७।३४।१८ ॥
iti evam matim āsthāya vālī karṇam upāśritaḥ . japan vai naigamān mantrān tasthau parvatarāj iva .. 7.34.18 ..
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ । प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥ ७.३४.१९ ॥
तौ अन्योन्यम् जिघृक्षन्तौ हरि-राक्षस-पार्थिवौ । प्रयत्नवन्तौ तत् कर्म ईहतुः बल-दर्पितौ ॥ ७।३४।१९ ॥
tau anyonyam jighṛkṣantau hari-rākṣasa-pārthivau . prayatnavantau tat karma īhatuḥ bala-darpitau .. 7.34.19 ..
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् । पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ॥ ७.३४.२० ॥
हस्त-ग्राहम् तु तम् मत्वा पाद-शब्देन रावणम् । पराङ्मुखः अपि जग्राह वाली सर्पम् इव अण्डजः ॥ ७।३४।२० ॥
hasta-grāham tu tam matvā pāda-śabdena rāvaṇam . parāṅmukhaḥ api jagrāha vālī sarpam iva aṇḍajaḥ .. 7.34.20 ..
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः । खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥ ७.३४.२१ ॥
ग्रहीतु-कामम् तम् गृह्य रक्षसाम् ईश्वरम् हरिः । खम् उत्पपात वेगेन कृत्वा कक्ष-अवलम्बिनम् ॥ ७।३४।२१ ॥
grahītu-kāmam tam gṛhya rakṣasām īśvaram hariḥ . kham utpapāta vegena kṛtvā kakṣa-avalambinam .. 7.34.21 ..
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः । जहार रावणं वाली पवनस्तोयदं यथा ॥ ७.३४.२२ ॥
तम् च आपीडयमानम् तु वितुदन्तम् नखैः मुहुर् । जहार रावणम् वाली पवनः तोयदम् यथा ॥ ७।३४।२२ ॥
tam ca āpīḍayamānam tu vitudantam nakhaiḥ muhur . jahāra rāvaṇam vālī pavanaḥ toyadam yathā .. 7.34.22 ..
अथ ते राक्षसामात्या ह्रियमाणं दशाननम् । मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ॥ ७.३४.२३ ॥
अथ ते राक्षस-अमात्याः ह्रियमाणम् दशाननम् । मुमोक्षयिषवः वालिम् रवमाणाः अभिद्रुताः ॥ ७।३४।२३ ॥
atha te rākṣasa-amātyāḥ hriyamāṇam daśānanam . mumokṣayiṣavaḥ vālim ravamāṇāḥ abhidrutāḥ .. 7.34.23 ..
अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः । अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ॥ ७.३४.२४ ॥
अन्वीयमानः तैः वाली भ्राजते अम्बर-मध्य-गः । अन्वीयमानः मेघ-ओघैः अम्बर-स्थः इव अंशुमान् ॥ ७।३४।२४ ॥
anvīyamānaḥ taiḥ vālī bhrājate ambara-madhya-gaḥ . anvīyamānaḥ megha-oghaiḥ ambara-sthaḥ iva aṃśumān .. 7.34.24 ..
ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः । तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ॥ ७.३४.२५ ॥
ते अशक्नुवन्तः सम्प्राप्तुम् वालिनम् राक्षस-उत्तमाः । तस्य बाहु-ऊरु-वेगेन परिश्रान्ताः व्यवस्थिताः ॥ ७।३४।२५ ॥
te aśaknuvantaḥ samprāptum vālinam rākṣasa-uttamāḥ . tasya bāhu-ūru-vegena pariśrāntāḥ vyavasthitāḥ .. 7.34.25 ..
वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः । किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ॥ ७.३४.२६ ॥
वालि-मार्गात् अपाक्रामन् पर्वत-इन्द्रः हि गच्छतः । किम् पुनर् जीवित-प्रेप्सुः बिभ्रत् वै मांस-शोणितम् ॥ ७।३४।२६ ॥
vāli-mārgāt apākrāman parvata-indraḥ hi gacchataḥ . kim punar jīvita-prepsuḥ bibhrat vai māṃsa-śoṇitam .. 7.34.26 ..
अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः । क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ॥ ७.३४.२७ ॥
अ पक्षि-गण-सम्पातान् वानर-इन्द्रः महा-जवः । क्रमशस् सागरान् सर्वान् सन्ध्या-कालम् अवन्दत ॥ ७।३४।२७ ॥
a pakṣi-gaṇa-sampātān vānara-indraḥ mahā-javaḥ . kramaśas sāgarān sarvān sandhyā-kālam avandata .. 7.34.27 ..
सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः । पश्चिमं सागरं वाली ह्याजगाम सरावणः ॥ ७.३४.२८ ॥
सभाज्यमानः भूतैः तु खैचरैः खैचर-उत्तमः । पश्चिमम् सागरम् वाली हि आजगाम स रावणः ॥ ७।३४।२८ ॥
sabhājyamānaḥ bhūtaiḥ tu khaicaraiḥ khaicara-uttamaḥ . paścimam sāgaram vālī hi ājagāma sa rāvaṇaḥ .. 7.34.28 ..
तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः । उत्तरं सागरं प्रायाद्वहमानो दशाननम् ॥ ७.३४.२९ ॥
तस्मिन् सन्ध्याम् उपासित्वा स्नात्वा जप्त्वा च वानरः । उत्तरम् सागरम् प्रायात् वहमानः दशाननम् ॥ ७।३४।२९ ॥
tasmin sandhyām upāsitvā snātvā japtvā ca vānaraḥ . uttaram sāgaram prāyāt vahamānaḥ daśānanam .. 7.34.29 ..
बहुयोजनसाहस्रं वहमानो महाहरिः । वायुवच्च मनोवच्च जगाम सह शत्रुणा ॥ ७.३४.३० ॥
बहु-योजन-साहस्रम् वहमानः महा-हरिः । वायु-वत् च मनः-वत् च जगाम सह शत्रुणा ॥ ७।३४।३० ॥
bahu-yojana-sāhasram vahamānaḥ mahā-hariḥ . vāyu-vat ca manaḥ-vat ca jagāma saha śatruṇā .. 7.34.30 ..
उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् । वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ॥ ७.३४.३१ ॥
उत्तरे सागरे सन्ध्याम् उपासित्वा दशाननम् । वहमानः अगमत् वाली पूर्वम् वै स महा-उदधिम् ॥ ७।३४।३१ ॥
uttare sāgare sandhyām upāsitvā daśānanam . vahamānaḥ agamat vālī pūrvam vai sa mahā-udadhim .. 7.34.31 ..
तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः । किष्किन्धामभितो गृह्य रावणं पुनरागमत् ॥ ७.३४.३२ ॥
तत्र अपि सन्ध्याम् अन्वास्य वासविः सहरि-ईश्वरः । किष्किन्धाम् अभितस् गृह्य रावणम् पुनर् आगमत् ॥ ७।३४।३२ ॥
tatra api sandhyām anvāsya vāsaviḥ sahari-īśvaraḥ . kiṣkindhām abhitas gṛhya rāvaṇam punar āgamat .. 7.34.32 ..
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः । रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ॥ ७.३४.३३ ॥
चतुर्षु अपि समुद्रेषु सन्ध्याम् अन्वास्य वानरः । रावण-उद्वहन-श्रान्तः किष्किन्धा-उपवने अपतत् ॥ ७।३४।३३ ॥
caturṣu api samudreṣu sandhyām anvāsya vānaraḥ . rāvaṇa-udvahana-śrāntaḥ kiṣkindhā-upavane apatat .. 7.34.33 ..
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः । कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ॥ ७.३४.३४ ॥
रावणम् तु मुमोच अथ स्व-कक्षात् कपि-सत्तमः । कुतस् त्वम् इति च उवाच प्रहसन् रावणम् मुहुर् ॥ ७।३४।३४ ॥
rāvaṇam tu mumoca atha sva-kakṣāt kapi-sattamaḥ . kutas tvam iti ca uvāca prahasan rāvaṇam muhur .. 7.34.34 ..
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः । राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ॥ ७.३४.३५ ॥
विस्मयम् तु महत् गत्वा श्रम-लोल-निरीक्षणः । राक्षस-इन्द्रः हरि-इन्द्रम् तम् इदम् वचनम् अब्रवीत् ॥ ७।३४।३५ ॥
vismayam tu mahat gatvā śrama-lola-nirīkṣaṇaḥ . rākṣasa-indraḥ hari-indram tam idam vacanam abravīt .. 7.34.35 ..
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः । युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ॥ ७.३४.३६ ॥
वानर-इन्द्र महा-इन्द्र-आभ राक्षस-इन्द्रः अस्मि रावणः । युद्ध-ईप्सुः इह सम्प्राप्तः स च अद्य आसादितः त्वया ॥ ७।३४।३६ ॥
vānara-indra mahā-indra-ābha rākṣasa-indraḥ asmi rāvaṇaḥ . yuddha-īpsuḥ iha samprāptaḥ sa ca adya āsāditaḥ tvayā .. 7.34.36 ..
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च । येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ॥ ७.३४.३७ ॥
अहो बलम् अहो वीर्यम् अहो गाम्भीर्यम् एव च । येन अहम् पशु-वत् गृह्य भ्रामितः चतुरः अर्णवान् ॥ ७।३४।३७ ॥
aho balam aho vīryam aho gāmbhīryam eva ca . yena aham paśu-vat gṛhya bhrāmitaḥ caturaḥ arṇavān .. 7.34.37 ..
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् । मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ॥ ७.३४.३८ ॥
एवम् अश्रान्त-वत् वीर शीघ्रम् एव महा-अर्णवान् । माम् च एव उद्वहमानः तु कः अन्यः वीरः क्रमिष्यति ॥ ७।३४।३८ ॥
evam aśrānta-vat vīra śīghram eva mahā-arṇavān . mām ca eva udvahamānaḥ tu kaḥ anyaḥ vīraḥ kramiṣyati .. 7.34.38 ..
त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम । मनोनिलसुपर्णानां तव चात्र न संशयः ॥ ७.३४.३९ ॥
त्रयाणाम् एव भूतानाम् गतिः एषा प्लवङ्गम । मनः-निल-सुपर्णानाम् तव च अत्र न संशयः ॥ ७।३४।३९ ॥
trayāṇām eva bhūtānām gatiḥ eṣā plavaṅgama . manaḥ-nila-suparṇānām tava ca atra na saṃśayaḥ .. 7.34.39 ..
सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव । त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥ ७.३४.४० ॥
सः अहम् दृष्ट-बलः तुभ्यम् इच्छामि हरि-पुङ्गव । त्वया सह चिरम् सख्यम् सु स्निग्धम् पावक-अग्रतस् ॥ ७।३४।४० ॥
saḥ aham dṛṣṭa-balaḥ tubhyam icchāmi hari-puṅgava . tvayā saha ciram sakhyam su snigdham pāvaka-agratas .. 7.34.40 ..
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् । सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ ७.३४.४१ ॥
दाराः पुत्राः पुरम् राष्ट्रम् भोग-आच्छादन-भोजनम् । सर्वम् एव अविभक्तम् नौ भविष्यति हरि-ईश्वर ॥ ७।३४।४१ ॥
dārāḥ putrāḥ puram rāṣṭram bhoga-ācchādana-bhojanam . sarvam eva avibhaktam nau bhaviṣyati hari-īśvara .. 7.34.41 ..
ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ । भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ॥ ७.३४.४२ ॥
ततस् प्रज्वालयित्वा अग्निम् तौ उभौ हरि-राक्षसौ । भ्रातृ-त्वम् उपसम्पन्नौ परिष्वज्य परस्परम् ॥ ७।३४।४२ ॥
tatas prajvālayitvā agnim tau ubhau hari-rākṣasau . bhrātṛ-tvam upasampannau pariṣvajya parasparam .. 7.34.42 ..
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ । किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ॥ ७.३४.४३ ॥
अन्योन्यम् लम्बित-करौ ततस् तौ हरि-राक्षसौ । किष्किन्धाम् विशतुः हृष्टौ सिंहौ गिरि-गुहाम् इव ॥ ७।३४।४३ ॥
anyonyam lambita-karau tatas tau hari-rākṣasau . kiṣkindhām viśatuḥ hṛṣṭau siṃhau giri-guhām iva .. 7.34.43 ..
स तत्र मासमुषितः सुग्रीव इव रावणः । अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ॥ ७.३४.४४ ॥
स तत्र मास-मुषितः सुग्रीवः इव रावणः । अमात्यैः आगतैः नीतः त्रैलोक्य-उत्सादन-अर्थिभिः ॥ ७।३४।४४ ॥
sa tatra māsa-muṣitaḥ sugrīvaḥ iva rāvaṇaḥ . amātyaiḥ āgataiḥ nītaḥ trailokya-utsādana-arthibhiḥ .. 7.34.44 ..
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो । धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ॥ ७.३४.४५ ॥
एवम् एतत् पुरावृत्तम् वालिना रावणः प्रभो । धर्षितः च कृतः च अपि भ्राता पावक-सन्निधौ ॥ ७।३४।४५ ॥
evam etat purāvṛttam vālinā rāvaṇaḥ prabho . dharṣitaḥ ca kṛtaḥ ca api bhrātā pāvaka-sannidhau .. 7.34.45 ..
बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् । सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ॥ ७.३४.४६ ॥
बलम् अप्रतिमम् राम वालिनः अभवत् उत्तमम् । सः अपि त्वया विनिर्दग्धः शलभः वह्निना यथा ॥ ७।३४।४६ ॥
balam apratimam rāma vālinaḥ abhavat uttamam . saḥ api tvayā vinirdagdhaḥ śalabhaḥ vahninā yathā .. 7.34.46 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe catustriṃśaḥ sargaḥ .. 34 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In