This overlay will guide you through the buttons:

| |
|
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् । लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ॥ ७.५७.१ ॥
ताम् श्रुत्वा दिव्य-सङ्काशाम् कथाम् अद्भुत-दर्शनाम् । लक्ष्मणः परम-प्रीतः राघवम् वाक्यम् अब्रवीत् ॥ ७।५७।१ ॥
tām śrutvā divya-saṅkāśām kathām adbhuta-darśanām . lakṣmaṇaḥ parama-prītaḥ rāghavam vākyam abravīt .. 7.57.1 ..
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ॥ ७.५७.२ ॥
निक्षिप्त-देहौ काकुत्स्थ कथम् तौ द्विज-पार्थिवौ । पुनर् देहेन संयोगम् जग्मुः देव-सम्मतौ ॥ ७।५७।२ ॥
nikṣipta-dehau kākutstha katham tau dvija-pārthivau . punar dehena saṃyogam jagmuḥ deva-sammatau .. 7.57.2 ..
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः । तां कथां कथयामास वसिष्ठस्य महात्मनः ॥ ७.५७.३ ॥
तस्य तत् भाषितम् श्रुत्वा रामः सत्य-पराक्रमः । ताम् कथाम् कथयामास वसिष्ठस्य महात्मनः ॥ ७।५७।३ ॥
tasya tat bhāṣitam śrutvā rāmaḥ satya-parākramaḥ . tām kathām kathayāmāsa vasiṣṭhasya mahātmanaḥ .. 7.57.3 ..
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः । तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ॥ ७.५७.४ ॥
यः तु कुम्भः रघु-श्रेष्ठ तेजः-पूर्णः महात्मनोः । तस्मिन् तेजः-मयौ विप्रौ सम्भूतौ ऋषि-सत्तमौ ॥ ७।५७।४ ॥
yaḥ tu kumbhaḥ raghu-śreṣṭha tejaḥ-pūrṇaḥ mahātmanoḥ . tasmin tejaḥ-mayau viprau sambhūtau ṛṣi-sattamau .. 7.57.4 ..
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः । नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ॥ ७.५७.५ ॥
पूर्वम् समभवत् तत्र हि अगस्त्यः भगवान् ऋषिः । न अहम् सुतः तव इति उक्त्वा मित्रम् तस्मात् अपाक्रमत् ॥ ७।५७।५ ॥
pūrvam samabhavat tatra hi agastyaḥ bhagavān ṛṣiḥ . na aham sutaḥ tava iti uktvā mitram tasmāt apākramat .. 7.57.5 ..
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् । तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ॥ ७.५७.६ ॥
तत् हि तेजः तु मित्रस्य उर्वस्याः पूर्वम् आहितम् । तस्मिन् समभवत् कुम्भे तत् तेजः यत्र वारुणम् ॥ ७।५७।६ ॥
tat hi tejaḥ tu mitrasya urvasyāḥ pūrvam āhitam . tasmin samabhavat kumbhe tat tejaḥ yatra vāruṇam .. 7.57.6 ..
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः । वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ॥ ७.५७.७ ॥
कस्यचिद् तु अथ कालस्य मित्रावरुण-सम्भवः । वसिष्ठः तेजसा युक्तः जज्ञे इक्ष्वाकु-दैवतम् ॥ ७।५७।७ ॥
kasyacid tu atha kālasya mitrāvaruṇa-sambhavaḥ . vasiṣṭhaḥ tejasā yuktaḥ jajñe ikṣvāku-daivatam .. 7.57.7 ..
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् । वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ॥ ७.५७.८ ॥
तम् इक्ष्वाकुः महा-तेजाः जात-मात्रम् अनिन्दितम् । वव्रे पुरोधसम् सौम्य वंशस्य अस्य भवाय नः ॥ ७।५७।८ ॥
tam ikṣvākuḥ mahā-tejāḥ jāta-mātram aninditam . vavre purodhasam saumya vaṃśasya asya bhavāya naḥ .. 7.57.8 ..
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः । कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ॥ ७.५७.९ ॥
एवम् तु अपूर्व-देहस्य वसिष्ठस्य महात्मनः । कथितः निर्गमः सौम्य निमेः शृणु यथा अभवत् ॥ ७।५७।९ ॥
evam tu apūrva-dehasya vasiṣṭhasya mahātmanaḥ . kathitaḥ nirgamaḥ saumya nimeḥ śṛṇu yathā abhavat .. 7.57.9 ..
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते । तं च ते योजयामासुर्यागदीक्षां मनीषिणः ॥ ७.५७.१० ॥
दृष्ट्वा विदेहम् राजानम् ऋषयः सर्वे एव ते । तम् च ते योजयामासुः याग-दीक्षाम् मनीषिणः ॥ ७।५७।१० ॥
dṛṣṭvā videham rājānam ṛṣayaḥ sarve eva te . tam ca te yojayāmāsuḥ yāga-dīkṣām manīṣiṇaḥ .. 7.57.10 ..
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः । गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ॥ ७.५७.११ ॥
तम् च देहम् नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः । गन्धैः माल्यैः च वस्त्रैः च पौर-भृत्य-समन्विताः ॥ ७।५७।११ ॥
tam ca deham narendrasya rakṣanti sma dvijottamāḥ . gandhaiḥ mālyaiḥ ca vastraiḥ ca paura-bhṛtya-samanvitāḥ .. 7.57.11 ..
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् । आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ॥ ७.५७.१२ ॥
ततस् यज्ञे समाप्ते तु भृगुः तत्र इदम् अब्रवीत् । आनयिष्यामि ते चेतः तुष्टः अस्मि तव पार्थिव ॥ ७।५७।१२ ॥
tatas yajñe samāpte tu bhṛguḥ tatra idam abravīt . ānayiṣyāmi te cetaḥ tuṣṭaḥ asmi tava pārthiva .. 7.57.12 ..
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् । वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ॥ ७.५७.१३ ॥
सु प्रीताः च सुराः सर्वे निमेः चेतः तथा ब्रुवन् । वरम् वरय राजर्षे क्व ते चेतः निरूप्यताम् ॥ ७।५७।१३ ॥
su prītāḥ ca surāḥ sarve nimeḥ cetaḥ tathā bruvan . varam varaya rājarṣe kva te cetaḥ nirūpyatām .. 7.57.13 ..
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् । नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ॥ ७.५७.१४ ॥
एवम् उक्तः सुरैः सर्वैः निमेः चेतः तदा ब्रवीत् । नेत्रेषु सर्व-भूतानाम् वसेयम् सुर-सत्तमाः ॥ ७।५७।१४ ॥
evam uktaḥ suraiḥ sarvaiḥ nimeḥ cetaḥ tadā bravīt . netreṣu sarva-bhūtānām vaseyam sura-sattamāḥ .. 7.57.14 ..
बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् । नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ॥ ७.५७.१५ ॥
बाढम् इति एव विबुधाः निमेः चेतः तदा अब्रुवन् । नेत्रेषु सर्व-भूतानाम् वायु-भूतः चरिष्यसि ॥ ७।५७।१५ ॥
bāḍham iti eva vibudhāḥ nimeḥ cetaḥ tadā abruvan . netreṣu sarva-bhūtānām vāyu-bhūtaḥ cariṣyasi .. 7.57.15 ..
त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते । वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ॥ ७.५७.१६ ॥
त्वद्-कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते । वायु-भूतेन चरता विश्रम-अर्थम् मुहुर् मुहुर् ॥ ७।५७।१६ ॥
tvad-kṛte ca nimiṣyanti cakṣūṃṣi pṛthivīpate . vāyu-bhūtena caratā viśrama-artham muhur muhur .. 7.57.16 ..
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् । ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ॥ ७.५७.१७ ॥
एवम् उक्त्वा तु विबुधाः सर्वे जग्मुः यथागतम् । ऋषयः अपि महात्मानः निमेः देहम् समाहरन् ॥ ७।५७।१७ ॥
evam uktvā tu vibudhāḥ sarve jagmuḥ yathāgatam . ṛṣayaḥ api mahātmānaḥ nimeḥ deham samāharan .. 7.57.17 ..
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा । मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ॥ ७.५७.१८ ॥
अरणिम् तत्र निक्षिप्य मथनम् चक्रुः ओजसा । मन्त्र-होमैः महात्मानः पुत्र-हेतोः निमेः तदा ॥ ७।५७।१८ ॥
araṇim tatra nikṣipya mathanam cakruḥ ojasā . mantra-homaiḥ mahātmānaḥ putra-hetoḥ nimeḥ tadā .. 7.57.18 ..
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः । मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् । यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ॥ ७.५७.१९ ॥
अरण्याम् मथ्यामानायाम् प्रादुर्भूतः महा-तपाः । मथनात् मिथिः इति आहुः जननात् जनकः अभवत् । यस्मात् विदेहात् सम्भूतः वैदेहः तु ततस् स्मृतः ॥ ७।५७।१९ ॥
araṇyām mathyāmānāyām prādurbhūtaḥ mahā-tapāḥ . mathanāt mithiḥ iti āhuḥ jananāt janakaḥ abhavat . yasmāt videhāt sambhūtaḥ vaidehaḥ tu tatas smṛtaḥ .. 7.57.19 ..
एवं विदेहराजश्च जनकः पूर्वको ऽभवत् । मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ॥ ७.५७.२० ॥
एवम् विदेह-राजः च जनकः पूर्वकः अभवत् । मिथिः नाम महा-तेजाः तेन अयम् मैथिलः अभवत् ॥ ७।५७।२० ॥
evam videha-rājaḥ ca janakaḥ pūrvakaḥ abhavat . mithiḥ nāma mahā-tejāḥ tena ayam maithilaḥ abhavat .. 7.57.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe saptapañcāśaḥ sargaḥ .. 57 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In