This overlay will guide you through the buttons:

| |
|
एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा । प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ ७.५८.१ ॥
एवम् ब्रुवति रामे तु लक्ष्मणः पर-वीर-हा । प्रत्युवाच महात्मानम् ज्वलन्तम् इव तेजसा ॥ ७।५८।१ ॥
evam bruvati rāme tu lakṣmaṇaḥ para-vīra-hā . pratyuvāca mahātmānam jvalantam iva tejasā .. 7.58.1 ..
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् । निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ॥ ७.५८.२ ॥
महत् अद्भुतम् आश्चर्यम् विदेहस्य पुरातनम् । निर्वृत्तम् राज-शार्दूल वसिष्ठस्य निमेः सह ॥ ७।५८।२ ॥
mahat adbhutam āścaryam videhasya purātanam . nirvṛttam rāja-śārdūla vasiṣṭhasya nimeḥ saha .. 7.58.2 ..
निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः । न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ॥ ७.५८.३ ॥
निमिः तु क्षत्रियः शूरः विशेषेण च दीक्षितः । न क्षमाम् कृतवान् राजा वसिष्ठस्य महात्मनः ॥ ७।५८।३ ॥
nimiḥ tu kṣatriyaḥ śūraḥ viśeṣeṇa ca dīkṣitaḥ . na kṣamām kṛtavān rājā vasiṣṭhasya mahātmanaḥ .. 7.58.3 ..
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः । उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ॥ ७.५८.४ ॥
एवम् उक्तः तु तेन अयम् श्रीमान् क्षत्रिय-पुङ्गवः । उवाच लक्ष्मणम् वाक्यम् सर्व-शास्त्र-विशारदम् ॥ ७।५८।४ ॥
evam uktaḥ tu tena ayam śrīmān kṣatriya-puṅgavaḥ . uvāca lakṣmaṇam vākyam sarva-śāstra-viśāradam .. 7.58.4 ..
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् । न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ॥ ७.५८.५ ॥
रामः रमयताम् श्रेष्ठः भ्रातरम् दीप्त-तेजसम् । न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ॥ ७।५८।५ ॥
rāmaḥ ramayatām śreṣṭhaḥ bhrātaram dīpta-tejasam . na sarvatra kṣamā vīra puruṣeṣu pradṛśyate .. 7.58.5 ..
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना । सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ॥ ७.५८.६ ॥
सौमित्रे दुःसहः रोषः यथा क्षान्तः ययातिना । सत्त्व-अनुगम् पुरस्कृत्य तत् निबोध समाहितः ॥ ७।५८।६ ॥
saumitre duḥsahaḥ roṣaḥ yathā kṣāntaḥ yayātinā . sattva-anugam puraskṛtya tat nibodha samāhitaḥ .. 7.58.6 ..
नहुषस्य सुतो राजा ययातिः पौरवर्धनः । तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ॥ ७.५८.७ ॥
नहुषस्य सुतः राजा ययातिः पौर-वर्धनः । तस्य भार्या-द्वयम् सौम्य रूपेण अप्रतिमम् भुवि ॥ ७।५८।७ ॥
nahuṣasya sutaḥ rājā yayātiḥ paura-vardhanaḥ . tasya bhāryā-dvayam saumya rūpeṇa apratimam bhuvi .. 7.58.7 ..
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता । शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥ ७.५८.८ ॥
एका तु तस्य राजर्षेः नाहुषस्य पुरस्कृता । शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥ ७।५८।८ ॥
ekā tu tasya rājarṣeḥ nāhuṣasya puraskṛtā . śarmiṣṭhā nāma daiteyī duhitā vṛṣaparvaṇaḥ .. 7.58.8 ..
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ । न तु सा दयिता राज्ञो देवयानी सुमध्यमा ॥ ७.५८.९ ॥
अन्या तु उशनसः पत्नी ययातेः पुरुष-ऋषभ । न तु सा दयिता राज्ञः देवयानी सुमध्यमा ॥ ७।५८।९ ॥
anyā tu uśanasaḥ patnī yayāteḥ puruṣa-ṛṣabha . na tu sā dayitā rājñaḥ devayānī sumadhyamā .. 7.58.9 ..
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ । शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ॥ ७.५८.१० ॥
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ । शर्मिष्ठा अजनयत् पूरुम् देवयानी यदुम् तदा ॥ ७।५८।१० ॥
tayoḥ putrau tu sambhūtau rūpavantau samāhitau . śarmiṣṭhā ajanayat pūrum devayānī yadum tadā .. 7.58.10 ..
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च । ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ॥ ७.५८.११ ॥
पूरुः तु दयितः राज्ञः गुणैः मातृ-कृतेन च । ततस् दुःख-समाविष्टः यदुः मातरम् अब्रवीत् ॥ ७।५८।११ ॥
pūruḥ tu dayitaḥ rājñaḥ guṇaiḥ mātṛ-kṛtena ca . tatas duḥkha-samāviṣṭaḥ yaduḥ mātaram abravīt .. 7.58.11 ..
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः । सहसे हृद्गतं दुःखमवमानं च दुःसहम् ॥ ७.५८.१२ ॥
भार्गवस्य कुले जाताः देवस्य अक्लिष्ट-कर्मणः । सहसे हृद्गतम् दुःखम् अवमानम् च दुःसहम् ॥ ७।५८।१२ ॥
bhārgavasya kule jātāḥ devasya akliṣṭa-karmaṇaḥ . sahase hṛdgatam duḥkham avamānam ca duḥsaham .. 7.58.12 ..
आवां च सहितौ देवि प्रविशाव हुताशनम् । राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ॥ ७.५८.१३ ॥
आवाम् च सहितौ देवि प्रविशाव हुताशनम् । राजा तु रमताम् सार्धम् दैत्य-पुत्र्या बहुक्षपाः ॥ ७।५८।१३ ॥
āvām ca sahitau devi praviśāva hutāśanam . rājā tu ramatām sārdham daitya-putryā bahukṣapāḥ .. 7.58.13 ..
यदि वा सहनीयं ते मामनुज्ञातुमर्हसि । क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ॥ ७.५८.१४ ॥
यदि वा सहनीयम् ते माम् अनुज्ञातुम् अर्हसि । क्षम त्वम् न क्षमिष्ये अहम् मरिष्यामि न संशयः ॥ ७।५८।१४ ॥
yadi vā sahanīyam te mām anujñātum arhasi . kṣama tvam na kṣamiṣye aham mariṣyāmi na saṃśayaḥ .. 7.58.14 ..
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः । देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ॥ ७.५८.१५ ॥
पुत्रस्य भाषितम् श्रुत्वा परम-आर्तस्य रोदतः । देवयानी तु सङ्क्रुद्धा सस्मार पितरम् तदा ॥ ७।५८।१५ ॥
putrasya bhāṣitam śrutvā parama-ārtasya rodataḥ . devayānī tu saṅkruddhā sasmāra pitaram tadā .. 7.58.15 ..
इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा । आगतस्त्वरितं तत्र देवयानी तु यत्र सा ॥ ७.५८.१६ ॥
इङ्गितम् तत् अभिज्ञाय दुहितुः भार्गवः तदा । आगतः त्वरितम् तत्र देवयानी तु यत्र सा ॥ ७।५८।१६ ॥
iṅgitam tat abhijñāya duhituḥ bhārgavaḥ tadā . āgataḥ tvaritam tatra devayānī tu yatra sā .. 7.58.16 ..
दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् । पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ॥ ७.५८.१७ ॥
दृष्ट्वा च अ प्रकृति-स्थाम् ताम् अप्रहृष्टाम् अचेतनाम् । पिता दुहितरम् वाक्यम् किम् एतत् इति च अब्रवीत् ॥ ७।५८।१७ ॥
dṛṣṭvā ca a prakṛti-sthām tām aprahṛṣṭām acetanām . pitā duhitaram vākyam kim etat iti ca abravīt .. 7.58.17 ..
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् । देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ॥ ७.५८.१८ ॥
पृच्छन्तम् असकृत् तम् वै भार्गवम् दीप्त-तेजसम् । देवयानी तु सङ्क्रुद्धा पितरम् वाक्यम् अब्रवीत् ॥ ७।५८।१८ ॥
pṛcchantam asakṛt tam vai bhārgavam dīpta-tejasam . devayānī tu saṅkruddhā pitaram vākyam abravīt .. 7.58.18 ..
अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम । भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ॥ ७.५८.१९ ॥
अहम् अग्निम् विषम् तीक्ष्णम् अपः वा मुनि-सत्तम । भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ॥ ७।५८।१९ ॥
aham agnim viṣam tīkṣṇam apaḥ vā muni-sattama . bhakṣayiṣye pravekṣyāmi na tu śakṣyāmi jīvitum .. 7.58.19 ..
न मां त्वमवजानीषे दुःखितामवमानिताम् । वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ॥ ७.५८.२० ॥
न माम् त्वम् अवजानीषे दुःखिताम् अवमानिताम् । वृक्षस्य अवज्ञया ब्रह्मन् छिद्यन्ते वृक्ष-जीविनः ॥ ७।५८।२० ॥
na mām tvam avajānīṣe duḥkhitām avamānitām . vṛkṣasya avajñayā brahman chidyante vṛkṣa-jīvinaḥ .. 7.58.20 ..
अवज्ञया च राजर्षिः परिभूय च भार्गव । मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ॥ ७.५८.२१ ॥
अवज्ञया च राजर्षिः परिभूय च भार्गव । मयि अवज्ञाम् प्रयुङ्क्ते हि न च माम् बहु मन्यते ॥ ७।५८।२१ ॥
avajñayā ca rājarṣiḥ paribhūya ca bhārgava . mayi avajñām prayuṅkte hi na ca mām bahu manyate .. 7.58.21 ..
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः । व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ॥ ७.५८.२२ ॥
तस्याः तत् वचनम् श्रुत्वा कोपेन अभिपरिप्लुतः । व्याहर्तुम् उपचक्राम भार्गवः नहुषात्मजम् ॥ ७।५८।२२ ॥
tasyāḥ tat vacanam śrutvā kopena abhipariplutaḥ . vyāhartum upacakrāma bhārgavaḥ nahuṣātmajam .. 7.58.22 ..
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् । जरया परया जीर्णः शैथिल्यमुपयास्यसि ॥ ७.५८.२३ ॥
यस्मात् माम् अवजानीषे नाहुष त्वम् दुरात्मवान् । जरया परया जीर्णः शैथिल्यम् उपयास्यसि ॥ ७।५८।२३ ॥
yasmāt mām avajānīṣe nāhuṣa tvam durātmavān . jarayā parayā jīrṇaḥ śaithilyam upayāsyasi .. 7.58.23 ..
एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः । पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ॥ ७.५८.२४ ॥
एवम् उक्त्वा दुहितरम् समाश्वास्य च भार्गवः । पुनर् जगाम ब्रह्मर्षिः भवनम् स्वम् महा-यशाः ॥ ७।५८।२४ ॥
evam uktvā duhitaram samāśvāsya ca bhārgavaḥ . punar jagāma brahmarṣiḥ bhavanam svam mahā-yaśāḥ .. 7.58.24 ..
स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् । पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ॥ ७.५८.२५ ॥
सः एवम् उक्त्वा द्विज-पुङ्गव-अग्र्यः सुताम् समाश्वास्य च देवयानीम् । पुनर् ययौ सूर्य-समान-तेजाः दत्त्वा च शापम् नहुषात्मजाय ॥ ७।५८।२५ ॥
saḥ evam uktvā dvija-puṅgava-agryaḥ sutām samāśvāsya ca devayānīm . punar yayau sūrya-samāna-tejāḥ dattvā ca śāpam nahuṣātmajāya .. 7.58.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टपञ्चाशः सर्गः ॥ ५८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭapañcāśaḥ sargaḥ .. 58 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In