This overlay will guide you through the buttons:

| |
|
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ॥ ७.४.१ ॥
श्रुत्वा अगस्त्य-ईरितम् वाक्यम् रामः विस्मयम् आगतः । कथम् आसीत् तु लङ्कायाम् सम्भवः रक्षसाम् पुरा ॥ ७।४।१ ॥
śrutvā agastya-īritam vākyam rāmaḥ vismayam āgataḥ . katham āsīt tu laṅkāyām sambhavaḥ rakṣasām purā .. 7.4.1 ..
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् । तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत ॥ ७.४.२ ॥
ततस् शिरः कम्पयित्वा त्रेताग्नि-सम-विग्रहम् । तम् अगस्त्यम् मुहुर् दृष्ट्वा स्मयमानः अभ्यभाषत ॥ ७।४।२ ॥
tatas śiraḥ kampayitvā tretāgni-sama-vigraham . tam agastyam muhur dṛṣṭvā smayamānaḥ abhyabhāṣata .. 7.4.2 ..
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् । श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥ ७.४.३ ॥
भगवन् पूर्वम् अपि एषा लङ्का आसीत् पिशिताशिनाम् । श्रुत्वा इदम् भगवत्-वाक्यम् जातः मे विस्मयः परः ॥ ७।४।३ ॥
bhagavan pūrvam api eṣā laṅkā āsīt piśitāśinām . śrutvā idam bhagavat-vākyam jātaḥ me vismayaḥ paraḥ .. 7.4.3 ..
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् । इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ॥ ७.४.४ ॥
पुलस्त्य-वंशात् उद्भूताः राक्षसाः इति नः श्रुतम् । इदानीम् अन्यतस् च अपि सम्भवः कीर्तितः त्वया ॥ ७।४।४ ॥
pulastya-vaṃśāt udbhūtāḥ rākṣasāḥ iti naḥ śrutam . idānīm anyatas ca api sambhavaḥ kīrtitaḥ tvayā .. 7.4.4 ..
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि । रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ॥ ७.४.५ ॥
रावणात् कुम्भकर्णात् च प्रहस्तात् विकटात् अपि । रावणस्य च पुत्रेभ्यः किम् नु ते बलवत्तराः ॥ ७।४।५ ॥
rāvaṇāt kumbhakarṇāt ca prahastāt vikaṭāt api . rāvaṇasya ca putrebhyaḥ kim nu te balavattarāḥ .. 7.4.5 ..
क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः । अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ॥ ७.४.६ ॥
कः एषाम् पूर्वकः ब्रह्मन् किन्नामा च बल-उत्कटः । अपराधम् च कम् प्राप्य विष्णुना द्राविताः कथम् ॥ ७।४।६ ॥
kaḥ eṣām pūrvakaḥ brahman kinnāmā ca bala-utkaṭaḥ . aparādham ca kam prāpya viṣṇunā drāvitāḥ katham .. 7.4.6 ..
एतद्विस्तरतः सर्वं कथयस्व ममानघ । कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ॥ ७.४.७ ॥
एतत् विस्तरतः सर्वम् कथयस्व मम अनघ । कुतूहलम् इदम् मह्यम् नुद भानुः यथा तमः ॥ ७।४।७ ॥
etat vistarataḥ sarvam kathayasva mama anagha . kutūhalam idam mahyam nuda bhānuḥ yathā tamaḥ .. 7.4.7 ..
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् । ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ॥ ७.४.८ ॥
राघवस्य वचः श्रुत्वा संस्कार-अलङ्कृतम् शुभम् । ईषत् विस्मयमानः तम् अगस्त्यः प्राह राघवम् ॥ ७।४।८ ॥
rāghavasya vacaḥ śrutvā saṃskāra-alaṅkṛtam śubham . īṣat vismayamānaḥ tam agastyaḥ prāha rāghavam .. 7.4.8 ..
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः । तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ॥ ७.४.९ ॥
प्रजापतिः पुरा सृष्ट्वा हि अपः सलिल-सम्भवः । तासाम् गोपायने सत्त्वान् असृजत् पद्मसम्भवः ॥ ७।४।९ ॥
prajāpatiḥ purā sṛṣṭvā hi apaḥ salila-sambhavaḥ . tāsām gopāyane sattvān asṛjat padmasambhavaḥ .. 7.4.9 ..
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः । किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥ ७.४.१० ॥
ते सत्त्वाः सत्त्व-कर्तारम् विनीत-वत् उपस्थिताः । किम् कुर्मः इति भाषन्तः क्षुध्-पिपासा-भय-अर्दिताः ॥ ७।४।१० ॥
te sattvāḥ sattva-kartāram vinīta-vat upasthitāḥ . kim kurmaḥ iti bhāṣantaḥ kṣudh-pipāsā-bhaya-arditāḥ .. 7.4.10 ..
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव । आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ॥ ७.४.११ ॥
प्रजापतिः तु तानि आह सत्वानि प्रहसन् इव । आभाष्य वाचा यत्नेन रक्षध्वम् इति मानदः ॥ ७।४।११ ॥
prajāpatiḥ tu tāni āha satvāni prahasan iva . ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ .. 7.4.11 ..
रक्षामेति च तत्रान्ये जक्षाम इति चापरे । भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ॥ ७.४.१२ ॥
रक्षाम इति च तत्र अन्ये जक्षामः इति च अपरे । भुक्षित-अभुक्षितैः उक्तः ततस् तान् आह भूतकृत् ॥ ७।४।१२ ॥
rakṣāma iti ca tatra anye jakṣāmaḥ iti ca apare . bhukṣita-abhukṣitaiḥ uktaḥ tatas tān āha bhūtakṛt .. 7.4.12 ..
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः । जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥ ७.४.१३ ॥
रक्षाम इति च यैः उक्तम् राक्षसाः ते भवन्तु वः । जक्षामः इति यैः उक्तम् यक्षाः एव भवन्तु वः ॥ ७।४।१३ ॥
rakṣāma iti ca yaiḥ uktam rākṣasāḥ te bhavantu vaḥ . jakṣāmaḥ iti yaiḥ uktam yakṣāḥ eva bhavantu vaḥ .. 7.4.13 ..
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ । मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ॥ ७.४.१४ ॥
तत्र हेतिः प्रहेतिः च भ्रातरौ राक्षस-अधिपौ । मधु-कैटभ-सङ्काशौ बभूवतुः अरिन्दमौ ॥ ७।४।१४ ॥
tatra hetiḥ prahetiḥ ca bhrātarau rākṣasa-adhipau . madhu-kaiṭabha-saṅkāśau babhūvatuḥ arindamau .. 7.4.14 ..
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा । हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ॥ ७.४.१५ ॥
प्रहेतिः धार्मिकः तत्र तपः-वन-गतः तदा । हेतिः दारक्रिया-अर्थे तु परम् यत्नम् अथ अकरोत् ॥ ७।४।१५ ॥
prahetiḥ dhārmikaḥ tatra tapaḥ-vana-gataḥ tadā . hetiḥ dārakriyā-arthe tu param yatnam atha akarot .. 7.4.15 ..
स कालभगिनीं कन्यां भयां नाम भयावहाम् । उदावहदमेयात्मा स्वयमेव महामतिः ॥ ७.४.१६ ॥
स काल-भगिनीम् कन्याम् भयाम् नाम भय-आवहाम् । उदावहत् अमेय-आत्मा स्वयम् एव महामतिः ॥ ७।४।१६ ॥
sa kāla-bhaginīm kanyām bhayām nāma bhaya-āvahām . udāvahat ameya-ātmā svayam eva mahāmatiḥ .. 7.4.16 ..
स तस्यां जनयामास हेती राक्षसपुङ्गवः । पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥ ७.४.१७ ॥
स तस्याम् जनयामास हेती राक्षस-पुङ्गवः । पुत्रम् पुत्रवताम् श्रेष्ठः विद्युत्केशः इति श्रुतम् ॥ ७।४।१७ ॥
sa tasyām janayāmāsa hetī rākṣasa-puṅgavaḥ . putram putravatām śreṣṭhaḥ vidyutkeśaḥ iti śrutam .. 7.4.17 ..
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः । व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ॥ ७.४.१८ ॥
विद्युत्केशः हेति-पुत्रः स दीप्त-अर्क-सम-प्रभः । व्यवर्धत महा-तेजाः तोय-मध्ये इव अम्बुदः ॥ ७।४।१८ ॥
vidyutkeśaḥ heti-putraḥ sa dīpta-arka-sama-prabhaḥ . vyavardhata mahā-tejāḥ toya-madhye iva ambudaḥ .. 7.4.18 ..
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः । ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ॥ ७.४.१९ ॥
स यदा यौवनम् भद्रम् अनुप्राप्तः निशाचरः । ततस् दारक्रियाम् तस्य कर्तुम् व्यवसितः पिता ॥ ७।४।१९ ॥
sa yadā yauvanam bhadram anuprāptaḥ niśācaraḥ . tatas dārakriyām tasya kartum vyavasitaḥ pitā .. 7.4.19 ..
सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः । वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ॥ ७.४.२० ॥
सन्ध्यायाः तनयाम् सः अथ सन्ध्या-तुल्याम् प्रभावतः । वरयामास पुत्र-अर्थम् हेतिः राक्षस-पुङ्गवः ॥ ७।४।२० ॥
sandhyāyāḥ tanayām saḥ atha sandhyā-tulyām prabhāvataḥ . varayāmāsa putra-artham hetiḥ rākṣasa-puṅgavaḥ .. 7.4.20 ..
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया । चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ ७.४.२१ ॥
अवश्यम् एव दातव्या परस्मै सा इति सन्ध्यया । चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ ७।४।२१ ॥
avaśyam eva dātavyā parasmai sā iti sandhyayā . cintayitvā sutā dattā vidyutkeśāya rāghava .. 7.4.21 ..
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः । रमते स्म तया सार्धं पौलोम्या मघवानिव ॥ ७.४.२२ ॥
सन्ध्यायाः तनयाम् लब्ध्वा विद्युत्केशः निशाचरः । रमते स्म तया सार्धम् पौलोम्या मघवान् इव ॥ ७।४।२२ ॥
sandhyāyāḥ tanayām labdhvā vidyutkeśaḥ niśācaraḥ . ramate sma tayā sārdham paulomyā maghavān iva .. 7.4.22 ..
केनचित्त्वथ कालेन राम सालकटङ्कटा । विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ॥ ७.४.२३ ॥
केनचिद् तु अथ कालेन राम स अल-कटङ्कटा । विद्युत्-केशात् गर्भम् आप घन-राजिः इव अर्णवात् ॥ ७।४।२३ ॥
kenacid tu atha kālena rāma sa ala-kaṭaṅkaṭā . vidyut-keśāt garbham āpa ghana-rājiḥ iva arṇavāt .. 7.4.23 ..
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् । प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ॥ ७.४.२४ ॥
ततस् सा राक्षसी गर्भम् घन-गर्भ-सम-प्रभम् । प्रसूता मन्दरम् गत्वा गङ्गा गर्भम् इव अग्नि-जम् ॥ ७।४।२४ ॥
tatas sā rākṣasī garbham ghana-garbha-sama-prabham . prasūtā mandaram gatvā gaṅgā garbham iva agni-jam .. 7.4.24 ..
समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी । रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ॥ ७.४.२५ ॥
समुत्सृज्य तु सा गर्भम् विद्युत्-केश-रत-अर्थिनी । रेमे तु सार्धम् पतिना विस्मृत्य सुतम् आत्मजम् ॥ ७।४।२५ ॥
samutsṛjya tu sā garbham vidyut-keśa-rata-arthinī . reme tu sārdham patinā vismṛtya sutam ātmajam .. 7.4.25 ..
उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः । तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः । निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ॥ ७.४.२६ ॥
उत्सृष्टः तु तदा गर्भः घन-शब्द-सम-स्वनः । तया उत्सृष्टः स तु शिशुः शरद्-अर्क-सम-द्युतिः । निधाय आस्ये स्वयम् मुष्टिम् रुरोद शनकैस् तदा ॥ ७।४।२६ ॥
utsṛṣṭaḥ tu tadā garbhaḥ ghana-śabda-sama-svanaḥ . tayā utsṛṣṭaḥ sa tu śiśuḥ śarad-arka-sama-dyutiḥ . nidhāya āsye svayam muṣṭim ruroda śanakais tadā .. 7.4.26 ..
ततो वृषभमास्थाय पार्वत्या सहितः शिवः । वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ॥ ७.४.२७ ॥
ततस् वृषभम् आस्थाय पार्वत्या सहितः शिवः । वायु-मार्गेण गच्छन् वै शुश्राव रुदित-स्वनम् ॥ ७।४।२७ ॥
tatas vṛṣabham āsthāya pārvatyā sahitaḥ śivaḥ . vāyu-mārgeṇa gacchan vai śuśrāva rudita-svanam .. 7.4.27 ..
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् । कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ॥ ७.४.२८ ॥
अपश्यत् उमया सार्धम् रुदन्तम् राक्षस-आत्मजम् । कारुण्य-भावात् पार्वत्याः भवः त्रिपुरसूदनः ॥ ७।४।२८ ॥
apaśyat umayā sārdham rudantam rākṣasa-ātmajam . kāruṇya-bhāvāt pārvatyāḥ bhavaḥ tripurasūdanaḥ .. 7.4.28 ..
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् । अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः ॥ ७.४.२९ ॥
तम् राक्षस-आत्मजम् चक्रे मातुः एव वयः-समम् । अमरम् च एव तम् कृत्वा महादेवः अक्षरः अव्ययः ॥ ७।४।२९ ॥
tam rākṣasa-ātmajam cakre mātuḥ eva vayaḥ-samam . amaram ca eva tam kṛtvā mahādevaḥ akṣaraḥ avyayaḥ .. 7.4.29 ..
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया । उमयापि वरो दत्तो राक्षसानां नृपात्मज ॥ ७.४.३० ॥
पुरम् आकाश-गम् प्रादात् पार्वत्याः प्रिय-काम्यया । उमया अपि वरः दत्तः राक्षसानाम् नृप-आत्मज ॥ ७।४।३० ॥
puram ākāśa-gam prādāt pārvatyāḥ priya-kāmyayā . umayā api varaḥ dattaḥ rākṣasānām nṛpa-ātmaja .. 7.4.30 ..
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च । सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ॥ ७.४.३१ ॥
सद्यस् उपलब्धिः गर्भस्य प्रसूतिः सद्यस् एव च । सद्यस् एव वयः-प्राप्तिः मातुः एव वयः समम् ॥ ७।४।३१ ॥
sadyas upalabdhiḥ garbhasya prasūtiḥ sadyas eva ca . sadyas eva vayaḥ-prāptiḥ mātuḥ eva vayaḥ samam .. 7.4.31 ..
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः । चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ॥ ७.४.३२ ॥
ततस् सुकेशः वर-दान-गर्वितः श्रियम् प्रभोः प्राप्य हरस्य पार्श्वतस् । चचार सर्वत्र महान् महामतिः खगम् पुरम् प्राप्य पुरन्दरः यथा ॥ ७।४।३२ ॥
tatas sukeśaḥ vara-dāna-garvitaḥ śriyam prabhoḥ prāpya harasya pārśvatas . cacāra sarvatra mahān mahāmatiḥ khagam puram prāpya purandaraḥ yathā .. 7.4.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्थः सर्गः ॥ ४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुर्थः सर्गः ॥ ४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe caturthaḥ sargaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In