This overlay will guide you through the buttons:

| |
|
एवमास्ते महाबाहुरहन्यहनि राघवः । प्रशासत्सर्वकार्याणि पौरजानपदेषु च ॥ ७.३८.१ ॥
एवम् आस्ते महा-बाहुः अहनि अहनि राघवः । प्रशासत् सर्व-कार्याणि पौर-जानपदेषु च ॥ ७।३८।१ ॥
evam āste mahā-bāhuḥ ahani ahani rāghavaḥ . praśāsat sarva-kāryāṇi paura-jānapadeṣu ca .. 7.38.1 ..
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.३८.२ ॥
ततस् कतिपय-अहःसु वैदेहम् मिथिला-अधिपम् । राघवः प्राञ्जलिः भूत्वा वाक्यम् एतत् उवाच ह ॥ ७।३८।२ ॥
tatas katipaya-ahaḥsu vaideham mithilā-adhipam . rāghavaḥ prāñjaliḥ bhūtvā vākyam etat uvāca ha .. 7.38.2 ..
भवान्हि गतिरव्यग्रा भवता पालिता वयम् । भवतस्तेजसोग्रेण रावणो निहतो मया ॥ ७.३८.३ ॥
भवान् हि गतिः अव्यग्रा भवता पालिताः वयम् । भवतः तेजसा उग्रेण रावणः निहतः मया ॥ ७।३८।३ ॥
bhavān hi gatiḥ avyagrā bhavatā pālitāḥ vayam . bhavataḥ tejasā ugreṇa rāvaṇaḥ nihataḥ mayā .. 7.38.3 ..
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः । अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ॥ ७.३८.४ ॥
इक्ष्वाकूणाम् च सर्वेषाम् मैथिलानाम् च सर्वशस् । अतुलाः प्रीतयः राजन् सम्बन्धक-पुरोगमाः ॥ ७।३८।४ ॥
ikṣvākūṇām ca sarveṣām maithilānām ca sarvaśas . atulāḥ prītayaḥ rājan sambandhaka-purogamāḥ .. 7.38.4 ..
तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव । भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति ॥ ७.३८.५ ॥
तत् भवान् स्व-पुरम् यातु रत्नानि आदाय पार्थिव । भरतः च सहाय-अर्थम् पृष्ठतस् ते अनुयास्यति ॥ ७।३८।५ ॥
tat bhavān sva-puram yātu ratnāni ādāya pārthiva . bharataḥ ca sahāya-artham pṛṣṭhatas te anuyāsyati .. 7.38.5 ..
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् । प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च ॥ ७.३८.६ ॥
स तथा इति नृपः कृत्वा राघवम् वाक्यम् अब्रवीत् । प्रीतः अस्मि भवतः राजन् दर्शनेन नयेन च ॥ ७।३८।६ ॥
sa tathā iti nṛpaḥ kṛtvā rāghavam vākyam abravīt . prītaḥ asmi bhavataḥ rājan darśanena nayena ca .. 7.38.6 ..
यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै । दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ॥ ७.३८.७ ॥
यानि एतानि तु रत्नानि मद्-अर्थम् सञ्चितानि वै । दुहित्रे तानि वै राजन् सर्वाणि एव ददामि च ॥ ७।३८।७ ॥
yāni etāni tu ratnāni mad-artham sañcitāni vai . duhitre tāni vai rājan sarvāṇi eva dadāmi ca .. 7.38.7 ..
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः । प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥ ७.३८.८ ॥
एवम् उक्त्वा तु काकुत्स्थम् जनकः हृष्ट-मानसः । प्रययौ मिथिलाम् श्रीमान् तम् अनुज्ञाय राघवम् ॥ ७।३८।८ ॥
evam uktvā tu kākutstham janakaḥ hṛṣṭa-mānasaḥ . prayayau mithilām śrīmān tam anujñāya rāghavam .. 7.38.8 ..
ततः प्रयाते जनके केकयं मातुलं प्रभुः । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.३८.९ ॥
ततस् प्रयाते जनके केकयम् मातुलम् प्रभुः । राघवः प्राञ्जलिः भूत्वा वाक्यम् एतत् उवाच ह ॥ ७।३८।९ ॥
tatas prayāte janake kekayam mātulam prabhuḥ . rāghavaḥ prāñjaliḥ bhūtvā vākyam etat uvāca ha .. 7.38.9 ..
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः । आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ॥ ७.३८.१० ॥
इदम् राज्यम् अहम् च एव भरतः च स लक्ष्मणः । आयत्ताः त्वम् हि नः राजन् गतिः च पुरुष-ऋषभ ॥ ७।३८।१० ॥
idam rājyam aham ca eva bharataḥ ca sa lakṣmaṇaḥ . āyattāḥ tvam hi naḥ rājan gatiḥ ca puruṣa-ṛṣabha .. 7.38.10 ..
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति । तस्माद्गमनमद्यैव रोचते तव पार्थिव ॥ ७.३८.११ ॥
राजा हि वृद्धः सन्तापम् त्वद्-अर्थम् उपयास्यति । तस्मात् गमनम् अद्य एव रोचते तव पार्थिव ॥ ७।३८।११ ॥
rājā hi vṛddhaḥ santāpam tvad-artham upayāsyati . tasmāt gamanam adya eva rocate tava pārthiva .. 7.38.11 ..
लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते । धनमादाय विपुलं रत्नानि विविधानि च ॥ ७.३८.१२ ॥
लक्ष्मणेन अनुयात्रेण पृष्ठतस् अनुगमिष्यते । धनम् आदाय विपुलम् रत्नानि विविधानि च ॥ ७।३८।१२ ॥
lakṣmaṇena anuyātreṇa pṛṣṭhatas anugamiṣyate . dhanam ādāya vipulam ratnāni vividhāni ca .. 7.38.12 ..
युधाजित्तु तथेत्याह गमनं प्रति राघवम् । रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ॥ ७.३८.१३ ॥
युधाजित् तु तथा इति आह गमनम् प्रति राघवम् । रत्नानि च धनम् च एव त्वयि एव अक्षय्यम् अस्तु इति ॥ ७।३८।१३ ॥
yudhājit tu tathā iti āha gamanam prati rāghavam . ratnāni ca dhanam ca eva tvayi eva akṣayyam astu iti .. 7.38.13 ..
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः । रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ॥ ७.३८.१४ ॥
प्रदक्षिणम् स राजानम् कृत्वा केकयवर्धनः । रामेण हि कृतः पूर्वम् अभिवाद्य प्रदक्षिणम् ॥ ७।३८।१४ ॥
pradakṣiṇam sa rājānam kṛtvā kekayavardhanaḥ . rāmeṇa hi kṛtaḥ pūrvam abhivādya pradakṣiṇam .. 7.38.14 ..
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः । हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥ ७.३८.१५ ॥
लक्ष्मणेन सहायेन प्रयातः केकय-ईश्वरः । हते असुरे यथा वृत्रे विष्णुना सह वासवः ॥ ७।३८।१५ ॥
lakṣmaṇena sahāyena prayātaḥ kekaya-īśvaraḥ . hate asure yathā vṛtre viṣṇunā saha vāsavaḥ .. 7.38.15 ..
तं विसृज्य ततो रामो वयस्यमकुतोभयम् । प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥ ७.३८.१६ ॥
तम् विसृज्य ततस् रामः वयस्यम् अकुतोभयम् । प्रतर्दनम् काशि-पतिम् परिष्वज्य इदम् अब्रवीत् ॥ ७।३८।१६ ॥
tam visṛjya tatas rāmaḥ vayasyam akutobhayam . pratardanam kāśi-patim pariṣvajya idam abravīt .. 7.38.16 ..
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् । उद्योगश्च कृतो राजन्भरतेन त्वया सह ॥ ७.३८.१७ ॥
दर्शिता भवता प्रीतिः दर्शितम् सौहृदम् परम् । उद्योगः च कृतः राजन् भरतेन त्वया सह ॥ ७।३८।१७ ॥
darśitā bhavatā prītiḥ darśitam sauhṛdam param . udyogaḥ ca kṛtaḥ rājan bharatena tvayā saha .. 7.38.17 ..
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज । रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥ ७.३८.१८ ॥
तत् भवान् अद्य काशेय पुरीम् वाराणसीम् व्रज । रमणीयाम् त्वया गुप्ताम् सु प्रकाशाम् सु तोरणाम् ॥ ७।३८।१८ ॥
tat bhavān adya kāśeya purīm vārāṇasīm vraja . ramaṇīyām tvayā guptām su prakāśām su toraṇām .. 7.38.18 ..
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् । पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ॥ ७.३८.१९ ॥
एतावत् उक्त्वा च उत्थाय काकुत्स्थः परम-आसनात् । पर्यष्वजत धर्म-आत्मा निरन्तरम् उरस्-गतम् ॥ ७।३८।१९ ॥
etāvat uktvā ca utthāya kākutsthaḥ parama-āsanāt . paryaṣvajata dharma-ātmā nirantaram uras-gatam .. 7.38.19 ..
विसर्जयामास तदा कौसल्यानन्दवर्धनः । राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः । वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ॥ ७.३८.२० ॥
विसर्जयामास तदा कौसल्या-आनन्द-वर्धनः । राघवेण अभ्यनुज्ञातः काशीशः अपि अकुतोभयः । वाराणसीम् ययौ तूर्णम् राघवेण विसर्जितः ॥ ७।३८।२० ॥
visarjayāmāsa tadā kausalyā-ānanda-vardhanaḥ . rāghaveṇa abhyanujñātaḥ kāśīśaḥ api akutobhayaḥ . vārāṇasīm yayau tūrṇam rāghaveṇa visarjitaḥ .. 7.38.20 ..
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् । प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ॥ ७.३८.२१ ॥
विसृज्य तम् काशि-पतिम् त्रि-शतम् पृथिवीपतीन् । प्रहसन् राघवः वाक्यम् उवाच मधुर-अक्षरम् ॥ ७।३८।२१ ॥
visṛjya tam kāśi-patim tri-śatam pṛthivīpatīn . prahasan rāghavaḥ vākyam uvāca madhura-akṣaram .. 7.38.21 ..
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता । धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥ ७.३८.२२ ॥
भवताम् प्रीतिः अव्यग्रा तेजसा परिरक्षिता । धर्मः च नियतः नित्यम् सत्यम् च भवताम् सदा ॥ ७।३८।२२ ॥
bhavatām prītiḥ avyagrā tejasā parirakṣitā . dharmaḥ ca niyataḥ nityam satyam ca bhavatām sadā .. 7.38.22 ..
युष्माकं चानुभावेन तेजसा च महात्मनाम् । हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ॥ ७.३८.२३ ॥
युष्माकम् च अनुभावेन तेजसा च महात्मनाम् । हतः दुरात्मा दुर्बुद्धिः रावणः राक्षस-अधमः ॥ ७।३८।२३ ॥
yuṣmākam ca anubhāvena tejasā ca mahātmanām . hataḥ durātmā durbuddhiḥ rāvaṇaḥ rākṣasa-adhamaḥ .. 7.38.23 ..
हेतुमात्रमहं तत्र भवतां तेजसा हतः । रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ॥ ७.३८.२४ ॥
हेतु-मात्रम् अहम् तत्र भवताम् तेजसा हतः । रावणः स गणः युद्धे स पुत्र-अमात्य-बान्धवः ॥ ७।३८।२४ ॥
hetu-mātram aham tatra bhavatām tejasā hataḥ . rāvaṇaḥ sa gaṇaḥ yuddhe sa putra-amātya-bāndhavaḥ .. 7.38.24 ..
भवन्तश्च समानीता भरतेन महात्मना । श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ॥ ७.३८.२५ ॥
भवन्तः च समानीताः भरतेन महात्मना । श्रुत्वा जनक-राजस्य काननात् तनयाम् हृताम् ॥ ७।३८।२५ ॥
bhavantaḥ ca samānītāḥ bharatena mahātmanā . śrutvā janaka-rājasya kānanāt tanayām hṛtām .. 7.38.25 ..
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् । कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ॥ ७.३८.२६ ॥
उद्युक्तानाम् च सर्वेषाम् पार्थिवानाम् महात्मनाम् । कालः व्यतीतः सु महान् गमनम् रोचयामि अतस् ॥ ७।३८।२६ ॥
udyuktānām ca sarveṣām pārthivānām mahātmanām . kālaḥ vyatītaḥ su mahān gamanam rocayāmi atas .. 7.38.26 ..
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः । दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः ॥ ७.३८.२७ ॥
प्रत्यूचुः तम् च राजानः हर्षेण महता वृताः । दिष्ट्याम् त्वम् विजयी राम स्व-राज्ये अपि प्रतिष्ठितः ॥ ७।३८।२७ ॥
pratyūcuḥ tam ca rājānaḥ harṣeṇa mahatā vṛtāḥ . diṣṭyām tvam vijayī rāma sva-rājye api pratiṣṭhitaḥ .. 7.38.27 ..
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः । एष नः परमः काम एषा नः पीतिरुत्तमा ॥ ७.३८.२८ ॥
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः । एष नः परमः कामः एषा नः पीतिः उत्तमा ॥ ७।३८।२८ ॥
diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ . eṣa naḥ paramaḥ kāmaḥ eṣā naḥ pītiḥ uttamā .. 7.38.28 ..
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ॥ ७.३८.२९ ॥
यत् त्वाम् विजयिनम् राम पश्यामः हत-शात्रवम् ॥ ७।३८।२९ ॥
yat tvām vijayinam rāma paśyāmaḥ hata-śātravam .. 7.38.29 ..
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे । प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ॥ ७.३८.३० ॥
एतत् त्वयि उपपन्नम् च यत् अस्मान् त्वम् प्रशंससे । प्रशंसा-अर्ह न जानीमः प्रशंसाम् वक्तुम् ईदृशीम् ॥ ७।३८।३० ॥
etat tvayi upapannam ca yat asmān tvam praśaṃsase . praśaṃsā-arha na jānīmaḥ praśaṃsām vaktum īdṛśīm .. 7.38.30 ..
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् । वर्तामहे महाबाहो प्रीत्यात्र महता वृताः । भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥ ७.३८.३१ ॥
आपृच्छामः गमिष्यामः हृदिस्थः नः सदा भवान् । वर्तामहे महा-बाहो प्रीत्या अत्र महता वृताः । भवेत् च ते महा-राज प्रीतिः अस्मासु नित्यदा ॥ ७।३८।३१ ॥
āpṛcchāmaḥ gamiṣyāmaḥ hṛdisthaḥ naḥ sadā bhavān . vartāmahe mahā-bāho prītyā atra mahatā vṛtāḥ . bhavet ca te mahā-rāja prītiḥ asmāsu nityadā .. 7.38.31 ..
बाढमित्येव राजानो हर्षेण परमान्विताः । उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ॥ ७.३८.३२ ॥
बाढम् इति एव राजानः हर्षेण परम-अन्विताः । उचुः प्राञ्जलयः सर्वे राघवम् गमन-उत्सुकाः ॥ ७।३८।३२ ॥
bāḍham iti eva rājānaḥ harṣeṇa parama-anvitāḥ . ucuḥ prāñjalayaḥ sarve rāghavam gamana-utsukāḥ .. 7.38.32 ..
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ॥ ७.३८.३३ ॥
पूजिताः च एव रामेण जग्मुः देशान् स्वकान् स्वकान् ॥ ७।३८।३३ ॥
pūjitāḥ ca eva rāmeṇa jagmuḥ deśān svakān svakān .. 7.38.33 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टात्रिंशः सर्गः ॥ ३८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टात्रिंशः सर्गः ॥ ३८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭātriṃśaḥ sargaḥ .. 38 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In