This overlay will guide you through the buttons:

| |
|
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः । आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ ७.४७.१ ॥
atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ . āruroha samāyuktāṃ pūrvamāropya maithilīm .. 7.47.1 ..
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ॥ ७.४७.२ ॥
sumantraṃ caiva sarathaṃ sthīyatāmiti lakṣmaṇaḥ . uvāca śokasantaptaḥ prayāhīti ca nāvikam .. 7.47.2 ..
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः । उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ॥ ७.४७.३ ॥
tatastīramupāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ . uvāca maithilīṃ vākyaṃ prāñjalirbāṣpasamplutaḥ .. 7.47.3 ..
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता । अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ ७.४७.४ ॥
hṛdgataṃ me mahacchalyaṃ yasmādāryeṇa dhīmatā . asminnimitte vaidehi lokasya vacanīkṛtaḥ .. 7.47.4 ..
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् । न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥ ७.४७.५ ॥
śreyo hi maraṇaṃ me 'dya mṛtyurvā yatparaṃ bhavet . na cāsminnīdṛśe kārye niyojyo lokanindite .. 7.47.5 ..
प्रसीद च न मे पापं कर्तुमर्हसि शोभने । इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ ७.४७.६ ॥
prasīda ca na me pāpaṃ kartumarhasi śobhane . ityañjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ .. 7.47.6 ..
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः । मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥ ७.४७.७ ॥
rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyumātmanaḥ . maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyamabravīt .. 7.47.7 ..
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥ ७.४७.८ ॥
kimidaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa . paśyāmi tvāṃ na ca svasthamapi kṣemaṃ mahīpateḥ .. 7.47.8 ..
शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः । तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ॥ ७.४७.९ ॥
śāpito 'si narendreṇa yattvaṃ santāpamāgataḥ . tadbrūyāḥ sannidhau mahyamahamājñāpayāmi te .. 7.47.9 ..
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः । अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ॥ ७.४७.१० ॥
vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ . avāṅmukho bāṣpakalaṃ vākyametaduvāca ha .. 7.47.10 ..
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् । पुरे जनपदे चैव त्वत्कृते जनकात्मजे । रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ॥ ७.४७.११ ॥
śrutvā pariṣado madhye hyapavādaṃ sudāruṇam . pure janapade caiva tvatkṛte janakātmaje . rāmaḥ santaptahṛdayo mā nivedya gṛhaṃ gataḥ .. 7.47.11 ..
न तानि वचनीयानि मया देवि तवाग्रतः । यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ॥ ७.४७.१२ ॥
na tāni vacanīyāni mayā devi tavāgrataḥ . yāni rājñā hṛdi nyastānyamarṣātpṛṣṭhataḥ kṛtaḥ .. 7.47.12 ..
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ । पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ॥ ७.४७.१३ ॥
sā tvaṃ tyaktā nṛpatinā nirdoṣā mama sannidhau . paurāpavādabhītena grāhyaṃ devi na te 'nyathā .. 7.47.13 ..
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि । राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ॥ ७.४७.१४ ॥
āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi . rājñaḥ śāsanamājñāya tavedaṃ kila daurhṛdam .. 7.47.14 ..
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् । पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ ७.४७.१५ ॥
tadetajjāhnavītīre brahmarṣīṇāṃ tapovanam . puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe .. 7.47.15 ..
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः । सखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥ ७.४७.१६ ॥
rājño daśarathasyeṣṭaḥ piturme munipuṅgavaḥ . sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ .. 7.47.16 ..
पादच्छायामुपागम्य सुखमस्य महात्मनः । उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ ७.४७.१७ ॥
pādacchāyāmupāgamya sukhamasya mahātmanaḥ . upavāsaparaikāgrā vasa tvaṃ janakātmaje .. 7.47.17 ..
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि । श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ ७.४७.१८ ॥
pativratātvamāsthāya rāmaṃ kṛtvā sadā hṛdi . śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati .. 7.47.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptacatvāriṃśaḥ sargaḥ .. 47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In