This overlay will guide you through the buttons:

| |
|
सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः । प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥ ७.४९.१ ॥
सीताम् तु रुदतीम् दृष्ट्वा ते तत्र मुनि-दारकाः । प्राद्रवन् यत्र भगवान् आस्ते वाल्मीकिः उग्र-धीः ॥ ७।४९।१ ॥
sītām tu rudatīm dṛṣṭvā te tatra muni-dārakāḥ . prādravan yatra bhagavān āste vālmīkiḥ ugra-dhīḥ .. 7.49.1 ..
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये । सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥ ७.४९.२ ॥
अभिवाद्य मुनेः पादौ मुनि-पुत्राः महा-ऋषये । सर्वम् निवेदयामासुः तस्याः तु रुदित-स्वनम् ॥ ७।४९।२ ॥
abhivādya muneḥ pādau muni-putrāḥ mahā-ṛṣaye . sarvam nivedayāmāsuḥ tasyāḥ tu rudita-svanam .. 7.49.2 ..
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः । पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ॥ ७.४९.३ ॥
अ दृष्ट-पूर्वा भगवन् कस्य अपि एषा महात्मनः । पत्नी श्रीः इव सम्मोहात् विरौति विकृत-आनना ॥ ७।४९।३ ॥
a dṛṣṭa-pūrvā bhagavan kasya api eṣā mahātmanaḥ . patnī śrīḥ iva sammohāt virauti vikṛta-ānanā .. 7.49.3 ..
भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् । नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ॥ ७.४९.४ ॥
भगवन् साधु पश्य त्वम् देवताम् इव खात् च्युताम् । नद्याः तु तीरे भगवन् वर-स्त्री का अपि दुःखिता ॥ ७।४९।४ ॥
bhagavan sādhu paśya tvam devatām iva khāt cyutām . nadyāḥ tu tīre bhagavan vara-strī kā api duḥkhitā .. 7.49.4 ..
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा । अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ॥ ७.४९.५ ॥
दृष्टा अस्माभिः प्ररुदिता दृढम् शोक-परायणा । अनर्हाः दुःख-शोकाभ्याम् एकाम् दीनाम् हि अनाथ-वत् ॥ ७।४९।५ ॥
dṛṣṭā asmābhiḥ praruditā dṛḍham śoka-parāyaṇā . anarhāḥ duḥkha-śokābhyām ekām dīnām hi anātha-vat .. 7.49.5 ..
न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् । आश्रमस्याविदूरे च त्वामियं शरणं गता ॥ ७.४९.६ ॥
न हि एनाम् मानुषीम् विद्मः सत्क्रिया अस्याः प्रयुज्यताम् । आश्रमस्य अविदूरे च त्वाम् इयम् शरणम् गता ॥ ७।४९।६ ॥
na hi enām mānuṣīm vidmaḥ satkriyā asyāḥ prayujyatām . āśramasya avidūre ca tvām iyam śaraṇam gatā .. 7.49.6 ..
त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि । तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् । तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ॥ ७.४९.७ ॥
त्रातारम् इच्छते साध्वी भगवन् त्रातुम् अर्हसि । तेषाम् तु वचनम् श्रुत्वा बुद्ध्या निश्चित्य धर्म-विद् । तपसा लब्ध-चक्षुष्मान् प्राद्रवत् यत्र मैथिली ॥ ७।४९।७ ॥
trātāram icchate sādhvī bhagavan trātum arhasi . teṣām tu vacanam śrutvā buddhyā niścitya dharma-vid . tapasā labdha-cakṣuṣmān prādravat yatra maithilī .. 7.49.7 ..
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् । तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ॥ ७.४९.८ ॥
तम् प्रयान्तम् अभिप्रेत्य शिष्याः हि एनम् महामतिम् । तम् तु देशम् अभि प्रेत्य किञ्चिद् पद्भ्याम् महामतिः ॥ ७।४९।८ ॥
tam prayāntam abhipretya śiṣyāḥ hi enam mahāmatim . tam tu deśam abhi pretya kiñcid padbhyām mahāmatiḥ .. 7.49.8 ..
अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् । ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ॥ ७.४९.९ ॥
अर्घ्यम् आदाय रुचिरम् जाह्नवी-तीरम् आगमत् । ददर्श राघवस्य इष्टाम् सीताम् पत्नीम् अनाथ-वत् ॥ ७।४९।९ ॥
arghyam ādāya ruciram jāhnavī-tīram āgamat . dadarśa rāghavasya iṣṭām sītām patnīm anātha-vat .. 7.49.9 ..
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः । उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ॥ ७.४९.१० ॥
ताम् सीताम् शोक-भार-आर्ताम् वाल्मीकिः मुनि-पुङ्गवः । उवाच मधुराम् वाणीम् ह्लादयन् इव तेजसा ॥ ७।४९।१० ॥
tām sītām śoka-bhāra-ārtām vālmīkiḥ muni-puṅgavaḥ . uvāca madhurām vāṇīm hlādayan iva tejasā .. 7.49.10 ..
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया । जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ॥ ७.४९.११ ॥
स्नुषा दशरथस्य त्वम् रामस्य महिषी प्रिया । जनकस्य सुता राज्ञः स्वागतम् ते पतिव्रते ॥ ७।४९।११ ॥
snuṣā daśarathasya tvam rāmasya mahiṣī priyā . janakasya sutā rājñaḥ svāgatam te pativrate .. 7.49.11 ..
आयान्ती चासि विज्ञाता मया धर्मसमाधिना । कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ॥ ७.४९.१२ ॥
आयान्ती च असि विज्ञाता मया धर्म-समाधिना । कारणम् च एव सर्वम् मे हृदयेन उपलक्षितम् ॥ ७।४९।१२ ॥
āyāntī ca asi vijñātā mayā dharma-samādhinā . kāraṇam ca eva sarvam me hṛdayena upalakṣitam .. 7.49.12 ..
तव चैव महाभागे विदितं मम तत्त्वतः । सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ॥ ७.४९.१३ ॥
तव च एव महाभागे विदितम् मम तत्त्वतः । सर्वम् च विदितम् मह्यम् त्रैलोक्ये यत् हि वर्तते ॥ ७।४९।१३ ॥
tava ca eva mahābhāge viditam mama tattvataḥ . sarvam ca viditam mahyam trailokye yat hi vartate .. 7.49.13 ..
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा । विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ॥ ७.४९.१४ ॥
अपापाम् वेद्मि सीते त्वाम् तपः-लब्धेन चक्षुषा । विस्रब्धा भव वैदेहि साम्प्रतम् मयि वर्तसे ॥ ७।४९।१४ ॥
apāpām vedmi sīte tvām tapaḥ-labdhena cakṣuṣā . visrabdhā bhava vaidehi sāmpratam mayi vartase .. 7.49.14 ..
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः । तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ॥ ७.४९.१५ ॥
आश्रमस्य अविदूरे मे तापस्यः तपसि स्थिताः । ताः त्वाम् वत्से यथा वत्सम् पालयिष्यन्ति नित्यशस् ॥ ७।४९।१५ ॥
āśramasya avidūre me tāpasyaḥ tapasi sthitāḥ . tāḥ tvām vatse yathā vatsam pālayiṣyanti nityaśas .. 7.49.15 ..
इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा । यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ॥ ७.४९.१६ ॥
इदम् अर्ध्यम् प्रतीच्छ त्वम् विस्रब्धा विगत-ज्वरा । यथा स्व-गृहम् अभ्येत्य विषादम् च एव मा कृथाः ॥ ७।४९।१६ ॥
idam ardhyam pratīccha tvam visrabdhā vigata-jvarā . yathā sva-gṛham abhyetya viṣādam ca eva mā kṛthāḥ .. 7.49.16 ..
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् । शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ॥ ७.४९.१७ ॥
श्रुत्वा तु भाषितम् सीता मुनेः परमम् अद्भुतम् । शिरसा चरणौ तथा इति आह कृताञ्जलिः ॥ ७।४९।१७ ॥
śrutvā tu bhāṣitam sītā muneḥ paramam adbhutam . śirasā caraṇau tathā iti āha kṛtāñjaliḥ .. 7.49.17 ..
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ॥ ७.४९.१८ ॥
तम् प्रयान्तम् मुनिम् सीता प्राञ्जलिः पृष्ठतस् अन्वगात् ॥ ७।४९।१८ ॥
tam prayāntam munim sītā prāñjaliḥ pṛṣṭhatas anvagāt .. 7.49.18 ..
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः । उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥ ७.४९.१९ ॥
तम् दृष्ट्वा मुनिम् आयान्तम् वैदेह्याः मुनि-पत्नयः । उपाजग्मुः मुदा युक्ताः वचनम् च इदम् अब्रुवन् ॥ ७।४९।१९ ॥
tam dṛṣṭvā munim āyāntam vaidehyāḥ muni-patnayaḥ . upājagmuḥ mudā yuktāḥ vacanam ca idam abruvan .. 7.49.19 ..
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते । अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ॥ ७.४९.२० ॥
स्वागतम् ते मुनि-श्रेष्ठ चिरस्य आगमनम् च ते । अभिवादयामः त्वाम् सर्वाः उच्यताम् कि च कुर्महे ॥ ७।४९।२० ॥
svāgatam te muni-śreṣṭha cirasya āgamanam ca te . abhivādayāmaḥ tvām sarvāḥ ucyatām ki ca kurmahe .. 7.49.20 ..
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् । सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥ ७.४९.२१ ॥
तासाम् तत् वचनम् श्रुत्वा वाल्मीकिः इदम् अब्रवीत् । सीता इयम् समनुप्राप्ता पत्नी रामस्य धीमतः ॥ ७।४९।२१ ॥
tāsām tat vacanam śrutvā vālmīkiḥ idam abravīt . sītā iyam samanuprāptā patnī rāmasya dhīmataḥ .. 7.49.21 ..
स्नुषा दशरथस्यैषा जनकस्य सुता सती । अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥ ७.४९.२२ ॥
स्नुषा दशरथस्य एषा जनकस्य सुता सती । अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥ ७।४९।२२ ॥
snuṣā daśarathasya eṣā janakasya sutā satī . apāpā patinā tyaktā paripālyā mayā sadā .. 7.49.22 ..
इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि । गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ॥ ७.४९.२३ ॥
इमाम् भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि । गौरवात् मम वाक्यात् च पूज्या वः अस्तु विशेषतः ॥ ७।४९।२३ ॥
imām bhavantyaḥ(?) paśyantu snehena parameṇa hi . gauravāt mama vākyāt ca pūjyā vaḥ astu viśeṣataḥ .. 7.49.23 ..
मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः । स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥ ७.४९.२४ ॥
मुहुर् मुहुर् च वैदेहीम् प्रणिधाय महा-यशाः । स्वम् आश्रमम् शिष्य-वृतः पुनर् आयात् महा-तपाः ॥ ७।४९।२४ ॥
muhur muhur ca vaidehīm praṇidhāya mahā-yaśāḥ . svam āśramam śiṣya-vṛtaḥ punar āyāt mahā-tapāḥ .. 7.49.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ekonapañcāśaḥ sargaḥ .. 49 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In