This overlay will guide you through the buttons:

| |
|
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः । समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥ ७.४४.१ ॥
विसृज्य तु सुहृद्-वर्गम् बुद्ध्या निश्चित्य राघवः । समीपे द्वाःस्थम् आसीनम् इदम् वचनम् अब्रवीत् ॥ ७।४४।१ ॥
visṛjya tu suhṛd-vargam buddhyā niścitya rāghavaḥ . samīpe dvāḥstham āsīnam idam vacanam abravīt .. 7.44.1 ..
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् । भरतं च महाभागं शत्रुघ्नमपराजितम् ॥ ७.४४.२ ॥
शीघ्रम् आनय सौमित्रिम् लक्ष्मणम् शुभ-लक्षणम् । भरतम् च महाभागम् शत्रुघ्नम् अपराजितम् ॥ ७।४४।२ ॥
śīghram ānaya saumitrim lakṣmaṇam śubha-lakṣaṇam . bharatam ca mahābhāgam śatrughnam aparājitam .. 7.44.2 ..
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः । लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ७.४४.३ ॥
रामस्य वचनम् श्रुत्वा द्वाःस्थः मूर्ध्नि कृताञ्जलिः । लक्ष्मणस्य गृहम् गत्वा प्रविवेश अनिवारितः ॥ ७।४४।३ ॥
rāmasya vacanam śrutvā dvāḥsthaḥ mūrdhni kṛtāñjaliḥ . lakṣmaṇasya gṛham gatvā praviveśa anivāritaḥ .. 7.44.3 ..
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः । द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ ७.४४.४ ॥
उवाच सु महात्मानम् वर्धयित्वा कृताञ्जलिः । द्रष्टुम् इच्छति राजा त्वाम् गम्यताम् तत्र मा चिरम् ॥ ७।४४।४ ॥
uvāca su mahātmānam vardhayitvā kṛtāñjaliḥ . draṣṭum icchati rājā tvām gamyatām tatra mā ciram .. 7.44.4 ..
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् । प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ ७.४४.५ ॥
बाढम् इति एव सौमित्रिः श्रुत्वा राघव-शासनम् । प्राद्रवत् रथम् आरुह्य राघवस्य निवेशनम् ॥ ७।४४।५ ॥
bāḍham iti eva saumitriḥ śrutvā rāghava-śāsanam . prādravat ratham āruhya rāghavasya niveśanam .. 7.44.5 ..
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् । उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ७.४४.६ ॥
प्रयान्तम् लक्ष्मणम् दृष्ट्वा द्वाःस्थः भरतम् अन्तिकात् । उवाच भरतम् तत्र वर्धयित्वा कृताञ्जलिः ॥ ७।४४।६ ॥
prayāntam lakṣmaṇam dṛṣṭvā dvāḥsthaḥ bharatam antikāt . uvāca bharatam tatra vardhayitvā kṛtāñjaliḥ .. 7.44.6 ..
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति । भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ॥ ७.४४.७ ॥
विनय-अवनतः भूत्वा राजा त्वाम् द्रष्टुम् इच्छति । भरतः तु वचः श्रुत्वा द्वाःस्थात् राम-समीरितम् ॥ ७।४४।७ ॥
vinaya-avanataḥ bhūtvā rājā tvām draṣṭum icchati . bharataḥ tu vacaḥ śrutvā dvāḥsthāt rāma-samīritam .. 7.44.7 ..
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली । दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ ७.४४.८ ॥
उत्पपात आसनात् तूर्णम् पद्भ्याम् एव ययौ बली । दृष्ट्वा प्रयान्तम् भरतम् त्वरमाणः कृत-अञ्जलिः ॥ ७।४४।८ ॥
utpapāta āsanāt tūrṇam padbhyām eva yayau balī . dṛṣṭvā prayāntam bharatam tvaramāṇaḥ kṛta-añjaliḥ .. 7.44.8 ..
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह । एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ ७.४४.९ ॥
शत्रुघ्न-भवनम् गत्वा ततस् वाक्यम् उवाच ह । एहि आगच्छ रघु-श्रेष्ठ राजा त्वाम् द्रष्टुम् इच्छति ॥ ७।४४।९ ॥
śatrughna-bhavanam gatvā tatas vākyam uvāca ha . ehi āgaccha raghu-śreṣṭha rājā tvām draṣṭum icchati .. 7.44.9 ..
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः । श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ॥ ७.४४.१० ॥
गतः हि लक्ष्मणः पूर्वम् भरतः च महा-यशाः । श्रुत्वा तु वचनम् तस्य शत्रुघ्नः परम-आसनात् ॥ ७।४४।१० ॥
gataḥ hi lakṣmaṇaḥ pūrvam bharataḥ ca mahā-yaśāḥ . śrutvā tu vacanam tasya śatrughnaḥ parama-āsanāt .. 7.44.10 ..
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः । द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः । निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ॥ ७.४४.११ ॥
शिरसा धरणीम् प्राप्य प्रययौ यत्र राघवः । द्वाःस्थः तु आगम्य रामाय सर्वान् एव कृताञ्जलिः । निवेदयामास तदा भ्रातऽन् स्वान् समुपस्थितान् ॥ ७।४४।११ ॥
śirasā dharaṇīm prāpya prayayau yatra rāghavaḥ . dvāḥsthaḥ tu āgamya rāmāya sarvān eva kṛtāñjaliḥ . nivedayāmāsa tadā bhrāta'n svān samupasthitān .. 7.44.11 ..
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः । अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ॥ ७.४४.१२ ॥
कुमारान् आगतान् श्रुत्वा चिन्ता-व्याकुलित-इन्द्रियः । अवाक् मुखः दीन-मनाः द्वाःस्थम् वचनम् अब्रवीत् ॥ ७।४४।१२ ॥
kumārān āgatān śrutvā cintā-vyākulita-indriyaḥ . avāk mukhaḥ dīna-manāḥ dvāḥstham vacanam abravīt .. 7.44.12 ..
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः । एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥ ७.४४.१३ ॥
प्रवेशय कुमारान् त्वम् मद्-समीपम् त्वरा-अन्वितः । एतेषु जीवितम् मह्यम् एते प्राणाः प्रियाः मम ॥ ७।४४।१३ ॥
praveśaya kumārān tvam mad-samīpam tvarā-anvitaḥ . eteṣu jīvitam mahyam ete prāṇāḥ priyāḥ mama .. 7.44.13 ..
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः । प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥ ७.४४.१४ ॥
आज्ञप्ताः तु नरेन्द्रेण कुमाराः शक्र-तेजसः । प्रह्वाः प्राञ्जलयः भूत्वा विविशुः ते समाहिताः ॥ ७।४४।१४ ॥
ājñaptāḥ tu narendreṇa kumārāḥ śakra-tejasaḥ . prahvāḥ prāñjalayaḥ bhūtvā viviśuḥ te samāhitāḥ .. 7.44.14 ..
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा । सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥ ७.४४.१५ ॥
ते तु दृष्ट्वा मुखम् तस्य स ग्रहम् शशिनम् यथा । सन्ध्या-गतम् इव आदित्यम् प्रभया परिवर्जितम् ॥ ७।४४।१५ ॥
te tu dṛṣṭvā mukham tasya sa graham śaśinam yathā . sandhyā-gatam iva ādityam prabhayā parivarjitam .. 7.44.15 ..
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः । हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ ७.४४.१६ ॥
बाष्प-पूर्णे च नयने दृष्ट्वा रामस्य धीमतः । हत-शोभम् यथा पद्मम् मुखम् वीक्ष्य च तस्य ते ॥ ७।४४।१६ ॥
bāṣpa-pūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ . hata-śobham yathā padmam mukham vīkṣya ca tasya te .. 7.44.16 ..
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः । तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ॥ ७.४४.१७ ॥
ततस् अभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः । तस्थुः समाहिताः सर्वे रामः तु अश्रूणि अवर्तयत् ॥ ७।४४।१७ ॥
tatas abhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ . tasthuḥ samāhitāḥ sarve rāmaḥ tu aśrūṇi avartayat .. 7.44.17 ..
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः । आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ॥ ७.४४.१८ ॥
तान् परिष्वज्य बाहुभ्याम् उत्थाप्य च महा-बलः । आसनेषु आसत इति उक्त्वा ततस् वाक्यम् जगाद ह ॥ ७।४४।१८ ॥
tān pariṣvajya bāhubhyām utthāpya ca mahā-balaḥ . āsaneṣu āsata iti uktvā tatas vākyam jagāda ha .. 7.44.18 ..
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम । भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥ ७.४४.१९ ॥
भवन्तः मम सर्व-स्वम् भवन्तः जीवितम् मम । भवद्भिः च कृतम् राज्यम् पालयामि नरेश्वराः ॥ ७।४४।१९ ॥
bhavantaḥ mama sarva-svam bhavantaḥ jīvitam mama . bhavadbhiḥ ca kṛtam rājyam pālayāmi nareśvarāḥ .. 7.44.19 ..
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः । सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ॥ ७.४४.२० ॥
भवन्तः कृत-शास्त्र-अर्थाः बुद्ध्या च परिनिष्ठिताः । सम्भूय च मद्-अर्थः अयम् अन्वेष्टव्यः नरेश्वराः ॥ ७।४४।२० ॥
bhavantaḥ kṛta-śāstra-arthāḥ buddhyā ca pariniṣṭhitāḥ . sambhūya ca mad-arthaḥ ayam anveṣṭavyaḥ nareśvarāḥ .. 7.44.20 ..
तथा वदति काकुत्स्थे अवधानपरायणाः । उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ॥ ७.४४.२१ ॥
तथा वदति काकुत्स्थे अवधान-परायणाः । उद्विग्न-मनसः सर्वे किम् नु राजा अभिधास्यति ॥ ७।४४।२१ ॥
tathā vadati kākutsthe avadhāna-parāyaṇāḥ . udvigna-manasaḥ sarve kim nu rājā abhidhāsyati .. 7.44.21 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe catuścatvāriṃśaḥ sargaḥ .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In