This overlay will guide you through the buttons:

| |
|
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् । गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ॥ ७.३९.१ ॥
ते प्रयाताः महात्मानः पार्थिवाः ते प्रहृष्ट-वत् । गज-वाजि-सहस्र-ओघैः कम्पयन्तः वसुन्धराम् ॥ ७।३९।१ ॥
te prayātāḥ mahātmānaḥ pārthivāḥ te prahṛṣṭa-vat . gaja-vāji-sahasra-oghaiḥ kampayantaḥ vasundharām .. 7.39.1 ..
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः । भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ॥ ७.३९.२ ॥
अक्षौहिण्यः हि तत्र आसन् राघव-अर्थे समुद्यताः । भरतस्य आज्ञया अनेकाः प्रहृष्टाः बल-वाहनाः ॥ ७।३९।२ ॥
akṣauhiṇyaḥ hi tatra āsan rāghava-arthe samudyatāḥ . bharatasya ājñayā anekāḥ prahṛṣṭāḥ bala-vāhanāḥ .. 7.39.2 ..
ऊचुस्ते च महीपाला बलदर्पसमन्विताः । न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ७.३९.३ ॥
ऊचुः ते च महीपालाः बल-दर्प-समन्विताः । न राम-रावणम् युद्धे पश्यामः पुरतस् स्थितम् ॥ ७।३९।३ ॥
ūcuḥ te ca mahīpālāḥ bala-darpa-samanvitāḥ . na rāma-rāvaṇam yuddhe paśyāmaḥ puratas sthitam .. 7.39.3 ..
भरतेन वयं पश्चात्समानीता निरर्थकम् । हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ॥ ७.३९.४ ॥
भरतेन वयम् पश्चात् समानीताः निरर्थकम् । हताः हि राक्षसाः क्षिप्रम् पार्थिवैः स्युः न संशयः ॥ ७।३९।४ ॥
bharatena vayam paścāt samānītāḥ nirarthakam . hatāḥ hi rākṣasāḥ kṣipram pārthivaiḥ syuḥ na saṃśayaḥ .. 7.39.4 ..
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च । सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ॥ ७.३९.५ ॥
रामस्य बाहु-वीर्येण रक्षिता लक्ष्मणस्य च । सुखम् पारेसमुद्रस्य युध्येम विगत-ज्वराः ॥ ७।३९।५ ॥
rāmasya bāhu-vīryeṇa rakṣitā lakṣmaṇasya ca . sukham pāresamudrasya yudhyema vigata-jvarāḥ .. 7.39.5 ..
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः । कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥ ७.३९.६ ॥
एताः च अन्याः च राजानः कथाः तत्र सहस्रशस् । कथयन्तः स्व-राज्यानि जग्मुः हर्ष-समन्विताः ॥ ७।३९।६ ॥
etāḥ ca anyāḥ ca rājānaḥ kathāḥ tatra sahasraśas . kathayantaḥ sva-rājyāni jagmuḥ harṣa-samanvitāḥ .. 7.39.6 ..
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च । समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥ ७.३९.७ ॥
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च । समृद्ध-धन-धान्यानि पूर्णानि वसुमन्ति च ॥ ७।३९।७ ॥
svāni rājyāni mukhyāni ṛddhāni muditāni ca . samṛddha-dhana-dhānyāni pūrṇāni vasumanti ca .. 7.39.7 ..
यथापुराणि ते गत्वा रत्नानि विविधान्यथ । रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ॥ ७.३९.८ ॥
यथा पुराणि ते गत्वा रत्नानि विविधानि अथ । रामस्य प्रिय-काम-अर्थम् उपहारान् नृपाः ददुः ॥ ७।३९।८ ॥
yathā purāṇi te gatvā ratnāni vividhāni atha . rāmasya priya-kāma-artham upahārān nṛpāḥ daduḥ .. 7.39.8 ..
अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् । चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥ ७.३९.९ ॥
अश्वान् यानानि रत्नानि हस्तिनः च मद-उत्कटान् । चन्दनानि च मुख्यानि दिव्यानि आभरणानि च ॥ ७।३९।९ ॥
aśvān yānāni ratnāni hastinaḥ ca mada-utkaṭān . candanāni ca mukhyāni divyāni ābharaṇāni ca .. 7.39.9 ..
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः । अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ॥ ७.३९.१० ॥
मणि-मुक्ता-प्रवालान् तु दास्यः रूप-समन्विताः । अजाविकान् च विविधान् रथान् तु विविधान् ददुः ॥ ७।३९।१० ॥
maṇi-muktā-pravālān tu dāsyaḥ rūpa-samanvitāḥ . ajāvikān ca vividhān rathān tu vividhān daduḥ .. 7.39.10 ..
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः । आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ॥ ७.३९.११ ॥
भरतः लक्ष्मणः च एव शत्रुघ्नः च महा-बलाः । आदाय तानि रत्नानि स्वाम् पुरीम् पुनर् आगताः ॥ ७।३९।११ ॥
bharataḥ lakṣmaṇaḥ ca eva śatrughnaḥ ca mahā-balāḥ . ādāya tāni ratnāni svām purīm punar āgatāḥ .. 7.39.11 ..
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः । तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥ ७.३९.१२ ॥
आगम्य च पुरीम् रम्याम् अयोध्याम् पुरुष-ऋषभाः । तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥ ७।३९।१२ ॥
āgamya ca purīm ramyām ayodhyām puruṣa-ṛṣabhāḥ . tāni ratnāni citrāṇi rāmāya samupāharan .. 7.39.12 ..
प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः । सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ ७.३९.१३ ॥
प्रतिगृह्य च तत् सर्वम् रामः प्रीति-समन्वितः । सुग्रीवाय ददौ राज्ञे महात्मा कृत-कर्मणे ॥ ७।३९।१३ ॥
pratigṛhya ca tat sarvam rāmaḥ prīti-samanvitaḥ . sugrīvāya dadau rājñe mahātmā kṛta-karmaṇe .. 7.39.13 ..
बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः । राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ॥ ७.३९.१४ ॥
बिभीषणाय च ददौ तथा अन्येभ्यः अपि राघवः । राक्षसेभ्यः कपिभ्यः च यैः वृतः जयम् आप्तवान् ॥ ७।३९।१४ ॥
bibhīṣaṇāya ca dadau tathā anyebhyaḥ api rāghavaḥ . rākṣasebhyaḥ kapibhyaḥ ca yaiḥ vṛtaḥ jayam āptavān .. 7.39.14 ..
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः । शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ॥ ७.३९.१५ ॥
ते सर्वे राम-दत्तानि रत्नानि कपि-राक्षसाः । शिरोभिः धारयामासुः बाहुभिः च महा-बलाः ॥ ७।३९।१५ ॥
te sarve rāma-dattāni ratnāni kapi-rākṣasāḥ . śirobhiḥ dhārayāmāsuḥ bāhubhiḥ ca mahā-balāḥ .. 7.39.15 ..
हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः । अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ॥ ७.३९.१६ ॥
हनूमन्तम् च नृपतिः इक्ष्वाकूणाम् महा-रथः । अङ्गदम् च महा-बाहुम् अङ्कम् आरोप्य वीर्यवान् ॥ ७।३९।१६ ॥
hanūmantam ca nṛpatiḥ ikṣvākūṇām mahā-rathaḥ . aṅgadam ca mahā-bāhum aṅkam āropya vīryavān .. 7.39.16 ..
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् । अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः ॥ ७.३९.१७ ॥
रामः कमल-पत्र-अक्षः सुग्रीवम् इदम् अब्रवीत् । अङ्गदः ते सु पुत्रः अयम् मन्त्री च अपि अनिलात्मजः ॥ ७।३९।१७ ॥
rāmaḥ kamala-patra-akṣaḥ sugrīvam idam abravīt . aṅgadaḥ te su putraḥ ayam mantrī ca api anilātmajaḥ .. 7.39.17 ..
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ । अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ ७.३९.१८ ॥
सुग्रीव-मन्त्रिते युक्तौ मम च अपि हिते रतौ । अर्हतः विविधाम् पूजाम् त्वद्-कृते वै हरि-ईश्वर ॥ ७।३९।१८ ॥
sugrīva-mantrite yuktau mama ca api hite ratau . arhataḥ vividhām pūjām tvad-kṛte vai hari-īśvara .. 7.39.18 ..
इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः । स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ ७.३९.१९ ॥
इति उक्त्वा व्यवमुच्य अङ्गात् भूषणानि महा-यशाः । स बबन्ध महार्हाणि तदा अङ्गद-हनूमतोः ॥ ७।३९।१९ ॥
iti uktvā vyavamucya aṅgāt bhūṣaṇāni mahā-yaśāḥ . sa babandha mahārhāṇi tadā aṅgada-hanūmatoḥ .. 7.39.19 ..
आभाष्य च महावीर्यान्राघवो यूथपर्षभान् । नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ ७.३९.२० ॥
आभाष्य च महा-वीर्यान् राघवः यूथप-ऋषभान् । नीलम् नलम् केसरिणम् कुमुदम् गन्धमादनम् ॥ ७।३९।२० ॥
ābhāṣya ca mahā-vīryān rāghavaḥ yūthapa-ṛṣabhān . nīlam nalam kesariṇam kumudam gandhamādanam .. 7.39.20 ..
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च । जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ॥ ७.३९.२१ ॥
सुषेणम् पनसम् वीरम् मैन्दम् द्विविदम् एव च । जाम्बवन्तम् गवाक्षम् च विनतम् धूम्रम् एव च ॥ ७।३९।२१ ॥
suṣeṇam panasam vīram maindam dvividam eva ca . jāmbavantam gavākṣam ca vinatam dhūmram eva ca .. 7.39.21 ..
वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् । दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥ ७.३९.२२ ॥
वलीमुखम् प्रजङ्घम् च सन्नादम् च महा-बलम् । दरीमुखम् दधिमुखम् इन्द्रजानुम् च यूथपम् ॥ ७।३९।२२ ॥
valīmukham prajaṅgham ca sannādam ca mahā-balam . darīmukham dadhimukham indrajānum ca yūthapam .. 7.39.22 ..
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव । सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ॥ ७.३९.२३ ॥
मधुरम् श्लक्ष्णया वाचा नेत्राभ्याम् आपिबन् इव । सुहृदः मे भवन्तः च शरीरम् भ्रातरः तथा ॥ ७।३९।२३ ॥
madhuram ślakṣṇayā vācā netrābhyām āpiban iva . suhṛdaḥ me bhavantaḥ ca śarīram bhrātaraḥ tathā .. 7.39.23 ..
युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः । धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥ ७.३९.२४ ॥
युष्माभिः उद्धृतः च अहम् व्यसनात् काननौकसः । धन्यः राजा च सुग्रीवः भवद्भिः सुहृदाम् वरैः ॥ ७।३९।२४ ॥
yuṣmābhiḥ uddhṛtaḥ ca aham vyasanāt kānanaukasaḥ . dhanyaḥ rājā ca sugrīvaḥ bhavadbhiḥ suhṛdām varaiḥ .. 7.39.24 ..
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः । वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥ ७.३९.२५ ॥
एवम् उक्त्वा ददौ तेभ्यः भूषणानि यथार्हतः । वज्राणि च महार्हाणि सस्वजे च नर-ऋषभः ॥ ७।३९।२५ ॥
evam uktvā dadau tebhyaḥ bhūṣaṇāni yathārhataḥ . vajrāṇi ca mahārhāṇi sasvaje ca nara-ṛṣabhaḥ .. 7.39.25 ..
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः । मांसानि च सुमृष्टानि मूलानि च फलानि च ॥ ७.३९.२६ ॥
ते पिबन्तः सुगन्धीनि मधूनि मधु-पिङ्गलाः । मांसानि च सु मृष्टानि मूलानि च फलानि च ॥ ७।३९।२६ ॥
te pibantaḥ sugandhīni madhūni madhu-piṅgalāḥ . māṃsāni ca su mṛṣṭāni mūlāni ca phalāni ca .. 7.39.26 ..
एवं तेषां निवसतां मासः साग्रो ययौ तदा । मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ॥ ७.३९.२७ ॥
एवम् तेषाम् निवसताम् मासः साग्रः ययौ तदा । मुहूर्तम् इव ते सर्वे राम-भक्त्या च मेनिरे ॥ ७।३९।२७ ॥
evam teṣām nivasatām māsaḥ sāgraḥ yayau tadā . muhūrtam iva te sarve rāma-bhaktyā ca menire .. 7.39.27 ..
रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः । राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ॥ ७.३९.२८ ॥
रामः अपि रेमे तैः सार्धम् वानरैः कामरूपिभिः । राक्षसैः च महा-वीर्यैः ऋक्षैः च एव महा-बलैः ॥ ७।३९।२८ ॥
rāmaḥ api reme taiḥ sārdham vānaraiḥ kāmarūpibhiḥ . rākṣasaiḥ ca mahā-vīryaiḥ ṛkṣaiḥ ca eva mahā-balaiḥ .. 7.39.28 ..
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् । वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥ ७.३९.२९ ॥
एवम् तेषाम् ययौ मासः द्वितीयः शिशिरः सुखम् । वानराणाम् प्रहृष्टानाम् राक्षसानाम् च सर्वशस् ॥ ७।३९।२९ ॥
evam teṣām yayau māsaḥ dvitīyaḥ śiśiraḥ sukham . vānarāṇām prahṛṣṭānām rākṣasānām ca sarvaśas .. 7.39.29 ..
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् । रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ ७.३९.३० ॥
इक्ष्वाकु-नगरे रम्ये पराम् प्रीतिम् उपासताम् । रामस्य प्रीति-करणैः कालः तेषाम् सुखम् ययौ ॥ ७।३९।३० ॥
ikṣvāku-nagare ramye parām prītim upāsatām . rāmasya prīti-karaṇaiḥ kālaḥ teṣām sukham yayau .. 7.39.30 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekonacatvāriṃśaḥ sargaḥ .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In