This overlay will guide you through the buttons:

| |
|
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः । सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ ७.४६.१ ॥
tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ . sumantramabravīdvākyaṃ mukhena pariśuṣyatā .. 7.46.1 ..
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे । स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ॥ ७.४६.२ ॥
sārathe turagāñchīghraṃ yojayasva rathottame . svāstīrṇaṃ rājabhavanātsītāyāścāsanaṃ kuru .. 7.46.2 ..
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् । मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ॥ ७.४६.३ ॥
sītā hi rājavacanādāśramaṃ puṇyakarmaṇām . mayā neyā maharṣīṇāṃ śrīghramānīyatāṃ rathaḥ .. 7.46.3 ..
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः । रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ॥ ७.४६.४ ॥
sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ . rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā .. 7.46.4 ..
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् । रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥ ७.४६.५ ॥
ānīyovāca saumitriṃ mitrāṇāṃ mānavardhanam . ratho 'yaṃ samanuprāpto yatkāryaṃ kriyatāṃ prabho .. 7.46.5 ..
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः । प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ ७.४६.६ ॥
evamuktaḥ sumantreṇa rājaveśmani lakṣmaṇaḥ . praviśya sītāmāsādya vyājahāra nararṣabhaḥ .. 7.46.6 ..
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः । नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ॥ ७.४६.७ ॥
tvayā kilaiṣa nṛpatirvaraṃ vai yācitaḥ prabhuḥ . nṛpeṇa ca pratijñātamājñaptaścāśramaṃ prati .. 7.46.7 ..
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् । शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः । अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ॥ ७.४६.८ ॥
gaṅgītīre mayā devi ṛṣīṇāmāśramāñchubhān . śīghraṃ gatvā tu vaidehi śāsanātpārthivasya naḥ . araṇye munibhirjuṣṭe apaneyā bhaviṣyasi .. 7.46.8 ..
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना । प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ॥ ७.४६.९ ॥
evamuktā tu vaidehī lakṣmaṇena mahātmanā . praharṣamatulaṃ lebhe gamanaṃ cāpyarocayat .. 7.46.9 ..
वासांसि च महार्हाणि रत्नानि विविधानि च । गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥ ७.४६.१० ॥
vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca . gṛhītvā tāni vaidehī gamanāyopacakrame .. 7.46.10 ..
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् । वस्त्राणि च महार्हाणि धनानि विविधानि च ॥ ७.४६.११ ॥
imāni munipatnīnāṃ dāsyāmyābharaṇānham . vastrāṇi ca mahārhāṇi dhanāni vividhāni ca .. 7.46.11 ..
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् । प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ॥ ७.४६.१२ ॥
saumitristu tathetyuktvā rathamāropya maithilīm . prayayau śīghraturagai rāmasyājñāmanusmaran .. 7.46.12 ..
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् । अशुभानि बहून्येव पश्यामि रघुनन्दन ॥ ७.४६.१३ ॥
abravīcca tadā sītā lakṣmaṇaṃ lakṣmivardhanam . aśubhāni bahūnyeva paśyāmi raghunandana .. 7.46.13 ..
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते । हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ ७.४६.१४ ॥
nayanaṃ me sphuratyadya gātrotkampaśca jāyate . hṛdayaṃ caiva saumitre asvasthamiva lakṣaye .. 7.46.14 ..
औत्सुक्यं परमं चापि अधृतिश्च परा मम । शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ॥ ७.४६.१५ ॥
autsukyaṃ paramaṃ cāpi adhṛtiśca parā mama . śūnyāmeva ca paśyāmi pṛthivīṃ pṛthulocana .. 7.46.15 ..
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल । श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ ७.४६.१६ ॥
api svasti bhavettasya bhrātuste bhrātṛvatsala . śvaśrūṇāṃ caiva me vīra sarvāsāmaviśeṣataḥ .. 7.46.16 ..
पुरे जनपदे चैव कुशलं प्राणिनामपि । इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ ७.४६.१७ ॥
pure janapade caiva kuśalaṃ prāṇināmapi . ityañjalikṛtā sītā devatā abhyayācata .. 7.46.17 ..
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् । शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ॥ ७.४६.१८ ॥
lakṣmaṇo 'rthaṃ tataḥ śrutvā śirasā vandya maithilīm . śivamityabravīddhṛṣṭo hṛdayena viśuṣyatā .. 7.46.18 ..
ततो वासमुपागम्य गोमतीतीर आश्रमे । प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ॥ ७.४६.१९ ॥
tato vāsamupāgamya gomatītīra āśrame . prabhāte punarutthāya saumitriḥ sūtamabravīt .. 7.46.19 ..
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् । शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ ७.४६.२० ॥
yojayasva rathaṃ śīghramadya bhāgīrathījalam . śirasā dhārayiṣyāmi tryambakaḥ parvate yathā .. 7.46.20 ..
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् । आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ॥ ७.४६.२१ ॥
so 'śvān rajvātha caturo rathe yuṅktvā manojavān . ārohasveti vaidehīṃ sūtaḥ prāñjalirabravīt .. 7.46.21 ..
सा तु सूतस्य वचनादारुरोह रथोत्तमम् । सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ ७.४६.२२ ॥
sā tu sūtasya vacanādāruroha rathottamam . sītā saumitriṇā sārdhaṃ sumantreṇa ca dhīmatā .. 7.46.22 ..
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् । अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ॥ ७.४६.२३ ॥
āsasāda viśālākṣī gaṅgāṃ pāpavināśinīm . athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam .. 7.46.23 ..
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ॥ ७.४६.२४ ॥
nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanaḥ .. 7.46.24 ..
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् । उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥ ७.४६.२५ ॥
sītā tu paramāyattā dṛṣṭvā lakṣmaṇamāturam . uvāca vākyaṃ dharmajñā kimidaṃ rudyate tvayā .. 7.46.25 ..
जाह्नवीतीरमासाद्य चिराभिलषितं मम । हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ ७.४६.२६ ॥
jāhnavītīramāsādya cirābhilaṣitaṃ mama . harṣakāle kimarthaṃ māṃ viṣādayasi lakṣmaṇa .. 7.46.26 ..
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ । कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ॥ ७.४६.२७ ॥
nityaṃ tvaṃ rāmapārśveṣu vartase puruṣarṣabha . kaccidvinākṛtastena dvirātraṃ śokamāgataḥ .. 7.46.27 ..
ममापि दयितो रामो जीवितादपि लक्ष्मण । न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ ७.४६.२८ ॥
mamāpi dayito rāmo jīvitādapi lakṣmaṇa . na cāhamevaṃ śocāmi maivaṃ tvaṃ bāliśo bhava .. 7.46.28 ..
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् । ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ॥ ७.४६.२९ ॥
tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān . tato munibhyo dāsyāmi vāṃsāsyābharaṇāni ca .. 7.46.29 ..
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् । तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ ७.४६.३० ॥
tataḥ kṛtvā maharṣīṇāṃ yathārhamabhivādanam . tatra caikāṃ niśāmuṣya yāsyāmastāṃ purīṃ punaḥ .. 7.46.30 ..
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् । त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ॥ ७.४६.३१ ॥
mamāpi padmapatrākṣaṃ siṃhoraskaṃ kṛśodaram . tvarate hi mano draṣṭuṃ rāmaṃ ramayatāṃ varam .. 7.46.31 ..
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे । नाविकानाह्वयामास लक्ष्मणः परवीरहा ॥ ७.४६.३२ ॥
tasyāstadvacanaṃ śrutvā pramṛjya nayane śubhe . nāvikānāhvayāmāsa lakṣmaṇaḥ paravīrahā .. 7.46.32 ..
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ॥ ७.४६.३३ ॥
iyaṃ ca sajjā nauśceti dāśāḥ prāñjalayo 'bruvan .. 7.46.33 ..
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् । गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ॥ ७.४६.३४ ॥
titīrṣurlakṣmaṇo gaṅgāṃ śubhāṃ nāvamupāruhat . gaṅgāṃ santārayāmāsa lakṣmaṇastāṃ samāhitaḥ .. 7.46.34 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ .. 46 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In