This overlay will guide you through the buttons:

| |
|
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः । शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥ ७.३६.१ ॥
ततस् पितामहम् दृष्ट्वा वायुः पुत्र-वध-अर्दितः । शिशुकम् तम् समादाय उत्तस्थौ धातुः अग्रतस् ॥ ७।३६।१ ॥
tatas pitāmaham dṛṣṭvā vāyuḥ putra-vadha-arditaḥ . śiśukam tam samādāya uttasthau dhātuḥ agratas .. 7.36.1 ..
चलकुण्डलमौलिस्रक्तपनीयविभूषणः । पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ॥ ७.३६.२ ॥
। पादयोः न्यपतत् वायुः तिस्रः उपस्थाय वेधसे ॥ ७।३६।२ ॥
. pādayoḥ nyapatat vāyuḥ tisraḥ upasthāya vedhase .. 7.36.2 ..
तं तु वेदविदा तेन लम्बाभरणशोभिना । वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥ ७.३६.३ ॥
तम् तु वेद-विदा तेन लम्ब-आभरण-शोभिना । वायुम् उत्थाप्य हस्तेन शिशुम् तम् परिमृष्टवान् ॥ ७।३६।३ ॥
tam tu veda-vidā tena lamba-ābharaṇa-śobhinā . vāyum utthāpya hastena śiśum tam parimṛṣṭavān .. 7.36.3 ..
स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना । जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ॥ ७.३६.४ ॥
स्पृष्ट-मात्रः ततस् सः अथ स लीलम् पद्मयोनिना । जल-सिक्तम् यथा सस्यम् पुनर् जीवितम् आप्तवान् ॥ ७।३६।४ ॥
spṛṣṭa-mātraḥ tatas saḥ atha sa līlam padmayoninā . jala-siktam yathā sasyam punar jīvitam āptavān .. 7.36.4 ..
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा । चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ॥ ७.३६.५ ॥
प्राणवन्तम् इमम् दृष्ट्वा प्राणः गन्धवहः मुदा । चचार सर्व-भूतेषु सन्निरुद्धम् यथा पुरा ॥ ७।३६।५ ॥
prāṇavantam imam dṛṣṭvā prāṇaḥ gandhavahaḥ mudā . cacāra sarva-bhūteṣu sanniruddham yathā purā .. 7.36.5 ..
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् । शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥ ७.३६.६ ॥
मरुत्-रोधात् विनिर्मुक्ताः ताः प्रजाः मुदिताः अभवन् । शीत-दाह-विनिर्मुक्ताः पद्मिन्यः इव स अम्बुजाः ॥ ७।३६।६ ॥
marut-rodhāt vinirmuktāḥ tāḥ prajāḥ muditāḥ abhavan . śīta-dāha-vinirmuktāḥ padminyaḥ iva sa ambujāḥ .. 7.36.6 ..
ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः । उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥ ७.३६.७ ॥
ततस् त्रि-युग्मः त्रिककुद्-मित्र-धामा त्रिदश-अर्चितः । उवाच देवताः ब्रह्मा मारुत-प्रिय-काम्यया ॥ ७।३६।७ ॥
tatas tri-yugmaḥ trikakud-mitra-dhāmā tridaśa-arcitaḥ . uvāca devatāḥ brahmā māruta-priya-kāmyayā .. 7.36.7 ..
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः । जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ॥ ७.३६.८ ॥
भो महा-इन्द्र-ईश-वरुण-प्रजा-ईश्वर-धन-ईश्वराः । जानताम् अपि वः सर्वम् वक्ष्यामि श्रूयताम् हितम् ॥ ७।३६।८ ॥
bho mahā-indra-īśa-varuṇa-prajā-īśvara-dhana-īśvarāḥ . jānatām api vaḥ sarvam vakṣyāmi śrūyatām hitam .. 7.36.8 ..
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति । तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ॥ ७.३६.९ ॥
अनेन शिशुना कार्यम् कर्तव्यम् वः भविष्यति । तत् वदध्वम् वरान् सर्वे मारुतस्य अस्य तुष्टये ॥ ७।३६।९ ॥
anena śiśunā kāryam kartavyam vaḥ bhaviṣyati . tat vadadhvam varān sarve mārutasya asya tuṣṭaye .. 7.36.9 ..
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः । कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ॥ ७.३६.१० ॥
ततस् सहस्रनयनः प्रीति-युक्तः शुभ-आननः । कुशेशय-मयीम् मालाम् उत्क्षिप्य इदम् वचः अब्रवीत् ॥ ७।३६।१० ॥
tatas sahasranayanaḥ prīti-yuktaḥ śubha-ānanaḥ . kuśeśaya-mayīm mālām utkṣipya idam vacaḥ abravīt .. 7.36.10 ..
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः । नाम्ना वै कपिशार्दूलो भविता हनुमानिति ॥ ७.३६.११ ॥
मद्-कर-उत्सृष्ट-वज्रेण हनुः अस्य यथा हतः । नाम्ना वै कपि-शार्दूलः भविता हनुमान् इति ॥ ७।३६।११ ॥
mad-kara-utsṛṣṭa-vajreṇa hanuḥ asya yathā hataḥ . nāmnā vai kapi-śārdūlaḥ bhavitā hanumān iti .. 7.36.11 ..
अहमस्य प्रदास्यामि परमं वरमद्भुतम् । इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ॥ ७.३६.१२ ॥
अहम् अस्य प्रदास्यामि परमम् वरम् अद्भुतम् । इतस् प्रभृति वज्रस्य मम अवध्यः भविष्यति ॥ ७।३६।१२ ॥
aham asya pradāsyāmi paramam varam adbhutam . itas prabhṛti vajrasya mama avadhyaḥ bhaviṣyati .. 7.36.12 ..
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः । तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ॥ ७.३६.१३ ॥
मार्तण्डः तु अब्रवीत् तत्र भगवान् तिमिर-अपहः । तेजसः अस्य मदीयस्य ददामि शतिकाम् कलाम् ॥ ७।३६।१३ ॥
mārtaṇḍaḥ tu abravīt tatra bhagavān timira-apahaḥ . tejasaḥ asya madīyasya dadāmi śatikām kalām .. 7.36.13 ..
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति । तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ॥ ७.३६.१४ ॥
यदा तु शास्त्राणि अध्येतुम् शक्तिः अस्य भविष्यति । तदा अस्य शास्त्रम् दास्यामि येन वाग्ग्मी भविष्यति ॥ ७।३६।१४ ॥
yadā tu śāstrāṇi adhyetum śaktiḥ asya bhaviṣyati . tadā asya śāstram dāsyāmi yena vāggmī bhaviṣyati .. 7.36.14 ..
नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने । वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति । वर्षायुतशतेनापि मत्पाशादुदकादपि ॥ ७.३६.१५ ॥
न च अस्य भविता कश्चिद् सदृशः शास्त्र-दर्शने । वरुणः च वरम् प्रादात् न अस्य मृत्युः भविष्यति । वर्ष-अयुत-शतेन अपि मद्-पाशात् उदकात् अपि ॥ ७।३६।१५ ॥
na ca asya bhavitā kaścid sadṛśaḥ śāstra-darśane . varuṇaḥ ca varam prādāt na asya mṛtyuḥ bhaviṣyati . varṣa-ayuta-śatena api mad-pāśāt udakāt api .. 7.36.15 ..
यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः । वरं ददामि सन्तुष्ट अविषादं च संयुगे ॥ ७.३६.१६ ॥
यमः दण्डात् अवध्य-त्वम् अरोग-त्वम् च नित्यशस् । वरम् ददामि सन्तुष्ट अविषादम् च संयुगे ॥ ७।३६।१६ ॥
yamaḥ daṇḍāt avadhya-tvam aroga-tvam ca nityaśas . varam dadāmi santuṣṭa aviṣādam ca saṃyuge .. 7.36.16 ..
गदेयं मामिका नैनं संयुगेषु वधिष्यति । इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥ ७.३६.१७ ॥
गदेयम् मामिका न एनम् संयुगेषु वधिष्यति । इति एवम् वर-दः प्राह तदा हि एक-अक्षि-पिङ्गलः ॥ ७।३६।१७ ॥
gadeyam māmikā na enam saṃyugeṣu vadhiṣyati . iti evam vara-daḥ prāha tadā hi eka-akṣi-piṅgalaḥ .. 7.36.17 ..
मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति । इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ॥ ७.३६.१८ ॥
मत्तः मद्-आयुधानाम् च न वध्यः अयम् भविष्यति । इति एवम् शङ्करेण अपि दत्तः अस्य परमः वरः ॥ ७।३६।१८ ॥
mattaḥ mad-āyudhānām ca na vadhyaḥ ayam bhaviṣyati . iti evam śaṅkareṇa api dattaḥ asya paramaḥ varaḥ .. 7.36.18 ..
सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति । दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ॥ ७.३६.१९ ॥
सर्वेषाम् ब्रह्मदण्डानाम् अवध्यः अयम् भविष्यति । दीर्घ-आयुः च महात्मा च इति ब्रह्मा अब्रवीत् वचः ॥ ७।३६।१९ ॥
sarveṣām brahmadaṇḍānām avadhyaḥ ayam bhaviṣyati . dīrgha-āyuḥ ca mahātmā ca iti brahmā abravīt vacaḥ .. 7.36.19 ..
विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् । शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ॥ ७.३६.२० ॥
विश्वकर्मा च दृष्ट्वा एनम् बाल-सूर्य-उपमम् शिशुम् । शिल्पिनाम् प्रवरः प्रादात् वरम् अस्य महामतिः ॥ ७।३६।२० ॥
viśvakarmā ca dṛṣṭvā enam bāla-sūrya-upamam śiśum . śilpinām pravaraḥ prādāt varam asya mahāmatiḥ .. 7.36.20 ..
मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे । तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ॥ ७.३६.२१ ॥
मद्-कृतानि च शस्त्राणि यानि दिव्यानि संयुगे । तैः अवध्य-त्वम् आपन्नः चिरजीवी भविष्यति ॥ ७।३६।२१ ॥
mad-kṛtāni ca śastrāṇi yāni divyāni saṃyuge . taiḥ avadhya-tvam āpannaḥ cirajīvī bhaviṣyati .. 7.36.21 ..
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् । चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ॥ ७.३६.२२ ॥
ततस् सुराणाम् तु वरैः दृष्ट्वा हि एनम् अलङ्कृतम् । चतुर्मुखः तुष्ट-मनाः वायुम् आह जगद्गुरुः ॥ ७।३६।२२ ॥
tatas surāṇām tu varaiḥ dṛṣṭvā hi enam alaṅkṛtam . caturmukhaḥ tuṣṭa-manāḥ vāyum āha jagadguruḥ .. 7.36.22 ..
अमित्राणां भयकरो मित्राणामभयङ्करः । अजेयो भविता पुत्रस्तव मारुत मारुतिः ॥ ७.३६.२३ ॥
अमित्राणाम् भय-करः मित्राणाम् अभयङ्करः । अजेयः भविता पुत्रः तव मारुत मारुतिः ॥ ७।३६।२३ ॥
amitrāṇām bhaya-karaḥ mitrāṇām abhayaṅkaraḥ . ajeyaḥ bhavitā putraḥ tava māruta mārutiḥ .. 7.36.23 ..
कामरूपः कामचारी कामगः प्लवतां वरः । भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ॥ ७.३६.२४ ॥
काम-रूपः काम-चारी कामगः प्लवताम् वरः । भवति अव्याहत-गतिः कीर्तिमान् च भविष्यति ॥ ७।३६।२४ ॥
kāma-rūpaḥ kāma-cārī kāmagaḥ plavatām varaḥ . bhavati avyāhata-gatiḥ kīrtimān ca bhaviṣyati .. 7.36.24 ..
रावणोत्सादनार्थानि रामप्रियकरणि च । रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥ ७.३६.२५ ॥
रावण-उत्सादन-अर्थानि राम-प्रिय-करणि च । रोम-हर्ष-कराणि एष कर्ता कर्माणि संयुगे ॥ ७।३६।२५ ॥
rāvaṇa-utsādana-arthāni rāma-priya-karaṇi ca . roma-harṣa-karāṇi eṣa kartā karmāṇi saṃyuge .. 7.36.25 ..
एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह । यथागतं ययुः सर्वे पितामहपुरोगमाः ॥ ७.३६.२६ ॥
एवम् उक्त्वा तम् आमन्त्र्य मारुतम् तु अमरैः सह । यथागतम् ययुः सर्वे पितामह-पुरोगमाः ॥ ७।३६।२६ ॥
evam uktvā tam āmantrya mārutam tu amaraiḥ saha . yathāgatam yayuḥ sarve pitāmaha-purogamāḥ .. 7.36.26 ..
सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् । अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ॥ ७.३६.२७ ॥
सः अपि गन्धवहः पुत्रम् प्रगृह्य गृहम् आनयत् । अञ्जनायाः तम् आचख्यौ वरदत्तम् विनिर्गतः ॥ ७।३६।२७ ॥
saḥ api gandhavahaḥ putram pragṛhya gṛham ānayat . añjanāyāḥ tam ācakhyau varadattam vinirgataḥ .. 7.36.27 ..
प्राप्य राम वरानेष वरदानसमन्वितः । बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ॥ ७.३६.२८ ॥
प्राप्य राम वरान् एष वर-दान-समन्वितः । बलेन आत्मनि संस्थेन सः अपूर्यत यथा अर्णवः ॥ ७।३६।२८ ॥
prāpya rāma varān eṣa vara-dāna-samanvitaḥ . balena ātmani saṃsthena saḥ apūryata yathā arṇavaḥ .. 7.36.28 ..
तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः । आश्रमेषु महर्षीणामपराध्यति निर्भयः ॥ ७.३६.२९ ॥
तरसा पूर्यमाणः अपि तदा वानर-पुङ्गवः । आश्रमेषु महा-ऋषीणाम् अपराध्यति निर्भयः ॥ ७।३६।२९ ॥
tarasā pūryamāṇaḥ api tadā vānara-puṅgavaḥ . āśrameṣu mahā-ṛṣīṇām aparādhyati nirbhayaḥ .. 7.36.29 ..
स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् । भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ॥ ७.३६.३० ॥
स्रुच्-भाण्डानि अग्निहोत्रम् च वल्कल-अजिन-सञ्चयान् । भग्न-विच्छिन्न-विध्वस्तान् संशान्तानाम् करोति अयम् ॥ ७।३६।३० ॥
sruc-bhāṇḍāni agnihotram ca valkala-ajina-sañcayān . bhagna-vicchinna-vidhvastān saṃśāntānām karoti ayam .. 7.36.30 ..
एवंविधानि कर्माणि प्रावर्तत महाबलः । सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ॥ ७.३६.३१ ॥
एवंविधानि कर्माणि प्रावर्तत महा-बलः । सर्वेषाम् ब्रह्मदण्डानाम् अवध्यः शम्भुना कृतः ॥ ७।३६।३१ ॥
evaṃvidhāni karmāṇi prāvartata mahā-balaḥ . sarveṣām brahmadaṇḍānām avadhyaḥ śambhunā kṛtaḥ .. 7.36.31 ..
जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ॥ ७.३६.३२ ॥
जानन्तः ऋषयः तम् वै सहन्ते तस्य शक्तितः ॥ ७।३६।३२ ॥
jānantaḥ ṛṣayaḥ tam vai sahante tasya śaktitaḥ .. 7.36.32 ..
यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः । प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ॥ ७.३६.३३ ॥
यथा केसरिणा तु एष वायुना सः अञ्जनासुतः । प्रतिषिद्धः अपि मर्यादाम् लङ्घयति एव वानरः ॥ ७।३६।३३ ॥
yathā kesariṇā tu eṣa vāyunā saḥ añjanāsutaḥ . pratiṣiddhaḥ api maryādām laṅghayati eva vānaraḥ .. 7.36.33 ..
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः । शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ॥ ७.३६.३४ ॥
ततस् महा-ऋषयः क्रुद्धाः भृगु-अङ्गिरस-वंश-जाः । शेपुः एनम् रघु-श्रेष्ठ न अति क्रुद्ध-अति मन्यवः ॥ ७।३६।३४ ॥
tatas mahā-ṛṣayaḥ kruddhāḥ bhṛgu-aṅgirasa-vaṃśa-jāḥ . śepuḥ enam raghu-śreṣṭha na ati kruddha-ati manyavaḥ .. 7.36.34 ..
बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम । तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः । यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ॥ ७.३६.३५ ॥
बाधसे यत् समाश्रित्य बलम् अस्मान् प्लवङ्गम । तद्-दीर्घ-कालम् वेत्तासि न अस्माकम् शाप-मोहितः । यदा ते स्मार्यते कीर्तिः तदा ते वर्धते बलम् ॥ ७।३६।३५ ॥
bādhase yat samāśritya balam asmān plavaṅgama . tad-dīrgha-kālam vettāsi na asmākam śāpa-mohitaḥ . yadā te smāryate kīrtiḥ tadā te vardhate balam .. 7.36.35 ..
ततस्स हृततेजौजा महर्षिवचनौजसा । एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ॥ ७.३६.३६ ॥
ततस् स हृत-तेजाः-ओजाः महा-ऋषि-वचन-ओजसा । तानि एव मृदु-भावम् गतः अचरत् ॥ ७।३६।३६ ॥
tatas sa hṛta-tejāḥ-ojāḥ mahā-ṛṣi-vacana-ojasā . tāni eva mṛdu-bhāvam gataḥ acarat .. 7.36.36 ..
अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता । सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ॥ ७.३६.३७ ॥
अथ ऋक्षरजसः नाम वालि-सुग्रीवयोः पिता । सर्व-वानर-राजा आसीत् तेजसा भास्कर-प्रभः ॥ ७।३६।३७ ॥
atha ṛkṣarajasaḥ nāma vāli-sugrīvayoḥ pitā . sarva-vānara-rājā āsīt tejasā bhāskara-prabhaḥ .. 7.36.37 ..
स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः । स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ॥ ७.३६.३८ ॥
स तु राज्यम् चिरम् कृत्वा वानराणाम् हरि-ईश्वरः । स च ऋक्षरजाः नाम कालधर्मेण सङ्गतः ॥ ७।३६।३८ ॥
sa tu rājyam ciram kṛtvā vānarāṇām hari-īśvaraḥ . sa ca ṛkṣarajāḥ nāma kāladharmeṇa saṅgataḥ .. 7.36.38 ..
तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः । पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ॥ ७.३६.३९ ॥
तस्मिन् अस्तमिते च अथ मन्त्रिभिः मन्त्र-कोविदैः । पित्र्ये पदे कृतः वाली सुग्रीवः वालिनः पदे ॥ ७।३६।३९ ॥
tasmin astamite ca atha mantribhiḥ mantra-kovidaiḥ . pitrye pade kṛtaḥ vālī sugrīvaḥ vālinaḥ pade .. 7.36.39 ..
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् । आबाल्यं सख्यमभवदनिलस्याग्निना यथा ॥ ७.३६.४० ॥
सुग्रीवेण समम् तु अस्य अद्वैधम् छिद्र-वर्जितम् । आबाल्यम् सख्यम् अभवत् अनिलस्य अग्निना यथा ॥ ७।३६।४० ॥
sugrīveṇa samam tu asya advaidham chidra-varjitam . ābālyam sakhyam abhavat anilasya agninā yathā .. 7.36.40 ..
एष शापवशादेव न वेद बलमात्मनः । वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ॥ ७.३६.४१ ॥
एष शाप-वशात् एव न वेद बलम् आत्मनः । वालि-सुग्रीवयोः वैरम् यदा राम समुत्थितम् ॥ ७।३६।४१ ॥
eṣa śāpa-vaśāt eva na veda balam ātmanaḥ . vāli-sugrīvayoḥ vairam yadā rāma samutthitam .. 7.36.41 ..
न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ॥ ७.३६.४२ ॥
न हि एष राम सुग्रीवः भ्राम्यमाणः अपि वालिना ॥ ७।३६।४२ ॥
na hi eṣa rāma sugrīvaḥ bhrāmyamāṇaḥ api vālinā .. 7.36.42 ..
देव जानाति न ह्येष बलमात्मनि मारुतिः । ऋषिशापाहृतबलस्तदैष कपिसत्तमः ॥ ७.३६.४३ ॥
देव जानाति न हि एष बलम् आत्मनि मारुतिः । ऋषि-शाप-आहृत-बलः तदा एष कपि-सत्तमः ॥ ७।३६।४३ ॥
deva jānāti na hi eṣa balam ātmani mārutiḥ . ṛṣi-śāpa-āhṛta-balaḥ tadā eṣa kapi-sattamaḥ .. 7.36.43 ..
सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ॥ ७.३६.४४ ॥
सिंहः कुञ्जर-रुद्धः वा आस्थितः सहितः रणे ॥ ७।३६।४४ ॥
siṃhaḥ kuñjara-ruddhaḥ vā āsthitaḥ sahitaḥ raṇe .. 7.36.44 ..
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च । गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके ॥ ७.३६.४५ ॥
पराक्रम-उत्साह-मति-प्रताप-सौशील्य-माधुर्य-नय-अनयैः च । गाम्भीर्य-चातुर्य-सु वीर्य-धैर्यैः हनूमतः कः अभ्यधिकः अस्ति लोके ॥ ७।३६।४५ ॥
parākrama-utsāha-mati-pratāpa-sauśīlya-mādhurya-naya-anayaiḥ ca . gāmbhīrya-cāturya-su vīrya-dhairyaiḥ hanūmataḥ kaḥ abhyadhikaḥ asti loke .. 7.36.45 ..
असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः । उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ॥ ७.३६.४६ ॥
असौ पुनर् व्याकरणम् ग्रहीष्यन् सूर्य-उन्मुखः प्रष्टु-मनाः कपीन्द्रः । उद्यत्-गिरेः अस्त-गिरिम् जगाम ग्रन्थम् महत्-धारयन-प्रमेयः ॥ ७।३६।४६ ॥
asau punar vyākaraṇam grahīṣyan sūrya-unmukhaḥ praṣṭu-manāḥ kapīndraḥ . udyat-gireḥ asta-girim jagāma grantham mahat-dhārayana-prameyaḥ .. 7.36.46 ..
ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः । नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ॥ ७.३६.४७ ॥
स सूत्र-वृत्ति-अर्थ-पदम् महार्थम् स सङ्ग्रहम् वै कपीन्द्रः । न हि अस्य कश्चिद् सदृशः अस्ति शास्त्रे वैशारदे छन्द-गतौ तथा एव ॥ ७।३६।४७ ॥
sa sūtra-vṛtti-artha-padam mahārtham sa saṅgraham vai kapīndraḥ . na hi asya kaścid sadṛśaḥ asti śāstre vaiśārade chanda-gatau tathā eva .. 7.36.47 ..
सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् । सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ॥ ७.३६.४८ ॥
सर्वासु विद्यासु तपः-विधाने प्रस्पर्धते अयः हि गुरुम् सुराणाम् । सः अयम् नव-व्याकरण-अर्थ-वेत्ता ब्रह्मा भविष्यति अपि ते प्रसादात् ॥ ७।३६।४८ ॥
sarvāsu vidyāsu tapaḥ-vidhāne praspardhate ayaḥ hi gurum surāṇām . saḥ ayam nava-vyākaraṇa-artha-vettā brahmā bhaviṣyati api te prasādāt .. 7.36.48 ..
प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥ ७.३६.४९ ॥
प्रवीविवक्षोः इव सागरस्य लोकान् दिधक्षोः इव पावकस्य युग-क्षये हि एव यथा अन्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥ ७।३६।४९ ॥
pravīvivakṣoḥ iva sāgarasya lokān didhakṣoḥ iva pāvakasya yuga-kṣaye hi eva yathā antakasya hanūmataḥ sthāsyati kaḥ purastāt .. 7.36.49 ..
एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः । सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ॥ ७.३६.५० ॥
एषा इव च अन्ये च महा-कपि-इन्द्राः सुग्रीव-मैन्द-द्विविदाः स नीलाः । स तार-तारेय-नलाः स रम्भाः त्वद्-कारणात् राम सुरैः हि सृष्टाः ॥ ७।३६।५० ॥
eṣā iva ca anye ca mahā-kapi-indrāḥ sugrīva-mainda-dvividāḥ sa nīlāḥ . sa tāra-tāreya-nalāḥ sa rambhāḥ tvad-kāraṇāt rāma suraiḥ hi sṛṣṭāḥ .. 7.36.50 ..
तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि । हनूमतो बालभावे कर्मैतत्कथितं मया ॥ ७.३६.५१ ॥
तदा इद् कथितम् सर्वम् यत् माम् त्वम् परिपृच्छसि । हनूमतः बाल-भावे कर्म एतत् कथितम् मया ॥ ७।३६।५१ ॥
tadā id kathitam sarvam yat mām tvam paripṛcchasi . hanūmataḥ bāla-bhāve karma etat kathitam mayā .. 7.36.51 ..
श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च । विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ॥ ७.३६.५२ ॥
श्रुत्वा अगस्त्यस्य कथितम् रामः सौमित्रिः एव च । विस्मयम् परमम् जग्मुः वानराः राक्षसैः सह ॥ ७।३६।५२ ॥
śrutvā agastyasya kathitam rāmaḥ saumitriḥ eva ca . vismayam paramam jagmuḥ vānarāḥ rākṣasaiḥ saha .. 7.36.52 ..
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया । दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ॥ ७.३६.५३ ॥
अगस्त्यः तु अब्रवीत् रामम् सर्वम् एतत् श्रुतम् त्वया । दृष्टः सम्भाषितः च असि राम गच्छामहे वयम् ॥ ७।३६।५३ ॥
agastyaḥ tu abravīt rāmam sarvam etat śrutam tvayā . dṛṣṭaḥ sambhāṣitaḥ ca asi rāma gacchāmahe vayam .. 7.36.53 ..
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः । प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ॥ ७.३६.५४ ॥
श्रुत्वा एतत् राघवः वाक्यम् अगस्त्यस्य उग्र-तेजसः । प्राञ्जलिः प्रणतः च अपि महा-ऋषिम् इदम् अब्रवीत् ॥ ७।३६।५४ ॥
śrutvā etat rāghavaḥ vākyam agastyasya ugra-tejasaḥ . prāñjaliḥ praṇataḥ ca api mahā-ṛṣim idam abravīt .. 7.36.54 ..
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः । युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ॥ ७.३६.५५ ॥
अद्य मे देवताः हृष्टाः पितरः प्रपितामहाः । युष्माकम् दर्शनात् एव नित्यम् तुष्टाः स बान्धवाः ॥ ७।३६।५५ ॥
adya me devatāḥ hṛṣṭāḥ pitaraḥ prapitāmahāḥ . yuṣmākam darśanāt eva nityam tuṣṭāḥ sa bāndhavāḥ .. 7.36.55 ..
विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः । तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ॥ ७.३६.५६ ॥
विज्ञाप्यम् तु मम एतत् हि यत् वदामि आगत-स्पृहः । तत् भवद्भिः मम कृते कर्तव्यम् अनुकम्पया ॥ ७।३६।५६ ॥
vijñāpyam tu mama etat hi yat vadāmi āgata-spṛhaḥ . tat bhavadbhiḥ mama kṛte kartavyam anukampayā .. 7.36.56 ..
पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः । क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ॥ ७.३६.५७ ॥
पौर-जानपदान् स्थाप्य स्व-कार्येषु अहम् आगतः । क्रतून् एव करिष्यामि प्रभावात् भवताम् सताम् ॥ ७।३६।५७ ॥
paura-jānapadān sthāpya sva-kāryeṣu aham āgataḥ . kratūn eva kariṣyāmi prabhāvāt bhavatām satām .. 7.36.57 ..
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् । भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ॥ ७.३६.५८ ॥
सदस्याः मम यज्ञेषु भवन्तः नित्यम् एव तत् । भविष्यथ महा-वीर्याः मम अनुग्रह-काङ्क्षिणः ॥ ७।३६।५८ ॥
sadasyāḥ mama yajñeṣu bhavantaḥ nityam eva tat . bhaviṣyatha mahā-vīryāḥ mama anugraha-kāṅkṣiṇaḥ .. 7.36.58 ..
अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् । अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ॥ ७.३६.५९ ॥
अहम् युष्मान् समाश्रित्य तपः-निर्धूत-कल्मषान् । अनुग्रहीतः पितृभिः भविष्यामि सु निर्वृतः ॥ ७।३६।५९ ॥
aham yuṣmān samāśritya tapaḥ-nirdhūta-kalmaṣān . anugrahītaḥ pitṛbhiḥ bhaviṣyāmi su nirvṛtaḥ .. 7.36.59 ..
तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः । अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ॥ ७.३६.६० ॥
तत् आगन्तव्यम् अनिशम् भवद्भिः इह सङ्गतैः । अगस्त्य-आद्याः तु तत् श्रुत्वा ऋषयः संशित-व्रताः ॥ ७।३६।६० ॥
tat āgantavyam aniśam bhavadbhiḥ iha saṅgataiḥ . agastya-ādyāḥ tu tat śrutvā ṛṣayaḥ saṃśita-vratāḥ .. 7.36.60 ..
एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ॥ ७.३६.६१ ॥
एवम् अस्तु इति तम् च उक्त्वा प्रयातुम् उपचक्रमुः ॥ ७।३६।६१ ॥
evam astu iti tam ca uktvā prayātum upacakramuḥ .. 7.36.61 ..
एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् । राघवश्च तमेवार्थं चिन्तयामास विस्मितः ॥ ७.३६.६२ ॥
एवम् उक्त्वा गताः सर्वे ऋषयः ते यथागतम् । राघवः च तम् एव अर्थम् चिन्तयामास विस्मितः ॥ ७।३६।६२ ॥
evam uktvā gatāḥ sarve ṛṣayaḥ te yathāgatam . rāghavaḥ ca tam eva artham cintayāmāsa vismitaḥ .. 7.36.62 ..
ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् । सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः । प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् ॥ ७.३६.६३ ॥
ततस् अस्तम् भास्करे याते विसृज्य नृप-वानरान् । सन्ध्याम् उपास्य विधिवत् तदा नर-वर-उत्तमः । प्रवृत्तायाम् रजन्याम् तु सः अन्तःपुरचरः अभवत् ॥ ७।३६।६३ ॥
tatas astam bhāskare yāte visṛjya nṛpa-vānarān . sandhyām upāsya vidhivat tadā nara-vara-uttamaḥ . pravṛttāyām rajanyām tu saḥ antaḥpuracaraḥ abhavat .. 7.36.63 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaṭtriṃśaḥ sargaḥ .. 36 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In