This overlay will guide you through the buttons:

| |
|
अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि । व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ॥ ७.३७.१ ॥
अभिषिक्ते तु काकुत्स्थे धर्मेण विदित-आत्मनि । व्यतीता या निशा पूर्वा पौराणाम् हर्ष-वर्धिनी ॥ ७।३७।१ ॥
abhiṣikte tu kākutsthe dharmeṇa vidita-ātmani . vyatītā yā niśā pūrvā paurāṇām harṣa-vardhinī .. 7.37.1 ..
तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः । वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥ ७.३७.२ ॥
तस्याम् रजन्याम् व्युष्टायाम् प्रातर् नृपति-बोधकाः । वन्दिनः समुपातिष्ठन् सौम्याः नृपति-वेश्मनि ॥ ७।३७।२ ॥
tasyām rajanyām vyuṣṭāyām prātar nṛpati-bodhakāḥ . vandinaḥ samupātiṣṭhan saumyāḥ nṛpati-veśmani .. 7.37.2 ..
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः । तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः ॥ ७.३७.३ ॥
ते रक्त-कण्ठिनः सर्वे किन्नराः इव शिक्षिताः । तुष्टुवुः नपतिम् वीरम् यथावत् सम्प्रहर्षिणः ॥ ७।३७।३ ॥
te rakta-kaṇṭhinaḥ sarve kinnarāḥ iva śikṣitāḥ . tuṣṭuvuḥ napatim vīram yathāvat sampraharṣiṇaḥ .. 7.37.3 ..
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन । जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ॥ ७.३७.४ ॥
वीर सौम्य प्रबुध्यस्व कौसल्या-प्रीति-वर्धन । जगत् हि सर्वम् स्वपिति त्वयि सुप्ते नराधिप ॥ ७।३७।४ ॥
vīra saumya prabudhyasva kausalyā-prīti-vardhana . jagat hi sarvam svapiti tvayi supte narādhipa .. 7.37.4 ..
विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव । बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ॥ ७.३७.५ ॥
विक्रमः ते यथा विष्णोः रूपम् च एव अश्विनोः इव । बुद्ध्या बृहस्पतेः तुल्यः प्रजापति-समः हि असि ॥ ७।३७।५ ॥
vikramaḥ te yathā viṣṇoḥ rūpam ca eva aśvinoḥ iva . buddhyā bṛhaspateḥ tulyaḥ prajāpati-samaḥ hi asi .. 7.37.5 ..
क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः । वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ॥ ७.३७.६ ॥
क्षमा ते पृथिवी-तुल्या तेजसा भास्कर-उपमः । वेगः ते वायुना तुल्यः गाम्भीर्यम् उदधेः इव ॥ ७।३७।६ ॥
kṣamā te pṛthivī-tulyā tejasā bhāskara-upamaḥ . vegaḥ te vāyunā tulyaḥ gāmbhīryam udadheḥ iva .. 7.37.6 ..
अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् । नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ॥ ७.३७.७ ॥
अप्रकम्प्यः यता स्थाणुः चन्द्रे सौम्य-त्वम् ईदृशम् । न ईदृशाः पार्थिवाः पूर्वम् भवितारः नराधिप ॥ ७।३७।७ ॥
aprakampyaḥ yatā sthāṇuḥ candre saumya-tvam īdṛśam . na īdṛśāḥ pārthivāḥ pūrvam bhavitāraḥ narādhipa .. 7.37.7 ..
यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः । न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ॥ ७.३७.८ ॥
यथा त्वम् अति दुर्धर्षः धर्म-नित्यः प्रजा-हितः । न त्वाम् जहाति कीर्तिः च लक्ष्मीः च पुरुष-ऋषभ ॥ ७।३७।८ ॥
yathā tvam ati durdharṣaḥ dharma-nityaḥ prajā-hitaḥ . na tvām jahāti kīrtiḥ ca lakṣmīḥ ca puruṣa-ṛṣabha .. 7.37.8 ..
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ । एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ॥ ७.३७.९ ॥
श्रीः च धर्मः च काकुत्स्थ त्वयि नित्यम् प्रतिष्ठितौ । एताः च अन्याः च मधुराः वन्दिभिः परिकीर्तिताः ॥ ७।३७।९ ॥
śrīḥ ca dharmaḥ ca kākutstha tvayi nityam pratiṣṭhitau . etāḥ ca anyāḥ ca madhurāḥ vandibhiḥ parikīrtitāḥ .. 7.37.9 ..
सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् । स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ॥ ७.३७.१० ॥
सूताः च संस्तवैः दिव्यैः बोधयन्ति स्म राघवम् । स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ॥ ७।३७।१० ॥
sūtāḥ ca saṃstavaiḥ divyaiḥ bodhayanti sma rāghavam . stutibhiḥ stūyamānābhiḥ pratyabudhyata rāghavaḥ .. 7.37.10 ..
स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् । उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ॥ ७.३७.११ ॥
स तत् विहाय शयनम् पाण्डर-आच्छादन-आस्तृतम् । उत्तस्थौ नाग-शयनात् हरिः नारायणः यथा ॥ ७।३७।११ ॥
sa tat vihāya śayanam pāṇḍara-ācchādana-āstṛtam . uttasthau nāga-śayanāt hariḥ nārāyaṇaḥ yathā .. 7.37.11 ..
तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः । सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ॥ ७.३७.१२ ॥
तम् उत्थितम् महात्मानम् प्रह्वाः प्राञ्जलयः नराः । सलिलम् भाजनैः शुभ्रैः उपतस्थुः सहस्रशस् ॥ ७।३७।१२ ॥
tam utthitam mahātmānam prahvāḥ prāñjalayaḥ narāḥ . salilam bhājanaiḥ śubhraiḥ upatasthuḥ sahasraśas .. 7.37.12 ..
कृतोदकशुचिर्भूत्वा काले हुतहुताशनः । देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ॥ ७.३७.१३ ॥
कृत-उदक-शुचिः भूत्वा काले हुत-हुताशनः । देवागारम् जगाम आशु पुण्यम् इक्ष्वाकु-सेवितम् ॥ ७।३७।१३ ॥
kṛta-udaka-śuciḥ bhūtvā kāle huta-hutāśanaḥ . devāgāram jagāma āśu puṇyam ikṣvāku-sevitam .. 7.37.13 ..
तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि । बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः ॥ ७.३७.१४ ॥
तत्र देवान् पित-अन् विप्रान् अर्चयित्वा यथाविधि । बाह्य-कक्ष-अन्तरम् रामः निर्जगाम जनैः वृतः ॥ ७।३७।१४ ॥
tatra devān pita-an viprān arcayitvā yathāvidhi . bāhya-kakṣa-antaram rāmaḥ nirjagāma janaiḥ vṛtaḥ .. 7.37.14 ..
उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः । वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ॥ ७.३७.१५ ॥
उपतस्थुः महात्मानः मन्त्रिणः स पुरोहिताः । वसिष्ठ-प्रमुखाः सर्वे दीप्यमानाः इव अग्नयः ॥ ७।३७।१५ ॥
upatasthuḥ mahātmānaḥ mantriṇaḥ sa purohitāḥ . vasiṣṭha-pramukhāḥ sarve dīpyamānāḥ iva agnayaḥ .. 7.37.15 ..
क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः । रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः ॥ ७.३७.१६ ॥
क्षत्रियाः च महात्मानः नाना जनपद-ईश्वराः । रामस्य उपाविशन् पार्श्वे शक्रस्य इव यथा अमराः ॥ ७।३७।१६ ॥
kṣatriyāḥ ca mahātmānaḥ nānā janapada-īśvarāḥ . rāmasya upāviśan pārśve śakrasya iva yathā amarāḥ .. 7.37.16 ..
भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः । उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ॥ ७.३७.१७ ॥
भरतः लक्ष्मणः च अत्र शत्रुघ्नः च महा-यशाः । उपासाञ्चक्रिरे हृष्टाः वेदाः त्रयः इव अध्वरम् ॥ ७।३७।१७ ॥
bharataḥ lakṣmaṇaḥ ca atra śatrughnaḥ ca mahā-yaśāḥ . upāsāñcakrire hṛṣṭāḥ vedāḥ trayaḥ iva adhvaram .. 7.37.17 ..
याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः । मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ॥ ७.३७.१८ ॥
याताः प्राञ्जलयः भूत्वा किङ्कराः मुदित-आननाः । मुदिताः नाम पार्श्व-स्थाः बहवः समुपाविशन् ॥ ७।३७।१८ ॥
yātāḥ prāñjalayaḥ bhūtvā kiṅkarāḥ mudita-ānanāḥ . muditāḥ nāma pārśva-sthāḥ bahavaḥ samupāviśan .. 7.37.18 ..
वानराश्च महावीर्या विंशतिः कामरूपिणः । सुग्रीवप्रमुखा राममुपासन्ते महौजसः ॥ ७.३७.१९ ॥
वानराः च महा-वीर्याः विंशतिः कामरूपिणः । सुग्रीव-प्रमुखाः रामम् उपासन्ते महा-ओजसः ॥ ७।३७।१९ ॥
vānarāḥ ca mahā-vīryāḥ viṃśatiḥ kāmarūpiṇaḥ . sugrīva-pramukhāḥ rāmam upāsante mahā-ojasaḥ .. 7.37.19 ..
विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः । उपासते महात्मानं धनेशमिव गुह्यकाः ॥ ७.३७.२० ॥
विभीषणः च रक्षोभिः चतुर्भिः परिवारितः । उपासते महात्मानम् धनेशम् इव गुह्यकाः ॥ ७।३७।२० ॥
vibhīṣaṇaḥ ca rakṣobhiḥ caturbhiḥ parivāritaḥ . upāsate mahātmānam dhaneśam iva guhyakāḥ .. 7.37.20 ..
तथा निगमवृद्धाश्च कुलीना ये च मानवाः । शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः ॥ ७.३७.२१ ॥
तथा निगम-वृद्धाः च कुलीनाः ये च मानवाः । शिरसा राजानम् उपासन्ते विचक्षणाः ॥ ७।३७।२१ ॥
tathā nigama-vṛddhāḥ ca kulīnāḥ ye ca mānavāḥ . śirasā rājānam upāsante vicakṣaṇāḥ .. 7.37.21 ..
तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः । राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ॥ ७.३७.२२ ॥
तथा परिवृतः राजा श्रीमद्भिः ऋषिभिः वृतः । राजभिः च महा-वीर्यैः वानरैः च सराक्षसैः ॥ ७।३७।२२ ॥
tathā parivṛtaḥ rājā śrīmadbhiḥ ṛṣibhiḥ vṛtaḥ . rājabhiḥ ca mahā-vīryaiḥ vānaraiḥ ca sarākṣasaiḥ .. 7.37.22 ..
यथा देवेश्वरो नित्यमृषिभिः समुपास्यते । अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ॥ ७.३७.२३ ॥
यथा देवेश्वरः नित्यम् ऋषिभिः समुपास्यते । अधिकः तेन रूपेण सहस्राक्षात् विरोचते ॥ ७।३७।२३ ॥
yathā deveśvaraḥ nityam ṛṣibhiḥ samupāsyate . adhikaḥ tena rūpeṇa sahasrākṣāt virocate .. 7.37.23 ..
तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः । कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ॥ ७.३७.२४ ॥
तेषाम् समुपविष्टानाम् ताः ताः सुमधुराः कथाः । कथ्यन्ते धर्म-संयुक्ताः पुराण-ज्ञैः महात्मभिः ॥ ७।३७।२४ ॥
teṣām samupaviṣṭānām tāḥ tāḥ sumadhurāḥ kathāḥ . kathyante dharma-saṃyuktāḥ purāṇa-jñaiḥ mahātmabhiḥ .. 7.37.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptatriṃśaḥ sargaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In