This overlay will guide you through the buttons:

| |
|
लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् । सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥ ७.५३.१ ॥
लक्ष्मणस्य तु तत् वाक्यम् निशम्य परम-अद्भुतम् । सु प्रीतः च अभवत् रामः वाक्यम् एतत् उवाच ह ॥ ७।५३।१ ॥
lakṣmaṇasya tu tat vākyam niśamya parama-adbhutam . su prītaḥ ca abhavat rāmaḥ vākyam etat uvāca ha .. 7.53.1 ..
दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः । यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः ॥ ७.५३.२ ॥
दुर्लभः तु ईदृशः बन्धुः अस्मिन् काले विशेषतः । यादृशः त्वम् महाबुद्धेः मम सौम्य मनः अनुगः ॥ ७।५३।२ ॥
durlabhaḥ tu īdṛśaḥ bandhuḥ asmin kāle viśeṣataḥ . yādṛśaḥ tvam mahābuddheḥ mama saumya manaḥ anugaḥ .. 7.53.2 ..
यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण । तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ ७.५३.३ ॥
यत् च मे हृदये किञ्चिद् वर्तते शुभ-लक्षण । तत् निशामय च श्रुत्वा कुरुष्व वचनम् मम ॥ ७।५३।३ ॥
yat ca me hṛdaye kiñcid vartate śubha-lakṣaṇa . tat niśāmaya ca śrutvā kuruṣva vacanam mama .. 7.53.3 ..
चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै । अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥ ७.५३.४ ॥
चत्वारः दिवसाः सौम्य कार्यम् पौर-जनस्य वै । अ कुर्वाणस्य सौमित्रे तत् मे मर्माणि कृन्तति ॥ ७।५३।४ ॥
catvāraḥ divasāḥ saumya kāryam paura-janasya vai . a kurvāṇasya saumitre tat me marmāṇi kṛntati .. 7.53.4 ..
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा । कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ॥ ७.५३.५ ॥
आहूयन्ताम् प्रकृतयः पुरोधाः मन्त्रिणः तथा । कार्य-अर्थिनः च पुरुषाः स्त्रियः च पुरुष-ऋषभ ॥ ७।५३।५ ॥
āhūyantām prakṛtayaḥ purodhāḥ mantriṇaḥ tathā . kārya-arthinaḥ ca puruṣāḥ striyaḥ ca puruṣa-ṛṣabha .. 7.53.5 ..
पौरकार्याणि यो राजा न करोति दिने दिने । संवृते नरके घोरे पतितो नात्र संशयः ॥ ७.५३.६ ॥
पौर-कार्याणि यः राजा न करोति दिने दिने । संवृते नरके घोरे पतितः न अत्र संशयः ॥ ७।५३।६ ॥
paura-kāryāṇi yaḥ rājā na karoti dine dine . saṃvṛte narake ghore patitaḥ na atra saṃśayaḥ .. 7.53.6 ..
श्रूयते हि पुरा राजा नृगो नाम महायशाः । बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ॥ ७.५३.७ ॥
श्रूयते हि पुरा राजा नृगः नाम महा-यशाः । बभूव पृथिवीपालः ब्रह्मण्यः सत्य-वाच् शुचिः ॥ ७।५३।७ ॥
śrūyate hi purā rājā nṛgaḥ nāma mahā-yaśāḥ . babhūva pṛthivīpālaḥ brahmaṇyaḥ satya-vāc śuciḥ .. 7.53.7 ..
स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः । नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥ ७.५३.८ ॥
स कदाचिद् गवाम् कोटीः स वत्साः स्वर्ण-भूषिताः । नृदेवः भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥ ७।५३।८ ॥
sa kadācid gavām koṭīḥ sa vatsāḥ svarṇa-bhūṣitāḥ . nṛdevaḥ bhūmidevebhyaḥ puṣkareṣu dadau nṛpaḥ .. 7.53.8 ..
ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ । ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ॥ ७.५३.९ ॥
ततस् सङ्गात् गता धेनुः स वत्सा स्पर्शिता अनघ । ब्राह्मणस्य आहिताग्नेः च दरिद्रस्य उञ्छ-वर्तिनः ॥ ७।५३।९ ॥
tatas saṅgāt gatā dhenuḥ sa vatsā sparśitā anagha . brāhmaṇasya āhitāgneḥ ca daridrasya uñcha-vartinaḥ .. 7.53.9 ..
स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च । नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ॥ ७.५३.१० ॥
स नष्टाम् गाम् क्षुधा-आर्तः वै अन्विषन् तत्र तत्र च । न अपश्यत् सर्व-राज्येषु संवत्सर-गणान् बहून् ॥ ७।५३।१० ॥
sa naṣṭām gām kṣudhā-ārtaḥ vai anviṣan tatra tatra ca . na apaśyat sarva-rājyeṣu saṃvatsara-gaṇān bahūn .. 7.53.10 ..
ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् । ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥ ७.५३.११ ॥
ततस् कनखलम् गत्वा जीर्ण-वत्साम् निरामयाम् । ददर्श गाम् स्वकाम् धेनुम् ब्राह्मणस्य निवेशने ॥ ७।५३।११ ॥
tatas kanakhalam gatvā jīrṇa-vatsām nirāmayām . dadarśa gām svakām dhenum brāhmaṇasya niveśane .. 7.53.11 ..
अथ तां नामधेयेन स्वकेनोवाच स द्विजः । आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ॥ ७.५३.१२ ॥
अथ ताम् नामधेयेन स्वकेन उवाच स द्विजः । आगच्छ शबल इति एवम् सा तु शुश्राव गौः स्वरम् ॥ ७।५३।१२ ॥
atha tām nāmadheyena svakena uvāca sa dvijaḥ . āgaccha śabala iti evam sā tu śuśrāva gauḥ svaram .. 7.53.12 ..
तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै । अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥ ७.५३.१३ ॥
तस्य तम् स्वरम् आज्ञाय क्षुधा आर्तस्य द्विजस्य वै । अन्वगात् पृष्ठतस् सा गौः गच्छन्तम् पावक-उपमम् ॥ ७।५३।१३ ॥
tasya tam svaram ājñāya kṣudhā ārtasya dvijasya vai . anvagāt pṛṣṭhatas sā gauḥ gacchantam pāvaka-upamam .. 7.53.13 ..
यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् । गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ॥ ७.५३.१४ ॥
यः अपि पालयते विप्रः सः अपि गाम् अन्वगात् द्रुतम् । गत्वा तम् ऋषिम् आचष्ट मम गौः इति स त्वरम् ॥ ७।५३।१४ ॥
yaḥ api pālayate vipraḥ saḥ api gām anvagāt drutam . gatvā tam ṛṣim ācaṣṭa mama gauḥ iti sa tvaram .. 7.53.14 ..
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह । तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥ ७.५३.१५ ॥
स्पर्शिताः राज-सिंहेन मम दत्ताः नृगेण ह । तयोः ब्राह्मणयोः वादः महान् आसीत् विपश्चितोः ॥ ७।५३।१५ ॥
sparśitāḥ rāja-siṃhena mama dattāḥ nṛgeṇa ha . tayoḥ brāhmaṇayoḥ vādaḥ mahān āsīt vipaścitoḥ .. 7.53.15 ..
विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः । तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ॥ ७.५३.१६ ॥
विवदन्तौ ततस् अन्योन्यम् दातारम् अभिजग्मतुः । तौ राज-भवन-द्वारि न प्राप्तौ नृग-शासनम् ॥ ७।५३।१६ ॥
vivadantau tatas anyonyam dātāram abhijagmatuḥ . tau rāja-bhavana-dvāri na prāptau nṛga-śāsanam .. 7.53.16 ..
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः । ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥ क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ॥ ७.५३.१७ ॥
अहोरात्राणि अनेकानि वसन्तौ क्रोधम् ईयतुः । ऊचतुः च महात्मानौ तौ उभौ द्विजसत्तमौ ॥ क्रुद्धौ परम-सम्प्राप्तौ वाक्यम् घोर-अभिसंहितम् ॥ ७।५३।१७ ॥
ahorātrāṇi anekāni vasantau krodham īyatuḥ . ūcatuḥ ca mahātmānau tau ubhau dvijasattamau .. kruddhau parama-samprāptau vākyam ghora-abhisaṃhitam .. 7.53.17 ..
अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् । अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ॥ ७.५३.१८ ॥
अर्थिनाम् कार्य-सिद्धि-अर्थम् यस्मात् त्वम् न एषि दर्शनम् । अदृश्यः सर्व-भूतानाम् कृकलासः भविष्यसि ॥ ७।५३।१८ ॥
arthinām kārya-siddhi-artham yasmāt tvam na eṣi darśanam . adṛśyaḥ sarva-bhūtānām kṛkalāsaḥ bhaviṣyasi .. 7.53.18 ..
बहुवर्षसहस्राणि बहुवर्षशतानि च । श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ॥ ७.५३.१९ ॥
बहु-वर्ष-सहस्राणि बहु-वर्ष-शतानि च । श्वभ्रे अस्मिन् कृकलासः वै दीर्घ-कालम् वसिष्यसि ॥ ७।५३।१९ ॥
bahu-varṣa-sahasrāṇi bahu-varṣa-śatāni ca . śvabhre asmin kṛkalāsaḥ vai dīrgha-kālam vasiṣyasi .. 7.53.19 ..
उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः । वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ॥ ७.५३.२० ॥
उत्पत्स्यते हि लोके अस्मिन् यदूनाम् कीर्ति-वर्धनः । वासुदेवः इति ख्यातः विष्णुः पुरुष-विग्रहः ॥ ७।५३।२० ॥
utpatsyate hi loke asmin yadūnām kīrti-vardhanaḥ . vāsudevaḥ iti khyātaḥ viṣṇuḥ puruṣa-vigrahaḥ .. 7.53.20 ..
स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि । कृता च तेन कालेन निष्कृतिस्ते भविष्यति ॥ ७.५३.२१ ॥
स ते मोक्षयिता राजन् तस्मात् शापात् भविष्यसि । कृता च तेन कालेन निष्कृतिः ते भविष्यति ॥ ७।५३।२१ ॥
sa te mokṣayitā rājan tasmāt śāpāt bhaviṣyasi . kṛtā ca tena kālena niṣkṛtiḥ te bhaviṣyati .. 7.53.21 ..
भारावतरणार्थं हि नरनारायणावुभौ । उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ॥ ७.५३.२२ ॥
भार-अवतरण-अर्थम् हि नर-नारायणौ उभौ । उत्पत्स्येते महा-वीर्यौ कलौ युगे उपस्थिते ॥ ७।५३।२२ ॥
bhāra-avataraṇa-artham hi nara-nārāyaṇau ubhau . utpatsyete mahā-vīryau kalau yuge upasthite .. 7.53.22 ..
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ । तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ॥ ७.५३.२३ ॥
एवम् तौ शापम् उत्सृज्य ब्राह्मणौ विगत-ज्वरौ । ताम् गाम् हि दुर्बलाम् वृद्धाम् ददतुः ब्राह्मणाय वै ॥ ७।५३।२३ ॥
evam tau śāpam utsṛjya brāhmaṇau vigata-jvarau . tām gām hi durbalām vṛddhām dadatuḥ brāhmaṇāya vai .. 7.53.23 ..
एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ॥ ७.५३.२४ ॥
एवम् स राजा तम् शापम् उपभुङ्क्ते सु दारुणम् ॥ ७।५३।२४ ॥
evam sa rājā tam śāpam upabhuṅkte su dāruṇam .. 7.53.24 ..
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते । तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ॥ ७.५३.२५ ॥
कार्य-अर्थिनाम् विमर्दः हि राज्ञाम् दोषाय कल्पते । तत् शीघ्रम् दर्शनम् मह्यम् अभिवर्तन्तु कार्यिणः ॥ ७।५३।२५ ॥
kārya-arthinām vimardaḥ hi rājñām doṣāya kalpate . tat śīghram darśanam mahyam abhivartantu kāryiṇaḥ .. 7.53.25 ..
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः । तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ॥ ७.५३.२६ ॥
सु कृतस्य हि कार्यस्य फलम् न अपैति पार्थिवः । तस्मात् गच्छ प्रतीक्षस्व सौमित्रे कार्यवान् जनः ॥ ७।५३।२६ ॥
su kṛtasya hi kāryasya phalam na apaiti pārthivaḥ . tasmāt gaccha pratīkṣasva saumitre kāryavān janaḥ .. 7.53.26 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe tripañcāśaḥ sargaḥ .. 53 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In