This overlay will guide you through the buttons:

| |
|
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः । प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ ७.५२.१ ॥
तत्र ताम् रजनीम् उष्य केशिन्याम् रघुनन्दनः । प्रभाते पुनर् उत्थाय लक्ष्मणः प्रययौ तदा ॥ ७।५२।१ ॥
tatra tām rajanīm uṣya keśinyām raghunandanaḥ . prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā .. 7.52.1 ..
ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः । अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ॥ ७.५२.२ ॥
ततस् अर्धदिवसे प्राप्ते प्रविवेश महा-रथः । अयोध्याम् रत्न-सम्पूर्णाम् हृष्ट-पुष्ट-जन-आवृताम् ॥ ७।५२।२ ॥
tatas ardhadivase prāpte praviveśa mahā-rathaḥ . ayodhyām ratna-sampūrṇām hṛṣṭa-puṣṭa-jana-āvṛtām .. 7.52.2 ..
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः । रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ७.५२.३ ॥
सौमित्रिः तु परम् दैन्यम् जगाम सु महामतिः । राम-पादौ समासाद्य वक्ष्यामि किम् अहम् गतः ॥ ७।५२।३ ॥
saumitriḥ tu param dainyam jagāma su mahāmatiḥ . rāma-pādau samāsādya vakṣyāmi kim aham gataḥ .. 7.52.3 ..
तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् । रामस्य परमोदारं पुरस्तान्समदृश्यत ॥ ७.५२.४ ॥
तस्य एवम् चिन्तयानस्य भवनम् शशि-सन्निभम् । रामस्य परम-उदारम् पुरस् तान् समदृश्यत ॥ ७।५२।४ ॥
tasya evam cintayānasya bhavanam śaśi-sannibham . rāmasya parama-udāram puras tān samadṛśyata .. 7.52.4 ..
राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् । अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ॥ ७.५२.५ ॥
राज्ञः तु भवन-द्वारि सः अवतीर्य रथ-उत्तमात् । अवाङ्मुखः दीन-मनाः प्रविवेश अनिवारितः ॥ ७।५२।५ ॥
rājñaḥ tu bhavana-dvāri saḥ avatīrya ratha-uttamāt . avāṅmukhaḥ dīna-manāḥ praviveśa anivāritaḥ .. 7.52.5 ..
स दृष्ट्वा राघवं दीनमासीनं परमासने । नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ ७.५२.६ ॥
स दृष्ट्वा राघवम् दीनम् आसीनम् परम-आसने । नेत्राभ्याम् अश्रु-पूर्णाभ्याम् ददर्श अग्रजम् अग्रतः ॥ ७।५२।६ ॥
sa dṛṣṭvā rāghavam dīnam āsīnam parama-āsane . netrābhyām aśru-pūrṇābhyām dadarśa agrajam agrataḥ .. 7.52.6 ..
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः । उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥ ७.५२.७ ॥
जग्राह चरणौ तस्य लक्ष्मणः दीन-चेतनः । उवाच दीनया वाचा प्राञ्जलिः सु समाहितः ॥ ७।५२।७ ॥
jagrāha caraṇau tasya lakṣmaṇaḥ dīna-cetanaḥ . uvāca dīnayā vācā prāñjaliḥ su samāhitaḥ .. 7.52.7 ..
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् । गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ॥ ७.५२.८ ॥
आर्यस्य आज्ञाम् पुरस्कृत्य विसृज्य जनकात्मजाम् । गङ्गा-तीरे यथा उद्दिष्टे वाल्मीकेः आश्रमे शुचौ ॥ ७।५२।८ ॥
āryasya ājñām puraskṛtya visṛjya janakātmajām . gaṅgā-tīre yathā uddiṣṭe vālmīkeḥ āśrame śucau .. 7.52.8 ..
तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् । पुनरप्यागतो वीर पादमूलमुपासितुम् ॥ ७.५२.९ ॥
तत्र ताम् च शुभ-आचाराम् आश्रम-अन्ते यशस्विनीम् । पुनर् अपि आगतः वीर पाद-मूलम् उपासितुम् ॥ ७।५२।९ ॥
tatra tām ca śubha-ācārām āśrama-ante yaśasvinīm . punar api āgataḥ vīra pāda-mūlam upāsitum .. 7.52.9 ..
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी । त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ॥ ७.५२.१० ॥
मा शुचः पुरुष-व्याघ्र कालस्य गतिः ईदृशी । त्वद्विधाः न हि शोचन्ति बुद्धिमन्तः मनस्विनः ॥ ७।५२।१० ॥
mā śucaḥ puruṣa-vyāghra kālasya gatiḥ īdṛśī . tvadvidhāḥ na hi śocanti buddhimantaḥ manasvinaḥ .. 7.52.10 ..
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ ७.५२.११ ॥
सर्वे क्षय-अन्ताः निचयाः पतन-अन्ताः समुच्छ्रयाः । संयोगाः विप्रयोग-अन्ताः मरण-अन्तम् च जीवितम् ॥ ७।५२।११ ॥
sarve kṣaya-antāḥ nicayāḥ patana-antāḥ samucchrayāḥ . saṃyogāḥ viprayoga-antāḥ maraṇa-antam ca jīvitam .. 7.52.11 ..
तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च । नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ ७.५२.१२ ॥
तस्मात् पुत्रेषु दारेषु मित्रेषु च धनेषु च । न अतिप्रसङ्गः कर्तव्यः विप्रयोगः हि तैः ध्रुवम् ॥ ७।५२।१२ ॥
tasmāt putreṣu dāreṣu mitreṣu ca dhaneṣu ca . na atiprasaṅgaḥ kartavyaḥ viprayogaḥ hi taiḥ dhruvam .. 7.52.12 ..
शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि । लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ॥ ७.५२.१३ ॥
शक्तः त्वम् आत्मना विनेतुम् मनसा एव हि । लोकान् सर्वान् च काकुत्स्थ किम् पुनर् शोकम् आत्मनः ॥ ७।५२।१३ ॥
śaktaḥ tvam ātmanā vinetum manasā eva hi . lokān sarvān ca kākutstha kim punar śokam ātmanaḥ .. 7.52.13 ..
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः । अपवादः स किल ते पुनरेष्यति राघव ॥ ७.५२.१४ ॥
न ईदृशेषु विमुह्यन्ति त्वद्विधाः पुरुष-ऋषभाः । अपवादः स किल ते पुनर् एष्यति राघव ॥ ७।५२।१४ ॥
na īdṛśeṣu vimuhyanti tvadvidhāḥ puruṣa-ṛṣabhāḥ . apavādaḥ sa kila te punar eṣyati rāghava .. 7.52.14 ..
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप । सो ऽपवादः पुरे राजन्भविष्यति न संशयः ॥ ७.५२.१५ ॥
यद्-अर्थम् मैथिली त्यक्ता अपवाद-भयात् नृप । सः अपवादः पुरे राजन् भविष्यति न संशयः ॥ ७।५२।१५ ॥
yad-artham maithilī tyaktā apavāda-bhayāt nṛpa . saḥ apavādaḥ pure rājan bhaviṣyati na saṃśayaḥ .. 7.52.15 ..
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः । त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ॥ ७.५२.१६ ॥
स त्वम् पुरुष-शार्दूल धैर्येण सु समाहितः । त्यज एनाम् दुर्बलाम् बुद्धिम् सन्तापम् मा कुरुष्व ह ॥ ७।५२।१६ ॥
sa tvam puruṣa-śārdūla dhairyeṇa su samāhitaḥ . tyaja enām durbalām buddhim santāpam mā kuruṣva ha .. 7.52.16 ..
एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना । उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ॥ ७.५२.१७ ॥
एवम् उक्तः स काकुत्स्थः लक्ष्मणेन महात्मना । उवाच परया प्रीत्या सौमित्रिम् मित्र-वत्सलः ॥ ७।५२।१७ ॥
evam uktaḥ sa kākutsthaḥ lakṣmaṇena mahātmanā . uvāca parayā prītyā saumitrim mitra-vatsalaḥ .. 7.52.17 ..
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण । परितोषश्च मे वीर मम कार्यानुशासने ॥ ७.५२.१८ ॥
एवम् एतत् नर-श्रेष्ठ यथा वदसि लक्ष्मण । परितोषः च मे वीर मम कार्य-अनुशासने ॥ ७।५२।१८ ॥
evam etat nara-śreṣṭha yathā vadasi lakṣmaṇa . paritoṣaḥ ca me vīra mama kārya-anuśāsane .. 7.52.18 ..
निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः । भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ॥ ७.५२.१९ ॥
निवृत्तिः च आगता सौम्य सन्तापः च निराकृतः । भवत्-वाक्यैः सु रुचिरैः अनुनीतः अस्मि लक्ष्मण ॥ ७।५२।१९ ॥
nivṛttiḥ ca āgatā saumya santāpaḥ ca nirākṛtaḥ . bhavat-vākyaiḥ su ruciraiḥ anunītaḥ asmi lakṣmaṇa .. 7.52.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe dvipañcāśaḥ sargaḥ .. 52 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In