This overlay will guide you through the buttons:

| |
|
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् । गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ॥ ७.३९.१ ॥
te prayātā mahātmānaḥ pārthivāste prahṛṣṭavat . gajavājisahasraughaiḥ kampayanto vasundharām .. 7.39.1 ..
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः । भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ॥ ७.३९.२ ॥
akṣauhiṇyo hi tatrāsanrāghavārthe samudyatāḥ . bharatasyājñayā 'nekāḥ prahṛṣṭā balavāhanāḥ .. 7.39.2 ..
ऊचुस्ते च महीपाला बलदर्पसमन्विताः । न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ७.३९.३ ॥
ūcuste ca mahīpālā baladarpasamanvitāḥ . na rāmarāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam .. 7.39.3 ..
भरतेन वयं पश्चात्समानीता निरर्थकम् । हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ॥ ७.३९.४ ॥
bharatena vayaṃ paścātsamānītā nirarthakam . hatā hi rākṣasāḥ kṣipraṃ pārthivaiḥ syurna saṃśayaḥ .. 7.39.4 ..
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च । सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ॥ ७.३९.५ ॥
rāmasya bāhuvīryeṇa rakṣitā lakṣmaṇasya ca . sukhaṃ pāresamudrasya yudhyema vigatajvarāḥ .. 7.39.5 ..
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः । कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥ ७.३९.६ ॥
etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ . kathayantaḥ svarājyāni jagmurharṣasamanvitāḥ .. 7.39.6 ..
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च । समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥ ७.३९.७ ॥
svāni rājyāni mukhyāni ṛddhāni muditāni ca . samṛddhadhanadhānyāni pūrṇāni vasumanti ca .. 7.39.7 ..
यथापुराणि ते गत्वा रत्नानि विविधान्यथ । रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ॥ ७.३९.८ ॥
yathāpurāṇi te gatvā ratnāni vividhānyatha . rāmasya priyakāmārthamupahārān nṛpā daduḥ .. 7.39.8 ..
अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् । चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥ ७.३९.९ ॥
aśvānyānāni ratnāni hastinaśca madotkaṭān . candanāni ca mukhyāni divyānyābharaṇāni ca .. 7.39.9 ..
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः । अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ॥ ७.३९.१० ॥
maṇimuktāpravālāṃstu dāsyo rūpasamanvitāḥ . ajāvikāṃśca vividhān rathāṃstu vividhāndaduḥ .. 7.39.10 ..
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः । आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ॥ ७.३९.११ ॥
bharato lakṣmaṇaścaiva śatrughnaśca mahābalāḥ . ādāya tāni ratnāni svāṃ purīṃ punarāgatāḥ .. 7.39.11 ..
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः । तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥ ७.३९.१२ ॥
āgamya ca purīṃ ramyāmayodhyāṃ puruṣarṣabhāḥ . tāni ratnāni citrāṇi rāmāya samupāharan .. 7.39.12 ..
प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः । सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ ७.३९.१३ ॥
pratigṛhya ca tatsarvaṃ rāmaḥ prītisamanvitaḥ . sugrīvāya dadau rājñe mahātmā kṛtakarmaṇe .. 7.39.13 ..
बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः । राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ॥ ७.३९.१४ ॥
bibhīṣaṇāya ca dadau tathānyebhyo 'pi rāghavaḥ . rākṣasebhyaḥ kapibhyaśca yairvṛto jayamāptavān .. 7.39.14 ..
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः । शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ॥ ७.३९.१५ ॥
te sarve rāmadattāni ratnāni kapirākṣasāḥ . śirobhirdhārayāmāsurbāhubhiśca mahābalāḥ .. 7.39.15 ..
हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः । अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ॥ ७.३९.१६ ॥
hanūmantaṃ ca nṛpatirikṣvākūṇāṃ mahārathaḥ . aṅgadaṃ ca mahābāhumaṅkamāropya vīryavān .. 7.39.16 ..
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् । अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः ॥ ७.३९.१७ ॥
rāmaḥ kamalapatrākṣaḥ sugrīvamidamabravīt . aṅgadaste suputro 'yaṃ mantrī cāpyanilātmajaḥ .. 7.39.17 ..
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ । अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ ७.३९.१८ ॥
sugrīvamantrite yuktau mama cāpi hite ratau . arhato vividhāṃ pūjāṃ tvatkṛte vai harīśvara .. 7.39.18 ..
इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः । स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ ७.३९.१९ ॥
ityuktvā vyavamucyāṅgādbhūṣaṇāni mahāyaśāḥ . sa babandha mahārhāṇi tadāṅgadahanūmatoḥ .. 7.39.19 ..
आभाष्य च महावीर्यान्राघवो यूथपर्षभान् । नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ ७.३९.२० ॥
ābhāṣya ca mahāvīryānrāghavo yūthaparṣabhān . nīlaṃ nalaṃ kesariṇaṃ kumudaṃ gandhamādanam .. 7.39.20 ..
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च । जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ॥ ७.३९.२१ ॥
suṣeṇaṃ panasaṃ vīraṃ maindaṃ dvividameva ca . jāmbavantaṃ gavākṣaṃ ca vinataṃ dhūmrameva ca .. 7.39.21 ..
वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् । दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥ ७.३९.२२ ॥
valīmukhaṃ prajaṅghaṃ ca sannādaṃ ca mahābalam . darīmukhaṃ dadhimukhamindrajānuṃ ca yūthapam .. 7.39.22 ..
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव । सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ॥ ७.३९.२३ ॥
madhuraṃ ślakṣṇayā vācā netrābhyāmāpibanniva . suhṛdo me bhavantaśca śarīraṃ bhrātarastathā .. 7.39.23 ..
युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः । धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥ ७.३९.२४ ॥
yuṣmābhiruddhṛtaścāhaṃ vyasanātkānanaukasaḥ . dhanyo rājā ca sugrīvo bhavadbhiḥ suhṛdāṃ varaiḥ .. 7.39.24 ..
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः । वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥ ७.३९.२५ ॥
evamuktvā dadau tebhyo bhūṣaṇāni yathārhataḥ . vajrāṇi ca mahārhāṇi sasvaje ca nararṣabhaḥ .. 7.39.25 ..
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः । मांसानि च सुमृष्टानि मूलानि च फलानि च ॥ ७.३९.२६ ॥
te pibantaḥ sugandhīni madhūni madhupiṅgalāḥ . māṃsāni ca sumṛṣṭāni mūlāni ca phalāni ca .. 7.39.26 ..
एवं तेषां निवसतां मासः साग्रो ययौ तदा । मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ॥ ७.३९.२७ ॥
evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro yayau tadā . muhūrtamiva te sarve rāmabhaktyā ca menire .. 7.39.27 ..
रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः । राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ॥ ७.३९.२८ ॥
rāmo 'pi reme taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ . rākṣasaiśca mahāvīryairṛkṣaiścaiva mahābalaiḥ .. 7.39.28 ..
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् । वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥ ७.३९.२९ ॥
evaṃ teṣāṃ yayau māso dvitīyaḥ śiśiraḥ sukham . vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ .. 7.39.29 ..
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् । रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ ७.३९.३० ॥
ikṣvākunagare ramye parāṃ prītimupāsatām . rāmasya prītikaraṇaiḥ kālasteṣāṃ sukhaṃ yayau .. 7.39.30 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonacatvāriṃśaḥ sargaḥ .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In