This overlay will guide you through the buttons:

| |
|
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् । उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥ ७.४५.१ ॥
तेषाम् समुपविष्टानाम् सर्वेषाम् दीन-चेतसाम् । उवाच वाक्यम् काकुत्स्थः मुखेन परिशुष्यता ॥ ७।४५।१ ॥
teṣām samupaviṣṭānām sarveṣām dīna-cetasām . uvāca vākyam kākutsthaḥ mukhena pariśuṣyatā .. 7.45.1 ..
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा । पौराणां मम सीतायां यादृशी वर्तते कथा ॥ ७.४५.२ ॥
सर्वे शृणुत भद्रम् वः मा कुरुध्वम् मनः अन्यथा । पौराणाम् मम सीतायाम् यादृशी वर्तते कथा ॥ ७।४५।२ ॥
sarve śṛṇuta bhadram vaḥ mā kurudhvam manaḥ anyathā . paurāṇām mama sītāyām yādṛśī vartate kathā .. 7.45.2 ..
पौरापवादः सुमहांस्तथा जनपदस्य च । वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ ७.४५.३ ॥
पौर-अपवादः सु महान् तथा जनपदस्य च । वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ ७।४५।३ ॥
paura-apavādaḥ su mahān tathā janapadasya ca . vartate mayi bībhatsā sā me marmāṇi kṛntati .. 7.45.3 ..
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् । सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ॥ ७.४५.४ ॥
अहम् किल कुले जातः इक्ष्वाकूणाम् महात्मनाम् । सीता अपि सत्-कुले जाता जनकानाम् महात्मनाम् ॥ ७।४५।४ ॥
aham kila kule jātaḥ ikṣvākūṇām mahātmanām . sītā api sat-kule jātā janakānām mahātmanām .. 7.45.4 ..
जानासि त्वं यथा सौम्य दण्डके विजने वने । रावणेन हृता सीता स च विध्वंसितो मया ॥ ७.४५.५ ॥
जानासि त्वम् यथा सौम्य दण्डके विजने वने । रावणेन हृता सीता स च विध्वंसितः मया ॥ ७।४५।५ ॥
jānāsi tvam yathā saumya daṇḍake vijane vane . rāvaṇena hṛtā sītā sa ca vidhvaṃsitaḥ mayā .. 7.45.5 ..
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति । अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥ ७.४५.६ ॥
तत्र मे बुद्धिः उत्पन्ना जनकस्य सुताम् प्रति । अत्रा उषिताम् इमाम् सीताम् आनयेयम् कथम् पुरीम् ॥ ७।४५।६ ॥
tatra me buddhiḥ utpannā janakasya sutām prati . atrā uṣitām imām sītām ānayeyam katham purīm .. 7.45.6 ..
प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा । प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः । अपापां मैथिलीमाह वायुश्चाकाशगोचरः ॥ ७.४५.७ ॥
प्रत्यय-अर्थम् ततस् सीता विवेश ज्वलनम् तदा । प्रत्यक्षम् तव सौमित्रे देवानाम् हव्य-वाहनः । अपापाम् मैथिलीम् आह वायुः च आकाश-गोचरः ॥ ७।४५।७ ॥
pratyaya-artham tatas sītā viveśa jvalanam tadā . pratyakṣam tava saumitre devānām havya-vāhanaḥ . apāpām maithilīm āha vāyuḥ ca ākāśa-gocaraḥ .. 7.45.7 ..
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा । ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥ ७.४५.८ ॥
चन्द्र-आदित्यौ च शंसेते सुराणाम् सन्निधौ पुरा । ऋषीणाम् च एव सर्वेषाम् अपापाम् जनकात्मजाम् ॥ ७।४५।८ ॥
candra-ādityau ca śaṃsete surāṇām sannidhau purā . ṛṣīṇām ca eva sarveṣām apāpām janakātmajām .. 7.45.8 ..
एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ । लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ॥ ७.४५.९ ॥
एवम् शुद्ध-समाचारा देव-गन्धर्व-सन्निधौ । लङ्का-द्वीपे महा-इन्द्रेण मम हस्ते निवेशिता ॥ ७।४५।९ ॥
evam śuddha-samācārā deva-gandharva-sannidhau . laṅkā-dvīpe mahā-indreṇa mama haste niveśitā .. 7.45.9 ..
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् । ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥ ७.४५.१० ॥
अन्तरात्मा च मे वेत्ति सीताम् शुद्धाम् यशस्विनीम् । ततस् गृहीत्वा वैदेहीम् अयोध्याम् अहम् आगतः ॥ ७।४५।१० ॥
antarātmā ca me vetti sītām śuddhām yaśasvinīm . tatas gṛhītvā vaidehīm ayodhyām aham āgataḥ .. 7.45.10 ..
अयं तु मे महान्वादः शोकश्च हृदि वर्तते । पौरापवादः सुमहांस्तथा जनपदस्य च ॥ ७.४५.११ ॥
अयम् तु मे महान् वादः शोकः च हृदि वर्तते । पौर-अपवादः सु महान् तथा जनपदस्य च ॥ ७।४५।११ ॥
ayam tu me mahān vādaḥ śokaḥ ca hṛdi vartate . paura-apavādaḥ su mahān tathā janapadasya ca .. 7.45.11 ..
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् । पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥ ७.४५.१२ ॥
अकीर्तिः यस्य गीयेत लोके भूतस्य कस्यचिद् । पतति एव अधमान् लोकान् यावत् शब्दः प्रकीर्त्यते ॥ ७।४५।१२ ॥
akīrtiḥ yasya gīyeta loke bhūtasya kasyacid . patati eva adhamān lokān yāvat śabdaḥ prakīrtyate .. 7.45.12 ..
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते । कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥ ७.४५.१३ ॥
अकीर्तिः निन्द्यते देवैः कीर्तिः लोकेषु पूज्यते । कीर्ति-अर्थम् तु समारम्भः सर्वेषाम् सु महात्मनाम् ॥ ७।४५।१३ ॥
akīrtiḥ nindyate devaiḥ kīrtiḥ lokeṣu pūjyate . kīrti-artham tu samārambhaḥ sarveṣām su mahātmanām .. 7.45.13 ..
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः । अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ॥ ७.४५.१४ ॥
अपि अहम् जीवितम् जह्याम् युष्मान् वा पुरुष-ऋषभाः । अपवाद-भयात् भीतः किम् पुनर् जनकात्मजाम् ॥ ७।४५।१४ ॥
api aham jīvitam jahyām yuṣmān vā puruṣa-ṛṣabhāḥ . apavāda-bhayāt bhītaḥ kim punar janakātmajām .. 7.45.14 ..
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे । नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ॥ ७.४५.१५ ॥
तस्मात् भवन्तः पश्यन्तु पतितम् शोक-सागरे । नहि पश्यामि अहम् भूतम् किञ्चिद् दुःखम् अतस् अधिकम् ॥ ७।४५।१५ ॥
tasmāt bhavantaḥ paśyantu patitam śoka-sāgare . nahi paśyāmi aham bhūtam kiñcid duḥkham atas adhikam .. 7.45.15 ..
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् । आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥ ७.४५.१६ ॥
श्वस् त्वम् प्रभाते सौमित्रे सुमन्त्र-अधिष्ठितम् रथम् । आरुह्य सीताम् आरोप्य विषय-अन्ते समुत्सृज ॥ ७।४५।१६ ॥
śvas tvam prabhāte saumitre sumantra-adhiṣṭhitam ratham . āruhya sītām āropya viṣaya-ante samutsṛja .. 7.45.16 ..
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः । आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ॥ ७.४५.१७ ॥
गङ्गायाः तु परे पारे वाल्मीकेः तु महात्मनः । आश्रमः दिव्य-सङ्काशः तमसा-तीरम् आश्रितः ॥ ७।४५।१७ ॥
gaṅgāyāḥ tu pare pāre vālmīkeḥ tu mahātmanaḥ . āśramaḥ divya-saṅkāśaḥ tamasā-tīram āśritaḥ .. 7.45.17 ..
तत्रैनां विजने देशे विसृज्य रघुनन्दन । शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ॥ ७.४५.१८ ॥
तत्र एनाम् विजने देशे विसृज्य रघुनन्दन । शीघ्रम् आगच्छ भद्रम् ते कुरुष्व वचनम् मम ॥ ७।४५।१८ ॥
tatra enām vijane deśe visṛjya raghunandana . śīghram āgaccha bhadram te kuruṣva vacanam mama .. 7.45.18 ..
न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन । तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ॥ ७.४५.१९ ॥
न च अस्मिन् प्रतिवक्तव्यः सीताम् प्रति कथञ्चन । तस्मात् त्वम् गच्छ सौमित्रे न अत्र कार्या विचारणा ॥ ७।४५।१९ ॥
na ca asmin prativaktavyaḥ sītām prati kathañcana . tasmāt tvam gaccha saumitre na atra kāryā vicāraṇā .. 7.45.19 ..
अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते । शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥ ७.४५.२० ॥
अप्रीतिः हि परा मह्यम् त्वया एतत् प्रतिवारिते । शापिताः हि मया यूयम् भुजाभ्याम् जीवितेन च ॥ ७।४५।२० ॥
aprītiḥ hi parā mahyam tvayā etat prativārite . śāpitāḥ hi mayā yūyam bhujābhyām jīvitena ca .. 7.45.20 ..
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन । अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥ ७.४५.२१ ॥
ये माम् वाक्य-अन्तरे ब्रूयुः अनुनेतुम् कथञ्चन । अहिताः नाम ते नित्यम् मद्-अभीष्ट-विघातनात् ॥ ७।४५।२१ ॥
ye mām vākya-antare brūyuḥ anunetum kathañcana . ahitāḥ nāma te nityam mad-abhīṣṭa-vighātanāt .. 7.45.21 ..
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः । इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ॥ ७.४५.२२ ॥
मानयन्तु भवन्तः माम् यदि मद्-शासने स्थिताः । इतस् अद्य नीयताम् सीता कुरुष्व वचनम् मम ॥ ७।४५।२२ ॥
mānayantu bhavantaḥ mām yadi mad-śāsane sthitāḥ . itas adya nīyatām sītā kuruṣva vacanam mama .. 7.45.22 ..
पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् । पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥ ७.४५.२३ ॥
पूर्वम् उक्तः अहम् अनया गङ्गा-तीरे अहम् आश्रमान् । पश्येयम् इति तस्याः च कामः संवर्त्यताम् अयम् ॥ ७।४५।२३ ॥
pūrvam uktaḥ aham anayā gaṅgā-tīre aham āśramān . paśyeyam iti tasyāḥ ca kāmaḥ saṃvartyatām ayam .. 7.45.23 ..
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः । प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ॥ ७.४५.२४ ॥
एवम् उक्त्वा तु काकुत्स्थः बाष्पेण पिहित-आननः । प्रविवेश स धर्म-आत्मा भ्रातृभिः परिवारितः ॥ ७।४५।२४ ॥
evam uktvā tu kākutsthaḥ bāṣpeṇa pihita-ānanaḥ . praviveśa sa dharma-ātmā bhrātṛbhiḥ parivāritaḥ .. 7.45.24 ..
शोकसंलग्नहृदयो निशश्वास यथा द्विपः ॥ ७.४५.२५ ॥
शोक-संलग्न-हृदयः निशश्वास यथा द्विपः ॥ ७।४५।२५ ॥
śoka-saṃlagna-hṛdayaḥ niśaśvāsa yathā dvipaḥ .. 7.45.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe pañcacatvāriṃśaḥ sargaḥ .. 45 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In