This overlay will guide you through the buttons:

| |
|
एष ते नृगशापस्य विस्तरो ऽभिहितो मया । यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ ७.५५.१ ॥
एष ते नृग-शापस्य विस्तरः अभिहितः मया । यदि अस्ति श्रवणे श्रद्धा शृणुष्व इह अपराम् कथाम् ॥ ७।५५।१ ॥
eṣa te nṛga-śāpasya vistaraḥ abhihitaḥ mayā . yadi asti śravaṇe śraddhā śṛṇuṣva iha aparām kathām .. 7.55.1 ..
एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् । तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥ ७.५५.२ ॥
एवम् उक्तः तु रामेण सौमित्रिः पुनर् अब्रवीत् । तृप्तिः आश्चर्य-भूतानाम् कथानाम् ना अस्ति मे नृप ॥ ७।५५।२ ॥
evam uktaḥ tu rāmeṇa saumitriḥ punar abravīt . tṛptiḥ āścarya-bhūtānām kathānām nā asti me nṛpa .. 7.55.2 ..
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः । कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ ७.५५.३ ॥
लक्ष्मणेन एवम् उक्तः तु रामः इक्ष्वाकु-नन्दनः । कथाम् परम-धर्मिष्ठाम् व्याहर्तुम् उपचक्रमे ॥ ७।५५।३ ॥
lakṣmaṇena evam uktaḥ tu rāmaḥ ikṣvāku-nandanaḥ . kathām parama-dharmiṣṭhām vyāhartum upacakrame .. 7.55.3 ..
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् । पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ ७.५५.४ ॥
आसीत् राजा निमिः नाम इक्ष्वाकूणाम् महात्मनाम् । पुत्रः द्वादशमः वीर्ये धर्मे च परिनिष्ठितः ॥ ७।५५।४ ॥
āsīt rājā nimiḥ nāma ikṣvākūṇām mahātmanām . putraḥ dvādaśamaḥ vīrye dharme ca pariniṣṭhitaḥ .. 7.55.4 ..
स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् । निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ७.५५.५ ॥
स राजा वीर्य-सम्पन्नः पुरम् देव-पुर-उपमम् । निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ७।५५।५ ॥
sa rājā vīrya-sampannaḥ puram deva-pura-upamam . niveśayāmāsa tadā abhyāśe gautamasya tu .. 7.55.5 ..
पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् । निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥ ७.५५.६ ॥
पुरस्य सुकृतम् नाम वैजयन्तम् इति श्रुतम् । निवेशम् यत्र राजर्षिः निमिः चक्रे महा-यशाः ॥ ७।५५।६ ॥
purasya sukṛtam nāma vaijayantam iti śrutam . niveśam yatra rājarṣiḥ nimiḥ cakre mahā-yaśāḥ .. 7.55.6 ..
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् । यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ ७.५५.७ ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य सु महा-पुरम् । यजेयम् दीर्घ-सत्रेण पितुः प्रह्लादयत्-मनः ॥ ७।५५।७ ॥
tasya buddhiḥ samutpannā niveśya su mahā-puram . yajeyam dīrgha-satreṇa pituḥ prahlādayat-manaḥ .. 7.55.7 ..
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् । वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥ ७.५५.८ ॥
ततस् पितरम् आमन्त्र्य इक्ष्वाकुम् हि मनोः सुतम् । वसिष्ठम् वरयामास पूर्वम् ब्रह्मर्षि-सत्तमम् ॥ ७।५५।८ ॥
tatas pitaram āmantrya ikṣvākum hi manoḥ sutam . vasiṣṭham varayāmāsa pūrvam brahmarṣi-sattamam .. 7.55.8 ..
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः । अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ ७.५५.९ ॥
अनन्तरम् स राजर्षिः निमिः इक्ष्वाकु-नन्दनः । अत्रिम् अङ्गिरसम् च एव भृगुम् च एव तपोधनम् ॥ ७।५५।९ ॥
anantaram sa rājarṣiḥ nimiḥ ikṣvāku-nandanaḥ . atrim aṅgirasam ca eva bhṛgum ca eva tapodhanam .. 7.55.9 ..
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् । वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ ७.५५.१० ॥
तम् उवाच वसिष्ठः तु निमिम् राज-ऋषि-सत्तमम् । वृतः अहम् पूर्वम् इन्द्रेण अन्तरम् प्रतिपालय ॥ ७।५५।१० ॥
tam uvāca vasiṣṭhaḥ tu nimim rāja-ṛṣi-sattamam . vṛtaḥ aham pūrvam indreṇa antaram pratipālaya .. 7.55.10 ..
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् । वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ ७.५५.११ ॥
अनन्तरम् महा-विप्रः गौतमः प्रत्यपूरयत् । वसिष्ठः अपि महा-तेजाः इन्द्र-यज्ञम् अथ अकरोत् ॥ ७।५५।११ ॥
anantaram mahā-vipraḥ gautamaḥ pratyapūrayat . vasiṣṭhaḥ api mahā-tejāḥ indra-yajñam atha akarot .. 7.55.11 ..
निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः । अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः । पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ॥ ७.५५.१२ ॥
निमिः तु राजा विप्रान् तान् समानीय नर-अधिपः । अयजत् हिमवत्-पार्श्वे स्व-पुरस्य समीपतस् । पञ्च-वर्ष-सहस्राणि राजा दीक्षाम् उपागमत् ॥ ७।५५।१२ ॥
nimiḥ tu rājā viprān tān samānīya nara-adhipaḥ . ayajat himavat-pārśve sva-purasya samīpatas . pañca-varṣa-sahasrāṇi rājā dīkṣām upāgamat .. 7.55.12 ..
इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः । सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ ७.५५.१३ ॥
इन्द्रयज्ञ-अवसाने तु वसिष्ठः भगवन् ऋषिः । सकाशम् आगतः राज्ञः हौत्रम् कर्तुम् अनिन्दितः ॥ ७।५५।१३ ॥
indrayajña-avasāne tu vasiṣṭhaḥ bhagavan ṛṣiḥ . sakāśam āgataḥ rājñaḥ hautram kartum aninditaḥ .. 7.55.13 ..
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् । कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ ७.५५.१४ ॥
तत् अन्तरम् अथ अपश्यत् गौतमेन अभिपूरितम् । कोपेन महता आविष्टः वसिष्ठः ब्रह्मणः सुतः ॥ ७।५५।१४ ॥
tat antaram atha apaśyat gautamena abhipūritam . kopena mahatā āviṣṭaḥ vasiṣṭhaḥ brahmaṇaḥ sutaḥ .. 7.55.14 ..
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् । तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ॥ ७.५५.१५ ॥
स राज्ञः दर्शन-आकाङ्क्षी मुहूर्तम् समुपाविशत् । तस्मिन् अहनि राजर्षिः निद्रया अपहृतः भृशम् ॥ ७।५५।१५ ॥
sa rājñaḥ darśana-ākāṅkṣī muhūrtam samupāviśat . tasmin ahani rājarṣiḥ nidrayā apahṛtaḥ bhṛśam .. 7.55.15 ..
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः । अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ ७.५५.१६ ॥
ततस् मन्युः वसिष्ठस्य प्रादुरासीत् महात्मनः । अदर्शनेन राजर्षेः व्याहर्तुम् उपचक्रमे ॥ ७।५५।१६ ॥
tatas manyuḥ vasiṣṭhasya prādurāsīt mahātmanaḥ . adarśanena rājarṣeḥ vyāhartum upacakrame .. 7.55.16 ..
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव । चेतनेन विनाभूतो देहस्तव भविष्यति ॥ ७.५५.१७ ॥
यस्मात् त्वम् अन्यम् वृतवान् माम् अवज्ञाय पार्थिव । चेतनेन विनाभूतः देहः तव भविष्यति ॥ ७।५५।१७ ॥
yasmāt tvam anyam vṛtavān mām avajñāya pārthiva . cetanena vinābhūtaḥ dehaḥ tava bhaviṣyati .. 7.55.17 ..
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् । ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ॥ ७.५५.१८ ॥
ततस् प्रबुद्धः राजर्षिः श्रुत्वा शापम् उदाहृतम् । ब्रह्मयोनिम् अथ उवाच संरम्भात् क्रोध-मूर्च्छितः ॥ ७।५५।१८ ॥
tatas prabuddhaḥ rājarṣiḥ śrutvā śāpam udāhṛtam . brahmayonim atha uvāca saṃrambhāt krodha-mūrcchitaḥ .. 7.55.18 ..
अजानतः शयानस्य क्रोधेन कलुषीकृतः । मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ॥ ७.५५.१९ ॥
अ जानतः शयानस्य क्रोधेन कलुषीकृतः । मुक्तवान् मयि शाप-अग्निम् यम-दण्डम् इव अपरम् ॥ ७।५५।१९ ॥
a jānataḥ śayānasya krodhena kaluṣīkṛtaḥ . muktavān mayi śāpa-agnim yama-daṇḍam iva aparam .. 7.55.19 ..
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः । देहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥ ७.५५.२० ॥
तस्मात् तव अपि ब्रह्मर्षे चेतनेन विना कृतः । देहः सु रुचिर-प्रख्यः भविष्यति न संशयः ॥ ७।५५।२० ॥
tasmāt tava api brahmarṣe cetanena vinā kṛtaḥ . dehaḥ su rucira-prakhyaḥ bhaviṣyati na saṃśayaḥ .. 7.55.20 ..
इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ । सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ ७.५५.२१ ॥
इति रोष-वशात् उभौ तदानीम् अन्योन्यम् शपितौ नृप-द्विजेन्द्रौ । सहसा एव बभूवतुः विदेहौ तद्-तुल्य-अधिगत-प्रभाववन्तौ ॥ ७।५५।२१ ॥
iti roṣa-vaśāt ubhau tadānīm anyonyam śapitau nṛpa-dvijendrau . sahasā eva babhūvatuḥ videhau tad-tulya-adhigata-prabhāvavantau .. 7.55.21 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe pañcapañcāśaḥ sargaḥ .. 55 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In