This overlay will guide you through the buttons:

| |
|
विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् । भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ ७.४१.१ ॥
विसृज्य च महा-बाहुः ऋक्ष-वानर-राक्षसान् । भ्रातृभिः सहितः रामः प्रमुमोद सुखम् सुखी ॥ ७।४१।१ ॥
visṛjya ca mahā-bāhuḥ ṛkṣa-vānara-rākṣasān . bhrātṛbhiḥ sahitaḥ rāmaḥ pramumoda sukham sukhī .. 7.41.1 ..
अथापराह्णसमये भ्रातृभिः सह राघवः । शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ॥ ७.४१.२ ॥
अथ अपराह्ण-समये भ्रातृभिः सह राघवः । शुश्राव मधुराम् वाणीम् अन्तरिक्षात् प्रभाषिताम् ॥ ७।४१।२ ॥
atha aparāhṇa-samaye bhrātṛbhiḥ saha rāghavaḥ . śuśrāva madhurām vāṇīm antarikṣāt prabhāṣitām .. 7.41.2 ..
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् । कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥ ७.४१.३ ॥
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् । कुबेर-भवनात् प्राप्तम् विद्धि माम् पुष्पकम् प्रभो ॥ ७।४१।३ ॥
saumya rāma nirīkṣasva saumyena vadanena mām . kubera-bhavanāt prāptam viddhi mām puṣpakam prabho .. 7.41.3 ..
तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति । उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ॥ ७.४१.४ ॥
तव शासनम् आज्ञाय गतः अस्मि भवनम् प्रति । उपस्थातुम् नर-श्रेष्ठ स च माम् प्रत्यभाषत ॥ ७।४१।४ ॥
tava śāsanam ājñāya gataḥ asmi bhavanam prati . upasthātum nara-śreṣṭha sa ca mām pratyabhāṣata .. 7.41.4 ..
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना । निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥ ७.४१.५ ॥
निर्जितः त्वम् नरेन्द्रेण राघवेण महात्मना । निहत्य युधि दुर्धर्षम् रावणम् राक्षसेश्वरम् ॥ ७।४१।५ ॥
nirjitaḥ tvam narendreṇa rāghaveṇa mahātmanā . nihatya yudhi durdharṣam rāvaṇam rākṣaseśvaram .. 7.41.5 ..
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि । रावणे सगणे चैव सपुत्रे सहबान्धवे ॥ ७.४१.६ ॥
मम अपि परमा प्रीतः हते तस्मिन् दुरात्मनि । रावणे स गणे च एव स पुत्रे सहबान्धवे ॥ ७।४१।६ ॥
mama api paramā prītaḥ hate tasmin durātmani . rāvaṇe sa gaṇe ca eva sa putre sahabāndhave .. 7.41.6 ..
स त्वं रामेण लङ्कायां निर्जितः परमात्मना । वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ ७.४१.७ ॥
स त्वम् रामेण लङ्कायाम् निर्जितः परमात्मना । वह सौम्य तम् एव त्वम् अहम् आज्ञापयामि ते ॥ ७।४१।७ ॥
sa tvam rāmeṇa laṅkāyām nirjitaḥ paramātmanā . vaha saumya tam eva tvam aham ājñāpayāmi te .. 7.41.7 ..
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् । वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥ ७.४१.८ ॥
परमः हि एष मे कामः यत् त्वम् राघव-नन्दनम् । वहेः लोकस्य संयानम् गच्छस्व विगत-ज्वरः ॥ ७।४१।८ ॥
paramaḥ hi eṣa me kāmaḥ yat tvam rāghava-nandanam . vaheḥ lokasya saṃyānam gacchasva vigata-jvaraḥ .. 7.41.8 ..
सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः । त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ॥ ७.४१.९ ॥
सः अहम् शासनम् आज्ञाय धनदस्य महात्मनः । त्वद्-सकाशम् अनुप्राप्तः निर्विशङ्कः प्रतीक्ष माम् ॥ ७।४१।९ ॥
saḥ aham śāsanam ājñāya dhanadasya mahātmanaḥ . tvad-sakāśam anuprāptaḥ nirviśaṅkaḥ pratīkṣa mām .. 7.41.9 ..
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया । चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ॥ ७.४१.१० ॥
अदृष्यः सर्व-भूतानाम् सर्वेषाम् धनद-आज्ञया । चरामि अहम् प्रभावेण तव आज्ञाम् परिपालयन् ॥ ७।४१।१० ॥
adṛṣyaḥ sarva-bhūtānām sarveṣām dhanada-ājñayā . carāmi aham prabhāveṇa tava ājñām paripālayan .. 7.41.10 ..
एवमुक्तस्तदा रामः पुष्पकेण महाबलः । उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥ ७.४१.११ ॥
एवम् उक्तः तदा रामः पुष्पकेण महा-बलः । उवाच पुष्पकम् दृष्ट्वा विमानम् पुनर् आगतम् ॥ ७।४१।११ ॥
evam uktaḥ tadā rāmaḥ puṣpakeṇa mahā-balaḥ . uvāca puṣpakam dṛṣṭvā vimānam punar āgatam .. 7.41.11 ..
यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक । आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ॥ ७.४१.१२ ॥
यदि एवम् स्वागतम् ते अस्तु विमान-वर पुष्पक । आनुकूल्यात् धनेशस्य वृत्त-दोषः न नः भवेत् ॥ ७।४१।१२ ॥
yadi evam svāgatam te astu vimāna-vara puṣpaka . ānukūlyāt dhaneśasya vṛtta-doṣaḥ na naḥ bhavet .. 7.41.12 ..
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः । पूजयित्वा महाबाहू राघवः पुष्पकं तदा ॥ ७.४१.१३ ॥
लाजैः च एव तथा पुष्पैः धूपैः च एव सुगन्धिभिः । पूजयित्वा महा-बाहू राघवः पुष्पकम् तदा ॥ ७।४१।१३ ॥
lājaiḥ ca eva tathā puṣpaiḥ dhūpaiḥ ca eva sugandhibhiḥ . pūjayitvā mahā-bāhū rāghavaḥ puṣpakam tadā .. 7.41.13 ..
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा । सिद्धानां च गतौ सौम्य मा विषादेन योजय । प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ॥ ७.४१.१४ ॥
गम्यताम् इति च उवाच आगच्छ त्वम् स्मरे यदा । सिद्धानाम् च गतौ सौम्य मा विषादेन योजय । प्रतिघातः च ते मा भूत् यथेष्टम् गच्छतः दिशः ॥ ७।४१।१४ ॥
gamyatām iti ca uvāca āgaccha tvam smare yadā . siddhānām ca gatau saumya mā viṣādena yojaya . pratighātaḥ ca te mā bhūt yatheṣṭam gacchataḥ diśaḥ .. 7.41.14 ..
एवमस्त्विति रामेण पूजयित्वा विसर्जितम् । अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥ ७.४१.१५ ॥
एवम् अस्तु इति रामेण पूजयित्वा विसर्जितम् । अभिप्रेताम् दिशम् तस्मात् प्रायात् तत् पुष्पकम् तदा ॥ ७।४१।१५ ॥
evam astu iti rāmeṇa pūjayitvā visarjitam . abhipretām diśam tasmāt prāyāt tat puṣpakam tadā .. 7.41.15 ..
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि । भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥ ७.४१.१६ ॥
एवम् अन्तर्हिते तस्मिन् पुष्पके सुकृत-आत्मनि । भरतः प्राञ्जलिः वाक्यम् उवाच रघुनन्दनम् ॥ ७।४१।१६ ॥
evam antarhite tasmin puṣpake sukṛta-ātmani . bharataḥ prāñjaliḥ vākyam uvāca raghunandanam .. 7.41.16 ..
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति । अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ॥ ७.४१.१७ ॥
विविध-आत्मनि दृश्यन्ते त्वयि वीर प्रशासति । अमानुषाणाम् सत्त्वानाम् व्याहृतानि मुहुर् मुहुर् ॥ ७।४१।१७ ॥
vividha-ātmani dṛśyante tvayi vīra praśāsati . amānuṣāṇām sattvānām vyāhṛtāni muhur muhur .. 7.41.17 ..
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् । जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥ ७.४१.१८ ॥
अनामयः च सत्वानाम् साग्रः मासः गतः हि अयम् । जीर्णानाम् अपि सत्त्वानाम् मृत्युः न आयाति राघव ॥ ७।४१।१८ ॥
anāmayaḥ ca satvānām sāgraḥ māsaḥ gataḥ hi ayam . jīrṇānām api sattvānām mṛtyuḥ na āyāti rāghava .. 7.41.18 ..
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः । हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥ ७.४१.१९ ॥
अरोग-प्रसवाः नार्यः वपुष्मन्तः हि मानवाः । हर्षः च अभ्यधिकः राजन् जनस्य पुर-वासिनः ॥ ७।४१।१९ ॥
aroga-prasavāḥ nāryaḥ vapuṣmantaḥ hi mānavāḥ . harṣaḥ ca abhyadhikaḥ rājan janasya pura-vāsinaḥ .. 7.41.19 ..
काले वर्षति पर्जन्यः पातयन्नमृतं पयः । वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ॥ ७.४१.२० ॥
काले वर्षति पर्जन्यः पातयन् अमृतम् पयः । वाताः च अपि प्रवान्ति एते स्पर्श-युक्ताः सुखाः शिवाः ॥ ७।४१।२० ॥
kāle varṣati parjanyaḥ pātayan amṛtam payaḥ . vātāḥ ca api pravānti ete sparśa-yuktāḥ sukhāḥ śivāḥ .. 7.41.20 ..
ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः । कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥ ७.४१.२१ ॥
ईदृशः अनश्वरः राजा भवेत् इति नरेश्वरः । कथयन्ति पुरे राजन् पौर-जानपदाः तथा ॥ ७।४१।२१ ॥
īdṛśaḥ anaśvaraḥ rājā bhavet iti nareśvaraḥ . kathayanti pure rājan paura-jānapadāḥ tathā .. 7.41.21 ..
एता वाचः सुमधुरा भरतेन समीरिताः । श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ॥ ७.४१.२२ ॥
एताः वाचः सुमधुराः भरतेन समीरिताः । श्रुत्वा रामः मुदा युक्तः बभूव नृप-सत्तमः ॥ ७।४१।२२ ॥
etāḥ vācaḥ sumadhurāḥ bharatena samīritāḥ . śrutvā rāmaḥ mudā yuktaḥ babhūva nṛpa-sattamaḥ .. 7.41.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekacatvāriṃśaḥ sargaḥ .. 41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In