This overlay will guide you through the buttons:

| |
|
दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् । सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ॥ ७.५०.१ ॥
दृष्ट्वा तु मैथिलीम् सीताम् आश्रमे सम्प्रवेशिताम् । सन्तापम् अगमत् घोरम् लक्ष्मणः दीन-चेतनः ॥ ७।५०।१ ॥
dṛṣṭvā tu maithilīm sītām āśrame sampraveśitām . santāpam agamat ghoram lakṣmaṇaḥ dīna-cetanaḥ .. 7.50.1 ..
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् । सीतासन्तापजं दुःखं पश्य रामस्य सारथे ॥ ७.५०.२ ॥
अब्रवीत् च महा-तेजाः सुमन्त्रम् मन्त्र-सारथिम् । सीता-सन्ताप-जम् दुःखम् पश्य रामस्य सारथे ॥ ७।५०।२ ॥
abravīt ca mahā-tejāḥ sumantram mantra-sārathim . sītā-santāpa-jam duḥkham paśya rāmasya sārathe .. 7.50.2 ..
ततो दुःखतरं किं नु राघवस्य भविष्यति । पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ ७.५०.३ ॥
ततस् दुःखतरम् किम् नु राघवस्य भविष्यति । पत्नीम् शुद्ध-समाचाराम् विसृज्य जनकात्मजाम् ॥ ७।५०।३ ॥
tatas duḥkhataram kim nu rāghavasya bhaviṣyati . patnīm śuddha-samācārām visṛjya janakātmajām .. 7.50.3 ..
व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् । वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥ ७.५०.४ ॥
व्यक्तम् दैवात् अहम् मन्ये राघवस्य विना भवम् । वैदेह्या सारथे नित्यम् दैवम् हि दुरतिक्रमम् ॥ ७।५०।४ ॥
vyaktam daivāt aham manye rāghavasya vinā bhavam . vaidehyā sārathe nityam daivam hi duratikramam .. 7.50.4 ..
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः । निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥ ७.५०.५ ॥
यः हि देवान् स गन्धर्वान् असुरान् सह राक्षसैः । निहन्यात् राघवः क्रुद्धः स दैवम् अनुवर्तते ॥ ७।५०।५ ॥
yaḥ hi devān sa gandharvān asurān saha rākṣasaiḥ . nihanyāt rāghavaḥ kruddhaḥ sa daivam anuvartate .. 7.50.5 ..
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने । उषित्वा नव वर्षाणि पञ्च चैव महावने ॥ ७.५०.६ ॥
पुरा रामः पितुः वाक्यात् दण्डके विजने वने । उषित्वा नव वर्षाणि पञ्च च एव महा-वने ॥ ७।५०।६ ॥
purā rāmaḥ pituḥ vākyāt daṇḍake vijane vane . uṣitvā nava varṣāṇi pañca ca eva mahā-vane .. 7.50.6 ..
ततो दुःखतरं भूयः सीताया विप्रवासनम् । पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥ ७.५०.७ ॥
ततस् दुःखतरम् भूयः सीतायाः विप्रवासनम् । पौराणाम् वचनम् श्रुत्वा नृशंसम् प्रतिभाति मे ॥ ७।५०।७ ॥
tatas duḥkhataram bhūyaḥ sītāyāḥ vipravāsanam . paurāṇām vacanam śrutvā nṛśaṃsam pratibhāti me .. 7.50.7 ..
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे । मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ॥ ७.५०.८ ॥
कः नु धर्म-आश्रयः सूत कर्मणि अस्मिन् यशः-हरे । मैथिलीम् प्रतिसम्प्राप्तः पौरैः हीन-अर्थवादिभिः ॥ ७।५०।८ ॥
kaḥ nu dharma-āśrayaḥ sūta karmaṇi asmin yaśaḥ-hare . maithilīm pratisamprāptaḥ pauraiḥ hīna-arthavādibhiḥ .. 7.50.8 ..
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः । सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥ ७.५०.९ ॥
एताः वाचः बहुविधाः श्रुत्वा लक्ष्मण-भाषिताः । सुमन्त्रः श्रद्धया प्राज्ञः वाक्यम् एतत् उवाच ह ॥ ७।५०।९ ॥
etāḥ vācaḥ bahuvidhāḥ śrutvā lakṣmaṇa-bhāṣitāḥ . sumantraḥ śraddhayā prājñaḥ vākyam etat uvāca ha .. 7.50.9 ..
न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति । दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ॥ ७.५०.१० ॥
न सन्तापः त्वया कार्यः सौमित्रे मैथिलीम् प्रति । दृष्टम् एतत् पुरा विप्रैः पितुः ते लक्ष्मण अग्रतस् ॥ ७।५०।१० ॥
na santāpaḥ tvayā kāryaḥ saumitre maithilīm prati . dṛṣṭam etat purā vipraiḥ pituḥ te lakṣmaṇa agratas .. 7.50.10 ..
भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् । प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ॥ ७.५०.११ ॥
भविष्यति दृढम् रामः दुःख-प्रायः अपि सौख्य-भाज् । प्राप्स्यते च महा-बाहुः विप्रयोगम् प्रियैः ध्रुवम् ॥ ७।५०।११ ॥
bhaviṣyati dṛḍham rāmaḥ duḥkha-prāyaḥ api saukhya-bhāj . prāpsyate ca mahā-bāhuḥ viprayogam priyaiḥ dhruvam .. 7.50.11 ..
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ । सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ॥ ७.५०.१२ ॥
त्वाम् च एव मैथिलीम् च एव शत्रुघ्न-भरतौ उभौ । धर्म-आत्मा कालेन महता महान् ॥ ७।५०।१२ ॥
tvām ca eva maithilīm ca eva śatrughna-bharatau ubhau . dharma-ātmā kālena mahatā mahān .. 7.50.12 ..
इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा । राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ ७.५०.१३ ॥
इदम् त्वयि न वक्तव्यम् सौमित्रे भरते अपि वा । राज्ञा वः व्याहृतम् वाक्यम् दुर्वासाः यत् उवाच ह ॥ ७।५०।१३ ॥
idam tvayi na vaktavyam saumitre bharate api vā . rājñā vaḥ vyāhṛtam vākyam durvāsāḥ yat uvāca ha .. 7.50.13 ..
महाजनसमीपे च मम चैव नरर्षभ । ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥ ७.५०.१४ ॥
महाजन-समीपे च मम च एव नर-ऋषभ । ऋषिणा व्याहृतम् वाक्यम् वसिष्ठस्य च सन्निधौ ॥ ७।५०।१४ ॥
mahājana-samīpe ca mama ca eva nara-ṛṣabha . ṛṣiṇā vyāhṛtam vākyam vasiṣṭhasya ca sannidhau .. 7.50.14 ..
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः । सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ॥ ७.५०.१५ ॥
ऋषेः तु वचनम् श्रुत्वा माम् आह पुरुष-ऋषभः । सूत न क्वचिद् एवम् ते वक्तव्यम् जन-सन्निधौ ॥ ७।५०।१५ ॥
ṛṣeḥ tu vacanam śrutvā mām āha puruṣa-ṛṣabhaḥ . sūta na kvacid evam te vaktavyam jana-sannidhau .. 7.50.15 ..
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः । नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥ ७.५०.१६ ॥
तस्य अहम् लोकपालस्य वाक्यम् तत् सु समाहितः । न एव जातु अनृतम् कार्यम् इति मे सौम्य दर्शनम् ॥ ७।५०।१६ ॥
tasya aham lokapālasya vākyam tat su samāhitaḥ . na eva jātu anṛtam kāryam iti me saumya darśanam .. 7.50.16 ..
सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः । यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ ७.५०.१७ ॥
सर्वथा एव न वक्तव्यम् मया सौम्य तव अग्रतस् । यदि ते श्रवणे श्रद्धा श्रूयताम् रघुनन्दन ॥ ७।५०।१७ ॥
sarvathā eva na vaktavyam mayā saumya tava agratas . yadi te śravaṇe śraddhā śrūyatām raghunandana .. 7.50.17 ..
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा । तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥ ७.५०.१८ ॥
यदि अपि अहम् नरेन्द्रेण रहस्यम् श्रावितः पुरा । तथा अपि उदाहरिष्यामि दैवम् हि दुरतिक्रमम् ॥ ७।५०।१८ ॥
yadi api aham narendreṇa rahasyam śrāvitaḥ purā . tathā api udāhariṣyāmi daivam hi duratikramam .. 7.50.18 ..
येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् । न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥ ७.५०.१९ ॥
येन इदम् ईदृशम् प्राप्तम् दुःखम् शोक-समन्वितम् । न त्वया भरते वाच्यम् शत्रुघ्नस्य अपि सन्निधौ ॥ ७।५०।१९ ॥
yena idam īdṛśam prāptam duḥkham śoka-samanvitam . na tvayā bharate vācyam śatrughnasya api sannidhau .. 7.50.19 ..
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् । तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ॥ ७.५०.२० ॥
तत् श्रुत्वा भाषितम् तस्य गम्भीर-अर्थ-पदम् महत् । तथ्यम् ब्रूहि इति सौमित्रिः सूतम् वाक्यम् अथ अब्रवीत् ॥ ७।५०।२० ॥
tat śrutvā bhāṣitam tasya gambhīra-artha-padam mahat . tathyam brūhi iti saumitriḥ sūtam vākyam atha abravīt .. 7.50.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पञ्चाशः सर्गः ॥ ५० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe pañcāśaḥ sargaḥ .. 50 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In