This overlay will guide you through the buttons:

| |
|
तथा स्म तेषां वसतामृक्षवानररक्षसाम् । राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥ ७.४०.१ ॥
तथा स्म तेषाम् वसताम् ऋक्ष-वानर-रक्षसाम् । राघवः तु महा-तेजाः सुग्रीवम् इदम् अब्रवीत् ॥ ७।४०।१ ॥
tathā sma teṣām vasatām ṛkṣa-vānara-rakṣasām . rāghavaḥ tu mahā-tejāḥ sugrīvam idam abravīt .. 7.40.1 ..
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः । पालयस्व सहामात्यो राज्यं निहतकण्टकम् ॥ ७.४०.२ ॥
गम्यताम् सौम्य किष्किन्धाम् दुराधर्षाम् सुर-असुरैः । पालयस्व सह अमात्यः राज्यम् निहत-कण्टकम् ॥ ७।४०।२ ॥
gamyatām saumya kiṣkindhām durādharṣām sura-asuraiḥ . pālayasva saha amātyaḥ rājyam nihata-kaṇṭakam .. 7.40.2 ..
अङ्गदं च महाबाहो प्रीत्या परमया युतः । पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥ ७.४०.३ ॥
अङ्गदम् च महा-बाहो प्रीत्या परमया युतः । पश्य त्वम् हनुमन्तम् च नलम् च सु महा-बलम् ॥ ७।४०।३ ॥
aṅgadam ca mahā-bāho prītyā paramayā yutaḥ . paśya tvam hanumantam ca nalam ca su mahā-balam .. 7.40.3 ..
सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् । कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ॥ ७.४०.४ ॥
सुषेणम् श्वशुरम् वीरम् तारम् च बलिनाम् वरम् । कुमुदम् च एव दुर्धर्षम् नीलम् च एव महा-बलम् ॥ ७।४०।४ ॥
suṣeṇam śvaśuram vīram tāram ca balinām varam . kumudam ca eva durdharṣam nīlam ca eva mahā-balam .. 7.40.4 ..
वीरं शतवलिं चैव मैन्दं द्विविदमेव च । गजं गवाक्षं गवयं शरभं च महाबलम् । पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ ७.४०.५ ॥
वीरम् शतवलिम् च एव मैन्दम् द्विविदम् एव च । गजम् गवाक्षम् गवयम् शरभम् च महा-बलम् । पश्य प्रीति-समायुक्तः गन्धमादनम् एव च ॥ ७।४०।५ ॥
vīram śatavalim ca eva maindam dvividam eva ca . gajam gavākṣam gavayam śarabham ca mahā-balam . paśya prīti-samāyuktaḥ gandhamādanam eva ca .. 7.40.5 ..
ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् । ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ॥ ७.४०.६ ॥
ऋषभम् च सु विक्रान्तम् जाम्बवन्तम् महा-बलम् । ये च इमे सु महात्मानः मद्-अर्थे त्यक्त-जीविताः ॥ ७।४०।६ ॥
ṛṣabham ca su vikrāntam jāmbavantam mahā-balam . ye ca ime su mahātmānaḥ mad-arthe tyakta-jīvitāḥ .. 7.40.6 ..
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥ ७.४०.७ ॥
पश्य त्वम् प्रीति-संयुक्तः मा च एषाम् विप्रियम् कृथाः ॥ ७।४०।७ ॥
paśya tvam prīti-saṃyuktaḥ mā ca eṣām vipriyam kṛthāḥ .. 7.40.7 ..
एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः । विभीषणमुवाचाथ रामो मधुरया गिरा ॥ ७.४०.८ ॥
एवम् उक्त्वा तु सुग्रीवम् आश्लिष्य च पुनर् पुनर् । विभीषणम् उवाच अथ रामः मधुरया गिरा ॥ ७।४०।८ ॥
evam uktvā tu sugrīvam āśliṣya ca punar punar . vibhīṣaṇam uvāca atha rāmaḥ madhurayā girā .. 7.40.8 ..
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम । पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ॥ ७.४०.९ ॥
लङ्काम् प्रशाधि धर्मेण धर्म-ज्ञः त्वम् मतः मम । पुरस्य राक्षसानाम् च स्व-भ्रातुः सम्मतः हि असि ॥ ७।४०।९ ॥
laṅkām praśādhi dharmeṇa dharma-jñaḥ tvam mataḥ mama . purasya rākṣasānām ca sva-bhrātuḥ sammataḥ hi asi .. 7.40.9 ..
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन । बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ ७.४०.१० ॥
मा च बुद्धिम् अधर्मे त्वम् कुर्याः राजन् कथञ्चन । बुद्धिमन्तः हि राजानः ध्रुवम् अश्नन्ति मेदिनीम् ॥ ७।४०।१० ॥
mā ca buddhim adharme tvam kuryāḥ rājan kathañcana . buddhimantaḥ hi rājānaḥ dhruvam aśnanti medinīm .. 7.40.10 ..
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया । स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥ ७.४०.११ ॥
अहम् च नित्यशस् राजन् सुग्रीव-सहितः त्वया । स्मर्तव्यः परया प्रीत्या गच्छ त्वम् विगत-ज्वरः ॥ ७।४०।११ ॥
aham ca nityaśas rājan sugrīva-sahitaḥ tvayā . smartavyaḥ parayā prītyā gaccha tvam vigata-jvaraḥ .. 7.40.11 ..
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः । साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ॥ ७.४०.१२ ॥
रामस्य भाषितम् श्रुत्वा ऋक्ष-वानर-राक्षसाः । साधु-साधु इति काकुत्स्थम् प्रशशंसुः पुनर् पुनर् ॥ ७।४०।१२ ॥
rāmasya bhāṣitam śrutvā ṛkṣa-vānara-rākṣasāḥ . sādhu-sādhu iti kākutstham praśaśaṃsuḥ punar punar .. 7.40.12 ..
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च । माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ॥ ७.४०.१३ ॥
तव बुद्धिः महा-बाहो वीर्यम् अद्भुतम् एव च । माधुर्यम् परमम् राम स्वयम्भोः इव नित्यदा ॥ ७।४०।१३ ॥
tava buddhiḥ mahā-bāho vīryam adbhutam eva ca . mādhuryam paramam rāma svayambhoḥ iva nityadā .. 7.40.13 ..
तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् । हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ॥ ७.४०.१४ ॥
तेषाम् एवम् ब्रुवाणानाम् वानराणाम् च राक्षसाम् । हनूमान् प्रवणः भूत्वा राघवम् वाक्यम् अब्रवीत् ॥ ७।४०।१४ ॥
teṣām evam bruvāṇānām vānarāṇām ca rākṣasām . hanūmān pravaṇaḥ bhūtvā rāghavam vākyam abravīt .. 7.40.14 ..
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा । भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ॥ ७.४०.१५ ॥
स्नेहः मे परमः राजन् त्वयि तिष्ठतु नित्यदा । भक्तिः च नियता वीर भावः न अन्यत्र गच्छतु ॥ ७।४०।१५ ॥
snehaḥ me paramaḥ rājan tvayi tiṣṭhatu nityadā . bhaktiḥ ca niyatā vīra bhāvaḥ na anyatra gacchatu .. 7.40.15 ..
वायद्रामकथा वीर चरिष्यति महीतले । तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ॥ ७.४०.१६ ॥
वायद्रामकथा वीर चरिष्यति मही-तले । तावत् शरीरे वत्स्यन्ति प्राणाः मम न संशयः ॥ ७।४०।१६ ॥
vāyadrāmakathā vīra cariṣyati mahī-tale . tāvat śarīre vatsyanti prāṇāḥ mama na saṃśayaḥ .. 7.40.16 ..
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन । तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ॥ ७.४०.१७ ॥
यत् च एतत् चरितम् दिव्यम् कथा ते रघुनन्दन । तत् मया अप्सरसः नाम श्रावयेयुः नर-ऋषभ ॥ ७।४०।१७ ॥
yat ca etat caritam divyam kathā te raghunandana . tat mayā apsarasaḥ nāma śrāvayeyuḥ nara-ṛṣabha .. 7.40.17 ..
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो । उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥ ७.४०.१८ ॥
तत् श्रुत्वा अहम् ततस् वीर तव चर्या-अमृतम् प्रभो । उत्कण्ठाम् ताम् हरिष्यामि मेघ-लेखाम् इव अनिलः ॥ ७।४०।१८ ॥
tat śrutvā aham tatas vīra tava caryā-amṛtam prabho . utkaṇṭhām tām hariṣyāmi megha-lekhām iva anilaḥ .. 7.40.18 ..
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् । उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ॥ ७.४०.१९ ॥
एवम् ब्रुवाणम् रामः तु हनूमन्तम् वरासनात् । उत्थाय सस्वजे स्नेहात् वाक्यम् एतत् उवाच ह ॥ ७।४०।१९ ॥
evam bruvāṇam rāmaḥ tu hanūmantam varāsanāt . utthāya sasvaje snehāt vākyam etat uvāca ha .. 7.40.19 ..
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः । चरिष्यति कथा यावदेषा लोके च मामिका । तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ॥ ७.४०.२० ॥
एवम् एतत् कपि-श्रेष्ठ भविता न अत्र संशयः । चरिष्यति कथा यावत् एषा लोके च मामिका । तावत् ते भविता कीर्तिः शरीरे अपि असवः तथा ॥ ७।४०।२० ॥
evam etat kapi-śreṣṭha bhavitā na atra saṃśayaḥ . cariṣyati kathā yāvat eṣā loke ca māmikā . tāvat te bhavitā kīrtiḥ śarīre api asavaḥ tathā .. 7.40.20 ..
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ॥ ७.४०.२१ ॥
लोकाः हि यावत् स्थास्यन्ति तावत् स्थास्यति मे कथा ॥ ७।४०।२१ ॥
lokāḥ hi yāvat sthāsyanti tāvat sthāsyati me kathā .. 7.40.21 ..
लोके च मामिका । एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे । नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ॥ ७.४०.२२ ॥
लोके च मामिका । एकैकस्य उपकारस्य प्राणान् दास्यामि ते कपे । नरः प्रत्युपकाराणाम् आपः तु आयाति पात्र-ताम् ॥ ७।४०।२२ ॥
loke ca māmikā . ekaikasya upakārasya prāṇān dāsyāmi te kape . naraḥ pratyupakārāṇām āpaḥ tu āyāti pātra-tām .. 7.40.22 ..
ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः । वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥ ७.४०.२३ ॥
ततस् अस्य हारम् चन्द्र-आभम् मुच्य कण्ठात् स राघवः । वैडूर्य-तरलम् कण्ठे बबन्ध च हनूमतः ॥ ७।४०।२३ ॥
tatas asya hāram candra-ābham mucya kaṇṭhāt sa rāghavaḥ . vaiḍūrya-taralam kaṇṭhe babandha ca hanūmataḥ .. 7.40.23 ..
तेनोरसि निबद्धेन हारेण महता कपिः । रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ ७.४०.२४ ॥
तेन उरसि निबद्धेन हारेण महता कपिः । रराज हेमशैल-इन्द्रः चन्द्रेण आक्रान्त-मस्तकः ॥ ७।४०।२४ ॥
tena urasi nibaddhena hāreṇa mahatā kapiḥ . rarāja hemaśaila-indraḥ candreṇa ākrānta-mastakaḥ .. 7.40.24 ..
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः । प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ ७.४०.२५ ॥
श्रुत्वा तु राघवस्य एतत् उत्थाय उत्थाय वानराः । प्रणम्य शिरसा पादौ निर्जग्मुः ते महा-बलाः ॥ ७।४०।२५ ॥
śrutvā tu rāghavasya etat utthāya utthāya vānarāḥ . praṇamya śirasā pādau nirjagmuḥ te mahā-balāḥ .. 7.40.25 ..
सुग्रीवः स च रामेण निरन्तरमुरोगतः । विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ॥ ७.४०.२६ ॥
सुग्रीवः स च रामेण निरन्तरम् उरोगतः । विभीषणः च धर्म-आत्मा सर्वे ते बाष्प-विक्लवाः ॥ ७।४०।२६ ॥
sugrīvaḥ sa ca rāmeṇa nirantaram urogataḥ . vibhīṣaṇaḥ ca dharma-ātmā sarve te bāṣpa-viklavāḥ .. 7.40.26 ..
सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः । सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ॥ ७.४०.२७ ॥
सर्वे च ते बाष्प-कलाः स अश्रु-नेत्राः विचेतसः । सम्मूढाः इव दुःखेन त्यजन्तः राघवम् तदा ॥ ७।४०।२७ ॥
sarve ca te bāṣpa-kalāḥ sa aśru-netrāḥ vicetasaḥ . sammūḍhāḥ iva duḥkhena tyajantaḥ rāghavam tadā .. 7.40.27 ..
कृतप्रसादास्तेनैवं राघवेण महात्मना । जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ ७.४०.२८ ॥
कृत-प्रसादाः तेन एवम् राघवेण महात्मना । जग्मुः स्वम् स्वम् गृहम् सर्वे देही देहम् इव त्यजन् ॥ ७।४०।२८ ॥
kṛta-prasādāḥ tena evam rāghaveṇa mahātmanā . jagmuḥ svam svam gṛham sarve dehī deham iva tyajan .. 7.40.28 ..
ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् । वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ॥ ७.४०.२९ ॥
ततस् तु ते राक्षस-ऋक्ष-वानराः प्रणम्य रामम् रघु-वंश-वर्धनम् । वियोग-ज-अश्रु-प्रतिपूर्ण-लोचनाः प्रतिप्रयाताः तु यथा निवासिनः ॥ ७।४०।२९ ॥
tatas tu te rākṣasa-ṛkṣa-vānarāḥ praṇamya rāmam raghu-vaṃśa-vardhanam . viyoga-ja-aśru-pratipūrṇa-locanāḥ pratiprayātāḥ tu yathā nivāsinaḥ .. 7.40.29 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चत्वारिंशः सर्गः ॥ ४० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe catvāriṃśaḥ sargaḥ .. 40 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In