This overlay will guide you through the buttons:

| |
|
अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् । प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ॥ ७.३५.१ ॥
अपृच्छत तदा रामः दक्षिण-आशा-आश्रमम् मुनिम् । प्राञ्जलिः विनय-उपेतः इदम् आह वचः अर्थवत् ॥ ७।३५।१ ॥
apṛcchata tadā rāmaḥ dakṣiṇa-āśā-āśramam munim . prāñjaliḥ vinaya-upetaḥ idam āha vacaḥ arthavat .. 7.35.1 ..
अतुलं बलमेतद्वै वालिनो रावणस्य च । न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ ७.३५.२ ॥
अतुलम् बलम् एतत् वै वालिनः रावणस्य च । न तु एताभ्याम् हनुमता समम् तु इति मतिः मम ॥ ७।३५।२ ॥
atulam balam etat vai vālinaḥ rāvaṇasya ca . na tu etābhyām hanumatā samam tu iti matiḥ mama .. 7.35.2 ..
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ७.३५.३ ॥
शौर्यम् दाक्ष्यम् बलम् धैर्यम् प्राज्ञ-ता नय-साधनम् । विक्रमः च प्रभावः च हनूमति कृत-आलयाः ॥ ७।३५।३ ॥
śauryam dākṣyam balam dhairyam prājña-tā naya-sādhanam . vikramaḥ ca prabhāvaḥ ca hanūmati kṛta-ālayāḥ .. 7.35.3 ..
दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् । समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥ ७.३५.४ ॥
दृष्ट्वा एव सागरम् वीक्ष्य सीदन्तीम् कपि-वाहिनीम् । समाश्वास्य महा-बाहुः योजनानाम् शतम् प्लुतः ॥ ७।३५।४ ॥
dṛṣṭvā eva sāgaram vīkṣya sīdantīm kapi-vāhinīm . samāśvāsya mahā-bāhuḥ yojanānām śatam plutaḥ .. 7.35.4 ..
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा । दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥ ७.३५.५ ॥
धर्षयित्वा पुरीम् लङ्काम् रावण-अन्तःपुरम् तदा । दृष्ट्वा सम्भाषिता च अपि सीता हि आश्वासिता तथा ॥ ७।३५।५ ॥
dharṣayitvā purīm laṅkām rāvaṇa-antaḥpuram tadā . dṛṣṭvā sambhāṣitā ca api sītā hi āśvāsitā tathā .. 7.35.5 ..
सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः । एते हनुमता तत्र ह्येकेन वितिपातिताः ॥ ७.३५.६ ॥
सेना-अग्रगाः मन्त्रि-सुताः किङ्कराः रावण-आत्मजः । एते हनुमता तत्र हि एकेन वितिपातिताः ॥ ७।३५।६ ॥
senā-agragāḥ mantri-sutāḥ kiṅkarāḥ rāvaṇa-ātmajaḥ . ete hanumatā tatra hi ekena vitipātitāḥ .. 7.35.6 ..
भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् । लङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥ ७.३५.७ ॥
भूयस् बन्धात् विमुक्तेन भाषयित्वा दशाननम् । लङ्का भस्मीकृता येन पावकेन इव मेदिनी ॥ ७।३५।७ ॥
bhūyas bandhāt vimuktena bhāṣayitvā daśānanam . laṅkā bhasmīkṛtā yena pāvakena iva medinī .. 7.35.7 ..
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च । कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ७.३५.८ ॥
न कालस्य न शक्रस्य न विष्णोः वित्तपस्य च । कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ७।३५।८ ॥
na kālasya na śakrasya na viṣṇoḥ vittapasya ca . karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ .. 7.35.8 ..
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः । प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ७.३५.९ ॥
एतस्य बाहु-वीर्येण लङ्का सीता च लक्ष्मणः । प्राप्ताः मया जयः च एव राज्यम् मित्राणि बान्धवाः ॥ ७।३५।९ ॥
etasya bāhu-vīryeṇa laṅkā sītā ca lakṣmaṇaḥ . prāptāḥ mayā jayaḥ ca eva rājyam mitrāṇi bāndhavāḥ .. 7.35.9 ..
हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा । प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ ७.३५.१० ॥
हनूमान् यदि मे नः स्यात् वानर-अधिपतेः सखा । प्रवृत्तिम् अपि कः वेत्तुम् जानक्याः शक्तिमान् भवेत् ॥ ७।३५।१० ॥
hanūmān yadi me naḥ syāt vānara-adhipateḥ sakhā . pravṛttim api kaḥ vettum jānakyāḥ śaktimān bhavet .. 7.35.10 ..
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया । तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ७.३५.११ ॥
किमर्थम् वालि अनेन एव सुग्रीव-प्रिय-काम्यया । तदा वैरे समुत्पन्ने न दग्धः वीरुधः यथा ॥ ७।३५।११ ॥
kimartham vāli anena eva sugrīva-priya-kāmyayā . tadā vaire samutpanne na dagdhaḥ vīrudhaḥ yathā .. 7.35.11 ..
नहि वेदितवान्मन्ये हनूमानात्मनो बलम् । यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ ७.३५.१२ ॥
नहि वेदितवान् मन्ये हनूमान् आत्मनः बलम् । यत् दृष्टवान् जीवित-इष्टम् क्लिश्यन्तम् वानर-अधिपम् ॥ ७।३५।१२ ॥
nahi veditavān manye hanūmān ātmanaḥ balam . yat dṛṣṭavān jīvita-iṣṭam kliśyantam vānara-adhipam .. 7.35.12 ..
एतन्मे भगवन्सर्वं हनूमति महामतौ । विस्तरेण यथातत्त्वं कथयामरपूजित ॥ ७.३५.१३ ॥
एतत् मे भगवन् सर्वम् हनूमति महामतौ । विस्तरेण यथातत्त्वम् कथय अमर-पूजित ॥ ७।३५।१३ ॥
etat me bhagavan sarvam hanūmati mahāmatau . vistareṇa yathātattvam kathaya amara-pūjita .. 7.35.13 ..
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा । हनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ ७.३५.१४ ॥
राघवस्य वचः श्रुत्वा हेतु-युक्तम् ऋषिः तदा । हनूमतः समक्षम् तम् इदम् वचनम् अब्रवीत् ॥ ७।३५।१४ ॥
rāghavasya vacaḥ śrutvā hetu-yuktam ṛṣiḥ tadā . hanūmataḥ samakṣam tam idam vacanam abravīt .. 7.35.14 ..
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः । न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ ७.३५.१५ ॥
सत्यम् एतत् रघु-श्रेष्ठ यत् ब्रवीषि हनूमतः । न बले विद्यते तुल्यः न गतौ न मतौ परः ॥ ७।३५।१५ ॥
satyam etat raghu-śreṣṭha yat bravīṣi hanūmataḥ . na bale vidyate tulyaḥ na gatau na matau paraḥ .. 7.35.15 ..
अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा । न वेत्ता हि बलं येन बली सन्निरिमर्दनः ॥ ७.३५.१६ ॥
अमोघ-शापैः शप्तः तु दत्तः अस्य मुनिभिः पुरा । न वेत्ता हि बलम् येन बली सन् निरिमर्दनः ॥ ७।३५।१६ ॥
amogha-śāpaiḥ śaptaḥ tu dattaḥ asya munibhiḥ purā . na vettā hi balam yena balī san nirimardanaḥ .. 7.35.16 ..
बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल । तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ॥ ७.३५.१७ ॥
बाल्ये अपि एतेन यत् कर्म कृतम् राम महा-बल । तत् न वर्णयितुम् शक्यम् इति बाल-तया आस्यते ॥ ७।३५।१७ ॥
bālye api etena yat karma kṛtam rāma mahā-bala . tat na varṇayitum śakyam iti bāla-tayā āsyate .. 7.35.17 ..
यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव । समाधाय मतिं राम निशामय वदाम्यहम् ॥ ७.३५.१८ ॥
यदि वा अस्ति तु अभिप्रायः तत् श्रोतुम् तव राघव । समाधाय मतिम् राम निशामय वदामि अहम् ॥ ७।३५।१८ ॥
yadi vā asti tu abhiprāyaḥ tat śrotum tava rāghava . samādhāya matim rāma niśāmaya vadāmi aham .. 7.35.18 ..
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ ७.३५.१९ ॥
सूर्य-दत्त-वर-स्वर्णः सुमेरुः नाम पर्वतः । यत्र राज्यम् प्रशास्ति अस्य केसरी नाम वै पिता ॥ ७।३५।१९ ॥
sūrya-datta-vara-svarṇaḥ sumeruḥ nāma parvataḥ . yatra rājyam praśāsti asya kesarī nāma vai pitā .. 7.35.19 ..
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता । जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ ७.३५.२० ॥
तस्य भार्या बभूव एषा हि अञ्जना इति परिश्रुता । जनयामास तस्याम् वै वायुः आत्मजम् उत्तमम् ॥ ७।३५।२० ॥
tasya bhāryā babhūva eṣā hi añjanā iti pariśrutā . janayāmāsa tasyām vai vāyuḥ ātmajam uttamam .. 7.35.20 ..
शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना । फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ ७.३५.२१ ॥
शालि-शूक-निभ-आभासम् प्रासूत अमुम् तदा अञ्जना । फलानि आहर्तु-कामा वै निष्क्रान्ता गहनेचरा ॥ ७।३५।२१ ॥
śāli-śūka-nibha-ābhāsam prāsūta amum tadā añjanā . phalāni āhartu-kāmā vai niṣkrāntā gahanecarā .. 7.35.21 ..
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः । रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ ७.३५.२२ ॥
एष मातुः वियोगात् च क्षुधया च भृश-अर्दितः । रुरोद शिशुः अत्यर्थम् शिशुः शरवणे यथा ॥ ७।३५।२२ ॥
eṣa mātuḥ viyogāt ca kṣudhayā ca bhṛśa-arditaḥ . ruroda śiśuḥ atyartham śiśuḥ śaravaṇe yathā .. 7.35.22 ..
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ ७.३५.२३ ॥
तदा उद्यन्तम् विवस्वन्तम् जपा-पुष्प-उत्कर-उपमम् । ददर्श फल-लोभात् च हि उत्पपात रविम् प्रति ॥ ७।३५।२३ ॥
tadā udyantam vivasvantam japā-puṣpa-utkara-upamam . dadarśa phala-lobhāt ca hi utpapāta ravim prati .. 7.35.23 ..
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ॥ ७.३५.२४ ॥
बाल-अर्क-अभिमुखः बालः बाल-अर्कः इव मूर्तिमान् । ग्रहीतु-कामः बाल-अर्कम् प्लवते अम्बर-मध्य-गः ॥ ७।३५।२४ ॥
bāla-arka-abhimukhaḥ bālaḥ bāla-arkaḥ iva mūrtimān . grahītu-kāmaḥ bāla-arkam plavate ambara-madhya-gaḥ .. 7.35.24 ..
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ ७.३५.२५ ॥
एतस्मिन् प्लवमाने तु शिशु-भावे हनूमति । देव-दानव-यक्षाणाम् विस्मयः सु महान् अभूत् ॥ ७।३५।२५ ॥
etasmin plavamāne tu śiśu-bhāve hanūmati . deva-dānava-yakṣāṇām vismayaḥ su mahān abhūt .. 7.35.25 ..
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा । यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ॥ ७.३५.२६ ॥
ना अपि एवम् वेगवान् वायुः गरुडः वा मनः तथा । यथा अयम् वायुपुत्रः तु क्रमते अम्बरम् उत्तमम् ॥ ७।३५।२६ ॥
nā api evam vegavān vāyuḥ garuḍaḥ vā manaḥ tathā . yathā ayam vāyuputraḥ tu kramate ambaram uttamam .. 7.35.26 ..
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः । यौवनं बलमासाद्य कथं वेगो भविष्यति ॥ ७.३५.२७ ॥
यदि तावत् शिशोः अस्य तु ईदृशः गति-विक्रमः । यौवनम् बलम् आसाद्य कथम् वेगः भविष्यति ॥ ७।३५।२७ ॥
yadi tāvat śiśoḥ asya tu īdṛśaḥ gati-vikramaḥ . yauvanam balam āsādya katham vegaḥ bhaviṣyati .. 7.35.27 ..
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥ ७.३५.२८ ॥
तम् अनुप्लवते वायुः प्लवन्तम् पुत्रम् आत्मनः । सूर्य-दाह-भयात् रक्षन् तुषार-चय-शीतलः ॥ ७।३५।२८ ॥
tam anuplavate vāyuḥ plavantam putram ātmanaḥ . sūrya-dāha-bhayāt rakṣan tuṣāra-caya-śītalaḥ .. 7.35.28 ..
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् । पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ ७.३५.२९ ॥
बहु-योजन-साहस्रम् क्रमति एष गत-उम्बरम् । पितुः बलात् च बाल्यात् च भास्कर-अभ्याशम् आगतः ॥ ७।३५।२९ ॥
bahu-yojana-sāhasram kramati eṣa gata-umbaram . pituḥ balāt ca bālyāt ca bhāskara-abhyāśam āgataḥ .. 7.35.29 ..
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः । कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ ७.३५.३० ॥
शिशुः एष तु अ दोष-ज्ञः इति मत्वा दिवाकरः । कार्यम् च अत्र समायत्तम् इति एवम् न ददाह सः ॥ ७।३५।३० ॥
śiśuḥ eṣa tu a doṣa-jñaḥ iti matvā divākaraḥ . kāryam ca atra samāyattam iti evam na dadāha saḥ .. 7.35.30 ..
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ ७.३५.३१ ॥
यम् एव दिवसम् हि एष ग्रहीतुम् भास्करम् प्लुतः । तम् एव दिवसम् राहुः जिघृक्षति दिवाकरम् ॥ ७।३५।३१ ॥
yam eva divasam hi eṣa grahītum bhāskaram plutaḥ . tam eva divasam rāhuḥ jighṛkṣati divākaram .. 7.35.31 ..
अनेन स परामृष्टो राम सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ७.३५.३२ ॥
अनेन स परामृष्टः राम सूर्य-रथ-उपरि । अपक्रान्तः ततस् त्रस्तः राहुः चन्द्र-अर्क-मर्दनः ॥ ७।३५।३२ ॥
anena sa parāmṛṣṭaḥ rāma sūrya-ratha-upari . apakrāntaḥ tatas trastaḥ rāhuḥ candra-arka-mardanaḥ .. 7.35.32 ..
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ७.३५.३३ ॥
सः इन्द्र-भवनम् गत्वा स रोषः सिंहिकासुतः । अब्रवीत् भ्रुकुटिम् कृत्वा देवम् देव-गणैः वृतम् ॥ ७।३५।३३ ॥
saḥ indra-bhavanam gatvā sa roṣaḥ siṃhikāsutaḥ . abravīt bhrukuṭim kṛtvā devam deva-gaṇaiḥ vṛtam .. 7.35.33 ..
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ ७.३५.३४ ॥
बुभुक्षा-अपनयम् दत्त्वा चन्द्र-अर्कौ मम वासव । किम् इदम् तत् त्वया दत्तम् अन्यस्य बल-वृत्र-हन् ॥ ७।३५।३४ ॥
bubhukṣā-apanayam dattvā candra-arkau mama vāsava . kim idam tat tvayā dattam anyasya bala-vṛtra-han .. 7.35.34 ..
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ७.३५.३५ ॥
अद्य अहम् पर्व-काले तु जिघृक्षुः सूर्यम् आगतः । अथा अन्यः राहुः आसाद्य जग्राह सहसा रविम् ॥ ७।३५।३५ ॥
adya aham parva-kāle tu jighṛkṣuḥ sūryam āgataḥ . athā anyaḥ rāhuḥ āsādya jagrāha sahasā ravim .. 7.35.35 ..
स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः । उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ॥ ७.३५.३६ ॥
स राहोः वचनम् श्रुत्वा वासवः सम्भ्रम-अन्वितः । उत्पपात आसनम् हित्वा च उद्वहन् काञ्चनीम् स्रजम् ॥ ७।३५।३६ ॥
sa rāhoḥ vacanam śrutvā vāsavaḥ sambhrama-anvitaḥ . utpapāta āsanam hitvā ca udvahan kāñcanīm srajam .. 7.35.36 ..
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ ७.३५.३७ ॥
ततस् कैलास-कूट-आभम् चतुर्-दन्तम् मद-स्रवम् । शृङ्गार-धारिणम् प्रांशुम् स्वर्ण-घण्टा-अट्टहासिनम् ॥ ७।३५।३७ ॥
tatas kailāsa-kūṭa-ābham catur-dantam mada-sravam . śṛṅgāra-dhāriṇam prāṃśum svarṇa-ghaṇṭā-aṭṭahāsinam .. 7.35.37 ..
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् । प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ ७.३५.३८ ॥
इन्द्रः करि-इन्द्रम् आरुह्य राहुम् कृत्वा पुरःसरम् । प्रायात् यत्र अभवत् सूर्यः सह अनेन हनूमता ॥ ७।३५।३८ ॥
indraḥ kari-indram āruhya rāhum kṛtvā puraḥsaram . prāyāt yatra abhavat sūryaḥ saha anena hanūmatā .. 7.35.38 ..
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् । अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ॥ ७.३५.३९ ॥
अथ अति रभसेन अगात् राहुः उत्सृज्य वासवम् । अनेन च स वै दृष्टः प्रधावन् शैलकूट-वत् ॥ ७।३५।३९ ॥
atha ati rabhasena agāt rāhuḥ utsṛjya vāsavam . anena ca sa vai dṛṣṭaḥ pradhāvan śailakūṭa-vat .. 7.35.39 ..
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ७.३५.४० ॥
ततस् सूर्यम् समुत्सृज्य राहुम् फलम् अवेक्ष्य च । उत्पपात पुनर् व्योम ग्रहीतुम् सिंहिकासुतम् ॥ ७।३५।४० ॥
tatas sūryam samutsṛjya rāhum phalam avekṣya ca . utpapāta punar vyoma grahītum siṃhikāsutam .. 7.35.40 ..
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ॥ ७.३५.४१ ॥
उत्सृज्य अर्कम् इमम् राम प्रधावन्तम् प्लवङ्गमम् । अवेक्ष्य एवम् परावृत्त्य मुख-शेषः पराङ्मुखः ॥ ७।३५।४१ ॥
utsṛjya arkam imam rāma pradhāvantam plavaṅgamam . avekṣya evam parāvṛttya mukha-śeṣaḥ parāṅmukhaḥ .. 7.35.41 ..
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ॥ ७.३५.४२ ॥
इन्द्रम् आशंसमानः तु त्रातारम् सिंहिकासुतः । इन्द्रः इन्द्र इति संत्रासात् मुहुर् महुर् अभाषत ॥ ७।३५।४२ ॥
indram āśaṃsamānaḥ tu trātāram siṃhikāsutaḥ . indraḥ indra iti saṃtrāsāt muhur mahur abhāṣata .. 7.35.42 ..
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ ७.३५.४३ ॥
राहोः विक्रोशमानस्य प्राक् एव अ लक्षितम् स्वरम् । श्रुत्वा इन्द्र उवाच मा भैषीः अहम् एनम् निषूदये ॥ ७।३५।४३ ॥
rāhoḥ vikrośamānasya prāk eva a lakṣitam svaram . śrutvā indra uvāca mā bhaiṣīḥ aham enam niṣūdaye .. 7.35.43 ..
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ ७.३५.४४ ॥
ऐरावतम् ततस् दृष्ट्वा महत् तत् इदम् इति अपि । फलम् मत्वा हस्ति-राजम् अभिदुद्राव मारुतिः ॥ ७।३५।४४ ॥
airāvatam tatas dṛṣṭvā mahat tat idam iti api . phalam matvā hasti-rājam abhidudrāva mārutiḥ .. 7.35.44 ..
तथास्य धावतो रूपमैरावतजिघृक्षया । मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥ ७.३५.४५ ॥
तथा अस्य धावतः रूपम् ऐरावत-जिघृक्षया । मुहूर्तम् अभवत् घोरम् इन्द्र-अग्न्योः इव भास्वरम् ॥ ७।३५।४५ ॥
tathā asya dhāvataḥ rūpam airāvata-jighṛkṣayā . muhūrtam abhavat ghoram indra-agnyoḥ iva bhāsvaram .. 7.35.45 ..
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः । हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ७.३५.४६ ॥
एवम् आधावमानम् तु न अति क्रुद्धः शचीपतिः । हस्त-अन्तात् अति मुक्तेन कुलिशेन अभ्यताडयत् ॥ ७।३५।४६ ॥
evam ādhāvamānam tu na ati kruddhaḥ śacīpatiḥ . hasta-antāt ati muktena kuliśena abhyatāḍayat .. 7.35.46 ..
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः । पतमानस्य चैतस्य वामो हनुरभज्यत ॥ ७.३५.४७ ॥
ततस् गिरौ पपात एषः इन्द्र-वज्र-अभिताडितः । पतमानस्य च एतस्य वामः हनुः अभज्यत ॥ ७।३५।४७ ॥
tatas girau papāta eṣaḥ indra-vajra-abhitāḍitaḥ . patamānasya ca etasya vāmaḥ hanuḥ abhajyata .. 7.35.47 ..
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले । चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ७.३५.४८ ॥
तस्मिन् तु पतिते बाले वज्र-ताडन-विह्वले । चुक्रोध इन्द्राय पवनः प्रजानाम् अहिताय सः ॥ ७।३५।४८ ॥
tasmin tu patite bāle vajra-tāḍana-vihvale . cukrodha indrāya pavanaḥ prajānām ahitāya saḥ .. 7.35.48 ..
प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः । गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ७.३५.४९ ॥
प्रचारम् स तु सङ्गृह्य प्रजासु अन्तर्गतः प्रभुः । गुहाम् प्रविष्टः स्व-सुतम् शिशुम् आदाय मारुतः ॥ ७।३५।४९ ॥
pracāram sa tu saṅgṛhya prajāsu antargataḥ prabhuḥ . guhām praviṣṭaḥ sva-sutam śiśum ādāya mārutaḥ .. 7.35.49 ..
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् । रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ७.३५.५० ॥
विष्-मूत्र-आशयम् आवृत्य प्रजानाम् परम-आर्ति-कृत् । रुरोध सर्व-भूतानि यथा वर्षाणि वासवः ॥ ७।३५।५० ॥
viṣ-mūtra-āśayam āvṛtya prajānām parama-ārti-kṛt . rurodha sarva-bhūtāni yathā varṣāṇi vāsavaḥ .. 7.35.50 ..
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः । सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ ७.३५.५१ ॥
वायु-प्रकोपात् भूतानि निरुच्छ्वासानि सर्वतस् । सन्धिभिः भिद्यमानैः च काष्ठ-भूतानि जज्ञिरे ॥ ७।३५।५१ ॥
vāyu-prakopāt bhūtāni nirucchvāsāni sarvatas . sandhibhiḥ bhidyamānaiḥ ca kāṣṭha-bhūtāni jajñire .. 7.35.51 ..
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ॥ ७.३५.५२ ॥
निःस्वाध्यायवषट्कारम् निष्क्रियम् धर्म-वर्जितम् । वायु-प्रकोपात् त्रैलोक्यम् निरय-स्थम् इव अभवत् ॥ ७।३५।५२ ॥
niḥsvādhyāyavaṣaṭkāram niṣkriyam dharma-varjitam . vāyu-prakopāt trailokyam niraya-stham iva abhavat .. 7.35.52 ..
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥ ७.३५.५३ ॥
ततस् प्रजाः स गन्धर्वाः स देव-असुर-मानुषाः । प्रजापतिम् समाधावन् दुःखिताः च सुख-इच्छया ॥ ७।३५।५३ ॥
tatas prajāḥ sa gandharvāḥ sa deva-asura-mānuṣāḥ . prajāpatim samādhāvan duḥkhitāḥ ca sukha-icchayā .. 7.35.53 ..
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः । त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ ७.३५.५४ ॥
ऊचुः प्राञ्जलयः देवाः महोदर-निभ-उदराः । त्वया नु भगवन् सृष्टाः प्रजानाथ चतुर्विधाः ॥ ७।३५।५४ ॥
ūcuḥ prāñjalayaḥ devāḥ mahodara-nibha-udarāḥ . tvayā nu bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ .. 7.35.54 ..
त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः । सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ॥ ७.३५.५५ ॥
त्वया दत्तः अयम् अस्माकम् आयुषः पवनः पतिः । सः अस्मान् प्राणेश्वरः भूत्वा कस्मात् एषः अद्य सत्तम ॥ ७।३५।५५ ॥
tvayā dattaḥ ayam asmākam āyuṣaḥ pavanaḥ patiḥ . saḥ asmān prāṇeśvaraḥ bhūtvā kasmāt eṣaḥ adya sattama .. 7.35.55 ..
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ॥ ७.३५.५६ ॥
रुरोध दुःखम् जनयन् अन्तःपुरे इव स्त्रियः । तस्मात् त्वाम् शरणम् प्राप्ताः वायुना उहताः वयम् ॥ ७।३५।५६ ॥
rurodha duḥkham janayan antaḥpure iva striyaḥ . tasmāt tvām śaraṇam prāptāḥ vāyunā uhatāḥ vayam .. 7.35.56 ..
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः । कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ॥ ७.३५.५७ ॥
एतत् प्रजानाम् श्रुत्वा तु प्रजानाथः प्रजापतिः । कारणात् इति च उक्त्वा असौ प्रजाः पुनर् अभाषत ॥ ७।३५।५७ ॥
etat prajānām śrutvā tu prajānāthaḥ prajāpatiḥ . kāraṇāt iti ca uktvā asau prajāḥ punar abhāṣata .. 7.35.57 ..
यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च । प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ ७.३५.५८ ॥
यस्मिन् च कारणे वायुः चुक्रोध च रुरोध च । प्रजाः शृणुध्वम् तत् सर्वम् श्रोतव्यम् च आत्मनः क्षमम् ॥ ७।३५।५८ ॥
yasmin ca kāraṇe vāyuḥ cukrodha ca rurodha ca . prajāḥ śṛṇudhvam tat sarvam śrotavyam ca ātmanaḥ kṣamam .. 7.35.58 ..
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः । राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ॥ ७.३५.५९ ॥
पुत्रः तस्य अमर-ईशेन इन्द्रेण अद्य निपातितः । राहोः वचनम् आस्थाय ततस् स कुपितः अनिलः ॥ ७।३५।५९ ॥
putraḥ tasya amara-īśena indreṇa adya nipātitaḥ . rāhoḥ vacanam āsthāya tatas sa kupitaḥ anilaḥ .. 7.35.59 ..
अशरीरः शरीरेषु वायुश्चरति पालयन् । शरीरं हि विना वायुं समतां याति दारुभिः ॥ ७.३५.६० ॥
अशरीरः शरीरेषु वायुः चरति पालयन् । शरीरम् हि विना वायुम् समताम् याति दारुभिः ॥ ७।३५।६० ॥
aśarīraḥ śarīreṣu vāyuḥ carati pālayan . śarīram hi vinā vāyum samatām yāti dārubhiḥ .. 7.35.60 ..
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् । वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥ ७.३५.६१ ॥
वायुः प्राणः सुखम् वायुः वायुः सर्वम् इदम् जगत् । वायुना सम्परित्यक्तम् न सुखम् विन्दते जगत् ॥ ७।३५।६१ ॥
vāyuḥ prāṇaḥ sukham vāyuḥ vāyuḥ sarvam idam jagat . vāyunā samparityaktam na sukham vindate jagat .. 7.35.61 ..
अद्यैव च परित्यक्तं वायुना जगदायुषा । अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ ७.३५.६२ ॥
अद्या एव च परित्यक्तम् वायुना जगत्-आयुषा । अद्य एव ते निरुच्छ्वासाः काष्ठ-कुड्य-उपमाः स्थिताः ॥ ७।३५।६२ ॥
adyā eva ca parityaktam vāyunā jagat-āyuṣā . adya eva te nirucchvāsāḥ kāṣṭha-kuḍya-upamāḥ sthitāḥ .. 7.35.62 ..
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः । मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ ७.३५.६३ ॥
तत् यामः तत्र यत्र आस्ते मारुतः रुच्-प्रदः हि नः । मा विनाशम् गमिष्याम अ प्रसाद्य अदितेः सुताः ॥ ७।३५।६३ ॥
tat yāmaḥ tatra yatra āste mārutaḥ ruc-pradaḥ hi naḥ . mā vināśam gamiṣyāma a prasādya aditeḥ sutāḥ .. 7.35.63 ..
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः । जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ७.३५.६४ ॥
ततस् प्रजाभिः सहितः प्रजापतिः स देव-गन्धर्व-भुजङ्ग-गुह्यकैः । जगाम तत्र अस्यति यत्र मारुतः सुतम् सुर-इन्द्र-अभिहतम् प्रगृह्य सः ॥ ७।३५।६४ ॥
tatas prajābhiḥ sahitaḥ prajāpatiḥ sa deva-gandharva-bhujaṅga-guhyakaiḥ . jagāma tatra asyati yatra mārutaḥ sutam sura-indra-abhihatam pragṛhya saḥ .. 7.35.64 ..
ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः । चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥ ७.३५.६५ ॥
ततस् अर्क-वैश्वानर-काञ्चन-प्रभम् सुतम् तदा उत्सङ्ग-गतम् सदागतेः । चतुर्मुखः वीक्ष्य कृपाम् अथ अकरोत् स देव-गन्धर्व-ऋषि-यक्ष-राक्षसैः ॥ ७।३५।६५ ॥
tatas arka-vaiśvānara-kāñcana-prabham sutam tadā utsaṅga-gatam sadāgateḥ . caturmukhaḥ vīkṣya kṛpām atha akarot sa deva-gandharva-ṛṣi-yakṣa-rākṣasaiḥ .. 7.35.65 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पंचत्रिंशः सर्गः ॥ ३५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पंचत्रिंशः सर्गः ॥ ३५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe paṃcatriṃśaḥ sargaḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In