This overlay will guide you through the buttons:

| |
|
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः । आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ ७.४७.१ ॥
अथ नावम् सु विस्तीर्णाम् नैषादीम् राघव-अनुजः । आरुरोह समायुक्ताम् पूर्वम् आरोप्य मैथिलीम् ॥ ७।४७।१ ॥
atha nāvam su vistīrṇām naiṣādīm rāghava-anujaḥ . āruroha samāyuktām pūrvam āropya maithilīm .. 7.47.1 ..
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ॥ ७.४७.२ ॥
सुमन्त्रम् च एव स रथम् स्थीयताम् इति लक्ष्मणः । उवाच शोक-सन्तप्तः प्रयाहि इति च नाविकम् ॥ ७।४७।२ ॥
sumantram ca eva sa ratham sthīyatām iti lakṣmaṇaḥ . uvāca śoka-santaptaḥ prayāhi iti ca nāvikam .. 7.47.2 ..
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः । उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ॥ ७.४७.३ ॥
ततस् तीरम् उपागम्य भागीरथ्याः स लक्ष्मणः । उवाच मैथिलीम् वाक्यम् प्राञ्जलिः बाष्प-सम्प्लुतः ॥ ७।४७।३ ॥
tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ . uvāca maithilīm vākyam prāñjaliḥ bāṣpa-samplutaḥ .. 7.47.3 ..
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता । अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ ७.४७.४ ॥
हृद्गतम् मे महत् शल्यम् यस्मात् आर्येण धीमता । अस्मिन् निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ ७।४७।४ ॥
hṛdgatam me mahat śalyam yasmāt āryeṇa dhīmatā . asmin nimitte vaidehi lokasya vacanīkṛtaḥ .. 7.47.4 ..
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् । न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥ ७.४७.५ ॥
श्रेयः हि मरणम् मे अद्य मृत्युः वा यत् परम् भवेत् । न च अस्मिन् ईदृशे कार्ये नियोज्यः लोक-निन्दिते ॥ ७।४७।५ ॥
śreyaḥ hi maraṇam me adya mṛtyuḥ vā yat param bhavet . na ca asmin īdṛśe kārye niyojyaḥ loka-nindite .. 7.47.5 ..
प्रसीद च न मे पापं कर्तुमर्हसि शोभने । इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ ७.४७.६ ॥
प्रसीद च न मे पापम् कर्तुम् अर्हसि शोभने । इति अञ्जलि-कृतः भूमौ निपपात स लक्ष्मणः ॥ ७।४७।६ ॥
prasīda ca na me pāpam kartum arhasi śobhane . iti añjali-kṛtaḥ bhūmau nipapāta sa lakṣmaṇaḥ .. 7.47.6 ..
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः । मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥ ७.४७.७ ॥
रुदन्तम् प्राञ्जलिम् दृष्ट्वा काङ्क्षन्तम् मृत्युम् आत्मनः । मैथिली भृश-संविग्ना लक्ष्मणम् वाक्यम् अब्रवीत् ॥ ७।४७।७ ॥
rudantam prāñjalim dṛṣṭvā kāṅkṣantam mṛtyum ātmanaḥ . maithilī bhṛśa-saṃvignā lakṣmaṇam vākyam abravīt .. 7.47.7 ..
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥ ७.४७.८ ॥
किम् इदम् न अवगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । पश्यामि त्वाम् न च स्वस्थम् अपि क्षेमम् महीपतेः ॥ ७।४७।८ ॥
kim idam na avagacchāmi brūhi tattvena lakṣmaṇa . paśyāmi tvām na ca svastham api kṣemam mahīpateḥ .. 7.47.8 ..
शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः । तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ॥ ७.४७.९ ॥
शापितः असि नरेन्द्रेण यत् त्वम् सन्तापम् आगतः । तत् ब्रूयाः सन्निधौ मह्यम् अहम् आज्ञापयामि ते ॥ ७।४७।९ ॥
śāpitaḥ asi narendreṇa yat tvam santāpam āgataḥ . tat brūyāḥ sannidhau mahyam aham ājñāpayāmi te .. 7.47.9 ..
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः । अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ॥ ७.४७.१० ॥
वैदेह्या चोद्यमानः तु लक्ष्मणः दीन-चेतनः । अवाङ्मुखः बाष्प-कलम् वाक्यम् एतत् उवाच ह ॥ ७।४७।१० ॥
vaidehyā codyamānaḥ tu lakṣmaṇaḥ dīna-cetanaḥ . avāṅmukhaḥ bāṣpa-kalam vākyam etat uvāca ha .. 7.47.10 ..
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् । पुरे जनपदे चैव त्वत्कृते जनकात्मजे । रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ॥ ७.४७.११ ॥
श्रुत्वा परिषदः मध्ये हि अपवादम् सु दारुणम् । पुरे जनपदे च एव त्वद्-कृते जनकात्मजे । रामः सन्तप्त-हृदयः मा निवेद्य गृहम् गतः ॥ ७।४७।११ ॥
śrutvā pariṣadaḥ madhye hi apavādam su dāruṇam . pure janapade ca eva tvad-kṛte janakātmaje . rāmaḥ santapta-hṛdayaḥ mā nivedya gṛham gataḥ .. 7.47.11 ..
न तानि वचनीयानि मया देवि तवाग्रतः । यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ॥ ७.४७.१२ ॥
न तानि वचनीयानि मया देवि तव अग्रतस् । यानि राज्ञा हृदि न्यस्तानि अमर्षात् पृष्ठतस् कृतः ॥ ७।४७।१२ ॥
na tāni vacanīyāni mayā devi tava agratas . yāni rājñā hṛdi nyastāni amarṣāt pṛṣṭhatas kṛtaḥ .. 7.47.12 ..
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ । पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ॥ ७.४७.१३ ॥
सा त्वम् त्यक्ता नृपतिना निर्दोषा मम सन्निधौ । पौर-अपवाद-भीतेन ग्राह्यम् देवि न ते अन्यथा ॥ ७।४७।१३ ॥
sā tvam tyaktā nṛpatinā nirdoṣā mama sannidhau . paura-apavāda-bhītena grāhyam devi na te anyathā .. 7.47.13 ..
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि । राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ॥ ७.४७.१४ ॥
आश्रम-अन्तेषु च मया त्यक्तव्या त्वम् भविष्यसि । राज्ञः शासनम् आज्ञाय तव इदम् किल दौर्हृदम् ॥ ७।४७।१४ ॥
āśrama-anteṣu ca mayā tyaktavyā tvam bhaviṣyasi . rājñaḥ śāsanam ājñāya tava idam kila daurhṛdam .. 7.47.14 ..
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् । पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ ७.४७.१५ ॥
तत् एतत् जाह्नवी-तीरे ब्रह्मर्षीणाम् तपोवनम् । पुण्यम् च रमणीयम् च मा विषादम् कृथाः शुभे ॥ ७।४७।१५ ॥
tat etat jāhnavī-tīre brahmarṣīṇām tapovanam . puṇyam ca ramaṇīyam ca mā viṣādam kṛthāḥ śubhe .. 7.47.15 ..
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः । सखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥ ७.४७.१६ ॥
राज्ञः दशरथस्य इष्टः पितुः मे मुनि-पुङ्गवः । सखा परमकः विप्रः वाल्मीकिः सु महा-यशाः ॥ ७।४७।१६ ॥
rājñaḥ daśarathasya iṣṭaḥ pituḥ me muni-puṅgavaḥ . sakhā paramakaḥ vipraḥ vālmīkiḥ su mahā-yaśāḥ .. 7.47.16 ..
पादच्छायामुपागम्य सुखमस्य महात्मनः । उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ ७.४७.१७ ॥
पाद-छायाम् उपागम्य सुखम् अस्य महात्मनः । उपवास-पर-एकाग्रा वस त्वम् जनकात्मजे ॥ ७।४७।१७ ॥
pāda-chāyām upāgamya sukham asya mahātmanaḥ . upavāsa-para-ekāgrā vasa tvam janakātmaje .. 7.47.17 ..
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि । श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ ७.४७.१८ ॥
पतिव्रता-त्वम् आस्थाय रामम् कृत्वा सदा हृदि । श्रेयः ते परमम् देवि तथा कृत्वा भविष्यति ॥ ७।४७।१८ ॥
pativratā-tvam āsthāya rāmam kṛtvā sadā hṛdi . śreyaḥ te paramam devi tathā kṛtvā bhaviṣyati .. 7.47.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptacatvāriṃśaḥ sargaḥ .. 47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In