This overlay will guide you through the buttons:

| |
|
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः । कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ ७.४३.१ ॥
तत्र उपविष्टम् राजानम् उपासन्ते विचक्षणाः । कथानाम् बहुरूपाणाम् हास्य-काराः समन्ततः ॥ ७।४३।१ ॥
tatra upaviṣṭam rājānam upāsante vicakṣaṇāḥ . kathānām bahurūpāṇām hāsya-kārāḥ samantataḥ .. 7.43.1 ..
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः । सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ॥ ७.४३.२ ॥
विजयः मधुमत्तः च काश्यपः मङ्गलः कुटः । ॥ ७।४३।२ ॥
vijayaḥ madhumattaḥ ca kāśyapaḥ maṅgalaḥ kuṭaḥ . .. 7.43.2 ..
एते कथा बहुविधाः परिहाससमन्विताः । कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ॥ ७.४३.३ ॥
एते कथाः बहुविधाः परिहास-समन्विताः । कथयन्ति स्म संहृष्टाः राघवस्य महात्मनः ॥ ७।४३।३ ॥
ete kathāḥ bahuvidhāḥ parihāsa-samanvitāḥ . kathayanti sma saṃhṛṣṭāḥ rāghavasya mahātmanaḥ .. 7.43.3 ..
ततः कथायां कस्याञ्चिद्राघवः समभाषत । काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ ७.४३.४ ॥
ततस् कथायाम् कस्याञ्चिद् राघवः समभाषत । काः कथाः नगरे भद्र वर्तन्ते विषयेषु च ॥ ७।४३।४ ॥
tatas kathāyām kasyāñcid rāghavaḥ samabhāṣata . kāḥ kathāḥ nagare bhadra vartante viṣayeṣu ca .. 7.43.4 ..
मामाश्रितानि कान्याहुः पौरजानपदा जनाः । किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ॥ ७.४३.५ ॥
माम् आश्रितानि कानि आहुः पौर-जानपदाः जनाः । किम् च सीताम् समाश्रित्य भरतम् किम् च लक्ष्मणम् ॥ ७।४३।५ ॥
mām āśritāni kāni āhuḥ paura-jānapadāḥ janāḥ . kim ca sītām samāśritya bharatam kim ca lakṣmaṇam .. 7.43.5 ..
किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् । वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ॥ ७.४३.६ ॥
किम् नु शत्रुघ्नम् उद्दिश्य कैकयीम् किम् नु मातरम् । वक्तव्यताम् च राजानः वरे राज्ये व्रजन्ति च ॥ ७।४३।६ ॥
kim nu śatrughnam uddiśya kaikayīm kim nu mātaram . vaktavyatām ca rājānaḥ vare rājye vrajanti ca .. 7.43.6 ..
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् । स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ॥ ७.४३.७ ॥
एवम् उक्ते तु रामेण भद्रः प्राञ्जलिः अब्रवीत् । स्थिताः कथा शुभाः राजन् वर्तन्ते पुर-वासिनाम् ॥ ७।४३।७ ॥
evam ukte tu rāmeṇa bhadraḥ prāñjaliḥ abravīt . sthitāḥ kathā śubhāḥ rājan vartante pura-vāsinām .. 7.43.7 ..
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् । भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥ ७.४३.८ ॥
अमुम् तु विजयम् सौम्य दशग्रीव-वध-अर्जितम् । भूयिष्ठम् स्व-पुरे पौरैः कथ्यन्ते पुरुष-ऋषभ ॥ ७।४३।८ ॥
amum tu vijayam saumya daśagrīva-vadha-arjitam . bhūyiṣṭham sva-pure pauraiḥ kathyante puruṣa-ṛṣabha .. 7.43.8 ..
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् । कथयस्व यथातत्त्वं सर्वं निरवशेषतः ॥ ७.४३.९ ॥
एवम् उक्तः तु भद्रेण राघवः वाक्यम् अब्रवीत् । कथयस्व यथातत्त्वम् सर्वम् निरवशेषतः ॥ ७।४३।९ ॥
evam uktaḥ tu bhadreṇa rāghavaḥ vākyam abravīt . kathayasva yathātattvam sarvam niravaśeṣataḥ .. 7.43.9 ..
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः । श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ॥ ७.४३.१० ॥
शुभ-अशुभानि वाक्यानि यानि आहुः पुर-वासिनः । श्रुत्वा इदानीम् शुभम् कुर्याम् न कुर्याम् अशुभानि च ॥ ७।४३।१० ॥
śubha-aśubhāni vākyāni yāni āhuḥ pura-vāsinaḥ . śrutvā idānīm śubham kuryām na kuryām aśubhāni ca .. 7.43.10 ..
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः । कथयन्ति यथा पौराः पापा जनपदेषु च ॥ ७.४३.११ ॥
कथयस्व च विस्रब्धः निर्भयम् विगत-ज्वरः । कथयन्ति यथा पौराः पापाः जनपदेषु च ॥ ७।४३।११ ॥
kathayasva ca visrabdhaḥ nirbhayam vigata-jvaraḥ . kathayanti yathā paurāḥ pāpāḥ janapadeṣu ca .. 7.43.11 ..
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः । प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ ७.४३.१२ ॥
राघवेण एवम् उक्तः तु भद्रः सु रुचिरम् वचः । प्रत्युवाच महा-बाहुम् प्राञ्जलिः सु समाहितः ॥ ७।४३।१२ ॥
rāghaveṇa evam uktaḥ tu bhadraḥ su ruciram vacaḥ . pratyuvāca mahā-bāhum prāñjaliḥ su samāhitaḥ .. 7.43.12 ..
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् । चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ ७.४३.१३ ॥
शृणु राजन् यथा पौराः कथयन्ति शुभ-अशुभम् । चत्वर-आपण-रथ्यासु वनेषु उपवनेषु च ॥ ७।४३।१३ ॥
śṛṇu rājan yathā paurāḥ kathayanti śubha-aśubham . catvara-āpaṇa-rathyāsu vaneṣu upavaneṣu ca .. 7.43.13 ..
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् । अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥ ७.४३.१४ ॥
दुष्करम् कृतवान् रामः समुद्रे सेतु-बन्धनम् । अ श्रुतम् पूर्वकैः कैश्चिद् देवैः अपि स दानवैः ॥ ७।४३।१४ ॥
duṣkaram kṛtavān rāmaḥ samudre setu-bandhanam . a śrutam pūrvakaiḥ kaiścid devaiḥ api sa dānavaiḥ .. 7.43.14 ..
रावणश्च दुराधर्षो हतः सबलवाहनः । वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥ ७.४३.१५ ॥
रावणः च दुराधर्षः हतः स बल-वाहनः । वानराः च वशम् नीताः ऋक्षाः च सह राक्षसैः ॥ ७।४३।१५ ॥
rāvaṇaḥ ca durādharṣaḥ hataḥ sa bala-vāhanaḥ . vānarāḥ ca vaśam nītāḥ ṛkṣāḥ ca saha rākṣasaiḥ .. 7.43.15 ..
हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः । अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ ७.४३.१६ ॥
हत्वा च रावणम् सङ्ख्ये सीताम् आहृत्य राघवः । अमर्षम् पृष्ठतस् कृत्वा स्व-वेश्म पुनर् आनयत् ॥ ७।४३।१६ ॥
hatvā ca rāvaṇam saṅkhye sītām āhṛtya rāghavaḥ . amarṣam pṛṣṭhatas kṛtvā sva-veśma punar ānayat .. 7.43.16 ..
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् । अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ ७.४३.१७ ॥
कीदृशम् हृदये तस्य सीता-सम्भोग-जम् सुखम् । अङ्कम् आरोप्य तु पुरा रावणेन बलात् हृताम् ॥ ७।४३।१७ ॥
kīdṛśam hṛdaye tasya sītā-sambhoga-jam sukham . aṅkam āropya tu purā rāvaṇena balāt hṛtām .. 7.43.17 ..
लङ्कामपि पुरा नीतामशोकवनिकां गताम् । रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ ७.४३.१८ ॥
लङ्काम् अपि पुरा नीताम् अशोक-वनिकाम् गताम् । रक्षसाम् वशम् आपन्नाम् कथम् रामः न कुत्सते ॥ ७।४३।१८ ॥
laṅkām api purā nītām aśoka-vanikām gatām . rakṣasām vaśam āpannām katham rāmaḥ na kutsate .. 7.43.18 ..
अस्माकमपि दारेषु सहनीयं भविष्यति । यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥ ७.४३.१९ ॥
अस्माकम् अपि दारेषु सहनीयम् भविष्यति । यथा हि कुरुते राजा प्रजा तम् अनुवर्तते ॥ ७।४३।१९ ॥
asmākam api dāreṣu sahanīyam bhaviṣyati . yathā hi kurute rājā prajā tam anuvartate .. 7.43.19 ..
एवं बहुविधा वाचो वदन्ति पुरवासिनः । नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥ ७.४३.२० ॥
एवम् बहुविधाः वाचः वदन्ति पुर-वासिनः । नगरेषु च सर्वेषु राजन् जनपदेषु च ॥ ७।४३।२० ॥
evam bahuvidhāḥ vācaḥ vadanti pura-vāsinaḥ . nagareṣu ca sarveṣu rājan janapadeṣu ca .. 7.43.20 ..
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् । उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ॥ ७.४३.२१ ॥
तस्य एवम् भाषितम् श्रुत्वा राघवः परम-आर्त-वत् । उवाच सुहृदः सर्वान् कथम् एतत् ब्रवीथ माम् ॥ ७।४३।२१ ॥
tasya evam bhāṣitam śrutvā rāghavaḥ parama-ārta-vat . uvāca suhṛdaḥ sarvān katham etat bravītha mām .. 7.43.21 ..
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च । प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ ७.४३.२२ ॥
सर्वे तु शिरसा भूमौ अभिवाद्य प्रणम्य च । प्रत्यूचुः राघवम् दीनम् एवम् एतत् न संशयः ॥ ७।४३।२२ ॥
sarve tu śirasā bhūmau abhivādya praṇamya ca . pratyūcuḥ rāghavam dīnam evam etat na saṃśayaḥ .. 7.43.22 ..
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् । विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ॥ ७.४३.२३ ॥
श्रुत्वा तु वाक्यम् काकुत्स्थः सर्वेषाम् समुदीरितम् । विसर्जयामास तदा वयस्यान् शत्रु-सूदनः ॥ ७।४३।२३ ॥
śrutvā tu vākyam kākutsthaḥ sarveṣām samudīritam . visarjayāmāsa tadā vayasyān śatru-sūdanaḥ .. 7.43.23 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe tricatvāriṃśaḥ sargaḥ .. 43 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In