This overlay will guide you through the buttons:

| |
|
रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ ७.५६.१ ॥
रामस्य भाषितम् श्रुत्वा लक्ष्मणः पर-वीर-हा । उवाच प्राञ्जलिः वाक्यम् राघवम् दीप्त-तेजसम् ॥ ७।५६।१ ॥
rāmasya bhāṣitam śrutvā lakṣmaṇaḥ para-vīra-hā . uvāca prāñjaliḥ vākyam rāghavam dīpta-tejasam .. 7.56.1 ..
निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ॥ ७.५६.२ ॥
निक्षिप्त-देहौ काकुत्स्य कथम् तौ द्विज-पार्थिवौ । पुनर् देहेन संयोगम् जग्मतुः देव-सम्मतौ ॥ ७।५६।२ ॥
nikṣipta-dehau kākutsya katham tau dvija-pārthivau . punar dehena saṃyogam jagmatuḥ deva-sammatau .. 7.56.2 ..
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः । प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥ ७.५६.३ ॥
लक्ष्मणेन एवम् उक्तः तु रामः च इक्ष्वाकु-नन्दनः । प्रत्युवाच महा-तेजाः लक्ष्मणम् पुरुष-ऋषभः ॥ ७।५६।३ ॥
lakṣmaṇena evam uktaḥ tu rāmaḥ ca ikṣvāku-nandanaḥ . pratyuvāca mahā-tejāḥ lakṣmaṇam puruṣa-ṛṣabhaḥ .. 7.56.3 ..
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ । अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ॥ ७.५६.४ ॥
तौ परस्पर-शापेन देहौ उत्सृज्य धार्मिकौ । अभूताम् नृप-विप्रर्षी वायु-भूतौ तपोधनौ ॥ ७।५६।४ ॥
tau paraspara-śāpena dehau utsṛjya dhārmikau . abhūtām nṛpa-viprarṣī vāyu-bhūtau tapodhanau .. 7.56.4 ..
अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः । वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ॥ ७.५६.५ ॥
अशरीरः शरीरस्य कृते अन्यस्य महा-मुनिः । वसिष्ठः सु महा-तेजाः जगाम पितुः अन्तिकम् ॥ ७।५६।५ ॥
aśarīraḥ śarīrasya kṛte anyasya mahā-muniḥ . vasiṣṭhaḥ su mahā-tejāḥ jagāma pituḥ antikam .. 7.56.5 ..
सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् । पितामहमथोवाच वायुभूत इदं वचः ॥ ७.५६.६ ॥
सः अभिवाद्य ततस् पादौ देवदेवस्य धर्म-विद् । पितामहम् अथा उवाच वायु-भूतः इदम् वचः ॥ ७।५६।६ ॥
saḥ abhivādya tatas pādau devadevasya dharma-vid . pitāmaham athā uvāca vāyu-bhūtaḥ idam vacaḥ .. 7.56.6 ..
भगवन्निमिशापेन विदेहत्वमुपागमम् । लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः ॥ ७.५६.७ ॥
भगवत् निमि-शापेन विदेह-त्वम् उपागमम् । लोकनाथ महादेव अण्ड-जः अपि त्वम् अब्ज-जः ॥ ७।५६।७ ॥
bhagavat nimi-śāpena videha-tvam upāgamam . lokanātha mahādeva aṇḍa-jaḥ api tvam abja-jaḥ .. 7.56.7 ..
सर्वेषां देहहीनानां महद्दुःखं भविष्यति । लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो । देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ॥ ७.५६.८ ॥
सर्वेषाम् देह-हीनानाम् महत् दुःखम् भविष्यति । लुप्यन्ते सर्व-कार्यणि हीन-देहस्य वै प्रभो । देहस्य अन्यस्य सद्भावे प्रसादम् कर्तुम् अर्हसि ॥ ७।५६।८ ॥
sarveṣām deha-hīnānām mahat duḥkham bhaviṣyati . lupyante sarva-kāryaṇi hīna-dehasya vai prabho . dehasya anyasya sadbhāve prasādam kartum arhasi .. 7.56.8 ..
तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः । मित्रावरुणजं तेज प्रविश त्वं महायशः ॥ ७.५६.९ ॥
तम् उवाच ततस् ब्रह्मा स्वयम्भूः अमित-प्रभः । मित्रावरुण-जम् तेज प्रविश त्वम् महा-यशः ॥ ७।५६।९ ॥
tam uvāca tatas brahmā svayambhūḥ amita-prabhaḥ . mitrāvaruṇa-jam teja praviśa tvam mahā-yaśaḥ .. 7.56.9 ..
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम । धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ॥ ७.५६.१० ॥
अयोनि-जः त्वम् भविता तत्र अपि द्विजसत्तम । धर्मेण महता युक्तः पुनर् एष्यसि मे वशम् ॥ ७।५६।१० ॥
ayoni-jaḥ tvam bhavitā tatra api dvijasattama . dharmeṇa mahatā yuktaḥ punar eṣyasi me vaśam .. 7.56.10 ..
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् । कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ॥ ७.५६.११ ॥
एवम् उक्तः तु देवेन च अभिवाद्य प्रदक्षिणम् । कृत्वा पितामहम् तूर्णम् प्रययौ वरुणालयम् ॥ ७।५६।११ ॥
evam uktaḥ tu devena ca abhivādya pradakṣiṇam . kṛtvā pitāmaham tūrṇam prayayau varuṇālayam .. 7.56.11 ..
तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् । क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ॥ ७.५६.१२ ॥
तम् एव कालम् मित्रः अपि वरुण-त्वम् अकारयत् । क्षीरोदेन सह उपेतः पूज्यमानः सुर-उत्तमैः ॥ ७।५६।१२ ॥
tam eva kālam mitraḥ api varuṇa-tvam akārayat . kṣīrodena saha upetaḥ pūjyamānaḥ sura-uttamaiḥ .. 7.56.12 ..
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः । यदृच्छया तमुद्देशमाययौ सखिभिर्वृता ॥ ७.५६.१३ ॥
एतस्मिन् एव काले तु उर्वशी परमा अप्सराः । यदृच्छया तम् उद्देशम् आययौ सखिभिः वृता ॥ ७।५६।१३ ॥
etasmin eva kāle tu urvaśī paramā apsarāḥ . yadṛcchayā tam uddeśam āyayau sakhibhiḥ vṛtā .. 7.56.13 ..
तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये । आविशत्परमो हर्षो वरुणं चोर्वशीकृते ॥ ७.५६.१४ ॥
ताम् दृष्ट्वा रूप-सम्पन्नाम् क्रीडन्तीम् वरुणालये । आविशत् परमः हर्षः वरुणम् च उर्वशी-कृते ॥ ७।५६।१४ ॥
tām dṛṣṭvā rūpa-sampannām krīḍantīm varuṇālaye . āviśat paramaḥ harṣaḥ varuṇam ca urvaśī-kṛte .. 7.56.14 ..
स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् । वरुणो वरयामास मैथुनायाप्सरोवराम् ॥ ७.५६.१५ ॥
स ताम् पद्म-पलाश-अक्षीम् पूर्ण-चन्द्र-निभ-आननाम् । वरुणः वरयामास मैथुनाय अप्सरः-वराम् ॥ ७।५६।१५ ॥
sa tām padma-palāśa-akṣīm pūrṇa-candra-nibha-ānanām . varuṇaḥ varayāmāsa maithunāya apsaraḥ-varām .. 7.56.15 ..
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता । मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ॥ ७.५६.१६ ॥
प्रत्युवाच ततस् सा तु वरुणम् प्राञ्जलिः स्थिता । मित्रेण अहम् वृता साक्षात् पूर्वम् एव सुरेश्वर ॥ ७।५६।१६ ॥
pratyuvāca tatas sā tu varuṇam prāñjaliḥ sthitā . mitreṇa aham vṛtā sākṣāt pūrvam eva sureśvara .. 7.56.16 ..
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः । इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते ॥ ७.५६.१७ ॥
वरुणः तु अब्रवीत् वाक्यम् कन्दर्प-शर-पीडितः । इदम् तेजः समुत्स्रक्ष्ये कुम्भे अस्मिन् देव-निर्मिते ॥ ७।५६।१७ ॥
varuṇaḥ tu abravīt vākyam kandarpa-śara-pīḍitaḥ . idam tejaḥ samutsrakṣye kumbhe asmin deva-nirmite .. 7.56.17 ..
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि । कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ॥ ७.५६.१८ ॥
एवम् उत्सृज्य सुश्रोणि त्वयि अहम् वरवर्णिनि । कृत-कामः भविष्यामि यदि न इच्छसि सङ्गमम् ॥ ७।५६।१८ ॥
evam utsṛjya suśroṇi tvayi aham varavarṇini . kṛta-kāmaḥ bhaviṣyāmi yadi na icchasi saṅgamam .. 7.56.18 ..
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् । उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ॥ ७.५६.१९ ॥
तस्य तत् लोकपालस्य वरुणस्य सु भाषितम् । उर्वशी परम-प्रीता श्रुत्वा वाक्यम् उवाच ह ॥ ७।५६।१९ ॥
tasya tat lokapālasya varuṇasya su bhāṣitam . urvaśī parama-prītā śrutvā vākyam uvāca ha .. 7.56.19 ..
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् । भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ॥ ७.५६.२० ॥
कामम् एतत् भवतु एवम् हृदयम् मे त्वयि स्थितम् । भावः च अपि अधिकः तुभ्यम् देहः मित्रस्य तु प्रभो ॥ ७।५६।२० ॥
kāmam etat bhavatu evam hṛdayam me tvayi sthitam . bhāvaḥ ca api adhikaḥ tubhyam dehaḥ mitrasya tu prabho .. 7.56.20 ..
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् । ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ॥ ७.५६.२१ ॥
उर्वश्याः एवम् उक्तः तु रेतः तत् महत् अद्भुतम् । ज्वलत्-अग्नि-शिखा-प्रख्यम् तस्मिन् कुम्भे हि अपासृजत् ॥ ७।५६।२१ ॥
urvaśyāḥ evam uktaḥ tu retaḥ tat mahat adbhutam . jvalat-agni-śikhā-prakhyam tasmin kumbhe hi apāsṛjat .. 7.56.21 ..
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता । तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् ॥ ७.५६.२२ ॥
उर्वशी तु अगमत् तत्र मित्रः वै यत्र देवता । ताम् तु मित्रः सु सङ्क्रम्य उर्वशीम् इदम् अब्रवीत् ॥ ७।५६।२२ ॥
urvaśī tu agamat tatra mitraḥ vai yatra devatā . tām tu mitraḥ su saṅkramya urvaśīm idam abravīt .. 7.56.22 ..
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता । पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी ॥ ७.५६.२३ ॥
मया निमन्त्रिता पूर्वम् कस्मात् त्वम् अवसर्जिता । पतिम् अन्यम् वृतवती तस्मात् त्वम् दुष्ट-चारिणी ॥ ७।५६।२३ ॥
mayā nimantritā pūrvam kasmāt tvam avasarjitā . patim anyam vṛtavatī tasmāt tvam duṣṭa-cāriṇī .. 7.56.23 ..
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता । मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ॥ ७.५६.२४ ॥
अनेन दुष्कृतेन त्वम् मद्-क्रोध-कलुषीकृता । मनुष्य-लोकम् आस्थाय कञ्चिद् कालम् निवत्स्यसि ॥ ७।५६।२४ ॥
anena duṣkṛtena tvam mad-krodha-kaluṣīkṛtā . manuṣya-lokam āsthāya kañcid kālam nivatsyasi .. 7.56.24 ..
बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः । तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ ७.५६.२५ ॥
बुधस्य पुत्रः राजर्षिः काशी-राजः पुरूरवाः । तम् अद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ ७।५६।२५ ॥
budhasya putraḥ rājarṣiḥ kāśī-rājaḥ purūravāḥ . tam adya gaccha durbuddhe sa te bhartā bhaviṣyati .. 7.56.25 ..
ततः सा शापदोषेण पुरूरवसमभ्यगात् । प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् ॥ ७.५६.२६ ॥
ततस् सा शाप-दोषेण पुरूरवसम् अभ्यगात् । प्रतियाते पुरूरवम् बुधस्य आत्मजम् औरसम् ॥ ७।५६।२६ ॥
tatas sā śāpa-doṣeṇa purūravasam abhyagāt . pratiyāte purūravam budhasya ātmajam aurasam .. 7.56.26 ..
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः । नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ॥ ७.५६.२७ ॥
तस्य जज्ञे ततस् श्रीमान् आयुः पुत्रः महा-बलः । नहुषः यस्य पुत्रः तु बभूव इन्द्र-सम-द्युतिः ॥ ७।५६।२७ ॥
tasya jajñe tatas śrīmān āyuḥ putraḥ mahā-balaḥ . nahuṣaḥ yasya putraḥ tu babhūva indra-sama-dyutiḥ .. 7.56.27 ..
वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे । शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ॥ ७.५६.२८ ॥
वज्रम् उत्सृज्य वृत्राय भ्रान्ते अथ त्रिदिव-ईश्वरे । शतम् वर्ष-सहस्राणि येन इन्द्र-त्वम् प्रशासितम् ॥ ७।५६।२८ ॥
vajram utsṛjya vṛtrāya bhrānte atha tridiva-īśvare . śatam varṣa-sahasrāṇi yena indra-tvam praśāsitam .. 7.56.28 ..
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा । बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ॥ ७.५६.२९ ॥
सा तेन शापेन जगाम भूमिम् तदा उर्वशी चारुदती सुनेत्रा । बहूनि वर्षाणि अवसत् च सुभ्रूः शाप-क्षयात् इन्द्र-सदः ययौ च ॥ ७।५६।२९ ॥
sā tena śāpena jagāma bhūmim tadā urvaśī cārudatī sunetrā . bahūni varṣāṇi avasat ca subhrūḥ śāpa-kṣayāt indra-sadaḥ yayau ca .. 7.56.29 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaṭpañcāśaḥ sargaḥ .. 56 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In