This overlay will guide you through the buttons:

| |
|
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् । ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ ७.५.१ ॥
सुकेशम् धार्मिकम् दृष्ट्वा वर-लब्धम् च राक्षसम् । ग्रामणीः नाम गन्धर्वः विश्वावसु-सम-प्रभः ॥ ७।५।१ ॥
sukeśam dhārmikam dṛṣṭvā vara-labdham ca rākṣasam . grāmaṇīḥ nāma gandharvaḥ viśvāvasu-sama-prabhaḥ .. 7.5.1 ..
तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी । तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ॥ ७.५.२ ॥
तस्य देववती नाम द्वितीया श्रीः इव आत्मजा । त्रिषु लोकेषु विख्याता रूप-यौवन-शालिनी । ताम् सुकेशाय धर्मेण ददौ रक्षः-श्रियम् यथा ॥ ७।५।२ ॥
tasya devavatī nāma dvitīyā śrīḥ iva ātmajā . triṣu lokeṣu vikhyātā rūpa-yauvana-śālinī . tām sukeśāya dharmeṇa dadau rakṣaḥ-śriyam yathā .. 7.5.2 ..
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् । आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ७.५.३ ॥
वर-दान-कृत-ऐश्वर्यम् सा तम् प्राप्य पतिम् प्रियम् । आसीत् देववती तुष्टा धनम् प्राप्य इव निर्धनः ॥ ७।५।३ ॥
vara-dāna-kṛta-aiśvaryam sā tam prāpya patim priyam . āsīt devavatī tuṣṭā dhanam prāpya iva nirdhanaḥ .. 7.5.3 ..
स तया सह संयुक्तो रराज रजनीचरः । अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ७.५.४ ॥
स तया सह संयुक्तः रराज रजनीचरः । अञ्जनात् अभिनिष्क्रान्तः करेण्वा इव महा-गजः ॥ ७।५।४ ॥
sa tayā saha saṃyuktaḥ rarāja rajanīcaraḥ . añjanāt abhiniṣkrāntaḥ kareṇvā iva mahā-gajaḥ .. 7.5.4 ..
देववत्यां सुकेशस्तु जनयामास राघव ॥ ७.५.५ ॥
देववत्याम् सुकेशः तु जनयामास राघव ॥ ७।५।५ ॥
devavatyām sukeśaḥ tu janayāmāsa rāghava .. 7.5.5 ..
त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् । माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् । त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ॥ ७.५.६ ॥
त्रीन् पुत्रान् जनयामास त्रेताग्नि-सम-विग्रहान् । माल्यवन्तम् सुमालिम् च मालिम् च बलिनाम् वरम् । त्रीन् त्रिनेत्र-समान् पुत्रान् राक्षसान् राक्षस-अधिपः ॥ ७।५।६ ॥
trīn putrān janayāmāsa tretāgni-sama-vigrahān . mālyavantam sumālim ca mālim ca balinām varam . trīn trinetra-samān putrān rākṣasān rākṣasa-adhipaḥ .. 7.5.6 ..
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः । त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ७.५.७ ॥
त्रयः लोकाः इव अव्यग्राः स्थिताः त्रयः इव अग्नयः । त्रयः मन्त्राः इव अति उग्राः त्रयः घोराः इव आमयाः ॥ ७।५।७ ॥
trayaḥ lokāḥ iva avyagrāḥ sthitāḥ trayaḥ iva agnayaḥ . trayaḥ mantrāḥ iva ati ugrāḥ trayaḥ ghorāḥ iva āmayāḥ .. 7.5.7 ..
त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः । विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ ७.५.८ ॥
त्रयः सुकेशस्य सुताः त्रेताग्नि-सम-तेजसः । विवृद्धिम् अगमन् तत्र इव ॥ ७।५।८ ॥
trayaḥ sukeśasya sutāḥ tretāgni-sama-tejasaḥ . vivṛddhim agaman tatra iva .. 7.5.8 ..
वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् । तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ ७.५.९ ॥
वर-प्राप्तिम् पितुः ते तु ज्ञात्वा ईश्वर-तपः-बलात् । तपः तप्तुम् गताः मेरुम् भ्रातरः कृत-निश्चयाः ॥ ७।५।९ ॥
vara-prāptim pituḥ te tu jñātvā īśvara-tapaḥ-balāt . tapaḥ taptum gatāḥ merum bhrātaraḥ kṛta-niścayāḥ .. 7.5.9 ..
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम । विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ ७.५.१० ॥
प्रगृह्य नियमान् घोरान् राक्षसाः नृप-सत्तम । विचेरुः ते तपः घोरम् सर्व-भूत-भय-आवहम् ॥ ७।५।१० ॥
pragṛhya niyamān ghorān rākṣasāḥ nṛpa-sattama . viceruḥ te tapaḥ ghoram sarva-bhūta-bhaya-āvaham .. 7.5.10 ..
सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः । सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ॥ ७.५.११ ॥
सत्य-आर्जव-शम-उपेतैः तपोभिः अति दुष्करैः । सन्तापयन्तः त्रीन् लो~कान् स देव-असुर-मानुषान् ॥ ७।५।११ ॥
satya-ārjava-śama-upetaiḥ tapobhiḥ ati duṣkaraiḥ . santāpayantaḥ trīn lo~kān sa deva-asura-mānuṣān .. 7.5.11 ..
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः । सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत ॥ ७.५.१२ ॥
ततस् विभुः चतुर्वक्त्रः विमान-वरम् आस्थितः । सुकेश-पुत्रान् आमन्त्र्य वर-दः अस्मि इति अभाषत ॥ ७।५।१२ ॥
tatas vibhuḥ caturvaktraḥ vimāna-varam āsthitaḥ . sukeśa-putrān āmantrya vara-daḥ asmi iti abhāṣata .. 7.5.12 ..
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् । ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥ ७.५.१३ ॥
ब्रह्माणम् वर-दम् ज्ञात्वा स इन्द्रैः देव-गणैः वृतम् । ऊचुः प्राञ्जलयः सर्वे वेपमानाः इव द्रुमाः ॥ ७।५।१३ ॥
brahmāṇam vara-dam jñātvā sa indraiḥ deva-gaṇaiḥ vṛtam . ūcuḥ prāñjalayaḥ sarve vepamānāḥ iva drumāḥ .. 7.5.13 ..
तपसाराधितो देव यदि नो दिशसे वरम् । अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ॥ ७.५.१४ ॥
तपसा आराधितः देव यदि नः दिशसे वरम् । अजेयाः शत्रु-हन्तारः तथा एव चिर-जीविनः ॥ ७।५।१४ ॥
tapasā ārādhitaḥ deva yadi naḥ diśase varam . ajeyāḥ śatru-hantāraḥ tathā eva cira-jīvinaḥ .. 7.5.14 ..
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ ७.५.१५ ॥
प्रभविष्ण्वः भवाम इति परस्परम् अनुव्रताः ॥ ७।५।१५ ॥
prabhaviṣṇvaḥ bhavāma iti parasparam anuvratāḥ .. 7.5.15 ..
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः । स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ ७.५.१६ ॥
एवम् भविष्यति इति उक्त्वा सुकेश-तनयान् विभुः । स ययौ ब्रह्म-लोकाय ब्रह्मा ब्राह्मण-वत्सलः ॥ ७।५।१६ ॥
evam bhaviṣyati iti uktvā sukeśa-tanayān vibhuḥ . sa yayau brahma-lokāya brahmā brāhmaṇa-vatsalaḥ .. 7.5.16 ..
वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा । सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ ७.५.१७ ॥
वरम् लब्ध्वा तु ते सर्वे राम रात्रिञ्चराः तदा । सुर-असुरान् प्रबाधन्ते वर-दान-सु निर्भयाः ॥ ७।५।१७ ॥
varam labdhvā tu te sarve rāma rātriñcarāḥ tadā . sura-asurān prabādhante vara-dāna-su nirbhayāḥ .. 7.5.17 ..
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः । त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥ ७.५.१८ ॥
तैः वध्यमानाः त्रिदशाः स ऋषि-सङ्घाः स चारणाः । त्रातारम् न अधिगच्छन्ति निरय-स्थाः यथा नराः ॥ ७।५।१८ ॥
taiḥ vadhyamānāḥ tridaśāḥ sa ṛṣi-saṅghāḥ sa cāraṇāḥ . trātāram na adhigacchanti niraya-sthāḥ yathā narāḥ .. 7.5.18 ..
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् । ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ ७.५.१९ ॥
अथ ते विश्वकर्माणम् शिल्पिनाम् वरम् अव्ययम् । ऊचुः समेत्य संहृष्टाः राक्षसाः रघु-सत्तम ॥ ७।५।१९ ॥
atha te viśvakarmāṇam śilpinām varam avyayam . ūcuḥ sametya saṃhṛṣṭāḥ rākṣasāḥ raghu-sattama .. 7.5.19 ..
ओजस्तेजोबलवतां महतामात्मतेजसा । गृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥ ७.५.२० ॥
ओजः-तेजः-बलवताम् महताम् आत्म-तेजसा । गृह-कर्ता भवान् एव देवानाम् हृदय-ईप्सितम् ॥ ७।५।२० ॥
ojaḥ-tejaḥ-balavatām mahatām ātma-tejasā . gṛha-kartā bhavān eva devānām hṛdaya-īpsitam .. 7.5.20 ..
अस्माकमपि तावत्त्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥ ७.५.२१ ॥
अस्माकम् अपि तावत् त्वम् गृहम् कुरु महामते । हिमवन्तम् अपाश्रित्य मेरु-मन्दरम् एव वा । महेश्वर-गृह-प्रख्यम् गृहम् नः क्रियताम् महत् ॥ ७।५।२१ ॥
asmākam api tāvat tvam gṛham kuru mahāmate . himavantam apāśritya meru-mandaram eva vā . maheśvara-gṛha-prakhyam gṛham naḥ kriyatām mahat .. 7.5.21 ..
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः । निवासं कथयामास शक्रस्येवामरावतीम् ॥ ७.५.२२ ॥
विश्वकर्मा ततस् तेषाम् राक्षसानाम् महा-भुजः । निवासम् कथयामास शक्रस्य इव अमरावतीम् ॥ ७।५।२२ ॥
viśvakarmā tatas teṣām rākṣasānām mahā-bhujaḥ . nivāsam kathayāmāsa śakrasya iva amarāvatīm .. 7.5.22 ..
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः । सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ ७.५.२३ ॥
दक्षिणस्य उदधेः तीरे त्रिकूटः नाम पर्वतः । सुवेलः इति च अपि अन्यः द्वितीयः तत्र सत्तमाः ॥ ७।५।२३ ॥
dakṣiṇasya udadheḥ tīre trikūṭaḥ nāma parvataḥ . suvelaḥ iti ca api anyaḥ dvitīyaḥ tatra sattamāḥ .. 7.5.23 ..
शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे । शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥ ७.५.२४ ॥
शिखरे तस्य शैलस्य मध्यमे अम्बुद-सन्निभे । शकुनैः अपि दुष्प्रापे टङ्क-छिन्न-चतुर्-दिशि ॥ ७।५।२४ ॥
śikhare tasya śailasya madhyame ambuda-sannibhe . śakunaiḥ api duṣprāpe ṭaṅka-chinna-catur-diśi .. 7.5.24 ..
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता । स्वर्णप्राकारसंवीता हेमतोरणसंवृता ॥ ७.५.२५ ॥
त्रिंशत्-योजनक् स्तीर्णा शत-योजनम् आयता । स्वर्ण-प्राकार-संवीता हेम-तोरण-संवृता ॥ ७।५।२५ ॥
triṃśat-yojanak stīrṇā śata-yojanam āyatā . svarṇa-prākāra-saṃvītā hema-toraṇa-saṃvṛtā .. 7.5.25 ..
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता । तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ॥ ७.५.२६ ॥
मया लङ्का इति नगरी शक्र-आज्ञप्तेन निर्मिता । तस्याम् वसत दुर्धर्षाः यूयम् राक्षस-पुङ्गवाः ॥ ७।५।२६ ॥
mayā laṅkā iti nagarī śakra-ājñaptena nirmitā . tasyām vasata durdharṣāḥ yūyam rākṣasa-puṅgavāḥ .. 7.5.26 ..
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः । लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ॥ ७.५.२७ ॥
अमरावतीम् समासाद्य स इन्द्राः इव दिवौकसः । लङ्का-दुर्गम् समासाद्य राक्षसैः बहुभिः वृताः ॥ ७।५।२७ ॥
amarāvatīm samāsādya sa indrāḥ iva divaukasaḥ . laṅkā-durgam samāsādya rākṣasaiḥ bahubhiḥ vṛtāḥ .. 7.5.27 ..
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ ७.५.२८ ॥
भविष्यथ दुराधर्षाः शत्रूणाम् शत्रु-सूदनाः ॥ ७।५।२८ ॥
bhaviṣyatha durādharṣāḥ śatrūṇām śatru-sūdanāḥ .. 7.5.28 ..
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः । सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ ७.५.२९ ॥
विश्वकर्म-वचः श्रुत्वा ततस् ते राक्षस-उत्तमाः । सहस्र-अनुचराः भूत्वा गत्वा ताम् अवसन् पुरीम् ॥ ७।५।२९ ॥
viśvakarma-vacaḥ śrutvā tatas te rākṣasa-uttamāḥ . sahasra-anucarāḥ bhūtvā gatvā tām avasan purīm .. 7.5.29 ..
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् । लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ॥ ७.५.३० ॥
दृढ-प्राकार-परिखाम् हैमैः गृह-शतैः वृताम् । लङ्काम् अवाप्य ते हृष्टाः न्यवसन् रजनीचराः ॥ ७।५।३० ॥
dṛḍha-prākāra-parikhām haimaiḥ gṛha-śataiḥ vṛtām . laṅkām avāpya te hṛṣṭāḥ nyavasan rajanīcarāḥ .. 7.5.30 ..
एतस्मिन्नेव काले तु यथाकामं च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ ७.५.३१ ॥
एतस्मिन् एव काले तु यथाकामम् च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ ७।५।३१ ॥
etasmin eva kāle tu yathākāmam ca rāghava . narmadā nāma gandharvī babhūva raghunandana .. 7.5.31 ..
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ ७.५.३२ ॥
तस्याः कान्या-त्रयम् हि आसीत् धी-श्री-किर्ति-सम-द्युति । ज्येष्ठ-क्रमेण सा तेषाम् राक्षसानाम् अराक्षसी ॥ ७।५।३२ ॥
tasyāḥ kānyā-trayam hi āsīt dhī-śrī-kirti-sama-dyuti . jyeṣṭha-krameṇa sā teṣām rākṣasānām arākṣasī .. 7.5.32 ..
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः । त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥ ७.५.३३ ॥
कन्याः ताः प्रददौ हृष्टा पूर्ण-चन्द्र-निभ-आननाः । त्रयाणाम् राक्षस-इन्द्राणाम् तिस्रः गन्धर्व-कन्यकाः ॥ ७।५।३३ ॥
kanyāḥ tāḥ pradadau hṛṣṭā pūrṇa-candra-nibha-ānanāḥ . trayāṇām rākṣasa-indrāṇām tisraḥ gandharva-kanyakāḥ .. 7.5.33 ..
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कुतदारास्तु ते राम सुकेशतनयास्तदा ॥ ७.५.३४ ॥
दत्ताः मात्राः महाभागाः नक्षत्रे भग-दैवते । कुत-दाराः तु ते राम सुकेश-तनयाः तदा ॥ ७।५।३४ ॥
dattāḥ mātrāḥ mahābhāgāḥ nakṣatre bhaga-daivate . kuta-dārāḥ tu te rāma sukeśa-tanayāḥ tadā .. 7.5.34 ..
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः । ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ॥ ७.५.३५ ॥
चिक्रीडुः सह भार्याभिः अप्सरोभिः इव अमराः । ततस् माल्यवतः भार्या सुन्दरी नाम सुन्दरी ॥ ७।५।३५ ॥
cikrīḍuḥ saha bhāryābhiḥ apsarobhiḥ iva amarāḥ . tatas mālyavataḥ bhāryā sundarī nāma sundarī .. 7.5.35 ..
स तस्यां जनयामास यदपत्यं निबोध तत् । वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ॥ ७.५.३६ ॥
स तस्याम् जनयामास यत् अपत्यम् निबोध तत् । वज्रमुष्टिः विरूपाक्षः दुर्मुखः च एव राक्षसः ॥ ७।५।३६ ॥
sa tasyām janayāmāsa yat apatyam nibodha tat . vajramuṣṭiḥ virūpākṣaḥ durmukhaḥ ca eva rākṣasaḥ .. 7.5.36 ..
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥ ७.५.३७ ॥
सुप्तघ्नः यज्ञकोपः च मत्त-उन्मत्तौ तथा एव च । अनला च अभवत् कन्या सुन्दर्याम् राम सुन्दरी ॥ ७।५।३७ ॥
suptaghnaḥ yajñakopaḥ ca matta-unmattau tathā eva ca . analā ca abhavat kanyā sundaryām rāma sundarī .. 7.5.37 ..
सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना । नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ॥ ७.५.३८ ॥
सुमालिनः अपि भार्या आसीत् पूर्ण-चद्र-निभ-आनना । नाम्ना केतुमती राम प्राणेभ्यः अपि गरीयसी ॥ ७।५।३८ ॥
sumālinaḥ api bhāryā āsīt pūrṇa-cadra-nibha-ānanā . nāmnā ketumatī rāma prāṇebhyaḥ api garīyasī .. 7.5.38 ..
सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ ७.५.३९ ॥
सुमाली जनयामास यद्-अपत्यम् निशाचरः । केतुमत्याम् महा-राज तत् निबोध अनुपूर्वशस् ॥ ७।५।३९ ॥
sumālī janayāmāsa yad-apatyam niśācaraḥ . ketumatyām mahā-rāja tat nibodha anupūrvaśas .. 7.5.39 ..
प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ॥ ७.५.४० ॥
प्रहस्तः अकम्पनः च एव विकटः कालकार्मुखः । धूम्राक्षः च एव दण्डः च सुपार्श्वः च महा-बलः ॥ ७।५।४० ॥
prahastaḥ akampanaḥ ca eva vikaṭaḥ kālakārmukhaḥ . dhūmrākṣaḥ ca eva daṇḍaḥ ca supārśvaḥ ca mahā-balaḥ .. 7.5.40 ..
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः । राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ॥ कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥ ७.५.४१ ॥
संह्रादिः प्रघसः च एव भासकर्णः च राक्षसः । राका पुष्पोत्कटा च एव कैकसी च शुचि-स्मिता ॥ कुम्भीनसी च इति एते सुमालेः प्रसवाः स्मृताः ॥ ७।५।४१ ॥
saṃhrādiḥ praghasaḥ ca eva bhāsakarṇaḥ ca rākṣasaḥ . rākā puṣpotkaṭā ca eva kaikasī ca śuci-smitā .. kumbhīnasī ca iti ete sumāleḥ prasavāḥ smṛtāḥ .. 7.5.41 ..
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥ ७.५.४१ ॥
कुम्भीनसी च इति एते सुमालेः प्रसवाः स्मृताः ॥ ७।५।४१ ॥
kumbhīnasī ca iti ete sumāleḥ prasavāḥ smṛtāḥ .. 7.5.41 ..
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी । भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥ ७.५.४२ ॥
मालेः तु वसुधा नाम गन्धर्वी रूप-शालिनी । भार्या आसीत् पद्म-पत्र-अक्षी सु अक्षी यक्षी-वर-उपमा ॥ ७।५।४२ ॥
māleḥ tu vasudhā nāma gandharvī rūpa-śālinī . bhāryā āsīt padma-patra-akṣī su akṣī yakṣī-vara-upamā .. 7.5.42 ..
सुमालेरनुजस्तस्यां जनयामास यत् प्रभो । अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ ७.५.४३ ॥
सुमालेः अनुजः तस्याम् जनयामास यत् प्रभो । अपत्यम् कथ्यमानम् तु मया त्वम् शृणु राघव ॥ ७।५।४३ ॥
sumāleḥ anujaḥ tasyām janayāmāsa yat prabho . apatyam kathyamānam tu mayā tvam śṛṇu rāghava .. 7.5.43 ..
अनिलश्चानलश्चैव हरः सम्पातिरेव च । एते विभीषणामात्या मालेयास्तु निशाचरः ॥ ७.५.४४ ॥
अनिलः च अनलः च एव हरः सम्पातिः एव च । एते विभीषण-अमात्याः मालेयाः तु निशाचरः ॥ ७।५।४४ ॥
anilaḥ ca analaḥ ca eva haraḥ sampātiḥ eva ca . ete vibhīṣaṇa-amātyāḥ māleyāḥ tu niśācaraḥ .. 7.5.44 ..
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः । सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ॥ ७.५.४५ ॥
ततस् तु ते राक्षस-पुङ्गवाः त्रयः निशाचरैः पुत्र-शतैः च संवृताः । सुरान् सह इन्द्रान् ऋषि-नाग-यक्षान् बबाधिरे तान् बहु-वीर्य-दर्पिताः ॥ ७।५।४५ ॥
tatas tu te rākṣasa-puṅgavāḥ trayaḥ niśācaraiḥ putra-śataiḥ ca saṃvṛtāḥ . surān saha indrān ṛṣi-nāga-yakṣān babādhire tān bahu-vīrya-darpitāḥ .. 7.5.45 ..
जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः । वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ॥ ७.५.४६ ॥
जगत् भ्रमन्तः अनिल-वत् दुरासदाः रणेषु मृत्यु-प्रतिमान-तेजसः । वर-प्रदानात् अति गर्विताः भृशम् क्रतु-क्रियाणाम् प्रशमङ्कराः कराः सदा ॥ ७।५।४६ ॥
jagat bhramantaḥ anila-vat durāsadāḥ raṇeṣu mṛtyu-pratimāna-tejasaḥ . vara-pradānāt ati garvitāḥ bhṛśam kratu-kriyāṇām praśamaṅkarāḥ karāḥ sadā .. 7.5.46 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चमः सर्गः ॥ ५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पञ्चमः सर्गः ॥ ५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe pañcamaḥ sargaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In