This overlay will guide you through the buttons:

| |
|
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा । परं विषादमागम्य वैदेही निपपात ह ॥ ७.४८.१ ॥
लक्ष्मणस्य वचः श्रुत्वा दारुणम् जनकात्मजा । परम् विषादम् आगम्य वैदेही निपपात ह ॥ ७।४८।१ ॥
lakṣmaṇasya vacaḥ śrutvā dāruṇam janakātmajā . param viṣādam āgamya vaidehī nipapāta ha .. 7.48.1 ..
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा । लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ॥ ७.४८.२ ॥
सा मुहूर्तम् इव असञ्ज्ञा बाष्प-पर्याकुल-ईक्षणा । लक्ष्मणम् दीनया वाचा उवाच जनकात्मजा ॥ ७।४८।२ ॥
sā muhūrtam iva asañjñā bāṣpa-paryākula-īkṣaṇā . lakṣmaṇam dīnayā vācā uvāca janakātmajā .. 7.48.2 ..
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण । धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ॥ ७.४८.३ ॥
मामिका इयम् तनुः नूनम् सृष्टा दुःखाय लक्ष्मण । धात्रा यस्याः तथा मे अद्य दुःख-मूर्तिः प्रदृश्यते ॥ ७।४८।३ ॥
māmikā iyam tanuḥ nūnam sṛṣṭā duḥkhāya lakṣmaṇa . dhātrā yasyāḥ tathā me adya duḥkha-mūrtiḥ pradṛśyate .. 7.48.3 ..
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः । या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ॥ ७.४८.४ ॥
किम् नु पापम् कृतम् पूर्वम् कः वा दारैः वियोजितः । या अहम् शुद्ध-समाचारा त्यक्ता नृपतिना सती ॥ ७।४८।४ ॥
kim nu pāpam kṛtam pūrvam kaḥ vā dāraiḥ viyojitaḥ . yā aham śuddha-samācārā tyaktā nṛpatinā satī .. 7.48.4 ..
पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी । अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ॥ ७.४८.५ ॥
पुरा अहम् आश्रमे वासम् राम-पाद-अनुवर्तिनी । अनुरुध्य अपि सौमित्रे दुःखे च परिवर्तिनी ॥ ७।४८।५ ॥
purā aham āśrame vāsam rāma-pāda-anuvartinī . anurudhya api saumitre duḥkhe ca parivartinī .. 7.48.5 ..
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता । आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ॥ ७.४८.६ ॥
सा कथम् हि आश्रमे सौम्य वत्स्यामि विजनीकृता । आख्यास्यामि च कस्य अहम् दुःखम् दुःख-परायणा ॥ ७।४८।६ ॥
sā katham hi āśrame saumya vatsyāmi vijanīkṛtā . ākhyāsyāmi ca kasya aham duḥkham duḥkha-parāyaṇā .. 7.48.6 ..
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् । कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ॥ ७.४८.७ ॥
किम् नु वक्ष्यामि मुनिषु कर्म वा सत्कृतम् च किम् । कस्मिंश्चिद् कारणे त्यक्ता राघवेण महात्मना ॥ ७।४८।७ ॥
kim nu vakṣyāmi muniṣu karma vā satkṛtam ca kim . kasmiṃścid kāraṇe tyaktā rāghaveṇa mahātmanā .. 7.48.7 ..
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले । त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥ ७.४८.८ ॥
न खलु अद्य एव सौमित्रे जीवितम् जाह्नवी-जले । त्यजेयम् राज-वंशः तु भर्तुः मे परिहास्यते ॥ ७।४८।८ ॥
na khalu adya eva saumitre jīvitam jāhnavī-jale . tyajeyam rāja-vaṃśaḥ tu bhartuḥ me parihāsyate .. 7.48.8 ..
यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् । निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥ ७.४८.९ ॥
यथाज्ञम् कुरु सोमित्रे त्यज माम् दुःख-भागिनीम् । निदेशे स्थीयताम् राज्ञः शृणु च इदम् वचः मम ॥ ७।४८।९ ॥
yathājñam kuru somitre tyaja mām duḥkha-bhāginīm . nideśe sthīyatām rājñaḥ śṛṇu ca idam vacaḥ mama .. 7.48.9 ..
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च । शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ॥ ७.४८.१० ॥
श्वश्रूणाम् अविशेषेण प्राञ्जलि-प्रग्रहेण च । शिरसा आ वन्द्य चरणौ कुशलम् ब्रूहि पार्थिवम् ॥ ७।४८।१० ॥
śvaśrūṇām aviśeṣeṇa prāñjali-pragraheṇa ca . śirasā ā vandya caraṇau kuśalam brūhi pārthivam .. 7.48.10 ..
शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण । वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ॥ ७.४८.११ ॥
शिरसा अभिनतः ब्रूयाः सर्वासाम् एव लक्ष्मण । वक्तव्यः च अपि नृपतिः धर्मेषु सु समाहितः ॥ ७।४८।११ ॥
śirasā abhinataḥ brūyāḥ sarvāsām eva lakṣmaṇa . vaktavyaḥ ca api nṛpatiḥ dharmeṣu su samāhitaḥ .. 7.48.11 ..
जानासि च यथा शुद्धा सीता तत्त्वेन राघव । भक्त्या च परया युक्ता हिता च तव नित्यशः ॥ ७.४८.१२ ॥
जानासि च यथा शुद्धा सीता तत्त्वेन राघव । भक्त्या च परया युक्ता हिता च तव नित्यशस् ॥ ७।४८।१२ ॥
jānāsi ca yathā śuddhā sītā tattvena rāghava . bhaktyā ca parayā yuktā hitā ca tava nityaśas .. 7.48.12 ..
अहं त्यक्ता त्वया वीर अयशोभीरुणा जने । यच्च ते वचनीयं स्यादपवादसमुत्थितम् । मया च परिहर्तव्यं त्वं हि मे परमा गतिः ॥ ७.४८.१३ ॥
अहम् त्यक्ता त्वया वीर अयशः-भीरुणा जने । यत् च ते वचनीयम् स्यात् अपवाद-समुत्थितम् । मया च परिहर्तव्यम् त्वम् हि मे परमा गतिः ॥ ७।४८।१३ ॥
aham tyaktā tvayā vīra ayaśaḥ-bhīruṇā jane . yat ca te vacanīyam syāt apavāda-samutthitam . mayā ca parihartavyam tvam hi me paramā gatiḥ .. 7.48.13 ..
वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः । यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ॥ ७.४८.१४ ॥
वक्तव्यः च इति नृपतिः धमेण सु समाहितः । यथा भ्रातृषु वर्तेथाः तथा पौरेषु नित्यदा ॥ ७।४८।१४ ॥
vaktavyaḥ ca iti nṛpatiḥ dhameṇa su samāhitaḥ . yathā bhrātṛṣu vartethāḥ tathā paureṣu nityadā .. 7.48.14 ..
परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ॥ ७.४८.१५ ॥
परमः हि एष धर्मः ते तस्मात् कीर्तिः अनुत्तमा ॥ ७।४८।१५ ॥
paramaḥ hi eṣa dharmaḥ te tasmāt kīrtiḥ anuttamā .. 7.48.15 ..
यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् । अहं तु नानुशोचामि स्वशरीरं नरर्षभ ॥ ७.४८.१६ ॥
यत् तु पौर-जनः राजन् धर्मेण समवाप्नुयात् । अहम् तु न अनुशोचामि स्व-शरीरम् नर-ऋषभ ॥ ७।४८।१६ ॥
yat tu paura-janaḥ rājan dharmeṇa samavāpnuyāt . aham tu na anuśocāmi sva-śarīram nara-ṛṣabha .. 7.48.16 ..
यथापवादं पौराणां तथैव रघुनन्दन । पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ॥ ७.४८.१७ ॥
यथा अपवादम् पौराणाम् तथा एव रघुनन्दन । पतिः हि देवता नार्याः पतिः बन्धुः पतिः गुरुः ॥ ७।४८।१७ ॥
yathā apavādam paurāṇām tathā eva raghunandana . patiḥ hi devatā nāryāḥ patiḥ bandhuḥ patiḥ guruḥ .. 7.48.17 ..
प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः । इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः । निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ॥ ७.४८.१८ ॥
प्राणैः अपि प्रियम् तस्मात् भर्तुः कार्यम् विशेषतः । इति मद्-वचनात् रामः वक्तव्यः मम सङ्ग्रहः । निरीक्ष्य मा अद्य गच्छ त्वम् ऋतु-काल-अतिवर्तिनीम् ॥ ७।४८।१८ ॥
prāṇaiḥ api priyam tasmāt bhartuḥ kāryam viśeṣataḥ . iti mad-vacanāt rāmaḥ vaktavyaḥ mama saṅgrahaḥ . nirīkṣya mā adya gaccha tvam ṛtu-kāla-ativartinīm .. 7.48.18 ..
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः । शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ॥ ७.४८.१९ ॥
एवम् ब्रुवन्त्याम् सीतायाम् लक्ष्मणः दीन-चेतनः । शिरसा धरणीम् व्याहर्तुम् न शशाक ह ॥ ७।४८।१९ ॥
evam bruvantyām sītāyām lakṣmaṇaḥ dīna-cetanaḥ . śirasā dharaṇīm vyāhartum na śaśāka ha .. 7.48.19 ..
प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः । ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ॥ ७.४८.२० ॥
प्रदक्षिणम् च ताम् कृत्वा रुदन् एव महा-स्वनः । ध्यात्वा मुहूर्तम् ताम् आह किम् माम् वक्ष्यसि शोभने ॥ ७।४८।२० ॥
pradakṣiṇam ca tām kṛtvā rudan eva mahā-svanaḥ . dhyātvā muhūrtam tām āha kim mām vakṣyasi śobhane .. 7.48.20 ..
दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे । कथमत्र हि पश्यामि रामेण रहितां वने ॥ ७.४८.२१ ॥
दृष्ट-पूर्वम् न ते रूपम् पादौ दृष्टौ तव अनघे । कथम् अत्र हि पश्यामि रामेण रहिताम् वने ॥ ७।४८।२१ ॥
dṛṣṭa-pūrvam na te rūpam pādau dṛṣṭau tava anaghe . katham atra hi paśyāmi rāmeṇa rahitām vane .. 7.48.21 ..
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् । आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ॥ ७.४८.२२ ॥
इति उक्त्वा ताम् नमस्कृत्य पुनर् नावम् उपारुहत् । आरुह्य च पुनर् नावम् नाविकम् च अभ्यचोदयत् ॥ ७।४८।२२ ॥
iti uktvā tām namaskṛtya punar nāvam upāruhat . āruhya ca punar nāvam nāvikam ca abhyacodayat .. 7.48.22 ..
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः । सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ॥ ७.४८.२३ ॥
स गत्वा च उत्तरम् तीरम् शोक-भार-समन्वितः । सम्मूढः इव दुःखेन रथम् अध्यारुहत् द्रुतम् ॥ ७।४८।२३ ॥
sa gatvā ca uttaram tīram śoka-bhāra-samanvitaḥ . sammūḍhaḥ iva duḥkhena ratham adhyāruhat drutam .. 7.48.23 ..
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् । चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ॥ ७.४८.२४ ॥
मुहुर् मुहुर् परावृत्य दृष्ट्वा सीताम् अनाथ-वत् । चेष्टन्तीम् पर-तीर-स्थाम् लक्ष्मणः प्रययौ अथ ॥ ७।४८।२४ ॥
muhur muhur parāvṛtya dṛṣṭvā sītām anātha-vat . ceṣṭantīm para-tīra-sthām lakṣmaṇaḥ prayayau atha .. 7.48.24 ..
दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः । निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ॥ ७.४८.२५ ॥
दूर-स्थम् रथम् आलोक्य लक्ष्मणम् च मुहूर् मुहुर् । निरीक्षमाणाम् तु उद्विग्नाम् सीताम् शोकः समाविशत् ॥ ७।४८।२५ ॥
dūra-stham ratham ālokya lakṣmaṇam ca muhūr muhur . nirīkṣamāṇām tu udvignām sītām śokaḥ samāviśat .. 7.48.25 ..
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती । रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ॥ ७.४८.२६ ॥
सा दुःख-भार-अवनता यशस्विनी यशः-धना नाथम् अपश्यती सती । रुरोद सा बर्हिण-नादिते वने महा-स्वनम् दुःख-परायणा सती ॥ ७।४८।२६ ॥
sā duḥkha-bhāra-avanatā yaśasvinī yaśaḥ-dhanā nātham apaśyatī satī . ruroda sā barhiṇa-nādite vane mahā-svanam duḥkha-parāyaṇā satī .. 7.48.26 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ ४८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭacatvāriṃśaḥ sargaḥ .. 48 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In