This overlay will guide you through the buttons:

| |
|
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः । सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ ७.४६.१ ॥
ततस् रजन्याम् व्युष्टायाम् लक्ष्मणः दीन-चेतनः । सुमन्त्रम् अब्रवीत् वाक्यम् मुखेन परिशुष्यता ॥ ७।४६।१ ॥
tatas rajanyām vyuṣṭāyām lakṣmaṇaḥ dīna-cetanaḥ . sumantram abravīt vākyam mukhena pariśuṣyatā .. 7.46.1 ..
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे । स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ॥ ७.४६.२ ॥
सारथे तुरगान् शीघ्रम् योजयस्व रथ-उत्तमे । सु आस्तीर्णम् राज-भवनात् सीतायाः च आसनम् कुरु ॥ ७।४६।२ ॥
sārathe turagān śīghram yojayasva ratha-uttame . su āstīrṇam rāja-bhavanāt sītāyāḥ ca āsanam kuru .. 7.46.2 ..
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् । मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ॥ ७.४६.३ ॥
सीता हि राज-वचनात् आश्रमम् पुण्य-कर्मणाम् । मया नेयाः महा-ऋषीणाम् श्रीघ्रम् आनीयताम् रथः ॥ ७।४६।३ ॥
sītā hi rāja-vacanāt āśramam puṇya-karmaṇām . mayā neyāḥ mahā-ṛṣīṇām śrīghram ānīyatām rathaḥ .. 7.46.3 ..
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः । रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ॥ ७.४६.४ ॥
सुमन्त्रः तु तथा इति उक्त्वा युक्तम् परम-वाजिभिः । रथम् सु रुचिर-प्रख्यम् सु आस्तीर्णम् सुख-शय्यया ॥ ७।४६।४ ॥
sumantraḥ tu tathā iti uktvā yuktam parama-vājibhiḥ . ratham su rucira-prakhyam su āstīrṇam sukha-śayyayā .. 7.46.4 ..
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् । रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥ ७.४६.५ ॥
आनीय उवाच सौमित्रिम् मित्राणाम् मान-वर्धनम् । रथः अयम् समनुप्राप्तः यत् कार्यम् क्रियताम् प्रभो ॥ ७।४६।५ ॥
ānīya uvāca saumitrim mitrāṇām māna-vardhanam . rathaḥ ayam samanuprāptaḥ yat kāryam kriyatām prabho .. 7.46.5 ..
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः । प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ ७.४६.६ ॥
एवम् उक्तः सुमन्त्रेण राज-वेश्मनि लक्ष्मणः । प्रविश्य सीताम् आसाद्य व्याजहार नर-ऋषभः ॥ ७।४६।६ ॥
evam uktaḥ sumantreṇa rāja-veśmani lakṣmaṇaḥ . praviśya sītām āsādya vyājahāra nara-ṛṣabhaḥ .. 7.46.6 ..
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः । नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ॥ ७.४६.७ ॥
त्वया किल एष नृपतिः वरम् वै याचितः प्रभुः । नृपेण च प्रतिज्ञातम् आज्ञप्तः च आश्रमम् प्रति ॥ ७।४६।७ ॥
tvayā kila eṣa nṛpatiḥ varam vai yācitaḥ prabhuḥ . nṛpeṇa ca pratijñātam ājñaptaḥ ca āśramam prati .. 7.46.7 ..
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् । शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः । अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ॥ ७.४६.८ ॥
गङ्गी-तीरे मया देवि ऋषीणाम् आश्रमान् शुभान् । शीघ्रम् गत्वा तु वैदेहि शासनात् पार्थिवस्य नः । अरण्ये मुनिभिः जुष्टे अपनेया भविष्यसि ॥ ७।४६।८ ॥
gaṅgī-tīre mayā devi ṛṣīṇām āśramān śubhān . śīghram gatvā tu vaidehi śāsanāt pārthivasya naḥ . araṇye munibhiḥ juṣṭe apaneyā bhaviṣyasi .. 7.46.8 ..
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना । प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ॥ ७.४६.९ ॥
एवम् उक्ता तु वैदेही लक्ष्मणेन महात्मना । प्रहर्षम् अतुलम् लेभे गमनम् च अपि अरोचयत् ॥ ७।४६।९ ॥
evam uktā tu vaidehī lakṣmaṇena mahātmanā . praharṣam atulam lebhe gamanam ca api arocayat .. 7.46.9 ..
वासांसि च महार्हाणि रत्नानि विविधानि च । गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥ ७.४६.१० ॥
वासांसि च महार्हाणि रत्नानि विविधानि च । गृहीत्वा तानि वैदेही गमनाय उपचक्रमे ॥ ७।४६।१० ॥
vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca . gṛhītvā tāni vaidehī gamanāya upacakrame .. 7.46.10 ..
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् । वस्त्राणि च महार्हाणि धनानि विविधानि च ॥ ७.४६.११ ॥
इमानि मुनि-पत्नीनाम् दास्यामि आभरणान् हम् । वस्त्राणि च महार्हाणि धनानि विविधानि च ॥ ७।४६।११ ॥
imāni muni-patnīnām dāsyāmi ābharaṇān ham . vastrāṇi ca mahārhāṇi dhanāni vividhāni ca .. 7.46.11 ..
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् । प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ॥ ७.४६.१२ ॥
सौमित्रिः तु तथा इति उक्त्वा रथम् आरोप्य मैथिलीम् । प्रययौ शीघ्र-तुरगैः रामस्य आज्ञाम् अनुस्मरन् ॥ ७।४६।१२ ॥
saumitriḥ tu tathā iti uktvā ratham āropya maithilīm . prayayau śīghra-turagaiḥ rāmasya ājñām anusmaran .. 7.46.12 ..
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् । अशुभानि बहून्येव पश्यामि रघुनन्दन ॥ ७.४६.१३ ॥
अब्रवीत् च तदा सीता लक्ष्मणम् लक्ष्मि-वर्धनम् । अशुभानि बहूनि एव पश्यामि रघुनन्दन ॥ ७।४६।१३ ॥
abravīt ca tadā sītā lakṣmaṇam lakṣmi-vardhanam . aśubhāni bahūni eva paśyāmi raghunandana .. 7.46.13 ..
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते । हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ ७.४६.१४ ॥
नयनम् मे स्फुरति अद्य गात्र-उत्कम्पः च जायते । हृदयम् च एव सौमित्रे अस्वस्थम् इव लक्षये ॥ ७।४६।१४ ॥
nayanam me sphurati adya gātra-utkampaḥ ca jāyate . hṛdayam ca eva saumitre asvastham iva lakṣaye .. 7.46.14 ..
औत्सुक्यं परमं चापि अधृतिश्च परा मम । शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ॥ ७.४६.१५ ॥
औत्सुक्यम् परमम् च अपि अधृतिः च परा मम । शून्याम् एव च पश्यामि पृथिवीम् पृथु-लोचन ॥ ७।४६।१५ ॥
autsukyam paramam ca api adhṛtiḥ ca parā mama . śūnyām eva ca paśyāmi pṛthivīm pṛthu-locana .. 7.46.15 ..
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल । श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ ७.४६.१६ ॥
अपि स्वस्ति भवेत् तस्य भ्रातुः ते भ्रातृ-वत्सल । श्वश्रूणाम् च एव मे वीर सर्वासाम् अविशेषतस् ॥ ७।४६।१६ ॥
api svasti bhavet tasya bhrātuḥ te bhrātṛ-vatsala . śvaśrūṇām ca eva me vīra sarvāsām aviśeṣatas .. 7.46.16 ..
पुरे जनपदे चैव कुशलं प्राणिनामपि । इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ ७.४६.१७ ॥
पुरे जनपदे च एव कुशलम् प्राणिनाम् अपि । इति अञ्जलि-कृता सीता देवताः अभ्ययाचत ॥ ७।४६।१७ ॥
pure janapade ca eva kuśalam prāṇinām api . iti añjali-kṛtā sītā devatāḥ abhyayācata .. 7.46.17 ..
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् । शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ॥ ७.४६.१८ ॥
लक्ष्मणः अर्थम् ततस् श्रुत्वा शिरसा वन्द्य मैथिलीम् । शिवम् इति अब्रवीत् हृष्टः हृदयेन विशुष्यता ॥ ७।४६।१८ ॥
lakṣmaṇaḥ artham tatas śrutvā śirasā vandya maithilīm . śivam iti abravīt hṛṣṭaḥ hṛdayena viśuṣyatā .. 7.46.18 ..
ततो वासमुपागम्य गोमतीतीर आश्रमे । प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ॥ ७.४६.१९ ॥
ततस् वासम् उपागम्य गोमती-तीरे आश्रमे । प्रभाते पुनर् उत्थाय सौमित्रिः सूतम् अब्रवीत् ॥ ७।४६।१९ ॥
tatas vāsam upāgamya gomatī-tīre āśrame . prabhāte punar utthāya saumitriḥ sūtam abravīt .. 7.46.19 ..
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् । शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ ७.४६.२० ॥
योजयस्व रथम् शीघ्रम् अद्य भागीरथी-जलम् । शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ ७।४६।२० ॥
yojayasva ratham śīghram adya bhāgīrathī-jalam . śirasā dhārayiṣyāmi tryambakaḥ parvate yathā .. 7.46.20 ..
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् । आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ॥ ७.४६.२१ ॥
सः अश्वान् चतुरः रथे युङ्क्त्वा मनोजवान् । आरोहस्व इति वैदेहीम् सूतः प्राञ्जलिः अब्रवीत् ॥ ७।४६।२१ ॥
saḥ aśvān caturaḥ rathe yuṅktvā manojavān . ārohasva iti vaidehīm sūtaḥ prāñjaliḥ abravīt .. 7.46.21 ..
सा तु सूतस्य वचनादारुरोह रथोत्तमम् । सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ ७.४६.२२ ॥
सा तु सूतस्य वचनात् आरुरोह रथ-उत्तमम् । सीता सौमित्रिणा सार्धम् सुमन्त्रेण च धीमता ॥ ७।४६।२२ ॥
sā tu sūtasya vacanāt āruroha ratha-uttamam . sītā saumitriṇā sārdham sumantreṇa ca dhīmatā .. 7.46.22 ..
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् । अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ॥ ७.४६.२३ ॥
आससाद विशाल-अक्षी गङ्गाम् पाप-विनाशिनीम् । अथ अर्ध-दिवसम् गत्वा भागीरथ्याः जलाशयम् ॥ ७।४६।२३ ॥
āsasāda viśāla-akṣī gaṅgām pāpa-vināśinīm . atha ardha-divasam gatvā bhāgīrathyāḥ jalāśayam .. 7.46.23 ..
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ॥ ७.४६.२४ ॥
निरीक्ष्य लक्ष्मणः दीनः प्ररुरोद महा-स्वनः ॥ ७।४६।२४ ॥
nirīkṣya lakṣmaṇaḥ dīnaḥ praruroda mahā-svanaḥ .. 7.46.24 ..
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् । उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥ ७.४६.२५ ॥
सीता तु परम-आयत्ता दृष्ट्वा लक्ष्मणम् आतुरम् । उवाच वाक्यम् धर्म-ज्ञा किम् इदम् रुद्यते त्वया ॥ ७।४६।२५ ॥
sītā tu parama-āyattā dṛṣṭvā lakṣmaṇam āturam . uvāca vākyam dharma-jñā kim idam rudyate tvayā .. 7.46.25 ..
जाह्नवीतीरमासाद्य चिराभिलषितं मम । हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ ७.४६.२६ ॥
जाह्नवी-तीरम् आसाद्य चिर-अभिलषितम् मम । हर्ष-काले किमर्थम् माम् विषादयसि लक्ष्मण ॥ ७।४६।२६ ॥
jāhnavī-tīram āsādya cira-abhilaṣitam mama . harṣa-kāle kimartham mām viṣādayasi lakṣmaṇa .. 7.46.26 ..
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ । कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ॥ ७.४६.२७ ॥
नित्यम् त्वम् राम-पार्श्वेषु वर्तसे पुरुष-ऋषभ । कच्चित् विनाकृतः तेन द्वि-रात्रम् शोकम् आगतः ॥ ७।४६।२७ ॥
nityam tvam rāma-pārśveṣu vartase puruṣa-ṛṣabha . kaccit vinākṛtaḥ tena dvi-rātram śokam āgataḥ .. 7.46.27 ..
ममापि दयितो रामो जीवितादपि लक्ष्मण । न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ ७.४६.२८ ॥
मम अपि दयितः रामः जीवितात् अपि लक्ष्मण । न च अहम् एवम् शोचामि मा एवम् त्वम् बालिशः भव ॥ ७।४६।२८ ॥
mama api dayitaḥ rāmaḥ jīvitāt api lakṣmaṇa . na ca aham evam śocāmi mā evam tvam bāliśaḥ bhava .. 7.46.28 ..
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् । ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ॥ ७.४६.२९ ॥
तारयस्व च माम् गङ्गाम् दर्शयस्व च तापसान् । ततस् मुनिभ्यः दास्यामि वांस-आस्य-आभरणानि च ॥ ७।४६।२९ ॥
tārayasva ca mām gaṅgām darśayasva ca tāpasān . tatas munibhyaḥ dāsyāmi vāṃsa-āsya-ābharaṇāni ca .. 7.46.29 ..
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् । तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ ७.४६.३० ॥
ततस् कृत्वा महा-ऋषीणाम् यथार्हम् अभिवादनम् । तत्र च एकाम् निशा अमुष्य यास्यामः ताम् पुरीम् पुनर् ॥ ७।४६।३० ॥
tatas kṛtvā mahā-ṛṣīṇām yathārham abhivādanam . tatra ca ekām niśā amuṣya yāsyāmaḥ tām purīm punar .. 7.46.30 ..
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् । त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ॥ ७.४६.३१ ॥
मम अपि पद्म-पत्र-अक्षम् सिंह-उरस्कम् कृश-उदरम् । त्वरते हि मनः द्रष्टुम् रामम् रमयताम् वरम् ॥ ७।४६।३१ ॥
mama api padma-patra-akṣam siṃha-uraskam kṛśa-udaram . tvarate hi manaḥ draṣṭum rāmam ramayatām varam .. 7.46.31 ..
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे । नाविकानाह्वयामास लक्ष्मणः परवीरहा ॥ ७.४६.३२ ॥
तस्याः तत् वचनम् श्रुत्वा प्रमृज्य नयने शुभे । नाविकान् आह्वयामास लक्ष्मणः पर-वीर-हा ॥ ७।४६।३२ ॥
tasyāḥ tat vacanam śrutvā pramṛjya nayane śubhe . nāvikān āhvayāmāsa lakṣmaṇaḥ para-vīra-hā .. 7.46.32 ..
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ॥ ७.४६.३३ ॥
इयम् च सज्जा नौः च इति दाशाः प्राञ्जलयः अब्रुवन् ॥ ७।४६।३३ ॥
iyam ca sajjā nauḥ ca iti dāśāḥ prāñjalayaḥ abruvan .. 7.46.33 ..
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् । गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ॥ ७.४६.३४ ॥
तितीर्षुः लक्ष्मणः गङ्गाम् शुभाम् नावम् उपारुहत् । गङ्गाम् सन्तारयामास लक्ष्मणः ताम् समाहितः ॥ ७।४६।३४ ॥
titīrṣuḥ lakṣmaṇaḥ gaṅgām śubhām nāvam upāruhat . gaṅgām santārayāmāsa lakṣmaṇaḥ tām samāhitaḥ .. 7.46.34 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ .. 46 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In