This overlay will guide you through the buttons:

| |
|
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः । शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥ ७.३६.१ ॥
tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ . śiśukaṃ taṃ samādāya uttasthau dhāturagrataḥ .. 7.36.1 ..
चलकुण्डलमौलिस्रक्तपनीयविभूषणः । पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ॥ ७.३६.२ ॥
calakuṇḍalamaulisraktapanīyavibhūṣaṇaḥ . pādayornyapatadvāyustisropasthāya vedhase .. 7.36.2 ..
तं तु वेदविदा तेन लम्बाभरणशोभिना । वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥ ७.३६.३ ॥
taṃ tu vedavidā tena lambābharaṇaśobhinā . vāyumutthāpya hastena śiśuṃ taṃ parimṛṣṭavān .. 7.36.3 ..
स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना । जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ॥ ७.३६.४ ॥
spṛṣṭamātrastataḥ so 'tha salīlaṃ padmayoninā . jalasiktaṃ yathā sasyaṃ punarjīvitamāptavān .. 7.36.4 ..
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा । चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ॥ ७.३६.५ ॥
prāṇavantamimaṃ dṛṣṭvā prāṇo gandhavaho mudā . cacāra sarvabhūteṣu sanniruddhaṃ yathā purā .. 7.36.5 ..
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् । शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥ ७.३६.६ ॥
marudrodhādvinirmuktāstāḥ prajā muditā 'bhavan . śītadāhavinirmuktāḥ padminya iva sāmbujāḥ .. 7.36.6 ..
ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः । उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥ ७.३६.७ ॥
tatastriyugmastrikakut_öitradhāmā tridaśārcitaḥ . uvāca devatā brahmā mārutapriyakāmyayā .. 7.36.7 ..
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः । जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ॥ ७.३६.८ ॥
bho mahendreśavaruṇaprajeśvaradhaneśvarāḥ . jānatāmapi vaḥ sarvaṃ vakṣyāmi śrūyatāṃ hitam .. 7.36.8 ..
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति । तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ॥ ७.३६.९ ॥
anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati . tadvadadhvaṃ varānsarve mārutasyāsya tuṣṭaye .. 7.36.9 ..
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः । कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ॥ ७.३६.१० ॥
tataḥ sahasranayanaḥ prītiyuktaḥ śubhānanaḥ . kuśeśayamayīṃ mālāmutkṣipyedaṃ vaco 'bravīt .. 7.36.10 ..
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः । नाम्ना वै कपिशार्दूलो भविता हनुमानिति ॥ ७.३६.११ ॥
matkarotsṛṣṭavajreṇa hanurasya yathā hataḥ . nāmnā vai kapiśārdūlo bhavitā hanumāniti .. 7.36.11 ..
अहमस्य प्रदास्यामि परमं वरमद्भुतम् । इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ॥ ७.३६.१२ ॥
ahamasya pradāsyāmi paramaṃ varamadbhutam . itaḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati .. 7.36.12 ..
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः । तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ॥ ७.३६.१३ ॥
mārtaṇḍastvabravīttatra bhagavāṃstimirāpahaḥ . tejaso 'sya madīyasya dadāmi śatikāṃ kalām .. 7.36.13 ..
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति । तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ॥ ७.३६.१४ ॥
yadā tu śāstrāṇyadhyetuṃ śaktirasya bhaviṣyati . tadāsya śāstraṃ dāsyāmi yena vāggmī bhaviṣyati .. 7.36.14 ..
नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने । वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति । वर्षायुतशतेनापि मत्पाशादुदकादपि ॥ ७.३६.१५ ॥
nacāsya bhavitā kaścitsadṛśaḥ śāstradarśane . varuṇaśca varaṃ prādānnāsya mṛtyurbhaviṣyati . varṣāyutaśatenāpi matpāśādudakādapi .. 7.36.15 ..
यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः । वरं ददामि सन्तुष्ट अविषादं च संयुगे ॥ ७.३६.१६ ॥
yamo daṇḍādavadhyatvamarogatvaṃ ca nityaśaḥ . varaṃ dadāmi santuṣṭa aviṣādaṃ ca saṃyuge .. 7.36.16 ..
गदेयं मामिका नैनं संयुगेषु वधिष्यति । इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥ ७.३६.१७ ॥
gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati . ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ .. 7.36.17 ..
मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति । इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ॥ ७.३६.१८ ॥
matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati . ityevaṃ śaṅkareṇāpi datto 'sya paramo varaḥ .. 7.36.18 ..
सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति । दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ॥ ७.३६.१९ ॥
sarveṣāṃ brahmadaṇḍānāmavadhyo 'yaṃ bhaviṣyati . dīrghāyuśca mahātmā ca iti brahmābravīdvacaḥ .. 7.36.19 ..
विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् । शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ॥ ७.३६.२० ॥
viśvakarmā ca dṛṣṭvainaṃ bālasūryopamaṃ śiśum . śilpināṃ pravaraḥ prādādvaramasya mahāmatiḥ .. 7.36.20 ..
मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे । तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ॥ ७.३६.२१ ॥
matkṛtāni ca śastrāṇi yāni divyāni saṃyuge . tairavadhyatvamāpannaścirajīvī bhaviṣyati .. 7.36.21 ..
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् । चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ॥ ७.३६.२२ ॥
tataḥ surāṇāṃ tu varairdṛṣṭvā hyenamalaṅkṛtam . caturmukhastuṣṭamanā vāyumāha jagadguruḥ .. 7.36.22 ..
अमित्राणां भयकरो मित्राणामभयङ्करः । अजेयो भविता पुत्रस्तव मारुत मारुतिः ॥ ७.३६.२३ ॥
amitrāṇāṃ bhayakaro mitrāṇāmabhayaṅkaraḥ . ajeyo bhavitā putrastava māruta mārutiḥ .. 7.36.23 ..
कामरूपः कामचारी कामगः प्लवतां वरः । भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ॥ ७.३६.२४ ॥
kāmarūpaḥ kāmacārī kāmagaḥ plavatāṃ varaḥ . bhavatyavyāhatagatiḥ kīrtimāṃśca bhaviṣyati .. 7.36.24 ..
रावणोत्सादनार्थानि रामप्रियकरणि च । रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥ ७.३६.२५ ॥
rāvaṇotsādanārthāni rāmapriyakaraṇi ca . romaharṣakarāṇyeṣa kartā karmāṇi saṃyuge .. 7.36.25 ..
एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह । यथागतं ययुः सर्वे पितामहपुरोगमाः ॥ ७.३६.२६ ॥
evamuktvā tamāmantrya mārutaṃ tvamaraiḥ saha . yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ .. 7.36.26 ..
सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् । अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ॥ ७.३६.२७ ॥
so 'pi gandhavahaḥ putraṃ pragṛhya gṛhamānayat . añjanāyāstamācakhyau varadattaṃ vinirgataḥ .. 7.36.27 ..
प्राप्य राम वरानेष वरदानसमन्वितः । बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ॥ ७.३६.२८ ॥
prāpya rāma varāneṣa varadānasamanvitaḥ . balenātmani saṃsthena so 'pūryata yathā 'rṇavaḥ .. 7.36.28 ..
तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः । आश्रमेषु महर्षीणामपराध्यति निर्भयः ॥ ७.३६.२९ ॥
tarasā pūryamāṇo 'pi tadā vānarapuṅgavaḥ . āśrameṣu maharṣīṇāmaparādhyati nirbhayaḥ .. 7.36.29 ..
स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् । भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ॥ ७.३६.३० ॥
srugbhāṇḍānyagnihotraṃ ca valkalājinasañcayān . bhagnavicchinnavidhvastānsaṃśāntānāṃ karotyayam .. 7.36.30 ..
एवंविधानि कर्माणि प्रावर्तत महाबलः । सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ॥ ७.३६.३१ ॥
evaṃvidhāni karmāṇi prāvartata mahābalaḥ . sarveṣāṃ brahmadaṇḍānāmavadhyaḥ śambhunā kṛtaḥ .. 7.36.31 ..
जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ॥ ७.३६.३२ ॥
jānanta ṛṣayastaṃ vai sahante tasya śaktitaḥ .. 7.36.32 ..
यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः । प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ॥ ७.३६.३३ ॥
yathā kesariṇā tveṣa vāyunā so 'ñjanāsutaḥ . pratiṣiddho 'pi maryādāṃ laṅghayatyeva vānaraḥ .. 7.36.33 ..
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः । शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ॥ ७.३६.३४ ॥
tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ . śepurenaṃ raghuśreṣṭha nātikruddhātimanyavaḥ .. 7.36.34 ..
बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम । तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः । यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ॥ ७.३६.३५ ॥
bādhase yatsamāśritya balamasmānplavaṅgama . taddīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ . yadā te smāryate kīrtistadā te vardhate balam .. 7.36.35 ..
ततस्स हृततेजौजा महर्षिवचनौजसा । एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ॥ ७.३६.३६ ॥
tatassa hṛtatejaujā maharṣivacanaujasā . eṣośramāṇi tānyeva mṛdubhāvaṃ gato 'carat .. 7.36.36 ..
अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता । सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ॥ ७.३६.३७ ॥
atharkṣarajaso nāma vālisugrīvayoḥ pitā . sarvavānararājā ' 'sīttejasā bhāskaraprabhaḥ .. 7.36.37 ..
स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः । स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ॥ ७.३६.३८ ॥
sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ . sa ca ṛkṣarajā nāma kāladharmeṇa saṅgataḥ .. 7.36.38 ..
तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः । पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ॥ ७.३६.३९ ॥
tasminnastamite cātha mantribhirmantrakovidaiḥ . pitrye pade kṛto vālī sugrīvo vālinaḥ pade .. 7.36.39 ..
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् । आबाल्यं सख्यमभवदनिलस्याग्निना यथा ॥ ७.३६.४० ॥
sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam . ābālyaṃ sakhyamabhavadanilasyāgninā yathā .. 7.36.40 ..
एष शापवशादेव न वेद बलमात्मनः । वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ॥ ७.३६.४१ ॥
eṣa śāpavaśādeva na veda balamātmanaḥ . vālisugrīvayorvairaṃ yadā rāma samutthitam .. 7.36.41 ..
न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ॥ ७.३६.४२ ॥
na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā .. 7.36.42 ..
देव जानाति न ह्येष बलमात्मनि मारुतिः । ऋषिशापाहृतबलस्तदैष कपिसत्तमः ॥ ७.३६.४३ ॥
deva jānāti na hyeṣa balamātmani mārutiḥ . ṛṣiśāpāhṛtabalastadaiṣa kapisattamaḥ .. 7.36.43 ..
सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ॥ ७.३६.४४ ॥
siṃhaḥ kuñjararuddho vā āsthitaḥ sahito raṇe .. 7.36.44 ..
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च । गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके ॥ ७.३६.४५ ॥
parākramotsāhamatipratāpasauśīlyamādhuryanayānayaiśca . gāmbhīryacāturyasuvīryadhairyairhanūmataḥ ko 'bhyadhiko 'sti loke .. 7.36.45 ..
असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः । उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ॥ ७.३६.४६ ॥
asau punarvyākaraṇaṃ grahīṣyansūryonmukhaḥ praṣṭumanā kapīndraḥ . udyadgirerastagiriṃ jagāma granthaṃ mahaddhārayanaprameyaḥ .. 7.36.46 ..
ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः । नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ॥ ७.३६.४७ ॥
sasūtravṛttyarthapadaṃ mahārthaṃ sasaṅgrahaṃ sāddhyati vai kapīndraḥ . nahyasya kaścitsadṛśo 'sti śāstre vaiśārade cchandagatau tathaiva .. 7.36.47 ..
सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् । सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ॥ ७.३६.४८ ॥
sarvāsu vidyāsu tapovidhāne praspardhate 'yo hi guruṃ surāṇām . so 'yaṃ navavyākaraṇārthavettā brahmā bhaviṣyatyapi te prasādāt .. 7.36.48 ..
प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥ ७.३६.४९ ॥
pravīvivakṣoriva sāgarasya lokāndidhakṣoriva pāvakasyayugakṣaye hyeva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt .. 7.36.49 ..
एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः । सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ॥ ७.३६.५० ॥
eṣeva cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ . satāratāreyanalāḥ sarambhāstvatkāraṇādrāma surairhi sṛṣṭāḥ .. 7.36.50 ..
तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि । हनूमतो बालभावे कर्मैतत्कथितं मया ॥ ७.३६.५१ ॥
tadetkathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi . hanūmato bālabhāve karmaitatkathitaṃ mayā .. 7.36.51 ..
श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च । विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ॥ ७.३६.५२ ॥
śrutvā 'gastyasya kathitaṃ rāmaḥ saumitrireva ca . vismayaṃ paramaṃ jagmurvānarā rākṣasaiḥ saha .. 7.36.52 ..
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया । दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ॥ ७.३६.५३ ॥
agastyastvabravīdrāmaṃ sarvametachrutaṃ tvayā . dṛṣṭaḥ sambhāṣitaścāsi rāma gacchāmahe vayam .. 7.36.53 ..
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः । प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ॥ ७.३६.५४ ॥
śrutvaitadrāghavo vākyamagastyasyogratejasaḥ . prāñjaliḥ praṇataścāpi maharṣimidamabravīt .. 7.36.54 ..
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः । युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ॥ ७.३६.५५ ॥
adya me devatā hṛṣṭāḥ pitaraḥ prapitāmahāḥ . yuṣmākaṃ darśanādeva nityaṃ tuṣṭāḥ sabāndhavāḥ .. 7.36.55 ..
विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः । तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ॥ ७.३६.५६ ॥
vijñāpyaṃ tu mamaitaddhi yadvadāmyāgataspṛhaḥ . tadbhavadbhirmama kṛte kartavyamanukampayā .. 7.36.56 ..
पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः । क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ॥ ७.३६.५७ ॥
paurajānapadānsthāpya svakāryeṣvahamāgataḥ . kratūneva kariṣyāmi prabhāvādbhavatāṃ satām .. 7.36.57 ..
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् । भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ॥ ७.३६.५८ ॥
sadasyā mama yajñeṣu bhavanto nityameva tat . bhaviṣyatha mahāvīryā mamānugrahakāṅkṣiṇaḥ .. 7.36.58 ..
अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् । अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ॥ ७.३६.५९ ॥
ahaṃ yuṣmānsamāśritya taponirdhūtakalmaṣān . anugrahītaḥ pitṛbhirbhaviṣyāmi sunirvṛtaḥ .. 7.36.59 ..
तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः । अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ॥ ७.३६.६० ॥
tadāgantavyamaniśaṃ bhavadbhiriha saṅgataiḥ . agastyādyāstu tacchrutvā ṛṣayaḥ saṃśitavratāḥ .. 7.36.60 ..
एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ॥ ७.३६.६१ ॥
evamastviti taṃ coktvā prayātumupacakramuḥ .. 7.36.61 ..
एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् । राघवश्च तमेवार्थं चिन्तयामास विस्मितः ॥ ७.३६.६२ ॥
evamuktvā gatāḥ sarve ṛṣayaste yathāgatam . rāghavaśca tamevārthaṃ cintayāmāsa vismitaḥ .. 7.36.62 ..
ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् । सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः । प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् ॥ ७.३६.६३ ॥
tato 'staṃ bhāskare yāte visṛjya nṛpavānarān . sandhyāmupāsya vidhivattadā naravarottamaḥ . pravṛttāyāṃ rajanyāṃ tu so 'ntaḥpuracaro 'bhavat .. 7.36.63 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaṭtriṃśaḥ sargaḥ .. 36 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In