This overlay will guide you through the buttons:

| |
|
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा । परं विषादमागम्य वैदेही निपपात ह ॥ ७.४८.१ ॥
lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā . paraṃ viṣādamāgamya vaidehī nipapāta ha .. 7.48.1 ..
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा । लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ॥ ७.४८.२ ॥
sā muhūrtamivāsañjñā bāṣpaparyākulekṣaṇā . lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā .. 7.48.2 ..
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण । धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ॥ ७.४८.३ ॥
māmikeyaṃ tanurnūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa . dhātrā yasyāstathā me 'dya duḥkhamūrtiḥ pradṛśyate .. 7.48.3 ..
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः । या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ॥ ७.४८.४ ॥
kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārairviyojitaḥ . yā 'haṃ śuddhasamācārā tyaktā nṛpatinā satī .. 7.48.4 ..
पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी । अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ॥ ७.४८.५ ॥
purā 'hamāśrame vāsaṃ rāmapādānuvartinī . anurudhyāpi saumitre duḥkhe ca parivartinī .. 7.48.5 ..
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता । आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ॥ ७.४८.६ ॥
sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā . ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā .. 7.48.6 ..
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् । कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ॥ ७.४८.७ ॥
kiṃ nu vakṣyāmi muniṣu karma vā satkṛtaṃ ca kim . kasmiṃścit kāraṇe tyaktā rāghaveṇa mahātmanā .. 7.48.7 ..
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले । त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥ ७.४८.८ ॥
na khalvadyaiva saumitre jīvitaṃ jāhnavījale . tyajeyaṃ rājavaṃśastu bharturme parihāsyate .. 7.48.8 ..
यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् । निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥ ७.४८.९ ॥
yathājñaṃ kuru somitre tyaja māṃ duḥkhabhāginīm . nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama .. 7.48.9 ..
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च । शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ॥ ७.४८.१० ॥
śvaśrūṇāmaviśeṣeṇa prāñjalipragraheṇa ca . śirasā ' 'vandya caraṇau kuśalaṃ brūhi pārthivam .. 7.48.10 ..
शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण । वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ॥ ७.४८.११ ॥
śirasā 'bhinato brūyāḥ sarvāsāmeva lakṣmaṇa . vaktavyaścāpi nṛpatirdharmeṣu susamāhitaḥ .. 7.48.11 ..
जानासि च यथा शुद्धा सीता तत्त्वेन राघव । भक्त्या च परया युक्ता हिता च तव नित्यशः ॥ ७.४८.१२ ॥
jānāsi ca yathā śuddhā sītā tattvena rāghava . bhaktyā ca parayā yuktā hitā ca tava nityaśaḥ .. 7.48.12 ..
अहं त्यक्ता त्वया वीर अयशोभीरुणा जने । यच्च ते वचनीयं स्यादपवादसमुत्थितम् । मया च परिहर्तव्यं त्वं हि मे परमा गतिः ॥ ७.४८.१३ ॥
ahaṃ tyaktā tvayā vīra ayaśobhīruṇā jane . yacca te vacanīyaṃ syādapavādasamutthitam . mayā ca parihartavyaṃ tvaṃ hi me paramā gatiḥ .. 7.48.13 ..
वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः । यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ॥ ७.४८.१४ ॥
vaktavyaśceti nṛpatirdhameṇa susamāhitaḥ . yathā bhrātṛṣu vartethāstathā paureṣu nityadā .. 7.48.14 ..
परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ॥ ७.४८.१५ ॥
paramo hyeṣa dharmaste tasmātkīrtiranuttamā .. 7.48.15 ..
यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् । अहं तु नानुशोचामि स्वशरीरं नरर्षभ ॥ ७.४८.१६ ॥
yattu paurajano rājandharmeṇa samavāpnuyāt . ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha .. 7.48.16 ..
यथापवादं पौराणां तथैव रघुनन्दन । पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ॥ ७.४८.१७ ॥
yathāpavādaṃ paurāṇāṃ tathaiva raghunandana . patirhi devatā nāryāḥ patirbandhuḥ patirguruḥ .. 7.48.17 ..
प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः । इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः । निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ॥ ७.४८.१८ ॥
prāṇairapi priyaṃ tasmādbhartuḥ kāryaṃ viśeṣataḥ . iti madvacanādrāmo vaktavyo mama saṅgrahaḥ . nirīkṣya mā 'dya gaccha tvamṛtukālātivartinīm .. 7.48.18 ..
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः । शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ॥ ७.४८.१९ ॥
evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ . śirasā ' 'vandya dharaṇīṃ vyāhartuṃ na śaśāka ha .. 7.48.19 ..
प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः । ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ॥ ७.४८.२० ॥
pradakṣiṇaṃ ca tāṃ kṛtvā rudanneva mahāsvanaḥ . dhyātvā muhūrtaṃ tāmāha kiṃ māṃ vakṣyasi śobhane .. 7.48.20 ..
दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे । कथमत्र हि पश्यामि रामेण रहितां वने ॥ ७.४८.२१ ॥
dṛṣṭapūrvaṃ na te rūpaṃ pādau dṛṣṭau tavānaghe . kathamatra hi paśyāmi rāmeṇa rahitāṃ vane .. 7.48.21 ..
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् । आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ॥ ७.४८.२२ ॥
ityuktvā tāṃ namaskṛtya punarnāvamupāruhat . āruhya ca punarnāvaṃ nāvikaṃ cābhyacodayat .. 7.48.22 ..
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः । सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ॥ ७.४८.२३ ॥
sa gatvā cottaraṃ tīraṃ śokabhārasamanvitaḥ . sammūḍha iva duḥkhena rathamadhyāruhaddrutam .. 7.48.23 ..
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् । चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ॥ ७.४८.२४ ॥
muhurmuhuḥ parāvṛtya dṛṣṭvā sītāmanāthavat . ceṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha .. 7.48.24 ..
दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः । निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ॥ ७.४८.२५ ॥
dūrasthaṃ rathamālokya lakṣmaṇaṃ ca muhūrmuhuḥ . nirīkṣamāṇāṃ tūdvignāṃ sītāṃ śokaḥ samāviśat .. 7.48.25 ..
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती । रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ॥ ७.४८.२६ ॥
sā duḥkhabhārāvanatā yaśasvinī yaśodhanā nāthamapaśyatī satī . ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī .. 7.48.26 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ ४८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭacatvāriṃśaḥ sargaḥ .. 48 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In